SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५३८ विजयप्रशस्त्याम् । नभ इव त्रिदशाधिपधन्वभिः ॥ ११ ॥ ___ तत् पुरं तदा विविधवर्णैवरतोरणैः श्रियं अनर्गलां अवाप, किमिव, नभ इव, यथा नभो जलधरस्यागमनावसरे त्रिदशाधिपधन्वभिरिन्द्रधनुर्भिरिति ॥ ११ ॥ स्मितदृशां मुदभूद् धवलध्वनिः पुरि तदाऽत्र महोत्सवकारणम् । वनभुवीव वनप्रिययोषितां ___ मदभृतामतुलं कलकूजितम् ॥ १२ ॥ तत्प्रवेशोत्सवेऽत्र पुरि महोत्सवकारणं स्मितदृशां स्त्रीणां, धवलध्वनिः उदभूत् प्रकटित इति, यथा वनप्रिययोषितां कोकिलानां, कलकूजितं वनभूमौ वसन्तागमे भवतीति ॥ १२ ॥ श्रियमधात् पुरि तत्र मृगीदृशां ततिरतीव तदाभरणाद्भुता । गुरुघनोदयदर्शनकाङ्क्षिणी फणिभुजां सरसीजदृशामिव ॥ १३ ॥ तदा तत्प्रवेशोत्सवे, तत्र पुरि मृगीदृशां स्त्रीणां ततिः, अतीव श्रियं शोभां, अधात् किं०, आभरणाद्भुता, पुनः, गुरोर्यो घनोदयस्तदर्शनस्य काङ्क्षिणी, यथा फणिभुजां मयूराणां, सरसीजदृशां स्त्रीणां मयूरीणां, ततिर्गुरुर्महान् यो घनोदयो पेघोदयस्तदर्शनकाशिणी, श्रियं उत्साहरूपां, धत्ते तथेति ॥१३॥ विविध धरध्वजधोरणी पुरि च तत्र विभातितमां तदा । वरदुकूलवती ततिरागता
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy