SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२८ विजयाशस्त्याम् । सनयविनयविद्याऽम्भोजिनीभृङ्गबालः । शिशुरपि जयसिंहः शुद्धबुद्धिः सुनन्दा तनुरुह इव सद्यः शास्त्रपाठानपाठीत् ॥ ८९ ॥ गुरुचरणसरोजानां उपास्तेः सेवाया या लीला तत्र मरालो हंसः, तदासक्तत्वात् पुनः, सनयविनया या विद्या सेवाम्भोजिनी पद्मिनी तत्र भृङ्गबालो द्विरेफः, शिशुरपि नववर्षीयोऽपि, जयसिंहमुनिः सुनन्दातनुरुह इव वज्रस्वामीव, शुदबुद्धिः सन् , सद्यः शीघ्रं, शास्त्रपाठान् , अपाठीत् पठति स्मेत्यर्थः । अन्त्ये वृत्तत्रये मालिनीनाम च्छन्दः, तल्लक्षणं चेदम्"ननपयययुतेयं मालिनी भोगिलोकैः" इत्युक्तेः।। ८९ ॥ इतीति सर्व सुगमम् । इति सुविहितसमासार्वभौमसमानसकलपण्डितमण्डलीमौलिमालीयमानपण्डितश्रीकमलविजयगणिशिप्यमुख्यपण्डितपुरन्दरमख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां विजयमदीपिकामिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां पञ्चमः सर्गोयतः समर्थितः।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy