SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । संमुखमागता, उदय उदय इति वाग्भिरध्वन्यानां पथिकानों, जयावहा जयदायिनीति ॥ १२ ॥ अवादीद वायसो वामः क्षीरवृक्षोपरिस्थितः। पथिकानां पथि श्रेयो भावीति विलसद्वचाः॥१३॥ क्षीरक्षा राजादनीवटादयस्तदुपरिस्थितो वायसः काकः, वामोऽवादी , शेपं कण्ठ्यम् ॥ १३ ॥ शृङ्गारितः समभ्यागाद् मत्तः करिवरः पुरः। मयीक्षितेऽर्थकृत् पन्थाः पान्थानामितिसूचकः॥१४॥ मत्तो मदोन्मत्तः, करिचरः कुञ्जरः, शृङ्गारितः सिन्दूरस्वर्णशृङ्खलाद्याभरणभूषितः, समभ्यागात् संमुखो मिलितः, मयि करिवरे, ईक्षिते सति, पन्या मार्गः, पान्थानामर्थकृत् कार्यसिद्धि. कृद् भावीतिमूचकः ॥ १४ ॥ खरोऽथ सुरतारूढोऽध्यारूढोऽध्वनि चक्षुषोः। साक्षादिव पथि प्राप्तः शेवधिःसंपदा मुदाम् ॥१५॥ अथ सुरतारूढो मैथुनं कुर्वाणः, खरश्चक्षुपोर्नयनयोः, अध्वनि मार्गे, अध्यारूढो दृष्ट इति, साक्षात् प्रत्यक्षः, संपदां मुदा शेवधिनिधिः, प्राप्त इवेत्युत्प्रेक्ष्यते ॥ १५ ॥ स्कन्धाधिरूढोऽथ पुंसः संगतः पुरतः पुमान् । दृष्टेऽस्मिन् वृद्धिभाक् संपद् यत् पान्यानां पदे पदे॥१६॥ अथ पुंसः स्कन्धाधिरूढः पुमान् पुरतोऽग्रतः, संगतो मिलितः, अस्मिन् दृष्टे पान्थानां पदे पदे संपद् वृद्धिभाग वर्धमाना भवतीति ॥ १६ ॥ पोत्री पङ्कप्रलिप्ताङ्गः संप्राप्तो वामतो व्रजन् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy