SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । ७१ खल्बिति बितर्फे निश्वये चेति, तस्योक्तपूर्वस्य दोहदस्य, दुःसाध्यतार्त्तिः दुःखेन साध्यते इति दुःसाध्यं तस्य भावस्तता तस्या आर्त्तिः पीडा, एका त्वियं, अपराः च पुनर्मुद् कीदृशी प्रताप्यङ्गजलब्धिसिद्धा प्रतापी मभाववान् यः अङ्गजः पुत्रस्तस्य लब्धेः प्राप्तेः सिद्धा निष्पन्ना, इमे द्वे अपि तं श्रेष्ठिनं, द्राक् शीघ्रं, व्यानशाते व्याप्नुतः स्म । दृष्टान्तं स्पष्टयति — मेरोरिव यथा, उवीं पृथ्वीं, रजनिर्निशा, दिनं वासरचेत्यर्थः ॥ २४ ॥ प्रपूरिते पुण्यवता प्रियेण तद्दोहदे द्राक् प्रतिभाप्रकर्षात् । दिने दिने साऽथ पुपोष रूपश्रियं कलेन्दोरिव शुक्लपक्षे ॥ २५ ॥ पुण्यवता धर्मिणा, प्रियेण प्रेयसा, प्रतिभाप्रकर्षात् प्रज्ञापाटबात्, तदोहदे शार्दूलकर्णजाइग्राहलक्षणे, प्रपूरिते पूर्णांकृते सति, सा दिने दिने रूपश्रियं सौन्दर्यलक्ष्मी पुपोष पुष्णाति स्म 1 दृष्टान्तमाह – इन्दोः कला षोडशोंऽशः, इव शुकपक्षे ॥ २५ ॥ .क्रमादथाऽस्मिन् शुभभाजि गर्भे उपेयुषि श्रीमति वृद्धिमिद्धाम् । सौभाग्यभाक् स्फारफलप्रपञ्चा रसालशाखेव बभूव सोच्चैः ॥ २६ ॥ अस्मिन् गर्भे, किं० शुभभाजि कुशालनि, पुनः किं० श्री
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy