SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ अर्हम् अथ दशमः सर्गः । अथ दशमः सर्गः प्रारभ्यतेआचार्यवर्यो विजहार पत्तनादन्यत्र धात्रीषु पवित्रपद्धतिः । भृङ्गा इवामोदनिमग्नमानसा स्तिष्ठन्ति नैकत्र चरित्रिणो यतः ॥ १ ॥ आचार्यवर्येऽष्टमसर्गव्यावर्णित स्वरूपोऽनूचानमुख्यः श्रीविजयसेनमूरिः, किं०, पवित्रा पद्धतिः संयमप्रवृत्तिरूपा यस्य सः, पत्तनाद् नगराद् अन्यत्र धात्रीषु गूर्जरत्रादेश एवान्यग्रामनगरानीषु, विजहार विहृतवान्; यतः कारणात्, चरित्रिणां भृङ्गा इव किं०, आमोदे निमनं मानसं येषां ते, चरित्रिणः किं०, आमोदनिमग्नमानसा हर्षमग्नमानसाः, भृङ्गाः किं०, आमोदे गन्धे मनं मनो येषां ते; एकत्र स्थाने, न तिष्ठन्तीति ॥ १॥ वक्षोजवेदसुधांशुसंमिते वर्षे सुखोत्कर्षणि हर्षवर्षिणि । लोकेहितायाऽर्क इत्र प्रतापभृत् सूरिः स एतः पुनरेव पत्तने ॥ २ ॥ वक्षोजौ स्तनौ द्वौ, बेदा ऋग्यजुःसामाऽथर्वणाख्याश्चत्वारः, ऋतवो हिमशिशिरवसन्तग्रीष्मवर्षाशरत्संज्ञकाः षट्, सुधांशुचन्द्रमा एकः तेनैतैरङ्गैर्वामगतिविन्यस्तैः संमिते वर्षे
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy