________________
द्वितीयः सान। तुल्यमेव विशेषणम् । पुनः किं० सुपर्ववत् देववत् शाली शोभमानः, सुपर्वभिः शोभनोत्सवैः शालीति वा, पक्षे सुपर्वभिर्देवैः शाली । पुनः किं० सुष्ठु शोभनं मनो येषां ते सुमनसः पण्डितास्तान् अभिरामयतीति सुमनोभिरामः, पक्षे सुमनोभिः कुसुमैरभिरामो रमणीय इति ॥ ७० ॥ सलक्षणं बन्धुरधातुसन्धि
बन्धं सदाख्यातमुदारपादम् । जहार चेतांसि सतां सुवर्णा
लङ्कारभृत् काव्यमिवाङ्गमस्य ॥ ७१ ॥ . अस्य वालस्य, अगं शरीरं, काव्यमिव ग्रन्थवत्, सतां चेतांसि जहाराज्हरदित्यन्वयः। द्वयोर्विशेषणद्वारा तुल्यत्वं व्यनक्ति-अङ्गं किं० सह लक्षणैश्छत्रचामरतामरसतोमरद्विपनिपद्वीपद्वीपिसिन्धुसैन्धवध्वजादिभिः, अथवा "इह भवति सप्तरक्तः षडुनतः" इत्यादिश्लोकोक्तैात्रिंशता लक्षणैर्वर्त्तते यत्तत् , पक्षे सह लक्षणेन व्याकरणेनाऽथवा लक्षणैः काव्यलक्षणैर्दूषणहानभूषणदानादिभिर्वर्तते यत् तत् । पुनः बन्धुरा मनोहरा धातवो रसामुग्मांसमेदोऽस्थिमज्जशुक्राख्याः सप्त, सन्धीनां चागोपागादिसंबन्धिनां बन्धा बन्धनानि यत्र तत् पक्षे बन्धुरो धातूनां भ्वादीनां सन्धीनां स्वरसन्धिप्रमुखाणां च बन्धो गुम्फो यत्र तत् । पुनः किं० सदा नित्यं ख्यातं प्रसिद्धि प्राप्तं, पक्षे सन् विद्यमान आख्यातस्त्यादिविभक्तिरूपो यत्र तत् । पुनः किं० उदारौ पादौ चरणौ यत्र तत्, पक्षे उदाराः पादा वृत्तश्लोकादितुरीयांशरूपा यत्र, अथवा पादाः पदानि विभक्त्यन्तानि यत्र तत् । पुनः किं० सुवर्णालङ्कारभृत् काञ्चनाभरणधारि, पक्षे सुवर्णाः शोभनाक्षराणि अलङ्काराच चित्रादयस्तान्