Page #1
--------------------------------------------------------------------------
Page #2
--------------------------------------------------------------------------
________________
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी के संस्करण से पुनर्मुद्रित एवं प्रकाशित
चौखम्बा संस्कृत सीरीज
२
****
श्रीमद्भट्टोजीदोक्षितप्रणीतः
शब्द कौस्तुभः
द्वितीयो भागः
૧૨૫૮
023046 17.186
विन्ध्येश्वरीप्रसाद द्विवेदी, गणपतिशास्त्री मोकाटे च
सम्पादकौ
(If any defect is found in this book, please return the copy by V. P. P. for postage to the publisher for exchange free of cost.)
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी
१९९१
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक : चौखम्बा संस्कृत सीरीज आफिस, वाराणसी मुद्रक : चौखम्बा प्रेस, वाराणसी
संस्करण: द्वितीय, वि० सं० २०४८
मूल्य
: रू० ९७-०० ( रुपये सत्तानबे ) ( १ - ३ भाग )
The Publication has been brought out with the Financial assistance from the Govt. of India, Ministry of Human Resource Development.
• चौखम्बा संस्कृत सीरीज आफिस
के० ३७/९९, गोपाल मन्दिर लेन
पो० बा० १००८, वाराणसी - २२१००१ ( भारत ) फोन : ३३३४५८
अपरं च प्राप्तिस्थानम् कृष्णदास अकादमी
पो० बा० नं० १११८ चौक, (चित्रा सिनेमा बिल्डिङ्ग), वाराणसी - २२१००१
( भारत ) फोन : ५२३५८
Page #4
--------------------------------------------------------------------------
________________
REPRINTED AND PUBLISHED FROM THE EARLIER EDITION OF CHOWKHAMBA SANSKRIT SERIES OFFICE, VARANASI.
CHOWKHAMBA SANSKRIT SERIES
2
***
SABDA KAUSTUBHA
OF
ŚRI BHATTOJI DĪKSHITA
VOL. II
Edited by
VINDHYESWARĪ PRASĀD DVIVEDĪ
and
GANAPATI SASTRI MOKĀTE
(If any defect is found in this book, please return the
copy by V. P. P. for postage to the publisher
for exchange free of cost.)
CHOWKHAMBA SANSKRIT SERIES OFFICE
VARANASI-221001
1991
Page #5
--------------------------------------------------------------------------
________________
Publisher : Chowkhamba Sanskrit Series Office, Varanasi. Printer : Chowkhamba Press, Varanasi. Edition : Second, 1991. Price : Rs. 97-00 (Rs. Ninety-Seven )
The Publication has been brought out with the Financial
assistance from the Govt. of India, Ministry
of Human Resource Development.
© CHOWKHAMBA SANSKRIT SERIES OFFICE
K. 37/99, Gopal Mandir Lane Post Box No. 1008, Varanasi-221001 ( India )
Phone : 333458
Also can be had from KRISHNADAS ACADEMY Oriental Publishers & Distributors
Post Box No. 1118 Chowk, (Chitra Cinema Building ), Varanasi-221001 (India)
Phone : 52358
Page #6
--------------------------------------------------------------------------
________________
श्रीगुरुः शरखम्
ईशकृपया शब्दकौस्तुभस्येदं द्वितीयं संस्करणं भवतां पुरत उपस्थितम् । न तिरोहिताऽस्योपयोगिता विदुषां तत्र भवतां वैयाकरणानाम् ।
अस्य मुद्रणावसरे तृतीयाध्यायतृतीयचतुर्थपादपुस्तकं महता प्रयत्नेनान्वेषितमपि नोपलब्धमिति महद्विषादस्थानम् । मन्येऽहमेतादृशोपयुक्तपुस्तकस्य प्रकाशनार्थमचिरादेव दानेन मामनुगृह्य सकलजनोपकारजपुव्यमासादयिष्यन्ति तत्पुस्तकगोप्तार इति ।
निवेदक: गोपालशास्त्री नेने
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________
२२०
,
२४८
M
,
२७६
३८
m
m
* श्रीः * शब्दकौस्तुभविषयसूची। १ कित्प्रकरणम्
१ | २६ तत्पुरुषसमासप्रकरणम् १६६ २ ह्रस्वादिसंज्ञासूत्रम् | ३० बहुव्रीहिसमास ॥ २११ ३ एकश्रुतिविधिसूत्रम्
३१ द्वन्द्वसमास ४ फिटसूत्राणि
३२ पूर्वनिपात ॥ २१८ ५ उपसर्जनसंज्ञाप्रकरणम् २६ ३३ विभक्तयर्थ ६ प्रातिपदिकसंज्ञा ३० | ३४ एकवद्भाव ७ उपसर्जनसंज्ञा
३५ लिङ्गानुशासनम् ८ युक्तवद्भावप्रत्याख्यानसूत्रम्३४ ३६ आदेश विधान ६ द्वित्वातिदेशसूत्रम्
३७ लुग्विधान
" २८८ १० एकदेशप्रकरणम्
३८ आदेशविधान
, २६९ ११ धातुसंज्ञासूत्रम्
३६ प्रत्ययाधिकार १२ इत्संज्ञाप्रकरणम् ५५ ४० स्वरप्रकरणम् १३ यथासंख्यपरिभाषासूत्रम् ५६ ४१ सन्विधान , ३०७ १४ आत्मनेपदनियमसूत्रम् ४२ नामधातु १५ परस्मैपदनियमप्रकरणम् १० ४३ यङन्तप्रकरणम् ॥ १६ नदीसंज्ञाप्रकरणम्
४४ णिजन्त १७ घिसंज्ञाप्रकरणम् १०५ ४५ कण्डवादि , ३५९ १८ अङ्गसंज्ञाप्रकरणम्
४६ आयादिविधानप्रकरणम् ३६३ १९ पदसंज्ञाप्रकरणम् १.६ | ४७ सनाद्यन्तानां धातुत्व २० वचनप्रकरणम् ११३
विधि
, ३६५ २१ कारक ,
४८ स्यादिविकरणविधि ,, ३६७ २२ निपातसंज्ञा ,
४६ बाविधिप्रकरणम् , ३६७ २३ गति
५० कृभ्वस्त्यनुप्रयोग , ३७१ २४ कर्मप्रवचनीय , १४९ | ५१ चिलविधान
" ३७३ २५ पुरुषनियम , १५२ | ५२ च्ल्यादेश २६ परिभाषा
१५५ | ५३ विकरण २७ समाससंज्ञा । १५६ | ५४ कम्मक
३६२ २८ अव्ययीभावसमास,, १६१ | ५५ कृत्प्रकरणम्
॥ ३६६
"
३१२ ३३६
१०७
१३९
१४३
३७५
पाषा
"
३८५
Page #9
--------------------------------------------------------------------------
Page #10
--------------------------------------------------------------------------
________________
* श्रीः * भटोजीदीक्षितकृत
शब्दकौस्तुभे। प्रथमाध्याये द्वितीयपादे प्रथममान्हिकम् ।
-----
.
:
---..
-.
गाङ्कुटादिभ्योऽञ्णिन्डित् (अष्टा०सू ०१-२-१) । गाडा शात्कुटादेश्व परेऽणितः प्रत्यया डिद्वत्स्युः । अध्यगीट । “विभाषा लुल ङोः” (अया. सू०२-४-५०) इतीडो गाङ् । इद विशेषणार्थ एव दि गाडादेशे उकारः इति “गाङ् लिटि" (अटा सू०२-४-१९) इति सूत्रे वक्ष्यते ! कुटिता, कुटि. तुम् । अगिकिम् ? कोटः । घन् । चुकोट)। 'व्यचेः कटादित्वमन. सीति वक्तव्यम्" (काल्वा०)। एतच्च पाठे "लिट्यभ्यासस्य" (अटा०सू ६-१-१७) इति सूत्रे भाष्ये पठितमपि सन्दर्भशुद्ध्यर्थ वृत्तिकृतह पठितम् । तुदादिगणे कुटादिभ्यः प्राक पठितस्य व्यचेः कुटादित्वं वार्तिकेनातिदि. श्यते । विचितुम्, विचिता । अनसि किम् ? 'उरुव्यचाः । अत्र हरदत्तःअनसीति पर्युदासांकृत्येवेदम् । तेनेह न-विन्यचिथ, अव्याचीत् , अव्यनीत । केचित्त प्रसज्यप्रतिषेधपाश्रित्य थलादिष्वपि डिस्वमाहः। तत्त वाक्यमेदादसमर्थसमासाच्चायुक्तमिति माधवोदयः। अथ कथं लिखितुं, स्वयमेव लिखिप्यते इति ? अत्र दुर्घटादयः-कण्वादिभ्य इत्यत्रेव षष्ठीतत्पुरुषबहुव्रीह्योः सहविवक्षया बहुव्रीहिशेषोऽयं कुटादिभ्य इति । तेन लिखेरपि कुटस्यादितयाऽत्र सङ्ग्रह इति । तन्न, "शकुनिष्वालेखने" (अष्टा०म०६-१-१४२) इति सौत्रप्रयोगविरोधात्तः, "रलो व्युपधात्" (अष्टा०स०१-२-२६) "ईश्वरे तोसुन्" (अष्टा-सू०३-४-१३) इत्यत्र वृत्तिग्रन्थविरोधाश्च । तत्र हि लिखित्वा, लेखित्वा, लिलिखिषति, लिलेखिषति, विलेखितुम्, इति प्रदर्शितम् । तस्मात्संज्ञापूर्वकतया समाधेयमिति हर दत्तः । कथं 'चुकुटिषति' इति, सनो डित्वाद्यजन्तादिव तमसङ्गात् ? मैवम्, उपदेशग्रहणानुवृत्त्योपदेशे यो ङित्तदन्तादात्मनेपदमिति व्या. ख्यानात्।
? अत्र "परस्मैपदानां" (अपा०स०३-४-८२) इत्यनेन णल् ।
Page #11
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायद्वितोयपादे प्रथमान्हिकेविज इट् (अष्टा०स०१-२-२) । विजेः पर इडादिः प्रत्ययो ङित्स्यात् । उद्विजितुम् । इट् किम् ? उद्वेजनम् । इह "वृद्धिर्यस्य" (अष्टा०स०१-१७३) इतिसूत्रान्मण्डूकप्लुत्या यस्यादिरित्यनुवर्तते । तेनेडादिः प्रत्ययो लभ्यते, न तूत्तमैकवचनमिट् । तथाहि सति 'विजिषीय'इत्यत्रैव स्यात् । "ओषिजीभयचलनयोः' (तु आ०१२९०रु०प०१४६१) इति विजिरिह गृह्यते न तु पृथग्भावार्थ इरित्, तस्यानिटकत्वादिति हरदत्तः । न च क्रादिनिय. माल्लिटीट् संभवत्येवेति वाच्यम्, तत्र कित्त्वेन गतार्थत्वादिति तस्य भावः । वस्तुतस्तु नेदं युक्तम् 'विवेजिथ' इति थलीट्सम्भवात्। पित्वेन कित्त्वाभावात् । तस्मात्कुटादिसाहचर्यात्तुदादेरेव ग्रहणं न तु जुहोत्यादेरिति बोध्यम् । नन्वेवं रुधादेरपि ङित्त्वात् 'उद्विजिता' इत्याद्युदाहरता माधवेन सह विरोध इति चेत्तहि व्याख्यानादेव. जुहोत्यादेरग्रहणमित्यस्तु । हरदतोकिस्तु दुष्टैवेति दिक।
विभाषोर्णोः (अष्टा सू०१-२-३)। अस्मादिडादिप्रत्ययो डिद्वा स्यात्। ऊ[विता, ऊर्णविता । इडिति किम् ? ऊर्णवनीयम् ।
सार्वधातुकमपित् (अष्टा सू०१-२-४)। अपित्सार्वधातुकं द्धित्स्यात्। विनुतः । इह परत्र परशब्दप्रयोगात्कल्प्यमानो वतिः सप्तम्यन्तान कल्प्यो डितीव द्विदिति । तथा सति प्रतियोगिनि सप्तमीप्रसङ्गात् सार्वधातुके. ऽपितीति । पूर्वत्राप्येवमेव अणितीति, इटीति च सप्तमी स्यात् । श्रयते तु सर्वत्र प्रथमा । तस्मात्ततीयान्तादेव वतिडिता तुल्यं डिद्वदिति । अत एव 'पचेते' इत्यादौ डितो यत्कार्यम् "आतो डितः" (अष्टा सू०७-२-८१) इतीय सोऽपि भवति । नन्वेवं 'यादम्पती समनसा सुनुतः' इत्यत्र "ता. स्यनुदत्तेनिङन्त्' (अष्टा०सू०६-१-१८१) इति लसार्वधातुकानुदात्तत्वं स्यादिति चेत्?न. उपदेशग्रहणस्योभयसम्बन्धेन ङिदुपदेशाददुपदेशाचेति षाष्ठभाष्ये व्याख्यातत्वात् , अन्हिङोरिति पर्युदासेनोपदेशे उकारवतो ग्रहणाद्वा । सप्तम्यन्ताद्वतिरित्येवंपरः षाष्ठवृत्तिग्रन्थस्त्वापातत इत्येष निष्कर्षः। अत्र 'पिञ्च डिन, डिच पिन्न भवति' इति वाक्यार्थद्वयं "ङितिच" (अष्टा०स०१-१-५) इति सूत्रे वर्णितमस्माभिः। भाष्ये तु "हलश्न: शानच्” (अष्टा सू०३-१-८३) इति सूत्रे स्थितमेतत् ।।
असंयोगालिट् कित् (अष्टा०स०९-२-५)। असंयोगात्परोऽपिल्लिन कित् स्यात् । निन्यतुः, बिभिदतुः। अपित्किम् ? बिभेद । असंयोगा. त्किम् ? सस्रसे। ङित्त्वे प्रकृते कित्करणं "यजादीनां किति" (अष्टा०स० ६-१-१५) इति सम्प्रसारणार्थम् । ईजतुः, ईजुः । पूर्वत्रापि कित्त्वं कुतो न
Page #12
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
कृतमिति चेत् ?'वक्तः' 'वयः' इत्यत्र सम्प्रसारणापत्तेः, 'जागृतः 'जाग्रति' इत्यत्र गुणापत्तेश्च। ङित्वे तु 'वच्यादीनां किति' इत्युक्तर्न सम्प्रसारणम् । "जागोऽविचिण्णङित्सु" (अष्टा०स०७-३-८५) इति पर्युदासान्न गुणः । 'ऋदुपधेभ्यो लिटः कित्त्वं गुगात्पूर्वप्रतिषेधेन" (का० वा०) । कित्त्वस्यावकाशः-ईजतुः, ईजुः । गुणस्थावकाशः-चेतति । ववृते, ववृधे इत्यत्र पूर्वविप्रतिषेधात्कित्त्वम् । ____ इन्धिभवतिभ्यां च (अष्टा-सू०१-२-६)। आभ्यां लिट् कित्स्यात् । समी. धे दस्युहन्तमम्। पुत्र ईधे अथर्वणः । बभूव, बभूविथ। इन्धेःसंयोगार्थ ग्रहणं भवतेस्तु पिदर्थम् । इन्धीत्युच्चारणार्थेनेकारेण निर्देशः "सुतियोः" (अ.
०स०३-४-१०७) इतिवत्, न तु "इश्तियो" (काभ्वा०) इतीका, नलो. पापत्तः। अत्र वार्तिकम्-"इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किवचनानर्थक्यमिति" अयमर्थः-इन्धेर्भाषायां "इजादेश्व"(अष्टा० सू०३-१-३६) इत्यामा भाव्यम्।छन्दसितु "अमन्त्रे" (अष्टा०सू०३.१-३५) इति प्रतिषेधाद्यद्यप्यानास्ति तथापि "छन्दस्युभयथा" (३-४-१९७)इति लिटः सार्वधातुकत्वे कित्वात् 'समीधे इति नलोपः । श्नमभावस्वार्धधातुकस्वात् व्यत्ययाद्वा । भुवोऽपि वुङ् नित्यत्वादेव गुणवृद्धी बाधिप्यते। न च शब्दान्तरप्राप्त्या वुगनित्य इति वाच्यम, कृताकृतप्रसङ्गित्वमात्रेणापि लक्ष्यानुरोधानित्यत्वस्याश्रयणात् शब्दान्तरप्राप्त्या स्वरभिन्नस्य प्राप्त्या चानित्यतायाः सिद्धान्ते बहुधा त्यतत्वात्। एषैव सत्रकृतोऽपि गतिः, 'ब. भूव' इत्यत्र वृद्धरनिग्लक्षणतया "कङितिच' इति निषेधासम्भवेन बुको नित्यताया एव शरणोकरणीयत्वात् । न च कित्स्वसामर्थ्यादनिग्लक्षणाया अपि वृद्धनिषेधः । 'अहं बभूव' इत्यत्र णित्त्वाभावपक्षे तथा थलि चरिता. र्थत्वात् । अत एव यङ्लुकि णल्थलोः 'बोभूव' 'बोभूविथ' इति नित्य त्वाद् वुकि सिद्धम् । न हि तत्र कित्त्व प्राप्नोति, श्तिपा निर्देशात् । तस्मा. देतत्सत्र न कर्तव्यमिति भाग्ये स्थितम् । अत्र काशिका, 'श्रन्थिग्रन्थिद. म्भिस्वञीनों वक्तव्यमिति" । यद्यप्येतदिह सत्रे भाष्ये नास्ति तथापि "मणीवादेन" इतिवन्नाप्रामाणिकम् । तथाच "अत एकहल्मध्ये' (अपा० स६-४-१२०) इत्येत्वाभ्यासलोपौ प्रति नलोपस्याभीयत्वेनासिद्धौ सत्यां "दम्भेश्च" (का०वा०) इति वार्तिकमारब्धम्। "आभात्" (अष्टा०स०६-४२२) सूत्रस्य प्रत्याख्यानात् "श्रसोरलोपः' (अष्टा०स०६-४-१११) इति त. परकरणेनानित्यत्वाद्वा नेदं वार्तिकमावश्यकमिति तु षष्ठे वश्यते । तथा "सदेः परस्य लिटि" (अष्टास-३-२१८) इति सत्रे "स्वञ्जासंख्यानम्" (का०वा०) इति वार्तिकस्य भाष्यकता परिपम्बजे' इत्युदाहरणं दत्त.
Page #13
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेम् । प्रयुज्यते च "तमिन्दुः परिषस्वजे' इति । एतञ्च कित्त्वं पिदर्थमपिदर्थ चेति सुधाकरः । अपिदर्थमेवेति न्यासकारात्रेयादयः ! हरदत्तस्तु सन्दि. देह। वस्तुतस्तुन्योसाद्युतमेव ज्यायः, इह.वृत्तौ पाष्ठभाष्ये चापित एवोदा हृतत्वात् । "श्रन्थ ग्रन्थ सन्दर्भ" (क्या.प.१५१३,१४)श्रेयतुः: श्रेथुः । ग्रेथ तुः, ग्रेथुः । देभतुः, देभुः । सस्वजे, सम्व जाते । केचित्त "श्रन्थिग्रन्थिदम्भिस्वञ्जीनां वा" इति पठन्तः कित्त्वं विकल्पयन्तीति हरदत्तमाधवौ । तन्मते ददम्मतुः, शश्रन्थतुरित्याद्यपि। सुधाकरमतेतुणल्यपिश्रेथ-ग्रेथ-देभ इति । स्यादेतत् । सर्वमतेषु श्रेथतुः, ग्रेथतुः इत्यादि दुर्लभम्। 'सस्त्रजे' इतिवत्संयुक्तहलमध्यस्थत्वादिति चेत् ! सत्यम् । अत एव एत्वाभ्यासलोपावण्यत्र क्तव्यावितिहरदत्तः। अत्रमूलं मृग्यम्। तथा सुधाकरमते श्रेथिथ, न्यासादि. मते 'शश्रनिपथ' इति वक्तो माधवस्याप्युक्तौ मूलं मृग्यम् । कित्त्वे विप्र. तिपत्तावपि "थलि च सेटि" (अष्टा-सू०६-४-१२१) इत्यस्याप्राप्तेरविशेपात् । तथा नलोपस्यासिद्धत्वादेत्वाप्राप्तौ वचनमिति माधवोक्तिरपि शिथिलमूला । श्रन्थेतिप्राग्भागे संयोगसत्वाद् ग्रन्थेरादेशादित्वाच्चैत्वाप्रा.
रुद्रटतया नलोपसिद्धत्वासिद्धत्वविचारस्थ काकदन्तपरीक्षाप्रायत्वा. दिति दिक् । कौमाराणां तु सर्वमिदं सूत्रारूढम् । तथा च शर्ववर्मणा सुत्रितम्-"अनिदनुबन्धानामगुणेनुषङ्गलोपः परोक्षायामिन्धिश्रन्थिन. निधदम्मीनामिति । अस्यैकव्यञ्जनमध्येनादेशादेः परोक्षायाम् थलि च सेटि तफलमजत्रपश्रन्थिग्रन्थिदम्भीनां चेति । अत्र निरनुषः साहच. यात् 'शथिय' इत्यादीति दुर्गसिंहः । एवं स्थिते "दम्भेश्च" (का० पा०) इति वार्तिकभाज्ययोः सामान्यापेक्षनापकतामाश्रित्य दमित्रप्रभृती. नामन्यत्रोके पाणिनीयेऽपीष्टमिति कथश्वित्समर्थनीयम्।
मृडमृदगुषकुषलिशवदवसः क्त्वा (अष्टा०सू०१-२-७) । गुधकुष. क्लिशिभ्यः क्त्वो "रलोव्युपधात्" (अष्टा०१-२-२६) इति विकल्पे प्राप्ते इतरेभ्यो "न क्त्वा सेट् (अष्टा०सू०१-२-१८) इति निषेधे प्राप्त कित्त्वं विधीयते । मृडित्वा, मृदित्वा, गुधित्वा, कुषित्वा, क्लिशित्वा, उदिस्वा, उषित्वा, “वसतिक्षुधोः” (अष्टा०सू०७-२-५२। इतीट् । यजादित्वात्संप्र. सारणम्।
रुदविदमुषग्रहिस्वपिप्रच्छस्संश्च (अष्टा०सू०१-२-८)। एभ्यस्संश्च क्वा च किती स्तः । रुदविदमुषाणां "रलो व्युपधात्' (अष्टा सू०१-२२६) इति विकल्पे प्राप्ते आहेस्तु विध्यर्थमेव । स्वपिप्रच्छयोस्तु समर्थम् । तावतैव चरितार्थत्वादनिटः स्व. कित्त्वविधानं नियामकं स्यादिति न शङ्कनीयम् । रुदित्वा, रुरुदिषति, विदित्वा, विविदिषति, मुषित्वा, मुमु.
Page #14
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
षिषति, गृहीत्वा, जिघृक्षति, सुप्त्वा, सुषुप्सति, पृथ्वा, पिपृच्छिषति, कित्त्वाद् ग्रहादीनांसम्प्रसारणं"किरश्च पञ्चभ्यः" (अष्टा०सू०२-७-५) इति प्रच्छेः सन इट् ।
इको झल् (अष्टा०सू०१-२-९) । इकः परो झलादिः सन् कित्स्यात् । चिचीषति, तुष्ट्रपति, चिकीर्षति । ननु विस्तुकृञ्भ्यः सनि कृते गुणं बाधित्वा "अज्झन" (अष्टासू०६-४ -१६) इति दीर्घोऽस्तु किं कित्त्वेन ? न च 'पिपविषति' इत्यादावपि तथा स्यादिति वाच्यम् "अनुनासिकस्य क्वि" (अष्टासु०६-४-१५) इति सूत्राज्झलनुवत्त्या झलादौ सनि दीर्घविधानात। नचेहगुणमिव 'शीप्सति' इत्यत्र णिलोपमप्यविशेषाद् दीर्घो बाधेत । कित्त्वे तु सति 'चिचीषति' इत्यादौ कृतार्थो दी? 'नीप्सति' इत्यत्र परत्वात् गिलोपेन बाध्यत इति वाच्यम्, येननाप्राप्तिन्यायेन दीर्घस्य गुणापवा. दत्वात् । न च पुरस्तादपवादन्यायेन णिलोप एव बाध्य इति भ्रमितन्यम, उभयापवादतासंभावनापामेव तदवतारात् । इह तु णिलोपेन सह येननाप्राप्तिविरहात् । न च बोध्यसामान्यचिन्तायां णिलोपबाधो दुर्वार इति वाच्यम् , "स्थाशपां शीप्स्यमानः'' (अष्टा०सू०१-४-३४) इति निर्देशात्लण्यानुरोधाच्चेह बाध्यविशेषचिन्ताया एव युक्तत्वात् । न च कुटादौ "गु पुरीषोत्सर्गे" ( तु०प०१४०० ), 'ध्रु गतिस्थैर्ययोः" ( तु० ५० १४०१) इति पाठात् 'जुगूषति' 'दुधूपति' इत्यत्र कृताथों दीर्घः परेण गुणेन बाध्यतेति वाच्यम्, उहनेति वक्तव्ये "अज्झन" इति प्रत्याहारग्रहणस्य निर. वकाशत्वात् । न च 'गमेरिकादेशस्य' (कावा०) इति वार्तिकं प्रत्या. ख्या तन्त्रादिना सम्मवत्यभिचाराभ्यां गमेरचा विशेषयिष्यमाणत्वादग्रहणसार्थक्यं शङ्कय स् । एवं हि 'उतो दीर्घः' इत्युत्का 'इङ्हनोः' इति सुत्रयेत् । इणिको ईशस्यापि प्रगामिति पक्षेऽपि 'इहनोः' इति ब्रयात् । हना साहवर्याच्च 'इ'धानुरेव ग्रहीप्यते न स्विवर्णान्तः । यथान्यासपाठेपि हनिसाहचर्याललुम्विकरणस्यादेशगमेर्ग्रहणसम्भवाश । तस्मादीर्घविधिना गुणवाधाकि कित्येनेति ? उच्यते, उत्तरार्थमवश्यम् “इको झल" (अष्टा० स.१-२-१) इति कर्तव्यम् । योगविभागः किमर्थ इति परमवशिष्यते । तत्राग्रहगसामर्थ्यस्य "जीप्स्यमानः" (अष्टा०स०१-४-३४) इत्यादेर्शाप. कस्य व पर्यालोचनालंशपरिहारार्थ लक्षणेकचक्षुषो बाध्यसामान्यचि. न्ताभ्रमं वारयितुं योगविभाग इति निष्कर्षः । वात्तिकं तु यथाश्रुताभि. प्रायकम् । तद्यथा---
इकः कित्त्वं गुणो मा भूहीर्घारम्भात्कृते भवेत् । अनर्थकं तु ह्रस्वार्थ दीर्घाणां तु प्रसज्यते ॥
Page #15
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिके
सामाद्धि पुनर्भाव्यमृदित्वं दीर्घसंश्रयम् ।
दीर्घाणां नोकृते दीर्घ णिलोपस्तु प्रयोजनम् ॥ अस्यार्थः-इक उत्तरम्य सनः कित्त्वं विधीयते गुणी मा भूदित्येवम. र्थम् । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । ओरम्भ. वाद्याह-कृते भवेदिति । अयं भावः-"सनिमीमा" (अपा०स०७-४-५४) इत्यत्र मीग्रहणेन मिनोतिमपि ग्राहयित्वा दीर्घः कृतार्थ इति चिनीषति' इत्यादौ कृतेपि दीर्घ गुणः स्यात् । दृषयति-अनर्थकं त्विति “मीनातिमिनोति' (अटा०स०६-६-५०) इत्यात्वे कृते गामादाग्रहणेष्वविशेषान्माग्रहणेनैव मिनोतिमीनात्योरपि सिद्ध मीग्रहणं तत्र मास्तु । तथा च दी. घंविधानं न कृतार्थमिति भावः। हस्त्रार्थमिति । हस्वेषु दीघः प्रवर्तताम्, न तु दीर्घषु; अप्राप्ते शास्त्रमर्थवदिति न्यायात् । ततश्च 'बुभूपति' इत्यादौगुणः प्रसज्यत एवेत्यर्थः । दूषयति-सामर्थ्यादिति । गुणनिवृत्तिरूपप्रयोजनसद्भावाहोघणां दीधैर्भाव्यमेव । “मोराजि" (अष्टा०स०८-३-२५) इतिवदिति भावः। न चैवं दीर्पण गुणस्येव ऋदित्वस्यापि बाधेः स्यात्तथा च 'चिकीर्षति' इति न सिध्येदत आह-ऋदित्त्वमिति । “यं विधि प्रति" इति न्यायाद् गुण एव बाध्यो न तु ऋदित्तमित्यर्थः । ननु 'तितीर्यति' इत्यादौ तर्हि इत्वं बाध्यताम् , तत्राह-दीर्घाणामिति । इत्वोत्वयोहि गुण वृद्धी परत्वाद् बाधिके । ततश्च "अज्झन" (अष्टा०स०६-४-१६) इति दी. घेण गुणबाधे सत्येवेत्वं लभ्यं न तु ततः प्राक । एवं च यस्य तु विधेरि. त्यंशो हस्व इव दीर्धेष्वविशिष्ट इति भावः । एवं प्राप्ते सिद्धान्तमाह-णि. लोपस्त्विति ।
हलन्ताच्च (अष्टा०स०१-२-१०) । कर्मधारयोऽयम् । अन्तशब्दः समीपे परभूते वर्तमानो विशेषणमपि निपातनान पूर्व निपतितः । इक इति पञ्चम्यन्तमपीह षष्ठ्या विपरिणभ्यते तत्सापेक्षोऽप्यन्तशब्दो नित्यसापेक्षत्वात्समस्यते । इक्समीपाद्धलः परो झलादिः सन कित्स्यात् । बिमित्सति । इकः किं ? यियक्षते । झल् किम् ? विवषिते । कथं 'धिप्सति' इति ? हल्ग्रहणस्य जातिपरत्वात्सिद्धमित्युपपादितं "निपात एकाज" (अष्टी०स०१-१-१४) इति सूत्र ।
लिसिचावात्मनेपदेषु (अष्टा०स०१-२-११) । इक्समीपोद्धलः परी सलादी लिङ्तपरःसिच्चेत्येतो किती स्तः । मित्सीय, अभित्त । इकः किम् ? यक्षीष्ट, अयष्ट । सम्प्रसारणं मा भूत् । आत्मनेपदेविति किम् ? अनाक्षीत , अद्राक्षोत् । अकितीत्युकेरम् न स्यात् । सिव एवेदं विशेषणं नतु लिङोऽसम्भवात् , झलनुवृत्त्यैव लिङः परस्मैपदस्य व्यावर्तितत्वाश्च ।
Page #16
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
हल: किम् ? चेषीष्ट, अचेट | झल् किम् ? वर्त्तिषीष्ट, अवर्त्तिष्ट ।
I
उश्च (अष्टा०सू०१-२-१२) । ऋवर्णात्परौ झलादी लिङसिचौ कितौ स्तस्तङि । ऋषोष्ट, अकृत । झलादौ किम् ? वरिषीष्ट अवरिष्ट । "लिसित्रोः” (अष्टा०सू०७-२-४२ ) इतीट् । तङि किम् ? अकार्षीत् । ऋ इति वर्णग्रहणं व्याप्तिन्यायात् ।
वा गमः (अष्टा०सू०१-२-१३) | गमः परौ झलादी लिसिचौ वा कितौ स्तः । सङ्गसीष्ट, सङ्ग सीष्ट । समगत, समगंस्त कित्त्वपक्षे "अनुदात्तोपदेशवनति" (अष्टा०स०६-४-३७) इत्यादिनाऽनुनासिकलोपः ।
हनः सिच् (अप्रा०सू० १ - २ - १४) । हन्तेः परः सिच् कित्स्यात् । अहित, आहसाताम्, आहसत । सिचः कित्त्वादनुनासिकलोपः । वद्यपिसिजन्तस्याङ्गस्यात्मनेपदं डिलरमस्तीति “अनिदिताम" (अष्टा०सू० ६-४-२४) इत्येव सिद्धं तथाऽपि सिजन्तस्योपधालोपो नेति ज्ञापनार्थमिदम् । तेन 'अमंस्त' इत्यादि सिद्धम् । न च " अनिदिताम् ” (अप्रा०सू०६-४-२४) इति पर्युदासः शङ्क्यः, सिच इकारस्योच्चार णार्थत्वात् । अन्यथा नुमापत्तेः । न च धातुग्रहणेन तद्व्युदासः । "धातुग्रहणमुपदेशे नुम्प्रवृत्यर्थम्” इति कुण्डा, हुण्डा इत्यादिसिद्धये भाष्य एव वक्ष्यमाणत्वात् । न च तासेर्व्यावृत्तये तत्, तत्रापीकारस्योच्चारणार्थत्वात् । न चैवं 'मन्ता' 'हन्ता' इत्यादावात्मनेपदे उपधालोपापत्तिः । आभीयस्य तासेटिलोपस्यासिडत्वात् । "आभात्" (अष्टा० सू०६.४ २२ । सनप्रत्याख्यानपक्षे तु विकरणप्रयुक्तमुपधात्वमाश्रित्य लोपा नेति सामान्यापेक्षं ज्ञापकमस्तु | अङ्गवृत्त परिभाषया वा 'मन्ता' 'हन्त।' इति साध्यताम् । ननु 'आहत' इत्यत्रातो लो (१) पं व्यावर्तयितुं समानाश्रयत्वप्रयुक्ताऽसिद्धताऽपश्यते सा व सिनः कित्त्वं विना न निर्वहतीति कथं ज्ञापकतेति चेत् ? न, आर्धधातुकापदेशे यदकारान्तमिति व्याख्यानादेव लोपाप्रवृत्तेः । जयादित्यस्तु सिच्नास्योरिदित्करणमनुनासिकलोपप्रतिषेधार्थमित्याह । तन्मते धातुग्रहणस्य कृतार्थत्वात् ' नुम्विधावुपदेशिवद्वचनं प्रत्ययसिद्ध्यर्थम्" इति वचनमेव शरणीकरणीयमिति दिक् । यद्यपीह "लिसिचौ” (अष्टा०सु०१-२-११) इत्यनुवृत्त्या सिद्धं तथाप्युत्तरार्थमवश्यं कर्तव्यं सिज्ग्रहणं स्पष्टत्वार्थमिहैव कृतम् | अन्यथा हि लिङि वधादेशो नित्यः, 'घानिषीष्ट' इति चिणवदिटि " स्थानिवत्" (अष्टा०सू०१-१-५६) सूत्रोक्तरीत्या वधादेशाभावेsपि अझलादित्वान्न कित्त्वमित्यादि व्युत्पादनीयं स्यात् ।
तयावृत्त्या
(१) "अतो लोपः” ( अष्टा०सू०६-४-४८ ) इत्येतमित्यर्थः ।
Page #17
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिके
यमो गन्धने (अष्टा०सू०१-२-१५) । सूचनार्थाधमेः सिन् किशात् । उदायत, उदायसाताम् , उदायसत । धातूनामनेकार्थत्वात्सूचनेऽत्र यमि वर्तते । तश्च परदोषाविष्करणम् । “आङो यमहनः" (अष्टा०सू०१-३-२८) इत्यात्मनेपदं, धात्वर्थेनोपसङ्ग्रहादकर्मकत्वात् । सिचः कित्त्वादनुनासिकलोपः । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः। स्वाङ्गकर्मकत्वात्तङ्। उदायस्त कृपाद्रज्जुम् । उद्धृतवानित्यर्थः । सकर्मकत्वेऽपि "समुदाभ्यो यमोऽग्रन्थे" अष्टाःसू०१-३-७५) इत्यात्मनेपदम्।।
विभाषोपयमने (अष्टासू .१-२-१६) । यमेः सिन् किद्वा स्याद्वि. पाहे । रामः सीतामुपायत, उपायंस्त वा । उदवोढ़ेत्यर्थः । “उपाद्यमः स्वकरणे" (अथाासू०१-३-५६) इति तङ् । “गन्धनाङ्ग तूपयमने पूर्वविप्रतिषेधेन नित्यं कित्त्वम्" इति "नवेतिविभाषा" (अथासू०१-१.. ४४ ) इति सूत्रे भाष्ये स्थितम्।
स्थाध्वोरिञ्च (अष्टाःसू०१-२-१७ । अनयोरिदादेशः स्यात्सिच्च कित्स्यात् । उपास्थित, उपास्थिपाताम् , उपास्थिषत । ' उपान्मन्त्रकरणे, (अयासू०१-३-२.) "अकर्मकांच" (अटा०म०-३-२६) इति तङ। घो:-अदित, अधित । घुस्थोरितीह वक्तुं युक्तम् । यद्यपि जयादित्येन "चा गमः" (अटा०सू०१-२-१३) इत्यारभ्य पञ्चसूत्र्यामा त्मनेपदेग्वित्यनुवतितं तथापि निकलत्वादुपंथ्यम् । तथाहि-गमेः परस्मैपदे सिज्नास्ति, अङा वाधात् । लिङ तु न झलादिः । न चा. त्मनेपदमेवानुवर्त्य झलग्रहणं त्याज्यमिति वाच्यम, उत्तरसूत्रस्य 'अ. घानियाताम्' इति चिण्वदिटि अतिव्याप्न्यापत्तेः । हन्तेस्तु परम्मैपदे वधादेशो नित्यः । यमेस्तु “यमरम” । अष्टा०सू०७-२-७३- ) इती टसकोः सतोमलादिः सिच परस्मैपदे नास्ति । उपयमे तु नित्यमात्मनेपदम् । स्थाध्वोः परस्मैपदे सिचो लुक् । एवं स्थिते "हनः सिन्' (अधा०म०-२.१४) इति सूत्रे यदुक्तं वृत्तिकता आत्मनेपदग्रहणमुत्तरार्थमनुवत्तंत इति । तदप्यापातरमणीयमेव । तस्माद्ययाव्याख्यानमेव साधु । स्यादेतत्-भाव्यमानस्य सवर्णाग्राहकत्वादिति तपरकणं व्यर्थम सत्यम् । इश्च न्युक्तपि लाघवे विशेषाभावादित्यतमिति नत्वम् भागनानाऽपि कानिमः : गृहगानीति काकानावलम्नेन । वात्तिकम् ।
इश्व कस्य नकारत्वं दीर्थों मा भूदृतेऽपि सः।
अनन्तरे प्लुतो मा भृत् प्लुतश्च विपये स्मृतः ॥ इति ॥ अस्यार्थः-इश्चेनि तकारेत्वं कस्य चित् सिद्धये इति प्रश्नः । हेतो.
Page #18
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
रपि सामान्यतः सम्बन्धित्वेनैव विवक्षायां षष्ठी, अन्यथा " हेता" (अष्टा० सू०२-३-२३) इति तृतीयों स्यात् । अत्र तकारस्येत्वोक्तिरापातत इत्युक्तम् “एओ”(मा०सू०३) सूत्रे । यद्रा तकारमेतीति तकारेत् । तपर इति व्याख्येयम् । तथा च भाष्यम् - "कस्य हेतोरिकारस्तपरः क्रियते " इति । 'अमूभ्याम् ' इत्यादाविव भाव्यमानोप्यान्तरतम्याद्दीर्घो मा भूदित्युत्तरम् । कृतेऽपीति । इच्चेयंशादृतेपि "स्थाध्वोः " (अप्रा०सू० १-२-१७) इति कित्त्वे सति “घुमास्था" (अष्टा०सू०६-४-६६ ) इतीत्वेन सिद्धे विधानसामर्थ्यादनन्तरतमोऽपि हस्वः सिद्धस्तत्किं तपरेणेति पुनः प्रश्नः । अनन्तरे इति । असदृशे आदेशे क्रियमाणे हस्व इव प्लुतोपि स्यात्स मा भूदित्यर्थः । प्लुतश्च ेति । विषयविशेषे वाक्यस्य देरित्यधिकृत्य हि प्लुतो वक्ष्यते । अत एव "कुरूनगमन्न" इत्यादौ स्मृतः, न तु "आस्थित" इत्यादौ, अटित्वात् । तथा चेष्टापत्तिर्न कार्येति तत्परत्वं समर्थितम् । प्राञ्चस्तु अनन्तरेऽविद्यमानेपि विशेषे “घुमास्या" (अष्टा० सू० ६-४-६३ ) इतीत्वेन सिद्धेपीति यावत् । प्लुतो मा भूदित्येतदर्थं दीर्घः स्यात् "मांराजि” (अप्रा०सू०८-३-२५) इतिवत् । अस्त्वेवमिति चेत्, न, प्रश्नाख्यानादिरूपं विषये 'लुतस्येप्यमाणत्वात् । तदेवं स्थलान्तरे भिन्नकालनिवृत्त्यर्थमपि तपरत्वमिह दीर्घनिवृत्तिद्वारा प्लुतसिद्ध्यर्थ पर्यवस्यतीति व्याचख्युः । अपरे तु यद्यनेन प्लुतो विधीयते
यत्रामिकस्य विषयस्तत्राप्यनेनैव स्यात् तस्यासिद्धत्वात् । ततश्च पक्षेऽनुवाददोपः स्यात् । अतो हस्व एव भविष्यतोति तपरकरणप्रत्याख्यानपरचतुर्थ चरण इति व्याचख्युः । एतच्च मतद्वयमत्ययुक्तम् । अनन्त्यस्यापीत्यादीनां टिसंज्ञा विरहादिहाप्रवृत्तेः । कैयटांऽपि मतद्वयखण्डनपरतयैव नेयः । न्यासहरदत्तादयस्तु आटमिकग्रन्थैव त्यादिभिश्व विरोधादुपेभ्यः । भाष्यं त्वस्मदुक्तव्याख्यानुगुणमेव । यदा विषयस्तदैव प्लुतेन भवितव्यमिति योजनया नेह प्लुतस्य विषयोऽस्तीति ध्व नितत्वादिति दिक् ॥
क्या (अप्रा०सू०१-२-१८) सेट् क्त्वा किन्न स्यात् । देवित्वा । सेद् किम् ? कृत्वा । क्त्वः किम् ? निगृहीतिः । अत्र वार्तिकम् - डिति कृतेऽवं निष्ठायामवधारणात् ।
ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः । इत्वं कित्सनियोगेन रेण तुल्यं सुधीवनि । वस्वर्ण किदती देशाद् गृहीतिः क्त्वा च विग्रहात् ॥ अस्थार्थः - पूर्वार्द्धमेको ग्रन्थः । तत्रोत्तरार्धानेत्यपकृष्यते । क्त्वा
Page #19
--------------------------------------------------------------------------
________________
१० शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेप्रहणं त्यक्त्वा नसेडित्येतावतापि योगेनाकित्त्वे कृते 'गुधितः' इत्यादौ निष्ठा नाकित्वम् । कुतः १ । अवधारणात् । “निष्ठाशी' (अष्टा०स. ५-२-१९) इत्यनेन, शीङादिभ्य एव निष्ठा न किदिति नियमादित्यर्थः । विपरीतनियमस्तु लक्ष्यानुरोधान्न व्याख्यास्यते । न चैवं लिटि प्रतिषे. धात् 'जग्मिव' इत्यादावुपधालोपो न स्यादत आह-ज्ञापकादिति । किं तत् ? तत्राह-सनीति । 'शिशयिषते' इत्यत्र कित्वं वारयितुं क्रियमाणम् "इको झल" (अष्टा०सर-२-९) इति झल्ग्रहणं ज्ञापयति-"आतिदेशिकस्य कित्वस्य नायं निषेधः” इति । ननूत्तरार्थ झल्ग्रहणं स्यात् नेत्याह-इत्वमिति । 'उपास्थायिषतां हरिहरौ भक्तन' इत्यत्र अस्था स आताम् इति स्थिते इत्वम्प्राप्तश्चिण्वद्भावश्च । परत्वा. चिण्वद्भावे कृते युक् च प्राप्त इद्विधिश्च । अपवादत्वाद्युकि कृते यकारस्येत्प्रसङ्गः । तं वारयितु झल्गहणमिति ज्ञापकभङ्गवादिनो मतम्, तन्न, न सेडिति सिचोपि कित्त्वे निषिद्धे तत्सन्नियोगशिष्टतया इत्त्वस्याप्रवृत्तेः । अत्र दृष्टान्तमाह-रेणेति । शोभना धीवानोस्यां 'सुधीव' इत्यत्र "अनो बहुव्रीहेः" (अष्टा०स०४-१-१२) इति डीपो निषेधे “वनोरच" (अष्टा०स०४-१-७) इति रेफोपि न भवति तथेत्यर्थः । भाष्ये त्व. भ्युपेत्यापि समाहितम् "इत्त्वे कृतेऽपि वृद्धिर्भविष्यात" इति । युका हि आकारस्य वृद्धिर्बाध्यते न विकारस्यापीति भावः । 'जग्मिवान्' इत्यत्र क्कसोः कित्त्वनिषेधं वारयितुं त्वाग्रह इति शङ्कते-वस्वर्थमिति । दूषयतिकिदतिदेशादिति। औपदेशिकस्य निषेधेप्यातिदेशिकेन सिद्धम्। तदनिषेधस्य शापितत्त्वादिति भावः।स्यादेतत्-संयोगान्तेष्वातिदेशिककित्त्वाभावादोप. देशिकमेव शरणम् । अओ 'आजिवान्' इति यथा। अत्राहुः-आनुपूास्सिदम् । नलोपे कृते द्विवंचने एकादेशे च "वस्वेकाज" (अष्टा सु०७-२-६७) इतीट् । कृतद्विर्वचनानामेकाचामिति सिद्धान्तात् । न चेदानी कित्त्वप्र. तिषेधः, उपजीव्यविरोधात् । कित्ये हि प्रतिषिद्धे नलोपनिवृत्तौ द्विहरुत्वान्नुटि एकाचत्वाभावादिडेव नावतिष्ठेत । किञ्च कसोश्छान्दसत्वा: सार्वधातुकत्वे "सार्वधातुकमपित्" (अष्टा०स०१-२-४) इति ङित्वासिद्धम् । एवं स्थिते सिद्धान्तमाह-गृहोतिरिति । किनिवृत्यर्थ क्त्वाग्रहणमित्यर्थः । तितुत्रेष्वग्रहादीनामितीट् । कित्त्वात्संप्रसारणम् । एवं "श्च कौटिल्याल्पीभावयोः" (भ्वा०प०१८६) निकुचिंतिः, कित्त्वान्नलोपः । उपनिहितिः, कित्त्वान्न गुणः । इदानीं क्त्वाग्रहणं प्रत्याचष्टे-फ्त्वाचेति । विग्रहादिति । योगविभागादित्यर्थः । अयं भावः-न सेनिष्ठाशीङित्यादित्रिसत्री पठित्वा "पृङः क्त्वाच" (अष्टा०स०१-२-२२) इत्यत्र योगो
Page #20
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
विभज्यते । पूङः परा सेनिष्ठा किन्न स्यात् । ततः त्वा च सेटे किन्नेत्यनुवर्तते पूङ इति निवृत्तम् । एवं चैकं क्त्वाग्रहणं प्रत्याख्यातम् । योगविभागस्तु पूर्वमेकसत्रेण सह निर्मातव्यः ।
निष्ठाशीस्विदिमिदिश्विदिधृषः [अष्टा०स०१-२-१९] । एभ्यः परा सेनिष्ठाकिन्न स्यात् । शयितः, शयितवान् । अनुबन्धनिर्देशो यङ्लुङ. निवृत्त्यर्थः । शेश्यितः, शेश्यितवान् । “एरनेकाचः" (अष्टा स०६-४-२२) इति यण् । निविदा स्नेहनमोचनयोः (भ्वा० आ०७४४)। भ्वादिः । प्रस्वेदितः, प्रस्वेदितवान् । यस्तु "विदा गात्रप्रक्षरणे" (दि०प०११८८) इति दिवादिरभित् स नेह गृह्यते । मिद्भिः साहचर्यात् । "प्रिमिटा स्नेहने" (भ्वा०आ०७४३)। प्रमेदितः, प्रमेदितवान् । “निविदा स्नेहनमोचनयोः" दि०प०१२४५) इति दिवादि द्यते न तु "निविदा अव्यक्ते शब्दे' (भ्वा०प०९७८) इति भ्वादिरपि, मिदिना साहच. यादिति हरदत्तस्तच्चिन्त्यम् । भ्वादिष्वपि मिदेः पठ्य मानत्वात् । तस्मादविशेषादुभयोग्रहणं न्याय्यम् । प्रक्ष्वेदितः, प्रक्ष्वेदितवान् । प्रध. षितः प्रधर्षितवान् । सेट् किम् ? स्विन्नः, स्विनवोन् । “आदितश्त्र" (अष्टा०स०७-२-१६) इतीनिषेधः । “विभाषा भावादिकर्मणोः" इति पक्षेऽभ्यनुज्ञायते । स कित्त्वप्रतिषेधस्य विषयः ।
मृषस्तितिक्षायाम् [अष्टा०स०१-२-२०] । सेनिष्ठा किन्न स्यात् । मर्षितः, मर्षितवान् । क्षमायां किम् ? अपमृषितं बाक्यम् । अविस्पष्टमित्यर्थः । तितिक्षाग्रहणं झापकं भीमसेनादिकृतोर्थनिर्देश उदाहरणमात्र न तु परिसंख्येति। __उदुप्रधाद्भावादिकर्मणोरन्यतरस्याम् [अष्टा०स०१-२-२१] । उकारो. पधाद्धातोः परा भावादिकर्मणोविहिता सेण निष्ठा वा किन्न स्यात् । धुतितम्, द्योतितम् । मुदितं, मोदितं साधुना । प्रद्युतितः, प्रद्योतितः । प्रमुदितः, प्रमोदितस्साधुः । उदुपधात्किम् ? किटितम् , खिटितम् । भा वेत्यादि किम् ? रुचितङ्कार्षापणम् । सेट किम् ? क्रुष्टम् । "उदुपच्छिपः" इति भाष्यम् । शब्विकरणेभ्य एवेष्यत इत्यर्थः । नेह-"गुधपरिवेष्टने" (दि०प०११२०) दिवादिः । गुधितम् ।
पूङः क्त्वा च [अष्टा०स०१-२-२२] । पूङः परे सेटक्वानिष्ठे किती न स्तः। नित्योयं योगः विभाषयोर्मध्ये पाठात् । पवितः, पवितवान् , पवित्वा । "क्लिशः क्त्वानिष्ठयोः" (अष्टा०स०७-२-५०) “पूङश्च" (अष्टा० स०७-२-५१) इतीट् । “नक्त्वासेट" (अष्टा०स०१-२-१८) इति सिद्धे क्वाग्रहणं प्रागुक्तरीत्यायोगविभागेन तत्प्रत्याख्यानार्थम् । सत्ररीत्या
Page #21
--------------------------------------------------------------------------
________________
१२ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेतूत्तरार्थम् । तथा च भारद्वाजीयाः पठन्ति "नित्यमकित्त्वमिडायोः क्त्वा. ग्रहणमुत्तरार्थम्" इति । कात्यायनस्तु, इह सेडिति निवर्त्य विकल्पं चानुवर्त्य अनिट एव कित्त्वं विकल्प्य कित्त्वाभावे 'पवितः' पवित्वा' इत्या. दिसिद्धौ कित्त्वरक्षे "युकः किति" अटा स.७-४-११) इतीनिषेधात् 'पूतः' 'पृतवान्' इत्यादिसिद्धौ सत्याँ "पृश्च" अपा०स०७-२-५१) इति सत्रं प्रत्याचख्यौ उत्तरसो वाग्रहणं च । किन्त्वस्मिन्पक्षे उत्तरत्र सेड्ग्रहणं मण्डूकप्लुत्याऽनुवर्तनीयमिति क्लेशः । पूर्वकृतं क्वाप्रत्याख्यानं त्विदा। न सङ्गच्छते "मृडमृद" (अष्टा०स०१-२-७) इति ज्ञापकाद्वा न क्त्वासेडित्यर्थः साधनीय: । न च स्वपिप्रच्छिग्रहणादनिटकस्याप्य. कित्त्वं स्यादिति वाच्यम् तस्य सनर्थत्वात् । अन्यथा क्त्वः कित्त्वस्या वैयापत्तेश्चेति दिक । इदं त्ववधेयम् । “पूङः क्त्वाच" (अष्टा०स०१२-२२) इत्यत्र सानुबन्धनिर्हेशः स्पष्टार्थो न तु पूजो निवृत्यर्थः । तत्रेटो दुर्लभत्वात् । इविधौ पृङ एव निर्दियत्वात् । नापिय ङ्लुनिवृत्त्यर्थः । इड्विधावनुवन्धनिर्देशेन यङ्लुकि पूडो पोडभावात्ायत्त यङ्लुक्याधंधा तुकस्येडितोडस्त्येव। न च श्युकः किति" (अष्टा सू०७-४-११) इतीनिषेधः । तत्रैकाच इत्यनुवर्तनात् । उक्तं हि यविधौ वार्तिककृता, एका. चश्चेदुपग्रहादिति । एवं यङ्लनिवृत्यर्थमनुबन्धोच्चारणम् इति मतम् । अस्मिन् पक्षे पोपुवितः, पोपुवितवान् इति निष्ठायां भवति क्त्वायां तु गुणे 'पोपवित्वा' इत्येव । 'न क्त्वासेट" (अशाासू०१-२-१८) इति कित्त्वप्रतिषेधः । न च क्त्वाग्रहणसामयत्तस्यापि यङ्लकि प्रतिषेधः । तस्योत्तरार्थत्वात्। अनुबन्धनिद् शस्य च निष्टायां चरितार्थत्वात् । अत एव "क्त्वा च विग्रहात्' (कावा०) इति वार्तिक सङ्गच्छते। इह किश्चित् प्रपो इतीति न्यायेन प्रकृतप्युपयोगे हि तद्विरुध्येत । अत एव "क्त्वा. ग्रहणमुत्तरार्थम्" इति भारदाहायोक्तिरपि सङ्गच्छते इति दिक्।
नोपधात्थफान्ताद्वा [अष्टा०स०१-२-२३ । निष्ठेति निवृत्तं चानुकृ. तृत्वात् । न कारोपधात् थान्तात् फान्ताच्च परः सेट क्त्वा किन्न स्याद्वा । अथित्वा, ग्रन्थित्वा । गुफित्या, गुम्फित्वा । नोगधात् किम् ? "रिफ कत्थनादौ" (तु०प०१३०७) रेफित्वा । इह "रलो न्युएधान्" (अष्टा० सू०१-२-२६) इनि विकल्पोपि न प्रवर्तते । नोपधग्रहणसामथ्यांत । ननु "तृफ तुम्फ हिलायाम् । (तु०प०१३०८-९) मनाथ शुकारापधत्वात्
(१) हिंसागामिति चिन्त्यम. तृप्तापित्यस्य धातुपाठदर्शनात् । हिंसा यामिति तु तुफ तुम्फ धास्वोर्तितेऽर्थ इति तावेवात्र या बोध्यो।
Page #22
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे हस्वादिसंज्ञासूत्रम् ।
१३
नोपधग्रहणस्य व्यावयस्त्विति चेत्, मेत्रम्, अर्थित्वा, तृफित्वा, तृम्फित्वा, इति शव्द्यस्य नोपधग्रहणसत्वासत्वयोर विशिष्टत्वात् । सति हि तस्मिन् 'न क्त्वा सेद्” (अष्टा०सू०१-२-१८) इति प्रवृत्ते ऋदुपधस्य 'अर्फित्वा' इति भवति । नोपधस्य त्वस्मिन् विकल्पे तृफित्वा, तृम्फित्वः, इति । असत्यपि नोपधग्रहणे सर्वत्र प्रकृतविकल्पप्रवृत्तौ सत्यां तदेव रूपत्रयम् ।
वञ्चिलुंच्यृतश्च [अष्टा०सू०१-२-२४ ] | एभ्यः सेट् क्त्वा न कित् स्याद्वा । " वञ्चु गतौ” (स्वा०प०९८९ ) स्वादिः । ' वञ्चु प्रलम्भने ' (चु० आ०१७०४) चुरादिः सोऽपि गृह्यते चुरादीनामनित्यण्यन्तत्वात् । वचित्वा, वञ्चित्वा । "उदितोवा" (अ०सू०७ - ३-५६ ) इति वेट् । इडभावे तु कित्त्वमस्त्येव । वक्त्वा । "लुच अपनयने” (स्वा०प०१८७) । लुचित्वा, लुञ्चित्वा । "ऋतेरीयङ्" [ अष्टा०सू० - १ - २९] आर्धधातुके विकल्पितः । तदभावे ऋतित्वा अर्तित्वा । सूत्रे उच्चारणार्थ इकारो चिलुञ्चति न त्विक् नलोपप्रसङ्गात् ऋदिति धातुरेव गृह्यते । न तु ऋदन्ताः पूर्वसूत्रेन्तग्रहणेनेह प्रकरणे यत्नं विना तदन्तविधिर्नेति ज्ञापितत्वात् ।
तृषमृषिकृषेः काश्यपस्य । (अष्टा०सू०१-२-२५) एभ्यः सेट् क्त्वा किद्वा स्यात् । काश्यपग्रहणं पूजार्थ, वेतिपक्रमात् । "न क्त्वा सेट्” (अष्टा०सू०१-२-१८) इति निषेधे प्राप्ते विकल्पोयम् । " तृष पिपासायाम् " (दि००१२२९) तृषित्वा तर्षित्वा । "मृष तितिक्षायाम्" (दि०३०९१६४ ) मृ षित्वा मर्षित्वा । "कृश तनूकरणे" ( दि०प०१२२८) कृशित्वा, कशित्वा । न्यासग्रन्थे तु "कृष विलेखने" (भ्वा०प०९९०) इति क्वाचि• कः प्रमादपाठः । अनिट्त्वात् ।
n
रलो व्युपधाद्धलादेः सञ्ध (अष्टा०सू०१-२-२६) उश्च इश्व घी ते उपधे यस्य तस्माद्धलादेरलन्तात् परा क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा द्योतित्वा दिद्युतिषते दिद्योतिषते । "धुतिस्वाप्योः " ( अष्टा० सू०७ - ४-६७) इति सम्प्रसारणम् । रलः किम् ? देवित्वा, दिदेविषति । व्युपधात् किम् ? वर्तित्वा, विवर्त्तिषते । हलादेः किम् ? पषित्वा परिष पति । इह नित्यमपि द्वित्वं गुणेन बाध्यते ओणेर्ऋदित्करणेन सामान्यत उपधाकार्यस्य द्वित्वात्प्राबल्यशापनात् । सेट् किम् ? भुक्त्वा, बुभुक्षते । आदिग्रहणं स्पष्टार्थम् । व्युपधस्य हलन्तत्वाव्यभिचारात् ।
1
ऊकालोज्झस्वदीर्घप्लुतः । [ अष्टा०स०१-२-२७] ह्रस्वदीर्घप्लुत इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । ऊ इति त्रयाणां प्रश्लेषेण निर्देशः ।
1
Page #23
--------------------------------------------------------------------------
________________
१४ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेतत्र न तावदन्ते मात्रिकः । "विभाषा पृष्टप्रतिवचनेहः" (अष्टा०स०८२-९३) इति हेः प्लुतविधानात् । नापि मध्ये "सुपि च' [अष्टा०स० ७-३-१०२] इति दीर्घविधानात् । द्विमाशिकस्तु नान्ते । “ओमभ्यादाने" [अष्टा०सू०८-२-८७] इति प्लुतविधानात् परिशेषादेकमात्रद्विमात्रत्रिमाप्राणां क्रमः सिद्धः । यत्तु
____ "घित्त्वात्पूर्वम्भवेद् हुम्वः प्लुतोन्ते सन्धितो मतः”।
इति मैत्रेयः । तद्भाध्यादर्शनप्रयुक्तम् । यतः व्यत्यासे एकमात्रस्य हस्वत्वं त्रिमात्रस्य प्लुतत्वमित्येव दुर्लभमिति भगवतैव दृषितम् । "ईचाक्रवर्मणस्य" (अटा०सू०६-२-१३१) इत्यत्रेवेहापि सूत्र केचिद् ई इति प्लुतद्योतिकां लिपिं लिखन्ति । तत्प्रामादिकं, दीर्घस्यैवौनित्यात् । तदयमर्थः-उश्च ऊश्च ऊ ३ श्व वः कालः परिच्छेदको यस्य सोच्क्रमा. भूस्वादिसंशः स्यात्। संज्ञाप्रदेशः- "हस्वस्य गुणः" (अष्टा सू०७-३१०८) हे हरे "दी? कितः" (अष्टा०सू०७-४.-८३) पापच्यते । "वाक्य स्य टेः प्लुतः' (अष्टा०सू०८-२-८२) एहि कृष्ण ३ । स्यादेतत्-उकालोच्हस्व इति वाक्यार्थे ह्रस्वेनोकारेणापत्वात्सवर्णग्रहः म्यात्, मैवम्, एवं सति हस्त्रसंज्ञां न विदध्यात्, अच्संचयैव सिद्धः । तस्मात्संज्ञार• म्भसामर्थ्यानह सवर्णग्रहः । महासंज्ञाया अन्वर्थत्वाश कालशब्दसा. मर्थ्याच्च । “उरन्" इत्युक्तऽपि यथा-श्रुतेऽज्ग्रहण व्यर्थम् , उकार. म्याच्वाव्यभिचारात् । तेन सामर्थ्यादुसदृश इत्यर्थः। सादृश्यं चन स्थानतः, असम्भवात् । न यत्नतः, अव्यभिचारात् । परिशेषात्कालत एवेति सिद्ध कालग्रहणं गृह्यमाणेनैव परिच्छेदलाभार्थम् । "हस्वनद्याप" (अष्टा सू०७-१-५४) इत्यादिलिङ्गाच्च । यदि हि लुमत्संज्ञानां लोपसंज्ञेव दीर्घप्लुतसंज्ञयोर्हस्वसंत्रा व्यापिका तर्हि किं नद्यावग्रहणेन । न च नियमार्थः सः । विध्यर्थत्वे लाघवादिति दिक् । पद्वा 'अशब्दसंज्ञा' इत्यनुवर्त्य सप्तम्या विपरीणमय्य शब्दसंज्ञायां सवर्णग्रहणं नेति व्या. ख्येयम् । न चैवमुदात्तादिसंज्ञाविधावच्शब्दो न सवर्ण गृह्णीयादिति वाच्यम् । "वाक्यस्य टेः प्लुत उदात्तः" (अष्टा सू०८-२-८२) इति लिड्रेनाशब्दसंज्ञायामित्वस्यानित्यत्वात् ।। ___ अचश्च (अष्टा सू०१-२-२८)। यत्र ह्रस्वो दीर्घः प्लुत इति शब्दैरविधीयते तत्राच इति पदं पूरणीयम् । "इको गुणवृद्धी" (अष्टा०सु०११-३) इत्यनेन तुल्यमेतत् । न त्वलोन्त्यस्य शेषोपवादो वा । तेन "श. मामष्टानां दीर्घः" (अष्टा०सू०७-३-७४) इत्यत्र शमादिभिरचो विशेष. णात् 'शाम्यति' इत्यादि सिद्धम् । “हस्वो नपुंसके" (अष्टा०सू०१-२-४७)
Page #24
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्वादिसंज्ञासूत्रम् ।
१५
इत्यत्र त्वजन्तस्य प्रातिपदिकस्येति व्याख्यानात्, अलोन्त्यस्य ह्रस्वः । अतिरि, अतिनु । नेह - सुवाक् ब्राह्मणकुलम् । "वाक्यस्य टेः प्लुत उदान्तः” (अष्टा०सू०८-२-८२) अन टेरच इति व्याख्यानात् । अग्निचित्, सोमसुत् | अजित्यनुवृत्तिसामर्थ्यात्स्वसंज्ञया विधाने इति लभ्यते । नेहद्यौः, पन्थाः, सः ।
|
उच्चैरुदात्तः [अष्टा०सू०१-२- २९] ताल्वादिषु भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते तत्र ऊर्ध्वभागे निष्पन्नोऽजुदातसंज्ञः स्यात् । प्रदेशाः “आद्युदात्तश्च' (अष्टा०सू०३-१-३) इत्येवमादयः ।
नीचैरनुदात्तः (अष्टा०सू०१-२-३०) । स्पष्टम् | प्रदेशा "अनुदाचौ सुप्पितौ” (अष्टा०सू०३-१-४) इत्यादयः ।
समाहारः स्वरितः [ अप्राः सू०१-२-३१] । समाहृतिः समाहारः । उदात्तत्वानुदात्तत्वयोरज्धर्मयोर्मेलनम्, तद्वान् स्वरितसंज्ञः स्यात् । सूत्रे अर्शआद्यच् ।
तस्यादित उदात्तमर्धह्रस्वम् [अटा०सू०१-२-३२] | अर्द्धहस्वशब्देनार्द्धमात्रालक्ष्यते । प्रकृतत्त्वादेव सिद्धे तस्येति वचनेन दीर्घस्यापि स्वरितस्य ग्रहणात् । यद्रा-हस्वग्रहणमविवक्षितम् । तेन स्वरितस्यादौ अर्द्ध मात्रा अर्द्ध वा उदात्तं बोध्यम् । शिष्टं तु अनुदात्तं परिशेषात् । क्वचित्तु तस्य वाचनिकी एकश्रुतिः । तथा च बद्द्चप्रातिशाख्यम् । एकाक्षर समावेशे पूर्वयोः स्वरितः स्वरः । तस्यादात्ततरोदात्तादर्धमात्रार्द्धमेव वा ॥
अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् । उदात्तं वोच्यते किञ्चित् स्वरितं वाक्षरं परम् ॥ इति । पूर्वयोः उदात्तानुदात्तयोः । तस्य स्वरितस्य । अर्द्धमात्रा, उदात्तादुदात्ततरा स्वतन्त्रोदात्तादुच्चतरेत्यर्थः । अर्द्धमेव वेति द्वितीयव्याख्याभिप्रायम् । दीर्घप्लुतयोरनुरोधेनेदम् । सः शेषः । उदात्त. श्रुतिः स्यात् । किमविशेषेण ? नेत्याह-नचेदिति । उदात्तस्वरितपरं विहायेत्यर्थः । अत्रायं निष्कर्षः - स्वरितो द्विधा प्राकृतोऽप्राकृतश्च । तत्राद्यः“उदात्तादनुदात्तस्य" (अष्टा०सू०८ -४ - ६६ ) इति विहितः । तच्छेषस्यैकश्रुतिर्नियता । अग्निमीळे, प्रत्यग्ने, इत्यादि । गार्ग्यादिमते तु अत्राप्यनुदात्तः शेषः । द्वितीयस्तु सूत्रान्तरैविहितः । तस्याप्युत्सर्गत एकश्रुतिः शेषः । व्यचक्षयत्स्वः ते वर्धन्ते इति यथा । उदात्तस्वरितपरत्वे तु शेषोनुदात्तः- क्व वोश्वाः ३न्यध्न्यस्य । उदात्तपूर्वस्याप्राकृतस्य पूर्वरूप निष्पन्नस्य दीर्घस्याप्येवम् । न ये राः । उदात्तपूर्वस्य किम् ? पुन
Page #25
--------------------------------------------------------------------------
________________
१६
शब्दकौस्तुभप्रथमाध्यायद्वितीयादे प्रथमान्हिके
स्तेमैषाम् । अत्र विशेषमनुपदं वक्ष्यामः। पूर्वरूपनिष्पन्नस्य किम् ? अ. स्मिन्स्वे एतत् । अप्राकृतदीर्घान्तरे तु, ''मध्ये तु कम्पयेत्कम्यम्” (पो० शि०३०) इत्यादिवचनात् पूर्वोत्तरभागौ नीचौ मध्ये तूदात्तः । रथीरचे. ति । पुनस्तेरमास्त्रे परतत् । सर्वत्र च "समाहारः स्वरितः" (अष्टा०सू० १-२-३१) इति पाणिनीयं लक्षणं निर्बाधम् । "तस्यादितः" अष्टा०स० १-२-३२ इति विषयविवेकस्तु प्रायो वादो विशेषे शिक्षादिभिर्बाध्यत इति दिक। एवं स्थिते अर्धहस्वमित्यर्द्धमात्रोपलश्यते। ह्रस्वग्रहणमतन्त्रमिति वृत्तिग्रन्थः पूर्वापरितोषेणोत्तरवाक्यमवतार्य व्याख्येयः । अर्द्धमात्रादित उदात्ता अर्द्धमात्रा तु अनुदात्ता एकश्रुतिर्वेति वृत्तिग्रन्थोऽपि विषयभेदेन व्यवस्थया बोध्यः। उभयत्रापि हरदत्तग्रन्थो मूलापर्यालोचननिबन्धन इति सुधीभिराकलनीयम् । इत आरभ्य नवसूत्री इत उत्कृष्य "उदात्तादनुदात्तस्य स्वरितः" (अष्टा०सू०८-४-६६) इत्यस्मादुतरत्र पाठयेति प्राश्वः। तत्राव्यवधानपर्यन्तं नार्थ. किं तूत्तरत्वमात्रम् । “नोदात्तम्वरितोदयम्" (अष्टा सू०८-४-६७) इत्यत्र निषेध्यलाभानुरोधेन तदुत्तरत्र "अ अ" (अ. ष्टा०सू०८-४-६८) इत्यतः प्रागियं नवसूत्रीति फलितोर्थः। तेनाष्टमिकस्यापि स्वरितस्येदं विभागकथनम् । न्यरग्निं, येराः । उत्तरत्राप्युत्कर्षस्य प्रयोजनं तत्तत्सूत्रे वक्ष्यामः । उत्कर्षे लिङगं तु "देवब्रह्मणोः" (अ. ष्टान्सू०१-२-३८) इति सूत्रम् । नात्कर्ष विना देवब्रह्मणोः स्वरितो लभ्यते त्रिपादीस्थत्वेनासिद्धत्वात् । ततः स्वरितालारमिदङ्काण्डमिति स्थितम् ।
एकश्रुतिदूरात्संबुद्धौ (अष्टा०स०१-२-३३) । सम्बुद्धिःसम्बोधनम् अन्तर्भावितण्याद् बुधेः किन । दूरत्वं च प्राकृतप्रयत्नाधिकयलसा. पेक्षोञ्चारणवत्त्वम् । दूरादनुष्ठेयतया बोधनायां करणीभूतं वाक्यमेकश्रतिः स्यात् आगच्छ भो माणवक देवदत्ता ३। स्वराणामविभागेनावस्थानमेकश्रुतिः । अन्यस्य तु "वाक्यस्य टेः" (अष्टान्सू०८-२-८२) इति प्लुतेनापवादत्वादेकश्रुतिबाध्यते । एकश्रुतिप्लुताभ्यामवयवभेदेन वाक्ये समुच्चिताभ्यां दूरात्सम्बोधना द्योत्यते । दूरात्किम् ? । त्रैस्वर्यमेव । तत्र आउदात्तः "उपसर्गाश्चाभिवर्जम्" (फिन्सू०८१) इति फिट्सूत्रात् । गच्छेति तिनिघातः । भोशब्दो निपातत्वादाधुदात्तः शेषयोरामन्त्रितनिघातः । “एकवचनं सम्बुद्धिः” (अपा०स०२-३-४९) इति कृत्रिमा सम्बुद्धिनेह गृहाते । दूरादित्यपादानकारकान्वयाय क्रियाया एवाकाक्षितत्वात् । तेन 'आगच्छत ब्राह्मणाः' इत्यादावपि भवति ।
यज्ञकर्मण्य जपन्यूलसामसु । (अष्टान्सू०१-२-३४) यज्ञक्रियायां मंत्र एकश्रुतिः स्यात् जपादीन्वर्जयित्वा ।
Page #26
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे एकश्रुतिविधिसूत्रम् । अग्निर्मू दिवः ककुत्पतिः पृथिव्या अपम् । अपां रेतांसि जिन्वतोम् । ___ यज्ञकर्मणीरयुक्तस्वाध्यायकाले त्रैस्वर्यमेव। अजपेत्यादि किम्? ममा. ग्नेव!विहवेवस्तु। जपोनाम उपांशुप्रयोगो यथा जले निमग्नस्येत्याहुः। युक्तं चैतत्। “जप मानसे च" (भ्वा०प०३९७) इति धातोः "व्यधजपोर. नुपसर्गे" (अष्टा०सू०३-३-६१) इत्यपि जपशब्दनिष्पत्तेः । रूढश्चायमकरणमन्त्रेषु यत्र जपतीति कल्पसूत्रकृतां व्यवहारः। अत एव याजुषत्वादुपांशप्रयुज्यमानानामपि "इषेत्वा" इत्यादीनां जपत्वाभावादेकतिर्भवत्येव । शाखाछेदनादिकं प्रति तेषां करणत्वात् । अकरणीभूतो मन्त्र इत्यन्ये । न्यूखानाम षोडश ओकाराः तेषु प्रथमसप्तमत्रयोदशास्त्रय उदात्ताः त्रिमात्राश्च । इतरे त्रयोदशानुदात्ता अर्धोकाराः। एतश्चाश्वला. यनेन "चतुर्थेऽहनि" (ऋब्रा०) इति खण्डे स्फुटीकृतम् । वृत्तौ तु षडोझारा इति प्रायिकः पाठः तत्र षटत्वे मान्तत्त्वे च मूलान्तरं मृग्यम् । गीतिषु सामाख्येति जैमिनिः । एविश्वं समत्रिणं दह । विश्वमत्रिणं पाप्मानं सन्दहेति सम्बन्धः । पशब्दो गीतिपूरणः । निपात इत्यन्ये।।
उस्तरां वा वषट्कारः (अष्टा०स०१-२-३५)। यज्ञकर्मणि वषट्कार उच्चस्तरां वा स्यादेकश्रुतिर्वा । वषट्शब्देनात्र वौषट्शन्दो लक्ष्यते । तुल्यार्थत्वात् । द्वावपि हि देवतासम्प्रदानस्य दानस्य द्योतको । वौषडित्येव तु नोक्तम् । प्रतिपत्तिलाघवेऽपि मात्रागौरवात् । कारग्रहणं झा. पकं समुदायादपि कारप्रत्ययो भवतीति तेन एवकार इत्यादि सिद्धम् । उचैःशब्दोऽधिकरणप्रधानोऽपि तद्विशिष्टभवनक्रियायां वर्तते । तेन क्रियाप्रकर्षादामुप्रत्ययः । उदात्ततरो भवतीति फलितोर्थः । अहिप्रेष्यश्रौष. ड्वौषडावहानामादेः" (अष्टा-सू०८-२-९१) इति सूत्रेण वौषटशब्दस्यादेः प्लुत उदात्तो विहितस्तदपेक्षया अयमुदात्ततरोन्त्यस्य विधीयते । द्वयो. रप्ययमुदात्ततर इत्येके । तदा याज्यान्तापेक्षः प्रकर्षः । अन्ये तु स्वार्थिकस्तरबित्याहुः । तत्रोदात्तमात्रं प्रथमस्य सिद्धं द्वितीयस्यानेन वि. धीयते । अत्र प्रकर्षाविवक्षापक्ष एष प्रबलः । वषट्कारोन्त्यः । “सर्वश्रोच्चस्तराम्बलीयान् याज्यायाः" इति सूत्रितस्वात् । सोमस्याग्ने विही वौषट् । _ विभाषा छन्दसि (अष्टा०सू०१-२-३६) । छन्दसि एकश्रुतिर्वा स्यात् । पक्षे त्रैस्वर्यम् । सम्प्रदायाव्यवस्थितो विकल्पस्तेन बहुचानां स्वाध्या. यकाले संहितायान्त्रैस्वर्यमेव । ब्राह्मणे स्वेकश्रुतिः ।शाखान्तरेष्वपि यथासम्प्रदायं व्यवस्था। अत्र तन्धावृत्यादिना अछन्दसीति नाप्रश्लेषाद्भाषा. यामपि चिनको विकल्पो बोध्यः । तथा च "दाण्डिनायन" (अशासक शब्द. द्वितीय. 2
Page #27
--------------------------------------------------------------------------
________________
१८ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिके६-४-१७४) आदिसूत्रे भाष्यम्-"एकश्रुतिहि स्वरसर्वनामेत्यादि । अत पवाभियुकानां च विरुद्धस्वरकतत्पुरुषबहुव्रीह्याद्याश्रयणेन श्लिष्टकाव्या. दिनिर्माणं सङ्गडछते । “अलं बुसानां यात" इति "श्वेतो धावति" इति च अर्थवाक्यम् इति पस्पशान्ते भाष्यमपि । काव्यप्रकाशेऽपि वेद इव लोके स्वरो न विशेषाध्यवसायहेतुरिति । किमर्थं तर्हि "झल्युपोत्तमम्" (अष्टा० सू०६-१-१८०)"विभाषा भाषायाम्" (अष्टा०सू०६-१-२८१) इति सूत्रमिति बेत्, स्वर्येण प्रक्रमे पाक्षिकानुदात्तलाभायेति गृहाण । वेति प्रकृते विभाषाग्रहणं कुर्वन् सूत्रकारोऽपि तन्त्रादिकमभिप्रेति । यत्तु वृत्तिकन्मतं विभाषाग्रहणं "यज्ञकर्मणि' (अष्टा सू०१-२-३४) इत्यस्य निवृत्त्य. मिति, तश्चिन्त्यम् । "छन्दसि" इत्युक्तेऽपि तन्निवृत्तिसिद्धः। अन्यथा पूर्वसूत्रस्य निविषयत्वापत्तेः । न च जपादिषु सावकाशस्य परस्य पूर्वोऽपवाद इति वाच्यम् । एवं हि सति परत्रैव जपादिग्रहणं कुर्यात् किं नमा किश्च छन्दोग्रहणेन । एतेन ऊहितानामच्छन्दस्त्वात्तत्र सावकाशस्य मन्त्रेषु परेण बाधः स्यादिति हरदत्तोकं प्रत्युक्तम् । सिद्धान्तेऽपि अनू. हितेषु परत्वादस्य प्राप्तिमाशङ्कय यज्ञकर्मणीति कर्मग्रहणसामर्थ्यात्पूर्व स्यैव प्रवृत्तिरिति स्वोक्तिविरोधात् । यदपि हरदत्तेनोक्तम्, जपादिप. र्युदासेन मन्त्राणामेव ग्रहणमिति पक्षे विभाषाग्रहणं व्यर्थ स्यादिति । तदपि इन्द्रशत्रुप्रस्तावे दूषितमस्माभिः । यदपीह वृत्तिकृता 'अग्निमीळे' इत्याद्यप्येकश्रुतावुदाहृतं तत्सकलाध्यापकसम्प्रदायविरुद्धम् । छन्दोग्रहणवैयापादकश्च छन्दसि व्यवस्थितोऽन्यत्रैच्छिक इति विकल्पयो. वैषम्य सूचयितुं हि तत् । न च लोके विकल्पस्य वृत्तिकृतानुक्तत्वादसाम्प्रदायिकत्वं वाच्यम् । भाष्यादिसम्मतेरुकत्वात् "श्वेतः" इत्यादे. वृत्तिकृतापि तत्र तत्रोदाहृतत्वाश्च। इत इत्यस्य हि "उडिदम्" (अष्टा०सू० ६-१-१७१) इत्यन्तोदात्तता 'श्वेतः' इति तु एकोदात्तमिति कथं स्वरा नुसरणे तन्त्रं स्यादिति दिक् । ___ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः (अष्टा०स०१-२-३७)। सुब्रह्म ण्याख्ये निगदे "यज्ञकर्मणि" (अष्टा०स०१-२-३४) इति "विभाषा छन्दसि" (अष्टा०स०१-२-३६) इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्यो. दात्तश्च स्यात् । नितराद्यत इति निगदः । परप्रत्यायनार्थमुच्चेः पठ्य मानः पादबन्धरहितो यजुर्मन्नविशेषः । अपादबन्धे हि गदिर्वर्त्तते यथा गद्यमिति "नौगदनद' (अष्टा०स०३-३-६४) इति कर्मण्यप् । सुब्रह्मण्याशब्दो परित्यक्तस्वलिङ्ग एव तद्वति निगदे निरूढः । "सुब्रह्मण्योम् ३ इन्द्रागच्छ हरिव आगच्छ मेधातिथेमेष वृषणश्वम्य मेने गौरावरक.
Page #28
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे एकश्रुतिनिधिसूत्रम् । न्दिन्नहल्यायै जार कौशिक ब्राह्मण गौतमब्रुवाण श्व: सुस्यामागच्छ मघवन् सुब्रह्मणि साधुरिति यत् । तित्त्वात् स्वरितः तस्य टापा सहै. कादेशः स्वरितानुदात्तयोरान्तर्यात्स्वरितः । ततो निपातेन ओंशब्देन "ओमाङोश्च" (अष्टा सू०६-१-९५। इत्युदात्तस्वरितयोरेकादेशः स्व. रित एव । “एकादेश उदात्तेनोदात्तः" (अष्टा सू०८-२-५) इत्युदात्त. विधिस्तु नेह प्रवर्तते अनुदात्तस्येत्यनुवृत्तः । ततः "स्वरितस्य तूदात्तः" (अष्टान्सू०१-२-३७) इति प्रकृतसूत्रेणैवोदात्तः इति वृत्तिकारकैयटहरदसादयः । वस्तुतस्तु नेदं युक्तम् । “एकादेश उदात्तेन" (अष्टा सू०८-२-५) इत्यत्रानुदात्तानुवृत्ती प्रमाणाभावात् । 'कावरम्मरुतः' इत्यत्रोदात्तपाठा. च्च । अत एव प्रातिशाख्ये "उदात्तवत्येकीभावे उदात्तं सन्ध्यमक्षरमनुदात्तोदये पुनः स्वरितं स्वरितोपधे" इत्युक्तम् । इह हि पूर्वार्द्ध अनुदा. त्तग्रहणमकुर्वत उत्तरत्र च कुर्वतः पुनःशब्देन पूर्वान्वयभ्रमं वारयतः स्पष्ट एवोक्त आशयः । यत्तु "तस्यादित" (अष्टान्सू.१-२-३२) इति सूत्रे "स्वरितोदात्तार्थञ्च" (का०वा०) इति वार्तिके "यः सिद्धः स्वरितः सुब्रह्मण्योम्" इति भाष्यम्, तत्प्रौढिवादमात्र निष्कर्षे तु "देवब्रह्मणोः" (अष्टान्सू०१-२-३८) इतिवत् "स्वरितस्य तूदात्त" (अष्टा०सू०१-२-३७) इत्यपि नवसूयुत्कर्षनापकमेवेत्यवधेयम् । 'इन्द्र' इत्यामन्त्रितमाधुदा. तम् । आष्टमिको निघातस्तु भित्रवाक्यत्वान भवति । द्वितीयो वर्णोऽनुदात्तः । “उदात्तादनुदात्तस्य स्वरितः" (अष्टा सू०८-४-६६) तस्यानेनोदात्तः । न चास्मिन् कर्तव्ये स्वरितस्यासिद्धत्वम्, “पतत्काण्डमु. कृष्यते" इत्युक्त्वात् । अत एवास्मिन्नुदात्ते कृते शेषनिघातोपि न । यथोद्देशपक्षेप्यनुदात्तपरिभाषायां कर्तव्यायामसिद्धत्वेन वय॑मानाभावात। तेन द्वावप्युदात्तो। आदात्तः ततः परस्य "उदात्तादनुदासस्य स्वरितः" (अष्टा०सू०८-४-६६) इति स्वरितस्यानेनोदात्तः । छकाराकारोऽनदात्तः। न च तस्य "उदात्तादनुदात्तस्य' (अष्टान्सू०८-४-६६) इति स्वरितः शङ्कयः । प्रकरणोत्कर्षेणास्यासिद्धत्वात् । 'हरिव आगच्छा इत्यत्रोक्तप्रक्रियया चत्वार उदाताः । वकारच्छकारावनुदात्तौ । मेधातिथेरिति षष्ठ्यन्तस्य पराङ्गवद्भावः । आमन्त्रिताद्यदात्तः । धाशब्दस्य "उदात्तात्' (अष्टा०स०८-४-६६) इति स्वरितत्वे ऽनेनोदात्तः। ततश्चत्वारोऽनुदात्ताः । वृषेति पूर्ववद् द्वावुदातौ पश्चानुदासाः । "इत्याधीवतम्" (ऋ००) इति “अददा अर्भाम्" (ऋ०वे.) इति च मन्त्रावत्रानुसन्धेयौ । तेन पराङ्गवद्भावे उपजीव्यं सामर्थ्य स्फ. टीभवति । गीगा' इत्यत्र गौरवदयस्कर नीति विग्रहः । “सरो गौरो
Page #29
--------------------------------------------------------------------------
________________
२० शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेयथा पिब" इति मन्त्रवर्णात् । पूर्ववद् द्वावुदात्तौ ततस्त्रयोनुदात्ताः । अहेत्युदात्तौ। चत्वारोऽनुदात्ताः । कौशीत्युदात्तौ । चत्वारोऽनुदात्ताः । गौतेत्युदात्तौ। चत्वारोऽनुदात्ताः । श्व इत्युदात्तम् । सुत्यामित्यन्तोदात्तम्। "संज्ञायां समज" (अष्टा सू०३-३-९९) इति क्यपो विधाने उदात्त इत्य. नुवृत्तेः । आगेति द्वावुदात्तौ चत्वारोऽनुदात्ताः । अत्र वार्तिकानि
असावित्यन्तः (का०वा० ) । तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गाग्र्यो यजते । त्रिस्वरेण प्राप्त आधुदात्तोऽनेन बाध्यते। ___ अमुष्यत्यन्तः (काल्वा०) । षष्ठ्यन्तस्यापि प्राग्वत् । दाक्षेः पिता यजते।
स्यान्तस्योपोत्तमं च (कावा०) । चादन्तः । तेन द्वाबुदात्तो । गा. य॑स्य पिता यजते।
वा नामधेयस्य (काभ्वा०) । स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवत्तस्य पिता यजते !
देवब्रह्मगोरनुदासः [अष्टान्सू०९-२-३८] । "स्वरितस्य तदात्तः" (अ. शान्सू०२-२-३३) इति पूर्वसूत्रशेषस्यायमपवादः । देवब्रह्मणोः स्वरित. स्यानुदात्तः स्यात् सुब्रह्मण्यायाम् । देवा ब्रह्माण आगच्छत । द्वयोरप्या. मन्त्रितायुदात्तत्वे शेषनिघाते च "उदात्तादनुदात्तस्य स्वरितः" (अष्टा० सू०८-४-६६) तस्यानेनानुदात्तः। द्वितीयस्य आणमिको निघातस्तु न भ. पति "आमन्त्रितं पूर्वमविद्यमानवत्" [अष्टा०सू०८-१-७२] इति पदात्परत्वाभावात् । ततः प्राचीनपदस्य तु भित्रवाक्यस्थत्वात्।ये तु देवा ब्रह्माण इति सामानाधिकरण्येन व्याचक्षते । तन्मते "विभाषितं विशेषवचने" [अष्टा०सू०८-१-७४] बहुवचनमिति पक्षे विद्यमानतया द्वितीयस्य निघा. तः। प्रकृतसूत्रेण स्वरितनिघातस्तु वकारस्यैव । तथा च भाष्यम्-"देव. ब्रह्मणोरनुदात्तत्वमेके इच्छन्ति । देवा ब्रह्मागः इति द्विः पाठः । उदात्तौ द्वावेको वेति विकल्याभिप्रायेग । तत्र द्वितीययो प्रकृतसूत्रे ब्रह्मग्रहणं न कर्तव्यम्"।
स्वरितात्संहितायामनुदात्तानाम् [अठासू०१-२-३९] । स्वरिता' त्परेषामनुदात्तोनामेकश्रुतिः स्यात्संहितायाम् । इमं मे गङ्गे यमुने सर• स्वति । अनुदात्तानामिति जातौ बहुवचनम् । तेनैकस्य द्वयोश्च भवत्येव । संहिताग्रहणं झापकम-“अन्यत्र पनमोनिईशे कालो न व्यवधायकः" इति तेन "
तितिः (अया०स०८-१-२८) नि नमानः पदपाठेऽपि
Page #30
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे फिटसूत्राणि ।
२१ भवति । अग्निमीळे, पुरोहितमित्यादौ त्ववग्रहेऽपि भवत्येकश्रुतिः । यथा सन्धीयमानानामित्यतिदेशात् । इति शब्दात्परस्य तु "पुरुहूत इति पुरु. हूतः" इत्यादौ न भवति परिग्रहे त्वनार्षान्तादिति प्रातिशाख्ये विशेषवच. नात् । एवमन्वेतवा इत्यादावपि । “पद्यादींस्तु व्युदात्तानाम्" [ऋ०मा०] इतिनिषेधादिति दिक् । ___उदात्तस्वरितपरस्य सनतरः (अष्टा०सू०१-२-४०) । उदात्तस्वरितो परौ यस्मात्तथाभूतस्यानुदात्तस्य अनुदात्ततरः स्यात् । अग्निम् । कन्या । स्यादेतत् । "इमं मे" इति मन्त्रे शुतुद्रिशब्दस्य पादादित्वेन निघाताभा. वादाधुत्ततया तस्मिन्परे सरस्वतीतीकारस्य सनतर इष्यते एकश्रुतिरेव तु प्राप्नोति। नवसूच्या उत्कर्षेणासिद्धतया सन्नतरायोगात् । उक्तं हि-"प्र. वत्रासिद्ध नास्ति विप्रतिषेधोऽभावादुत्तरस्य'' इति । सत्यम् । “नमुने" (अष्टान्सू०८-२-३) इत्यत्र नेति योगविभागान दोषः। 'देवदत्तन्यङ् इत्यत्र तु "न्यधिच" (अष्टा सू०६-२-५३) इति पूर्वपदप्रकृतिस्वरे "उदा. तस्वरितयोर्यणः" (अष्टान्सू०८-२-४) इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रति नासिद्धः। प्रकरणे उत्कर्षात् ।।
स्वरसूत्रप्रसङ्गास्फिटसूत्राणि व्याख्यायन्तेफिषोन्त उदात्तः (फिन्सू०१)। फिष् इति प्रातिपदिकस्य प्राचां संज्ञा । फिषोन्त उदात्तः स्यात् । उचैः।
पाटलापालङ्काम्बासागरार्थानाम् (फि०सू०२) । एतदर्थानामन्त उदात्तः स्यात् । पाटला । “लयावन्ते" (फि.सू ०४२) इति प्राप्त । अपा. लङ्कः वृक्षविशेषः । इहापि प्राग्वत् । अम्बार्थः-माता । "उनर्वत्रन्तानाम्" (फि सू०३२) इत्यायुदात्ते प्राप्ते । सागरः-समुद्रः, "लघावन्ते" (फि०सू० ४२) इति प्राप्त ।
गेहार्थानामस्त्रियाम् (फि०सू०३)। गेहं-गृहम् । “नविषयस्य" फि० सू०२६) इति प्राप्ते । अस्त्रियां किम् ? शाला। अत एव पर्युदासानापकाच्छालाशन्द आधुदात्तः ।
गुदस्य च (फिन्सू०४) । अन्त उदात्तः स्यान्न तु स्त्रियाम् । गुदम् । अस्त्रियां किम् ? आन्त्रेभ्यस्ते गुदाभ्यः । “स्वाङ्गशिटामदन्तानाम्। (फि. १०२९) इत्यन्तरङ्गमायुदात्तत्वम् । ततष्टाप् । .
ध्यपूर्वस्य स्त्रीविषयस्य (फिन्सू०५) । नित्यत्रोलिङ्गस्य धकारयकार: पूर्वो योऽन्त्योऽच स उदात्तः । अन्तर्धा । "स्त्रीविषयवर्णनानाम्" इति प्राप्ते । छाया, माया, जाया। "यान्तस्थान्त्यात्पूर्वम्" (फि०स०६२) इत्यायुदासत्वे प्राते । खोति किम् ? बायम् । “बहिषष्टिलोपो यत्र
Page #31
--------------------------------------------------------------------------
________________
२२ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेचा (कावा० ) इति यजन्तत्वादाधुदात्तत्वम् । विषयग्रहण किम् ? इभ्या क्षत्रिया । “यतोऽनावः'' (अा.सू.६-१-२१३) इत्याधुदात्त इभ्य. शब्दः । क्षत्रियशदस्तु “यान्तस्याम्त्यात्पूर्वम् (फि-सू०६२) इति मध्योदात्तः। खान्तस्याश्मादेः (
फिसू०६) । नवम्, उखा, सुखम् , दुःखम् । नखस्य "स्वाङ्गशिटाम्" (फि०सू०२९) इत्याद्युदाते प्राप्ते। उखानाम पवा. ग्वादि पाकार्थ याज्ञिकैनिर्मितो भाण्डविशेषः । तस्य कृत्रिमत्वात् "खय्युः वर्ण कृत्रिमाख्यायेत्” (फि.सू०३१) इत्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुः. खयोः "नविषयस्य' (फि०स०२६) इति प्राप्ते । अश्मादेः किम् ? शिखा, मुखम् । मुखस्य "स्वाङ्गशिटाम्" (फि०स०२९) इति "नविषयस्य' (फि. सू०२६) इति वा आद्युदात्तत्वं शिखायास्तु दीर्घान्ततया "स्वाङ्गशिटाम्" (फि०स०२९) इत्यस्थाप्राप्तावपि अश्मादेरिति पर्युदासेनाद्युत्तत्वं प्राप्यते । तथा च (१) "शोङः खो निद्मस्वश्च" इति उणादिषु नित्त्वमुक्तम् । वस्तु. तस्तु तदेव शरणम् । “शको निधो ललाटास्थिन" (अको०३-३-१८) इति कोशादस्थिवाचकस्य "स्वाङ्गशिटाम्" (फि०सू०२९) इत्याधुदात्त. स्थाव्यावृस्या चरितार्थस्याश्मादेरित्यस्य झापकत्वायोगात् ।।
हिष्ठवरसरतिशत्यान्तानाम् (फि.सू०७)। एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः । नित्वा(२)दायुदाते प्राप्ते। बंहिष्ठरश्वैः सु. वृता रथेन यबंहिष्ठ नातिविदे इत्यादौ व्यत्ययादायुदात्तः । संवत्सरः। अव्ययपूर्वपदप्रकृतिस्वरो बाध्यते। सप्ततिः । अशीतिः । "लघावन्ते" (फि०स०४२) इति प्राप्ते। चत्वारिंशत् । इहापि प्राग्वत् । अभ्यूर्वानामभृथस्यायोः । अध्ययपूर्वपदप्रकृतिस्वरोत्र बाध्यते ।।
दक्षिणस्य साधौ (फि०सू०८) । अन्त उदात्तः स्यात् । साधौ किम् ? व्यवस्थायां सर्वनामतवा "स्वाङ्गशिटाम्' (फि०सं०२९) इत्याधुदाचो यथा स्यात् । अर्थान्तरे तु "लघावन्ते" (फि०स०४२) इति गुरुरुदासः। "दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु" इति कोशः।
स्वाडाख्यायामादिषु (फि-सू०९) । इह दक्षिणस्याद्यन्तौ पर्यायेण:वाती स्वादिक्षिणो बाहुः। आख्याग्रहणं किम् ? प्रत्यङ्मुखमासीनस्य वामपाणिर्दक्षिणो भवति ।
(१)मनु बापूणादिपुस्तकेषु "शीडोहस्वच" (उ०सू०७१२) इत्येव पाठा "शीलयोनि स्व" इति नास्ति इत्यरुचेरोह-वस्तुतस्विति ।
(२) नित्यादिमित्यम्" अशा०६-१-१९७. इत्यनेनेत्यर्थः ।
Page #32
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे फिटसूत्राणि । छन्दसि च (फिसू०१०]। अस्वाङ्गार्थमिदम् । दक्षिणः। इह पर्वायेणाधम्तायुदाती। कृष्णस्यामृगाख्या चेत् [
फिसू०११] । “वर्णानान्तण" (फि०स०३३) इत्याधुदात्ते प्राप्तेऽन्तोदात्तो विधीयते। कृष्णानां व्रीहीणाम् । कृष्णो मोनाव वृषभः । मृगाख्यायान्तु । कृष्णो र त्र्यै।
वा नामधेयस्य [फि०सू०१३] । कृष्णस्येत्येव । अयं वा कृष्णो अश्विना । कृष्ण ऋषिः। '
शुक्लगौरयोरादिः [फि०सू०१३] । नित्यमुदात्तः स्यादित्येके। वेत्य. नुवर्तत इति तु युक्तम् । “सरो गौरो यथा पिब"इत्यत्रान्तोदात्तदर्शनात्। ___ अङ्गष्टोदकबकवशानां छन्दस्यन्तः [फि०सू०१४] । अङ्गठस्य "स्वाङ्गॉनामकुर्षादीनाम्" (फिसू०५२) इति द्वितीयस्योदात्तत्वे प्राप्ते ऽन्तोदात्तार्थ आरम्भः। वशाग्रहणं नियमार्थम् । छन्दस्येवेति। तेन लोके आधुदात्ततेत्याहुः । __ पृष्ठस्य च [फिसू०१५] । छन्दस्यन्त उदासः स्यात् वा भाषायाम् । भाषामात्रविषयं सूत्रमिदं "प्रागेकादशभ्योऽछन्दसि" (अष्टा०सू०५३-४९) "झल्युपोत्तमम्" (अष्टा०सू०६-१-१८०) "विभाषा भाषायाम्" (अष्टान्सू०६-१-१८१) इत्यादिवत् । पृष्टम् ।
अर्जुनस्य तृणाख्या चेत् [फि०सू०१६] । "उनर्वनन्तानाम्' (फि. सू०३२) इत्याचुदात्तस्यापवादः। - अर्यस्य स्वाम्याख्या चेत् [फिसू०१७) । "यान्तस्यान्त्यात्पूर्वम्।' (फि सू०६२) इति "यतोऽनाव:' (अष्टा०सू०६-१-२१३) इति वाधुदारो प्राप्ते वचनम्। __आशाया अदिगाख्या चेत् [
फिसू०१८] । दिगाख्याव्यावृत्यर्थः मिदम् । अत एव शापकादिकपर्यायस्यायुदात्तता। इन्द्र माशाभ्यम्परि।
नक्षत्राणामाविषयाणाम् [फिसू०१९] । अन्त उदात्तः स्यात् । आ. श्लेषानुराधादीनां "लघावन्ते' (
फिसू०४२) इति प्राप्ते ज्येष्ठाविष्ठा. घनिष्ठानां इष्टनन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ।
न कुपूर्वस्य कृत्तिकाख्या चेत् [फिसू०२०] । अन्त उदासो न। कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप तद्विषयाणामिति व्याख्याय 'आर्यिका' 'बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः।
घृतादीनाञ्च [फि०सू०२१]। अन्त उदात्तः। घृतं मिमिले। भाकृतिगणोयम् ।
ज्येष्ठकनिष्ठयोग्यसि [फि०सू०२२] । अन्त उदासः स्यात् । ज्येष्ठ आह चमसा। कनिष्ठ ओह चतुरः। वयसि किम् ? ज्येष्ठः, श्रेष्ठः ।
Page #33
--------------------------------------------------------------------------
________________
२४ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हि केकनिष्ठोऽल्पिष्ठः । इह नित्त्वादाद्युदात्त एव । बिल्वतिष्ययोः स्वरितो वा [
फिसू०२३] । अनयोरन्तः स्वरितो वा स्यात् । पक्षे उदात्तः।
॥इति फिट्सत्रेषु प्रथमः पादः ॥ अयादिः प्राक् शकटेः [फि०स०२४] । अधिकारोऽयम् । “शकटिशकट्या" (फि-सू०६०.) इति यावत् ।
हस्वान्तस्य स्त्रीविषयस्य [फिन्सू०२५]। आदिरुदात्तः स्यात् । वलिः, तनुः।
नविषयस्थानिसन्तस्य [फिसू०२६] | वनेन वा पः । इसन्तस्य तु सापः। नप नपुंसकम् । - तृणधान्यानोश्च द्यषाम् [फि०सू०२७] । यवामित्यर्थः। कुशाः, काशाः, माषाः, तिलाः । बचान्तु गोधूमाः।
व्रः सङ्ख्यायाः (फि०सू०२८)। पञ्च, चतस्रः। स्वाङ्गशिटामदन्तोनाम् (फि००२९)। शिट् सर्वनाम । कर्णः, ओष्ठः, विश्वः।
प्राणिनां कुपूर्वम् (फि०सू०३०) । कवर्गात् पूर्वमादिरुदात्तः। काका, वृकः । शुकेषु मे । प्राणिनां किम् ? उदकम् । __ खय्युवर्ण कृत्रिमाख्या चेत् (फि०सू०३१)। खयि परे पूर्णमादि उव. र्णमुदात्तं स्यात् । कन्दुकः। ___ उनमन्तानाम् (फि०सू०३२)। उन-वरुणं वोरिशादसम्। स्व. सारं त्वा कृण । वन-पीवान मेषम् । .. वर्णानान्तणतिनितान्तानाम् (फिसू०३३)। आदिरुदासः। पतः, हरिणा, शितिः, पृश्निः, हरित् ।
हस्वान्तस्य हुस्वमनृत्ताच्छील्ये (फि००३४) । ऋदर्ज हस्वान्तस्या. दिभूतं हस्वमुदा स्वात् । मुनिः।
अक्षस्यादेवनस्य (फि०७०३५)। आदिरुदासः। तस्य नाक्षा । देवने तु अक्षर्मा दीव्यः। __ अर्धस्यासमद्योवने (फिन्सू०३६)। अर्यो प्रामस्य। समेऽशके तु अर्द्ध पिप्पल्याः। . पोतद्रवर्थानाम् (फि०स०३७)। आदिलदाराः। पीतदुः सरलः ।
प्रामादीनाच (फि०सू०३८) । प्रामः, सोमः, यामः। 'लुबन्तस्योपमेयनामयेषस्य (फिन्सू०३१)। स्फिगन्तस्येति पाठान्तर. म्। स्किगिति लुपः प्राचां संवा । चञ्चेव चधा।
Page #34
--------------------------------------------------------------------------
________________
२५
विधिशेषप्रकरणे फिटसूत्राणि। न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् (फिसू०४०।। एषामुपमेय. नानां नादिरुदात्तः । ताल इव तालः, मेरुरिव मेरुः, व्याघ्रः, सिंहः, महिषः । ___ राजविशेषस्य यमन्वा चत् (फिन्सू०४१) । यमन्वा वृद्धः । 'आज' उदाहरणम् । 'अङ्गाः' प्रत्युदाहरणम् ।
लघावन्ते द्वयोश्च बहषो गुरुः (फि०सू०४२) । अन्त लघौ वयोश्च लध्वोः सतोः बव्हष्कस्य गुरुरुदात्तः । कल्याणः, कोलाहलः । इह गुरूणां मध्ये य आदिरित्यर्थोभिप्रेतः। तेन 'वृषाकपिः' इत्यत्र व्यपदे. शिद्भावेनादिभूते सिद्धम् । तेन "वृषाकप्यग्नि" (अष्टा०सू०४-१-३७) इत्यादिसूत्रस्था वृत्यादिग्रन्था न विरुध्यन्ते । “क्रीतवत्परिमाणात्" (अष्टा०सू०४-३-१४६) इत्यादिसूत्रस्थभाज्यादिग्रन्थाश्च सगच्छन्ते । नन्वेवमपि"अन्यतो ङीष्" (अष्टा०सू०४-१-४०) इति सूत्रे सारङ्गकल्माष. शब्दौ "लघावन्ते'' (फि०स०४३) इत्यादिना मध्योदात्ताविति हरदत्तग्रन्थो विरुध्यत इति चेत् , सत्यम् । आदिशब्द इह नान्वेतीत्येव सारम् ।
स्त्रीविषयवर्णाक्षपूर्वाणाम् (फि०स०४३)। एषां त्रयाणामादिरुदात्तः। स्त्रीविषयः-मल्लिका । वर्ण:-श्यनी, हरिणी। अक्षुशब्दात् पूर्वोऽस्त्येषान्तेनुपूर्वाः। तरक्षुः।
शकुनीनाञ्च लघुपूर्वम् (फि००४४)। पूर्व लघुदात्तस्यात् । कुक्कुटः तित्तिरिः।
नर्तुप्राण्याख्यायाम् [फिल्म०४५] । यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः, कृकलासः।
धान्यानां च वृद्धशान्तानाम् (फि०सू०४६) । आदिरुदात्तः । कान्त:श्यामाकाः । षान्तः-माषाः ।
जनपदशब्दानामषान्तानाम् (फि०सू०४७) । केकयः।
हयादीनामसंयुक्तलान्तानामन्तः पूर्व वा (फि सु०४८) । हयिति हलः संज्ञा । पललम्, शललम् । हयादीनां किम् ? एकलः । असंयुकेति किम् ? मल्लः । इगतानाच द्वयषाम् (फिसू०४९)। आदिरुदात्तः । कृषिः ।
॥ इति द्वितीयः पादः॥ अथ द्वितीयं प्रागीषात् (फि सू०५०) । "ईषान्तस्य हयादेः" (फि सु०६६) इत्यतः प्राक् द्वितीयाधिकारः।
ज्यचां प्राङ् मकरात (फि.मू०५१)। "मकरवर ढ" (फि.सू.५७)
Page #35
--------------------------------------------------------------------------
________________
२६
कौस्तुभप्रथमाध्याय द्विनांग दे प्रथमान्हिके
-
मित्यधिक
इत्यतः प्राक् व्यच. स्वाङ्गानामकुर्वादीनाम् ' स्वात्र्यचां स्वाङ्गानां द्वितीयमु
९) । कवर्गरेफवकारादीन्वर्जयि ( । ललाटम् । कुर्वादीनान्तु - कपोलः,
रसना, वदनम् ।
मादीनाञ्च (फि०सू०५३) । इयां द्वितीयमुदात्तम् | मलयः, मकरः । शादीनां शाकानाम् ( फि०सू०५४) । शीतन्या, शतपुष्पा ।
पान्तानां गुर्वादीनाम ( कि०सू०५५) । पादपः, आतपः । लध्वादी• नान्तु-अनूपम | द्वद्यचान्तु -नीपम् ।
युतान्यण्यन्तानाम् (फि०सु०५६) । युतादित्रितयान्तानां द्वितीय. मुदात्तम् | युत-अयुतम् । अनि-धमनिः । अणि-विपणिः ।
21
मकरवरूढपारेवतवितस्तेक्ष्वाजिंद्राक्षाक लोमाकाष्ठा पेष्ठ काशीनामादिर्वा (फि०सू०५७) । एषामादिर्द्वितीयो वोदात्तः । मकरः, वरूढ इत्यादि । छन्दसि च (फि०सू०५८) । अमकराद्यर्थ आरम्भः ! लक्ष्यानुसारादादिर्द्वितीयं वोदात्तं ज्ञेयम् ।
कर्दमादीनाञ्च (फि०सु०५९) । आदिर्द्वितीयं वोदात्तम् | कर्द्दमः । 'न्धितेजनस्य ते वा (फि०सू०६०) । आदिर्द्वितीयन्तशब्दश्चेति 'येणोदात्ताः । सुगन्धितेजनाः ।
फलान्तानाम् (फि०सू०६१) आदिर्द्वितीयं वोदात्तम् । राजादन.
:
यान्तस्यान्त्यात् पूर्वम् (फि०सु०६२) । कुलायः । थान्तस्य च नालधुनी (फि०सू०६३) | नाशब्दो लघु च उदात्ते स्तः ।
सनाथा सभा ।
शिशुमारोदुंबरबलीवर्दोष्ट्रारपुरूरवसाञ्च (फि०सू०६४) । अन्त्यात् पूर्वमुदात्तं द्वितीयं वा ।
साङ्कायकापिल्यनासिक्यदार्वाघाट नाम् [फि०सु०६५ ]। द्वितीयमुदा त्तं वा । साङ्काश्यमित्यादि ।
ईषान्तस्य हयादेरादिर्वा [फि०सू०६६] । हयादेः-हलादेः । हलीषा । लाङ्गलीषा |
उशीर दाशेरकपालपलाल शैवालश्यामाकशारीरशावहृदय हिरण्या रण्यापत्यदेवराणाम् (फि०सू०६७) । एषामादिरुदात्तः स्यात् ।
महिष्यषाढ योजयेष्टकाख्या चेत् (फि०सू०६८) । आदिरुदात्तः । महि षी जाया । अषाढा उपदधाति ।
॥ इति तृतीयः पादः ॥
Page #36
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे फिटसूत्राणि । शकटिशकंट्योरक्षरमक्षरंपर्यायेण [फिसू०६९]। उदात्तम् । शकटिः । शकटी।
गोष्ठजस्य ब्राह्मणनामधेयस्य [फिसू०७०] । अक्षरमक्षरं क्रमेणो. दात्तम् । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्व. रेणान्तोदात्तः।
पारावतस्योपोत्तमवर्जम् [फि०सु०७१] । शेषं क्रमेणोदात्तम् । पा. रावतः । धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् [
फिस० ७२] । एषाचतुर्णा धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः, मुकेशः, कालवाला, स्थालीपाकः ।
कपिकेशहरिकेशयोश्छन्दसि [फि०सू०७३] । कपिकंशः, हरिकेशः । न्यस्वरौ स्वरितौ [फिसू०७४) । स्पष्टम् । न्यङ्कत्तानः । व्यच. क्षयत्स्वः ।
न्यर्बुदव्यल्कशयोरादिः (फि०सू०७५) । स्वरितः स्यात् । तिल्यशिक्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः[
फिसू०७६) स्वरितः स्यात् । तिलानां भवनं क्षेत्रं तिल्यम् । "यतोऽनावः" (अष्टा. सु०६-१-२१३) इति प्राप्ते ।
बिल्वभक्ष्यवीर्याणि च्छन्दसि [फि००७७] । अन्तस्वरितानि । स्वत्वसमसिमेत्यनुचानि [
फिसू०७८]। स्तररुत्वत्। उत त्वः पश्य. न् । नभन्तामन्यके समे । सिमस्मै ।।
सिमस्याथर्वणेन्त उदात्तः [फि०सू०७९] । अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवंपरं वा । तेन “वासस्तनुते सिमस्मै, इत्यूग्वेदेऽपि भवत्येव । निपाता आधुदाताः (फि०१०८०) । स्वाहा । उपसर्गाश्चाभिवर्जम [फि०स०८१] ।
एवादीनामन्तः [फि-सू०८२] । एवमादीनामिति पाठान्तरम् । एव, एवम, नूनम् । सह ते पुत्र सुरिभिः सह । षष्ठस्य तृतीये "सहस्य सः" (अष्टा सू०६-३-७८) इति प्रकरणे सहशब्द आद्यदात्त इति तु प्राचः। तचिन्स्यम् । __घाचादीनामुभावुदात्तौ फिसू०८३]। उभौग्रहणं "अनुदात्तं पदमेक वर्जर" [अष्टा०स०६-२-१५८] इत्यस्य बाधाय ।
चादयोऽनुदानाः [फि०-८४] । स्पष्टम् । यथेति पादान्ते [फि००८५] । तन्नेमिमुभवो यथा । पादान्त किम् ?
Page #37
--------------------------------------------------------------------------
________________
शब्दकौस्तुभ प्रथमाध्याय द्वितीयपादे प्रथमान्हिके
२८
यथा नो अदितिः करत् ।
प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः [फि०सु०८६ ] | पटुपटुः । शेषं सर्वमनुदात्तम् [ फि०सू०८७] । शेषं नित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रायम् । दिवे दिवे ।
॥ इति शान्तनवाचार्यप्रणीतेषु फिट्सूत्रेषु तुरीयः पादः ॥ प्रासङ्गिकं समाप्य प्रकृतमनुसरामः
अपृक्त एकाल् प्रत्ययः (अष्टा०सु०१-२-४१) । एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् । संज्ञाप्रदेशा "वेरपृक्तस्य' (अष्टा०सू०६-१-६७) इत्यादयः । एकेति व्यर्थम् । 'निपात एकाच्' ( अटा० १-१-१४) इत्ये कग्रहणेन “वर्णग्रहणं जातिग्रहणम्" इति ज्ञापनेऽपि अल्ग्रहणसामर्थ्यादेवेह व्यक्तिपरत्वात् । किञ्च सुत्रमेवेदं व्यर्थम् । अपृक्तप्रदेशे वल्ग्रहणेनैव सिद्धेः । न च सुरां सुनोतीति सुरासुत्र तमाचक्षाण सुरा इत्यत्र धात्ववयवस्य सस्य लोपः स्यादिति वाच्यम् । प्रत्ययाप्रत्ययपरिभाषया गतार्थत्वात् विभक्तिसाहचर्याच्च । यथासूत्रारम्भेऽपि तिसाहचर्या - त्सेरपि तिङ एव ग्रहणात् 'अभैत्सीत्' इति सिचो न भवति । "वेरपृतस्य” (अष्टा०सू०६-१-६७ ) इत्यत्र तु वकारेकारयोरन्यतरमनुनासि कमाश्रित्यापृक्तग्रहणं प्रत्याख्यास्यत एव ।
"
तत्पुरुषः समानाधिकरणः कर्मधारयः (आष्टा०सु०१-२-४२) । समानाधिकरणावयवस्तत्पुरुषः कर्मधारयसंज्ञः स्यात् । संज्ञाप्रदेशाः "पुं वत्कर्मधारय” (अष्टा०सु०६- ३ - ४२ ) इत्यादयः । समानाधिकरणे पदे आश्रयत्वेन स्तोऽस्येति अर्शआद्यच् । यदि तु "पूर्वकालेक" (अष्टा०स० २-१-४९) इति प्रकरणस्यान्तं कर्मधारयश्चेति कृत्वा तत्पुरुषानुवृत्त्या प र्याये लब्धे चकारात् " गतिश्च” (अष्टा०सू०१-४-६०) इत्यादाविव समुश्चयः साध्यते तदेदं सूत्रं शक्यमकर्तुम् ।
―
.
प्रथम निर्दिष्टं समास उपसर्जनम् (अष्टा०सू०१-२-४३) । समासविधायकं शास्त्रं समासः, तादर्थ्यात् । समस्यतेऽनेनेति व्युत्पत्त्या वा । तत्र प्रथमया यन्निर्द्दिश्यते तदुपसर्जनं स्यात् । द्वितीया श्रितादिभिःकृष्णश्रितः । महासंज्ञाकरणमन्वर्थसंज्ञार्थम् । लोके प्रधानमुपसर्जनमाहुः । तेन राज्ञः कुमार्या राजकुमार्या इत्यत्रोभयोः " षष्ठी" (अष्टा० सू०२-२-८) इति सूत्रे प्रथमा निर्दिष्टत्वाविशेषेऽपि राजैवोपसर्जनं न तु कुमारी । तेन कुमारीशब्दस्य न पूर्वनिपातो न वा "गोस्त्रियोः" (अष्टा० सू०१-२-४८) इति इस्वः । न च राज्ञेः कुमारीति प्रथमान्तेनैव विग्रह इति भ्रमितव्यम् । मूलाभावात् तथा च "तत्पुरुषे तुल्यार्थतृतीयासम मी "
·
Page #38
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे उपसर्जन संज्ञाप्रकरणम् ।
(अष्टा०सू०६-२-२) इति सूत्रे परमे कारके परमेण कारकेणेत्यादावतिप्रसङ्गमाशङ्क्य लक्षणप्रतिपदोक्तपरिभाषाबलेन समाहितं भाष्ये । "अनेकमन्यपदार्थे'' (अष्टा०सू०२-२-२४) इति सूत्रेऽपि भाष्य कैयटयोः स्प ष्टमेतत् । प्रथमान्तेनैव विग्रह इति नियमो नास्तीति परिनिष्ठितविभ• क्त्यैव विग्रहस्योचितस्वाश्च । अत एव "पूरणगुण" (अष्टा०सु०२ - २ - ११ ) इति समानाधिकरणेन षष्ठीसमासनिषेधोऽपि सङ्गच्छते । अत एव च "एकविभक्तिचापूर्वनिपाते” [अष्टा०सू०१-२-४४] इत्यस्य विषयलाभः | स्यादेतत्-उक्तरीत्या सूत्रभाष्यादिस्वरसान्न्यायाच्च द्वितीयाद्यन्ततया परिनिष्ठितस्य प्रथमान्तेन विग्रहो नास्तीत्येवोच्यताम्, तत्किमुच्यते नि यमो नास्तीति ? सत्यम् । अस्ति तत्राप्यालम्बनम् । तथाहि - राजकुमा•
इत्यादेः परिनिष्ठितस्यार्थप्रदर्शनपरे लौकिकं विग्रहवाक्ये प्रकृतिभागमात्रं व्याख्येयं न तु समासोत्तरविभक्तिरपि । नहि षष्ठी षष्ठया व्याख्ये. या किन्त्वनुवादमात्रं तत् । तत्र प्रातिपदिकार्थमात्रव्याचिख्यासायां प्र. थमया विग्रहः केन वार्यते । अत एव -
२९
"हरीतकीं भुङ्क्ष्व राजन् मातेव हितकारिणीम्" ।
इत्यादिप्रयोगाः सङ्गच्छन्ते । मातेति प्रथमान्तेन समासे बाधकाभावात् । अत एव पचतीति पाकचकस्तं पाचकमित्याद्यपि सम्यगेवेति दिक् । तस्माद् द्वितीयाद्यन्तस्य परिनिष्ठितस्य प्रथमया परिनिष्ठितया वा विग्रहो न तु तदुभयभिन्नयेति निष्कर्षः । स्यादेतत्-यद्यन्वर्थसंज्ञयं 'याचकवृन्दारकः'गोगर्भिणी' इत्यादिषु विशेष्यस्य पूर्वनिपातो न स्यादिति चेत् । "वृन्दारकनागकुञ्जरैः पूज्ममानम्" ( अष्टा०सू०२-१-६२ ) " चतुष्पादां गर्भिण्या" ( अष्टा०सू०२-१-७१ ) इत्यादी विधिवाक्ये प्रथमानिर्देशस्यानन्यार्थत्वाददोषः । तस्मात्सति सम्भवं व्यवस्थापकमन्वर्थत्वमिति स्थितम् ।
एकविभक्ति चापूर्वनिपात (अष्टा०सु०९-२-४४) । अर्थाधिकारादिह समासार्थमलौकिकं विग्रहवाक्यं समासः । तत्र विशेष्यसमर्पके पदे प्र योगभेदादनेकविभक्तियुक्तेऽपि यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्या पूर्वनिपातेतरस्मिन्कार्ये । अतिक्रान्तो मालामतिमालः । इहातिक्रान्तमतिक्रान्तेनेत्यादिक्रमेण सकलविभक्तियोगेपि मालाशब्दस्य द्वितीया. नियमात् संज्ञायां सत्यां " गोस्त्रियोः " [अष्टा०सू०१-२-४८ ] इति हस्वः । एवं निष्कौशाम्बिरित्यादि । एकविभक्तावषष्ठयन्तवचनम् [का०वा०] ने. इ-अर्द्ध पिप्पल्या अर्द्धपिप्पली । नन्वेवं 'पञ्चखट्वी' न सिध्येत् । स. त्यम् । अत एव संशापूर्वकतया व्यवस्थितविभाषाश्रयणेन वार्द्धपिप्पलीं
Page #39
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्याद्वितीयपादे द्वितीयन्हिके
साधयित्वा “षष्ठयन्त" [का वा०] इति वार्तिकं नारब्धव्यमिति प्रामा. णिकाः । वस्तुतस्तु एकदेशिसमासविषयकोऽयं निषेधः । न चात्र प्रमाणाभावः । 'पश्चखट्वी' इति द्वितीयभाष्यस्य प्रमाणत्वात् । इति शब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीय पादे
प्रथममान्हिकम् ।
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (अष्टा० सु०१-२-४५) । डिस्था. दीन्यव्युत्पन्नान्युदाहरणम् । अव्युत्पत्तिपक्षस्य चेदमेव सापकम् । यत्तु व्युत्पत्तिपक्षेऽपि निपातार्थमनुकरणार्थ चेदमिति हरदत्तेनोकम् , तन्न । तत्राऽपि प्रकृत्यादिकल्पनसम्भवादिति बोध्यम् । वस्तुतस्तु 'बहुपटवः' इत्याद्यर्थमिदम् । न च तद्धितग्रहणे मत्वर्थलक्षणया निर्वाहः । 'पचत. कि' इत्यादावतिव्याप्तेः। अव्युत्पत्तिपक्षस्तु कमिग्रहणेन सिद्ध कंसन. हणेनैव प्राप्यः । शापिते च तत्राप्यनेनैव संशा सिध्यति । नन्वेतदेव शा. पकम् । बहुपूर्वे कृतार्थत्वादित्यवधेयम् । अर्थवकिम् ? घनं वनमित्याः दो प्रतिवर्ण संज्ञा मा भूत् । स्यादेतत्-विशिष्टरूपोपादानविषयतया अर्थवत्परिभाषाया इहाप्रवृत्तावपि अधातुरप्रत्यय इति पर्युदासादेव सि. द्धम । न च "अधीते 'यावकः' इत्यादौ इन्नो निरर्थकावपि धातुप्रत्ययो स्त इति वाच्यम् । अडादिव्यवस्थायै इङ एवार्थवत्वस्वीकारात् । स्वार्थिकानाच प्रकृत्यर्थनार्यवत्वात् । न चेदं कल्पनामात्रमिति वा. च्यम् । डिस्थादावपि तथात्वात् । उक्त हि-"अर्थवत्ता नोपपद्यते के. वलेनावचनात् सिद्धं त्वन्वयव्यतिरेकाभ्याम्" इति । कल्पिताभ्यामिः ति हि तदर्थः ! वस्तुतः पदस्फोटवाक्यस्फोटयोरेवार्थवत्वात् । सत्यम् । उत्तरार्थमर्थवद्ग्रहणं इह तु स्पष्टार्थम् । अधातुः किम् ? अहन् । नलो. पो मा भूत् । न च "सुपोधातु" (अष्टा सू०२-४-७१) इति धातुग्रहणात् धातोयं संक्षेति वाच्यम् । 'रोनायते' इत्यादी प्रत्ययान्ते धातुग्रहण. स्य चरितार्थत्वात् । अप्रत्ययः किम् ? 'पचति' इति तिपो माभूत् । सुपो. प्येवम् । न चैवन्तदन्तेषु अतिव्याप्तितादवस्थ्यम् । उत्तरसूत्रे तद्धितग्रह णस्य नियमार्थत्वात् । तद्धितान्तानामेव नत्वन्यप्रत्ययान्तानामिति । न च तत्रापि संझाविधित्वेन तदन्तग्रहणं दुर्लभमिति वाच्यम् । अर्थवदि. त्यनुवृत्तिसामर्थ्यात्तत्सिद्धेः । प्रशंसायां हि मतुप् । एकाभिावेन लौ. किकप्रयोगे प्रसिद्धत्वञ्च प्रशंसार्थः । अधातुप्रत्ययाविति सिद्धे नजद्वयो. पादानं स्पष्टार्थम् । महासंझाकरणं प्राचामनुरोधात् ।।
कृत्तचितसमासाश्च (अष्टा०सू०१-२-४६) । अर्थवन्त एते प्रातिपदि.
