SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः विहङ्गवृन्दं दृढपञ्जरात् पुनः । निशानिबद्धान् मधुपानिवाऽम्बुजोदरादुदारोऽम्बुजिनीजनिः स्फुरन् ॥ ५७ ॥ च पुनः, गुप्तिगृहात् कारागारात् बन्दिनो नियन्त्रितनरान्, अमूमुचत् शाहिरिति, गुरुगिरेति गम्यम्; पुनः, दृढपखराद् विहङ्गवृन्दं अमृमुचत् । दृष्टान्तमाह- इव यथा, अम्बुजोदरात् पद्ममध्यात्, निशानिवद्धान् रात्रिवद्धान् मधुपान् भृङ्गान्, अम्बुजिनीज निरिव र विर्यथेति ॥ ५७ ॥ मदाधिपत्यं भुवि यावदस्त्यदो न हन्ति कोऽप्यत्र झषादिदेहिनः । वदन्निति क्षोणिपतिः पुरो गुरोरुपप्रदानेऽकृत डाबरं सरः ॥ ५८ ॥ , ३४७ , भुवि भूमौ अदो मदाधिपत्यमेतद् मत्साम्राज्यं यावदस्ति वर्तते तावदत्र कोऽपि झषादिदेहिनो मीनमकर शिशुमारकुर्मकुलीरादिप्राणिनो जलचरविशेषान् न हन्ति इति क्षोणिपतिरकब्बरः, गुरोः पुरो वदन् डाबरं नाम सरोवरं सीकरीसमीपस्थं योजनत्रयीप्रमाणं नैकलक्षजालजालपतन्मत्स्य संहारसंजायमानामानधनागममपि, उपप्रदानेऽकृत ढौकनीकृतवा - नित्यर्थः ।। ५८ ।। नभोऽशुनेवातिविभासुरं जगत् सदाऽमुना श्रीगुरुणेति जल्पता । अतिप्रभूताद्भुतमानदानत स्तदाऽयमुच्चैः सदकारि भूभुजा ॥ ५९ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy