SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । अंशुना सूर्येण, नभ इव, अमुना श्रीगुरुणा, जगद् विश्व, अतिविभासुरं कृतमिति शेषः, इति जल्पता भूभुजा अति प्रभूतमतिशयेन बहु पुनरद्भुतमाश्चर्यकारि यन्मानं तस्य दानतः, तदा तत्र क्षणे, अयं गुरुः, उच्चैः सदकारि सच्चक्रे ।। ५९ ।। अथो चतुर्मासमुल्लसत्सुखे फतेपुरे दत्तजयोत्सवे गुरुः । निरस्तमन्युर्गणभृद् महाव्रती हरः शिवाया मनसीव तस्थिवान् ॥ ६० ॥ अथो गुरुः उल्लसत्सुखे दीप्तिमत्साते, फतेपुरे, पुनः किं०, दत्तो जयोत्सवोऽकब्बरशाहे : श्रीगुरोश्च येन तस्मिन्, शिवायाः पार्वत्याः, मनास किं०, दत्तजयोत्सवे दत्तो जयायास्तत्सख्याउत्सवो येन तत्र, हर इव किं०, निरस्तो गुरुपक्षे मन्युः क्रोधो येन, हरपक्षे मन्युर्यागो येन स हि मखध्वंसीति श्रुतेः पुनः किं०, गुरुपक्षे गणं गच्छं विभर्तीति, हरपक्षे “प्रमथाः पार्षदा गणाः" तान् विभर्तीति गणभृत् पुनः किं०, महाव्रती गुरुभ्र हरवेति प्रतीतं चतुर्मासकं तंत्र तस्थिवान् स्थित इति ॥ ६० ॥ अथ छन्दःपरावृत्या सर्गमुपसंहरतिअरिधरणिपतिस्त्रीदृग्जलासारधारानिकरकरणवर्षोत्कर्षखडाग्रधारे । लसति सति हमाऊनन्दने राज्ञि तत्र ३४८ स्थितिमकृत कृतद्धि ज्यायसीं सूरिराजः ॥ ६१ ॥ तत्र सीकरीनगरे, हमाऊनन्दने राशि शाहिश्रीमदकब्बरे, लसति सति, किं०, अरिधरणिपतिस्त्रीणां वैरिराजयो
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy