SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। च परोपकारद्वारेण क्रमेण सकलदुःखक्षयान्मोसमाप्तिश्चेत्यात्मसामर्थ्यादाक्षिप्यते । नहि कष्टकशाखामर्दनवत् , काकदन्तपरीभावच निष्फला प्रवृत्तिर्मन्दस्यापि भवति किंपुनः सकसावसरसावधानधीजुषां प्रेमाचक्षुषामिति दिक् ॥११॥ अय काव्ययीद्वारेण विस्तरेण विशिष्याभिधेयमभिधत्तेये श्रीअकब्बरधराधिपचित्तपद्म तिग्मत्विषां महिममीनमहोदधीनाम् । राजन्ति हीरविजयव्रतिपुङ्गवानां पट्टे तटे सुरधुनेरिव राजहंसाः ॥१२॥ सौभाग्यभाग्यवरवैभवविश्रुताना___मोजखिनां विजयसेनमुनीश्वराणाम् । तेषामशेषसुखकृद् विजयप्रशस्तिसंज्ञं मनोज्ञरचनं रचयामि काव्यम् ॥१३॥ . (युग्मम् ) तेषां विजयसेनमुनीश्वराणां विजयप्रचस्तिसंबं पुनर्ग्रन्थकृत्लोक्तविजयवंशापरनामकं काव्यं रचयामि फरोमीत्यन्वयः । किं० मनोजरचनं साधुसन्दर्भम् । अथवा क्रियाविशेषणामिदम् । तेषां किं० सौभाग्यं 'सुभगाओ सव्वजणइटो' इत्यादिप्रवचनवचनाजगज्जनवल्लभत्वम् । अथवा 'सद्गमनसनिरीक्षणसजल्पनमिति वदन्ति लावण्यम् । ईश्वरता सुखरता सुन्दरता चेति सौभाग्यम् ॥१॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy