SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । - ४१ विश्ववल्लभता, हृद्यभावो वृचता चेति गुणत्रयी चन्द्रस्येव यस्य श्रेष्ठिनो, गुणत्रयी जातेत्यर्थः ॥ ५१ ॥ औदार्यधैर्यशुभशौर्यमुखा असंख्याः सर्वे गुणाः प्रविविशुः सममेव यस्मिन् । जद्दूष्णरश्मिहिमरश्मिसुतायतुल्यकुल्याप्रवाहनिवहा इव वारिराशौ ॥५२॥ औदार्य दानिता, धैर्य बीरता, शुभशौर्ये श्रेयः शूरता, तन्सुखाः सर्वे गुणाः। किं० असङ्ख्याः संख्यारहिता अप्रमाणा इति । सममेव युगपदेव, यस्मिन् श्रेष्ठिनि प्रविविशुः विशन्ति स्म । के कस्मिन्भिवेत्याकाङ्क्षायां दृष्टान्तमाह – जहोः सगरचक्रधरसूनोः, उष्णरश्मेः सूर्यस्य, हिमरश्मेन्द्रस्य, सुताः पुत्र्यः, क्रमेण गङ्गायमुनानर्मदास्तदादीनाम्, अतुल्यकुल्यानां महानदीनां, मवाहनिवहा ओघसङ्घा इव, यथा वारिराशौ समुद्रे ॥ ५२ ॥ येन श्रियेश्वरसुहृद्धिषणो घिया च तुल्योऽपि नो सुभगतां बिभराम्बभूव । एक: कुबेर इति वित्तिमुपागतो यदोषाकरौकसि महत्वमुपैति चाऽन्यः ॥५३॥ बेन श्रेष्ठिना, श्रिया लक्ष्म्या, ईश्वरसुहृद् धनदः, घिया बुद्धधा च विषणो बृहस्पतिः, तुल्योऽपि, सुभगतां सौभाग्यं, नो बिभराम्बभूव न बभारेति । तत्र हेतुमाह- यदिति ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy