________________
२२४
विजयशस्त्याम् । हचं मनो यासां तासां मेघमनोज्ञचेतसा, शिखिनीनां मयूरीणामिवेति ॥ ८०॥ .. इत्यशेषवरवेषविशेषाः
प्रीतिपात्रपुरपौरपुरन्ध्यः । द्रष्टुमेनमचलदृश आसन्
वारिवाहमिव मोरमृगाक्ष्यः ॥ ८१ ॥ इत्यमुना प्रकारेण, अशेषवरवेषाणां सर्वोत्तमनेपथ्यानां विशेषो वैशिष्ट्यं यासां ताः, पुनः, प्रीतिपात्रं पुरं शरीरं यासां ताः "पुरं शरीरे" इत्यनेकार्थत्वात् , प्रीतिभाजनीभूतदेहाश्च ताः पौरपुरन्ध्यो नागरनार्यः कर्तृभूताः, एनं जयसिंह, द्रष्टुं अचलदृशः स्थिरनयनाः, आसन् बभूवुः, इवेति यथा, वारिवाई घनाघनं, द्रष्टुं मोरमृगाक्ष्यः शिखण्डिन्यः, मयूरवाचको मारइत्युणादिसिद्धः शब्दोऽस्तीति ।। ८१॥
आगतः किमु धरासु सुराणां
भूरुहः सुकृतसंचयतो नः । याचकैरयमर्कि ददानो
रूप्यहेममुखमर्थमदभ्रम् ॥ ८२ ॥ अयं जयसिंहकुमारः, रूप्यहेममुखं अदभ्रं भूरि, अर्थ वित्तं, ददानः, याचकैरिति अतर्कि चिन्तयाञ्चक्रे, अत्र इतरध्याहारः, इतीति कि०, नः अस्माकं, सुकृतसंचयतः पुण्यप्रकर्षाद, धरासु पृथिवीषु, सुराणां भूरुहः कल्पपादपः, किमागतः ? इति ॥ ८२॥ सादरं विजयदानमुनीन्द्रा
लङ्कृतामनघसंघमनोज्ञाम् ।