SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चतुर्मः समः १७५ कुंराख्ययोः, कीदृशयोः, पुष्पदन्तयोः सूर्याचन्द्रमसोरिव, सच्छाययोः सती विद्यमाना प्रशस्ता वा छाया शोभा ययोस्तयोः, पुष्पदन्तपक्षे छायाऽर्कयोषित् , कान्तिश्चेतिः पुनः दसयोः स्ववैद्ययोरिव, किं०, क्लेश एवाऽऽमयभरो रोगगणस्तस्य ध्वंसे, दक्षयोनिपुणयोः, अन्यत्र क्लेशहेतुर्य आमयभरस्तस्येति ॥६६॥ पुनः किं०, 'पुनर्वसू तु यामकौ' इति वचनात् पुनर्वस्वोरिक, जगदुल्लासिनी तारे कनीनिके ययोस्तयोः, पक्षे जगदुल्लासिन्यस्तारास्तारकाणि ययोस्तयोः, यतः पुनर्वसुनक्षत्रभुक्तौ मेषदृष्टौ सत्यां जगतां सर्वशस्यसंपत्तेरुल्लासः स्यादिति रनमालावृत्तिवचनात् सार्थकं विशेषणम् । पुनः किं०, सम्यगाराधनापूर्व दिवं स्वर्गम् , उपेतयोर्गतयोः सतोः, ॥६७॥ स किं कृतवानित्याह-स कुमारोहीरजीनामा, अन्यदा मातापित्रोः शोकं मुक्त्वा, स्वस्याः स्वसुर्निजभगिन्याः, मिलनहेतवे मूर्तिमान् मनोभूरिव कन्दर्प इव, रूपश्रियेति गम्यम्, श्रीपत्तनं अणहिल्लपाटकनगरं, अलश्के व्यभूषयत् । त्रयाणां व्याख्येयम् ॥ ६८ ॥ . भगिनी सुभगाकारं वीक्ष्य सोदरमात्मनः। . चक्रपाणिमिवाऽपर्णा प्रमोदं प्राप पुष्कलम् ॥१९॥ चक्रपाणिं नारायणमिव अपर्णा पार्वती, तज्जामित्वात् , 'भवानी कृष्णमेनाकस्वसा' इति श्रीहेमाचार्यवचनात् आत्मनः सोदरं, किं०, सुभगाकारं मनोहराकृति, वीक्ष्य पुष्कलं प्रचुरं, प्रमोदं पाप ॥ ६९ ॥ अथ श्रीविजयदानाभिधानान् सूरिसिन्धुरान् । नमति स्म कुमारः स पत्तने तत्र तस्थुषः ॥ ७० ॥ अथावावसरे, पूर्व तृतीयसर्गव्यावाणितगुणावदातान् श्रीविजयदानाभिधानान सूरिसिन्धुरान् , किं०, तत्र पत्तने नगरे,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy