________________
'सममा सर्मः।
२८३. स्थामस्थिराणि.स्वरजृम्भितान्यलम् ॥ ६३ ।। तदोकसि तस्य श्रेष्ठिनो गेहे कुलानाजनैः गीतानि, किं०, स्फुरन्मङ्गल्यमूलानि लसत्कल्याणहेतूनि, अगीयन्त गानगोचरीकृतानि, इव यथा, उद्यानभुवि वनभूमौ, पिकीभिः स्वरजृम्भितानि पञ्चमकूजितविलसितानि, किं०, मन्मथस्थाना स्मरबलेन स्थिराणि निश्चलानि गीयन्ते स्मेति दृष्टान्तः ॥६३॥ वित्तार्पणैस्तृप्तमनोमनोरथा
महस्यगायन्निह गायना भृशम् । नानाप्रसूनव्रजगन्धबन्धिनः
सुमञ्जु गुञ्जन्त इवालिनो वने ॥ ६४ ॥ इह महसि उत्सवे, गायना भृशं अगायन् , गीतानि गायन्ति स्मेत्यन्वयः । गायनाः किं०, वित्तार्पणैः प्रार्थितधनप्रदानैस्तृप्ता मनोमनोरथा येषां ते, अवापि उत्प्रेक्षया द्रढयतिनानाप्रसूनानां यो व्रजः पुञ्जस्तस्य यो गन्धः सौरभ्यं, तद्वन्धिनस्तल्लीना इति । इवोत्प्रेक्ष्यते-बने कानने, अलिनो भ्रमरा गुञ्जन्तः कथं सुमञ्जु इति क्रियाविशेषणम् ॥ ६४ ॥ धत्ते स्म गान्धर्वगणस्य कर्णयो
रसावतः काश्चनकुण्डलद्वयीम् । गुणान् गुरूणां यदनेन गायता
व्यधायि मुन्मे श्रवसोः सुवर्णजाः ॥ ६५ ॥ असौ श्रेष्ठी, अतो हेतोः गान्धर्वगणस्य कर्णयोः काञ्चनकुण्डलद्वयीं धत्ते स्मेति पूर्वार्द्धनान्वयः । उत्तरार्दैन तहेतुमेवाह-यत् कारणात् अनेन गान्धर्वगणेन गुरूणां गुणान् गायता