________________
४५०
विनयप्रशस्त्याम् । - अथ श्रीपरमगुरूनुद्दिश्य प्रश्नविशेषः-श्रीहीरविजयाः मूरिसिन्धुरा हस्तिनः, साधुपु वन्धुरा मनोज्ञाः, क्व कुत्र देशे नगरादौ, सन्तीति संवन्धः । कुत इयती पृच्छा ?, यतस्ते किं०, समस्तप्राणिनां प्रीणने प्रीत्युत्पादने प्रवणस्तत्पर आशयोऽध्यवसायो येषां ते ॥ ११५ ॥ ते पूज्यकुञ्जराः किञ्च कुर्वन्तः सन्ति सम्प्रति ।
तेषां चाऽस्ति समाधानं शरीरे सुकृतार्थिनाम् ॥११६॥ • किश्चेति पुनः प्रश्ने, ते पूज्यकुञ्जराः, किं कुर्वन्तः सन्ति संप्रत्यधुनेति, तेषां, च सुकृतमेवार्थो येषां तेषां, शरीरे समाधानमस्तीति ॥ ११६ ॥
दन्तद्युतिपयःपूरक्षालिताखिलदिङ्मुखः । ...अथ ब्रूते स्म श्रमणाधीश्वरः पृथिवीश्वरम् ॥११७॥
अथेति शाहिप्रश्नानन्तरम् , श्रमणाधीश्वरः मूरिः, पृथिवीश्वरं राजानं, ब्रूते स्माऽवदत् । कि०, दन्तानां द्युतिरूपपयःपूरेण क्षालितान्यखिलदिशां मुखानि येनेति ॥ ११७॥
अथ यथा राज्ञा पृष्टं तथाऽनुक्रमेणैव गुरुरप्याहभवेत् कुवलयोल्लासो नूनं राज्ञोऽनुभावतः । तेनाऽस्ति सातमस्माकं तदन्तर्वर्तिनां बहु ॥११८ ॥
नूनं निश्चयेन, राज्ञश्चन्द्रस्य, अनुभावतः कुवलयानां चन्द्रविकासिकमलानां उल्लासो भवेत् , तेन हेतुना, तवापि राज्ञोऽनुभावात् , तदन्तर्वतिनां कुवलयान्तर्वतिनां भूवलयान्तःस्थायिनां, अस्माकमपि बहु सातमस्तीति श्लेपव्याख्या ॥ ११८ ।।
राजन् ! व्योम्नीव तरणौ धरणौ तपति त्वयि । द्विप कैः समं नष्टं भयान्धतमसैरिह ॥ ११९ ॥