SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४६८ विजयप्रशस्त्याम् । लमुक्ताफलानि, तथा अञ्जनं प्रतीतं, तद्वत्पमा यस्य सः, तथा अक्षालितोऽधौतः सन् , शुचिः पवित्रः, अत एवाऽद्भुतः, सर्वेषां द्रष्टणा, मुदं दत्ते प्रमोदमुत्पादयतीत्यर्थः ॥ १८१ ॥ यस्याऽऽस्यश्वासः कर्पूरकस्तूरीकमलादिजित् । सेव्यते भ्रमरैमामरैरिव समीपभूः ॥ १८२ ॥ यस्याऽईतः, आस्यश्वासः कि०, कर्पूरकस्तूरीकमलादिसुगन्धिपदार्थजित् , आदिशब्दाद् बालककुमुदकुन्दविचिकिलपाट- लाप्रमुखपरिमलजेतृत्वेन प्रतीत इति, अत एव भ्रमरैः सेव्यते मामरैर्नरसुरैः, यथा समीपभूः पार्थ, सेव्यत इति दृष्टान्तः।१८२। । यस्य गोदुग्धदुग्धाब्धिफेनवत् पाण्डुरप्रभः । प्रवाह इव गङ्गाया मांसासृक्पटलः शुचिः ॥१८३॥ यस्य मांसाऽसपटलो मांसशोणितपूरः, गङ्गायाः प्रवाहइव शुचिरस्तीति, किं०, गोदुग्धदुग्धाब्धिफेनवत् पाण्डुराधवला प्रभा यस्येति सः, पटलशब्दस्विलिङ्ग इति ॥ १८३ ॥ यस्य नाहारनीहारविधिदृग्गोचरो नृणाम् । लोकोत्तरचरित्रात्मशससेव तिरोहितः ॥ १८४ ॥ तथा यस्य आहारनीहारयोविधिः करणं, नृणां दृग्गोचरो मास्तीति, उत्प्रेक्ष्यते-लोकोत्तरचरित्रस्वरूपवाससा तिरोहितइचाऽऽच्छादित इवेति ॥ १८४ ॥ यस्येति सन्ति चत्वारोऽतिशयाः सहजा अमी। मुखा इव पयोजन्मजन्मनो विस्मयावहाः ॥१८५॥ इत्यनया रीत्या वर्णिताः, चत्वारोऽतिशया अमी, यस्याऽईतः, सहजा जन्मना सह जाताः सन्तीत्यन्वयः । उत्प्रेक्ष्यते
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy