SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६२ विजयाशस्त्याम् । सेहं गुरोर्दर्शनवृत्तवृत्तयः । नीलोत्पले: फुल्लतमैरिवाप्सरः श्रेण्योऽर्चयन्त्यः पथि संस्थिता इमाः॥ २७ ॥ तत्र विलोललोचनैश्चपलनेत्रः, वध्वो नार्यः, बभुः; कि०, गुरोर्दर्शने वृत्ता प्रवृत्ता वृत्तिश्चित्तवृत्तियांसां ताः, कथं, सेह सस्पृहं यथा स्यात् तथेति गुरुदर्शनाभिलाषित्वाद्, द्विधापि चपलेक्षणाः स्त्रियो भान्ति स्मेति । इवोत्प्रेक्ष्यते-इमा अप्सरःश्रेण्यः नीलोत्पलः, किं०. फुल्लतमः स्मेरतरः कुवलयैरर्चयन्त्यः पथि संस्थितास्तस्थुरिव ॥ २७ ॥ हृष्टाननैः सूरिसमागमाज्जनै राभात् पुरं तहरवेषकल्पनैः । पाथोजिनीप्राणपतेरिवोदयात् सद्यः प्रफुल्लैः सरसीरुहैः सरः ॥ २८ ॥ · मूरिसमागमाद् गुवागमात् . जनेः कि०, दृष्टाननः हर्षितमुखेः, अत एव पुनर्जनः किं०. वरवेषकल्पनः श्रेष्ठनेपथ्यरचनैः, तत् पुरं नगरं. आभात भाति स्म । इवेति यथावा, उत्प्रेक्ष्यते वा। पाथोजिनीमाणपतेः सूर्यस्य, उदयात् प्रफुल्लर्निर्निद्रः, सरसीरुहैः कमलेः. सरः कासार इवेति दृष्टान्तोत्नेक्षे ॥ २८ ॥ चामीकरं द्राक् क्रियमाणमर्थिसा दालोक्य लोकाङ्गगतं च पुष्कलम् । ध्यातं तदेत्यन्यपुरागतैर्जनै ङ्गेऽत्र किं वर्षति काश्चनो घनः ? ॥२९॥ तदा चामीकरं कनकं, अर्थिसाद् याचकाधीनं क्रियमाणं
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy