________________
द्वितीयः सर्गः ।
पत्युर्वियोगे हि महासतीनां नितम्बिनीनामिह भूरि दुःखम् ॥ १०५ ॥
अथ सा भार्या, तदा तत्र क्षणे, दुःखवशात् अधः स्तान्मुखी न्यग्वदना, तस्थौ स्थितवती । दृष्टान्तो यथा- प्रदोषे रजनीमुखे, बिसिनी मृणालिनी, यथा न्यग्मुखीभवति, तथेयमपीत्येनमर्थ समर्थयति -हीति यतो हेतोः पत्युर्वियोगे सति, महासतीनां पतिव्रतानां, नितम्बिनीनां नारीणां भूरि बहु, दुःखं भवतीति भावः ॥ १०५ ॥
अथो यथौचित्यवितीर्णवित्तः संमान्य पौरान् बहुमानगौरान् ।
कल्याणकृत्कल्पितवेष एष
१०९
दीक्षां जिघृक्षुः खपुरादचालीत् ॥१०६॥
,
अथो इत्यन्यदा शुभे वासरे, यथौचित्यं यथार्ह वितीर्ण दत्तं वित्तं धनं येन सः, स्वकुटुम्बज्ञातीयादीनामिति शेषः । पुनः किं कृत्वा संमान्य मानयित्वा कान् पौरान पुरीजनान् किं० बहुमानेन पूजया अधिकाराद्दीक्षाविषयकोत्सवोत्साहरूपया गौरानुज्ज्वलान् बहुमानगौरान् । पुनः कल्याणकृद् मङ्गलकारी दीक्षावसरयोग्यः कल्पितः कृतो वेषो रजोहरणमुखपोतिकाप्रमुखो येन सः, एष श्रेष्ठी, दीक्षां जिघृक्षुस्तपस्यामा - दित्सुः, स्वपुरान्नारदपुरीनगरात्, अचालीच्चचालेति ॥१०६ ॥
तपाधिपश्रीविजयादिदानमुख्याभिधानां शमिसिन्धुराणाम् । पादाम्बुजैर्भूषितमस्तदम्भः