________________
विजयप्रशस्त्याम् ।
निशम्य रम्यं वचनं यतिप्रभो - रिदं पुमर्थावसथैकदीपकम् । जहर्ष सोत्कर्षमनाः स सिङ्घजी -
नामा महेभ्यो नरनाथमानभाक् ॥ १२ ॥ यतिप्रभोः गुरोः, इदं वचनं, किं०, पुमर्थाः पुरुषार्थायो धर्मार्थकामाख्या व आवसथो गृहं तत्र दीपकम्, त्रिsaपि तेषु धर्मस्यैव मुख्यत्वात् द्वयोरपरयोरपि हेतुत्वाच्च, यदुक्तं पूर्वसूरिभिः
“धर्मसिद्धौ ध्रुवं सिद्धिर्द्युम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा संपत्तिर्दधिसर्पिषोः” ॥ १ ॥ इत्याद्युक्तेः; रम्यं वचनं निशम्य सोत्कर्षमनाः प्रकृष्टचेताः, तत्रत्यः सिङ्घजीनामा महेभ्यः, किं०, नरनाथस्य राज्ञो मानभाक् राज्ञोऽपि मान्य इति, स जहर्ष हृष्टोऽभूदिति ॥ १२ ॥ तत्र प्रतिष्ठाऽतिमज्ञैर्विधापिताSमुना महेभ्येन कृताऽथ सूरिभिः । शुभ मुहूर्ते बहुबिम्बबन्धुरा द्वितीयतीर्थङ्करमूलबिम्बभाक् ॥ १३ ॥
तत्र नगरे, चतुर्मासकपारणके अमुना सिङ्घजीनाम्ना महेभ्येन, अतिमहैर्विधापिता कारिता, प्रतिष्ठा, किं०, द्वितीयोऽजितस्तीर्थङ्करस्तन्मूलबिम्बभाक्, पुनः बहुविम्वैरपरैः बन्धुरा रम्येति शेषं स्पष्टम् ॥ इयं वृद्वयी इन्द्रवंशावंशस्थयोरुपजातिजाता, तलक्षणं तु प्रागुक्तम् ॥ १३ ॥ श्रीपालाहः श्रीमतां मौलिरत्नं जज्ञे सज्जोऽर्हत्प्रतिष्ठां प्रकर्तुम् ।
६१०