SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ विजयत्रशस्त्वाम् । प्रजनिताऽजनि तालुगता शिशोः ॥ ३१ ॥ अस्येत्यध्याहारः, तेनास्य शिशोः, इति धिया बुद्ध्या, विधिना धात्रा, बहुशोणता, कीदृशी, तालुगता काकुदगा, प्रजनिता निर्मिता, अजनि जातेति । इति किमित्याह-यदिति यतः कारणात्, इतस्तालुत एव प्रसरगुचिप्रभवोऽरुणिमा रक्तिमा, रसनोष्ठयोर्जिहाधरयोः भवेद् जायत इति ॥ ३१ ॥ २०४ शिरसिजेषु रदाङ्गुलिपर्वसु त्वचि नखेषु महस्विषु सूक्ष्मता । बहुरमुष्य शिशोः सुभगाकृते रति विभाति विभाभरभाजिनः ॥ ३२ ॥ महस्विनस्तेजस्विनो ये शिरसिजाः केशास्तेषु, पुनः, रदा दन्ताः, अगुलिपर्वाणि च तेषु, पुनस्त्वचि चर्मणि, पुनर्नखेषु, सूक्ष्मता कृशता, अस्य शिशोः, किंलक्षणस्य, विभाभरभाजिनः कान्तिनिकरशालिनः, पुनः, सुभगाऽऽकृतेः शोभनाऽऽकारिणः, बहुर्बह्वी, अति विभाति ॥ ३२ ॥ ध्रुवमयं भविता शिशुराढ्यरा डिति लिलेख किमक्षरपद्धतिम् ? | भ्रमरकच्छलतोऽस्य विधिर्मुदोत्सुकमलीकमलीकमुचं सृजन् ॥ ३३ ॥ मुदा हर्षेणोत्सुकं मुदोत्सुकमिति क्रियाविशेषणं, अलीकसुचं कलङ्कमोचकं, अलीकं भालं, सृजन् कुर्वन्, विधिर्विधाता, भ्रमरको भालालकः " स तु भाले भ्रमरकः" इति वचनात्, तन्मिषात्; किं०, इत्यक्षरपद्धतिं वर्णावलीं, लिलेख । इति कवमित्याह- ध्रुवं निश्चितं, अयं शिशुः आन्यराट् ज्ञानविज्ञा
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy