________________
५०२ विजयाशस्त्याम् । इतीरितं मे शृणुताऽऽश्रवा भो
निराश्रवाः ! संयमिशर्वरीशाः ! ॥ २३ ॥ सांप्रतमिह क्षणे मे मम, अन्धसां भक्तानामशनादीनां, निरोधः, किं०, सुकृतस्याऽभिवोधो जागरणं यस्मादिति, अस्तीत्यन्वयः । भोः संयमिषु शर्वरीशाश्चन्द्राः ! पुनः, भो आश्रवा वचसि स्थिताः कथितकारिण इति, पुनः, भो निराश्रवा निर्गताआश्रवाः कर्मद्वाराणि येभ्यस्ते साधवः! मे मम,इतीरितं जल्पितं, शृणुतेति ॥ २३ ॥ शिवात्मकृत्याय कृतोद्यमस्य
भवन्तु विना मम मा भवन्तः । जगत्प्रमोदार्थमुपागतस्य
घनाघनस्येव मरुत्प्रवाहाः ॥ २४ ॥ भो महात्मानः ! मम शिवात्म शिवहेतुर्यत् कृत्यं तस्मै कृतोघमस्य, भवन्तो विना मा भवन्तु निषेधनादिद्वारेणेति, जगतः प्रमोदाय उपागतस्य, घनाघनस्य मेघस्य, मरुत्प्रवाहा इव यथेति दृष्टान्तः ॥ २४ ॥ वचोभिरित्यद्भुतभेषजाभैः
शनैः शनैः शुद्धरसायनज्ञः। गुरुभिषक् सौवपरिच्छदस्य
कदाग्रहव्याधिमपाचकार ॥ २५ ॥ इत्युक्तैर्वचोभिः, किं०, अद्भुतभेषजाभैः, गुरुर्मिषन वैधः, कि०, शुद्धरसायनं समतामार्गरूपं जानातीति सः, सौरपरिच्छदस्य स्वपरिवारस्य, कदाग्रहोऽनशननिवारणरूपस्तद्रूपव्याधिम् , अपाचकारापांकृतवानिति ॥२५॥