Page #40
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रातिपदिकसंक्षासूत्रम्।
३१
कसंज्ञाः स्युः । विशेषणसामर्थ्यात्तदन्तविधिः । न हि महत्स्वार्थायां वृत्ती कृतान्तद्धितानां चार्थोऽस्ति । भूतपूर्वगतिलवस्तु न प्रशस्तः सः । भित्, छित् । अत्राधातुरिति पर्युदासे प्राप्ते कर्ता, हर्ता, अत्र तद्धितान्तानामवेति नियमेन निरासे प्राप्ते. सन्निहितत्त्वाच्च कृद्रहणेन प्रागुक्तमेव बाध्यते न तु समासग्रहणकृतो नियमोऽपि । तेन कृद्रहणपरिभाषानुपस्थानात् 'मूलकेनोपदंशम् इति वाक्यस्य न भवति । ननु बाध्यसामान्यचिन्तायां समासनियमोऽपि बाध्येत । विशेषचिन्तायां तु मध्येपवादन्यायावतारात्तद्धितनियमोऽपि न बाध्येतेति चेत्, सत्यम् । आये एवेह पक्षः । न च वाक्येऽतिप्रसङ्गः । शब्दाधिकारमाश्रित्येहार्थ. वच्छन्देनैकार्थीभावविवक्षणात् । अतिशये मतुएस्मरणात् । बक्ष्यमाणरीत्या "अप्रत्यय" इति निषेधः प्रत्ययान्तपर इति पक्षे तु मध्येपवाद. न्यायात् सर्वेष्टसिद्धिः । अप्रत्यय इत्यस्य प्रत्याख्यानपक्षेऽपि पुरस्ताद. पवादन्यायादिष्टसिद्धिरिति दिक् । तद्धितः-औपगवः । अत्राऽनेन पूर्वेण वा संक्षा नियमविधीनां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति मत. भेदस्योक्तत्वात् । एवं समासेऽपि । न चासमर्थसमासेषु विध्यर्थ समा. सग्रहणमिति वाच्यम् । अर्थवद्रहणानुवृत्तेरुतत्वात् । असमर्थानां तर्हि कथं संशेति चेत, धर्मिग्राहकमानादेवेति गृहाण । “असूर्यललाटयो" (अष्टा०सू०३-२-३६) इत्यादिना हि समास उपपदे कृद्विधीयते । उपप. दश्च महासंज्ञाकरणबलाद्विभक्त्यन्तमेव । न चैवमपि स्त्रीप्रत्यये तदादि. नियमाभावात् 'राजकुमारी इत्यादी प्रत्ययान्ते विध्यर्थं तदिति वाच्यम् । अन्तरङ्गस्याऽपि हल्ङयादिलोपस्य लुग्विषये प्रवृत्त्या श्रूयमाण एव सुपि समासप्रवृत्तेः । अत एव 'गोमत्प्रियः' इत्यादौ नुमादयो नेति वक्ष्यते । तस्मात्प्रकृते समासग्रहणं नियमार्थ सद्वाक्यस्य सशां निवर्त. यतीति स्थितम् । नियमश्च सजातीयाऽपेक्षः । यत्र पूर्वो भागः पदमुत्त. रश्च प्रत्ययभिन्नः ताशस्य समुदायस्य चेत्स्यात्तर्हि समासस्यैवेति । षड्विधेऽपि समासे पूर्वभागस्य पदत्वाव्यभिचारात् । तेन बहुपूर्व स्यास्त्येव संक्षेति 'बहुपटवः' इति टकारस्योदात्तता लभ्यते । प्रथमस्थ जलो लुकिचितः सप्रकृतेर्बव्ह कजर्थम्' (का०वा०) इति चित्स्वरे कृते पुनर्विभक्त्युत्पत्तेः । अन्यथा तु जसेवोदात्तः स्यात् । उत्तरश्चेत्यादि किम् ? 'हरिषु' इत्यादेरनेन व्यावृत्तिर्मा भूत् । एवमस्तु, को दोष इति चेत् ? शृणु । तथासति 'जन्मवान्'इत्यादौ नद्धितान्ते विध्यर्थं तद्धित. ग्रहणं स्यात् 'राजानौ' इत्यादेस्तु प्रातिपदिकत्वं केन वार्यताम् । न ता. वदनेन नियमेन, पूर्वभागम्याग्दत्वात् । गापि तद्धितग्रहणेन, नस्योक्त
Page #41
--------------------------------------------------------------------------
________________
३२ शब्दकौस्तुभप्रथमाध्यायद्वितीयगदे द्वितीयान्हिकेरीत्या नियमार्थत्वायोगात् । न च "सुपोधातुप्रातिपदिकयोः" (अष्टा स० २-४ ७१) इति धातुग्रहणं प्रत्ययान्तानां प्रातिपदिकसंज्ञा नेति ज्ञापकमिति वाच्यम् । तस्य 'प्रासादीयति'इत्यादौ 'हरिषु'इतिवदप्रातिपदिके चरितार्थत्वात् । नापि उचावग्रहणं ज्ञापकम् । लिङ्गविशिष्टपरिभाषया सिद्धौ तस्यान्यार्थताया एव सिद्धान्तयिष्यमाणत्वात् । तस्मादुकमेव साधु । यद्यपि प्रकृतिप्रत्ययभावानापन्नसंघातविषयको नियम इत्यपि सुवचं तथापि "सरूप" (अष्टा०सू०१-२-६४) सत्रे समुदायाद्विभक्त्यु. त्पत्तिरिति ग्रन्थं योजयितुमिदं गौरवमातम् । निष्कर्षे तु तथैवास्तु । तथा च तद्धितग्रहणं नियमार्थमेव । भेदसंसर्गद्वारकमर्थवत्त्वमिति कै. यटस्याप्ययमेव भावः । भेदे परस्परपरिहारेण प्रयोगे सति यः संसर्ग: स्तद्वारकमित्यर्थात् न तु भेदः संसों वा द्वयं वा वाक्यार्थ इत्याश. येन तद्रन्थः । बहुचसमासयोरूप्यालामात् । यद्वा-"सात्पदाद्योः" (अष्टा०स०८-३-१११) इतिसातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे पूर्वसूत्रस्थं प्रत्ययग्रहणं सामथ्यात्तदन्तपरम् ! तद्धितग्रहणन्तु विध्यर्थमेव । स्यादेतत्-पक्षत्रयेऽपि राजपुरुषौ" इत्यादौ 'पुरुषो'इत्यादेः संज्ञा दुर्वाति प्रातिपदिकावयवत्वात्सुपो लुक् स्यादिति चन्मैवम् । जह स्वार्थायामानर्थक्यात् । अजहत्स्वार्थायामपि पूर्वपदविनिर्मुक्तस्य वि. शिष्टार्थविरहेण तत्सहितस्यैव विशिष्टार्थगमकत्वात् । प्रशंसायां हि मतुबित्युक्तम् । एवं 'घटपटी' इत्यादावपि मिलितयोरेव पदयोः सहभूतार्थता । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वाच्च । “घटौ'इत्यंशो नार्थवानिति । एतेनासमर्थसमासे दशदाडिमादिवदनर्धके विध्यर्थ स. मासग्रहणं किं न स्यादिति चोतं प्रत्युक्तम् । अर्थवद्रहणस्यहार्थताया एवोक्तत्वादिति दिक् । यदि तु नैयायिकरीत्या अर्थवत्त्वं वृत्तिमत्वं तश्च समासस्य नास्तीत्याश्रित्य समासग्रहणं विध्यर्थम् । तद्धितग्रहण. मपि तथा । अप्रत्यय इति तु प्रत्ययवारणार्थमित्याश्रीयते तथापि न क्षतिः । तद्धितग्रहणस्य तद्विशिएपरतामाश्रित्य 'बहुपटवः' इत्यस्य सुसाधत्वात् । किन्वस्मिन्पले सिद्धान्तविरोधः 'मलकेनोपदंशं"पचत. कि'इत्यत्रानिप्रसङ्गश्चेति यथास्थितमेवास्तु । इह प्रकरणे यथाश्रुताः प्राचां ग्रन्था दुष्टा पवेत्यवधयम् । निगतस्यानर्थकस्य प्रापिदिकसंज्ञा वक्तव्या येषां द्योत्योप्यों नास्ति तदर्थमिदम् । 'अवद्यति'। अनुक्तस. मुच्चयार्थाच्चकारान्सिद्धमिदम्। अनुकरणेषु तु अनुकरणेन सहाभेदवि. वक्षायामर्थववाभावान प्रातिपदिका, “भू सत्तायाम् (भ्वा०प०१) इति या । भेद विवक्षायां तु संज्ञा स्यादेव । “भुवो नग" [अासू०६-४
Page #42
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गोस्त्रियोर्हस्वविधिसूत्रम् ।
८८] इति यथा । न चाधातुरिति पर्युदासाऽपत्तिः । प्रकृतिवदनुकरणमित्यतिदेशस्यानित्यतयोवडंशे प्रवृत्तावपि संज्ञांशे अप्रवृत्तिसम्भवात् । एतश्च "कलक्” [मा०सू०२ ] सुत्रे उपपादितम् ।
इस्वो नपुंसके प्रातिपदिकस्य [अष्टा०सु०१-२-४७] । क्लांबे प्रातिपदिकस्याजन्तस्य ह्रस्वः स्यात् । श्रीपं कुलम् । प्रातिपदिकग्रहणसामर्थ्यानेह— काण्डे, कुड्ये । इह तु " अन्तादिवच्च" (अष्टा०सु०६ - १-८५ ) इत्यतिदेशेनाऽस्ति प्राप्तिः । न च द्विकपक्षे 'वारिणी' इति व्यावर्त्य कृतार्थतेति वाच्यम् । तत्रापि प्रातिपदिकमित्यस्यानुवृत्त्या सिद्धे साम धर्मस्य सुवचत्वात् । लक्ष्यानुरोधेन पक्षान्तरस्यैव सुग्रहत्वाच्च । यद्वा: कार्यकालपक्षं प्रत्ययान्तस्य नेति प्रसज्यप्रतिषेधं नाश्रित्य समाधेयम् । न चैवं 'ब्रह्मबन्धुः' इत्यत्र स्वादयो न स्युरिति वाच्यम् । लिङ्गविशिष्टपरिभाषया 'श्वश्रूः' इत्यत्रेव तत्सिद्धेः ।
1
गोस्त्रियोरुपसर्जनस्य (अष्टा०सू०१-२ - ४८ ) । उपसर्जनं यो गोशब्दस्ताहगेव च यत्स्त्रीप्रत्ययान्तन्तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । चित्रगुः, निष्कौशाम्बिः । उपसर्जनस्य किम् ? सुगौः, राजकु• मारी, स्त्रीशब्दः स्वर्यत । तेन स्त्र्यधिकारोक्तप्रत्ययग्रहणान्नेह – अति. लक्ष्मीः, अतिश्रीः । कथं 'गोकुलं' 'राजकुमारीपुत्र:' इति चेत्, शृणु । उपसर्जनस्य ससबन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधयते तदर्थं प्रति यद्युत्तरपदभूत योगस्त्रियोर्गुणभावस्तदेदं ह्रस्वत्वम् । न चेह नदस्ति | गोः कुलं प्रति गुणीभावेऽपि गां प्रत्यतथात्वात् । कुमार्याश्च पुत्रं प्रति गुणीभावेऽपि राजानं प्रत्यनथात्वात् । शास्त्रीयं चेहोपसर्जनं गृह्यते । कृत्रिमत्वात् । अत एव प्रत्ययमानस्य तथात्वासम्भवातदन्तलाभः । यदि तु लौकिकमुपसर्जनत्वं गृहीत्वा प्रत्यय एव विशे. येत तदा हरीतक्याः फलानि 'हरीतक्यः' इत्यत्रातिव्याप्तिः स्यात् । स्पष्टञ्श्चेदं “उपमानानि सामान्यत्रचनैः” (अष्टा०सू०२-१-५५) इति सूत्रे भाष्ये । अथ कथं राजकुमारीमतिक्रान्तः 'अतिराजकुमारिः' इति "अनुपसर्जने स्त्रीप्रत्यये तदादिनियमो न" इत्युक्ततया राजकुमारीशब्दस्य स्त्रीप्रत्ययान्तत्वादित्यवेहि । अतिक्रान्तम्प्रति ह्यसावुपसर्जनं न तु राजानम्प्रतीति विवेकः । अत्रत्यः कैयटस्त्वापातत इत्यवधेयम् । अत्र वार्तिकम् - "ईयसो बहुव्रीहौ पुंवद्वचनम्" (का०वा० ) इति । ईयसन्ताद्यः स्त्रीप्रत्ययस्तदन्तान्तो यो बहुव्रीहिस्तत्र ह्रस्वो नेत्यर्थः । “गोत्रयोः " (अष्टा०सु०१-२-४८) इति हस्वो विहितः । तत्र पुंसि यथा स्त्रीप्रत्ययान्तता नास्ति तथेह बोध्यमित्येवं वचनव्यक्त्या ह्रस्वाभावः पर्यवस्यति ।
शब्द. द्वितीय. 3
३३
Page #43
--------------------------------------------------------------------------
________________
३४
रायको हितीयपादे द्वितीयान्हिके
बरहः श्रेयस्यो यस्य स बहुझेयसी । "ईयसश्च" (अष्टा०सू०५-४-१५६) इति कब्निषेधः । बहुव्रीहौ नि ? अतिश्रेयसि ।
लुरूद्धितलुकि (अष्टा०सू०१-२-४९) । तद्धितलुकि सति उपसर्जन. स्त्रीप्रत्यस्य लुक् स्यात् । लुक् तावत्प्रत्ययस्यैव सम्भवति, न तु तद. न्तस्य । अत एवोपसर्जनमिह लौकिकम् न तु पूर्ववच्छास्त्रीयम्, अस म्भवात् । नहि प्रत्ययमात्रं शास्त्रीयमुपसर्जनम् । आमलक्याः फलमामलकम् । “नित्यं वृद्धशरादिभ्यः " (अष्टा०सु०४-३-१४ ) इति मयटः फले लुक् । ततोऽनेन गौरादिङीषो लुक् । इह पूर्वसूत्रस्यावकाशो 'निष्कौ शाम्बिः । अस्यावकाशः 'आमलकम्' । पञ्च इन्द्राण्यो देवता अस्य 'पञ्चेन्द्रः' इत्यत्र तु परत्वाल्लुगेव ।
इद्गोण्याः [अष्टा०सू०१-२-५० ] । गोण्या इत्स्यात्तद्धितलुकि । लुको ऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । दशगोणिः । गोणीशब्दः परिमाणवचन आवपनवचनश्च । तत्राद्यात् " प्राग्वतेष्ठञ् (अष्टा० सु०५-१-१८) द्वितीयादाहयष्ठक् । तयोरध्यर्धेति लुक् ।
लुपि युक्तवद्यतिवचने [अष्टा०सु०९-२-५१] । प्राचामिदं सूत्रं दूष णार्थे पाणिनिरनुवदति । लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालाः, क्षत्रियाः, पुल्लिङ्गबहुवचनविषयाः । तेषां निवासो जनपदः पञ्चालाः । पञ्चास्यापत्यानि बहूनि । “जनपदशब्दात् क्षत्रियादञ् " [ अष्टा०सू० ४-१-१६८] "ते तद्राजा ' [ अष्टा०सू०४-१-१७४] " तद्राजस्य बहुषु" [अष्ट।०स्०२-४-६२] ततः "तस्य निवासः” [अष्टा०सु०४-२-६९ ] इत्यणो " जनपदे लुप्" [अष्टा०सू०४-२-८१] लुपि किम् ? लवणस्सूपः । "संसृष्टे” [मष्टा०सू०४-४-२२] "लवणाल्लुक्” [ अष्टा०स्०४-४-२४] व्यक्तिवचने किम् ? हरीतकी पाला इत्यादिषु षष्ठया मतिदेशो मा भूत् । समासे उतरपदस्य बहुवचनस्य लुपः नियमार्थमिदम् । मथुरा पञ्चालाः । उत्तरपदस्यैवेति नियमान्नेह । पञ्चालमथुरे | बहुवचनस्य किम् ? गोद। ग्रामो मथुरा व गोदमथुराः । पूर्वपदस्य द्वित्वातिदेशः स्यादेव |
:
विशेषणानाञ्चाजातेः (अष्टा०सू०१-२-५२) । लुबर्थस्य विशेषणानामपि लिने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणी । बजातेः किम् ? पञ्चाला जनपदः । गौदौ ग्रामः । कथं तर्हि पञ्चाला जनपद रमणीय इति । जातिविशेषणत्वादिति गृहाण | पञ्चालविशेषकत्वे तु रमणीया इति भवत्येव । स्यादेतत्-लुपोन्यत्राऽपीदं तुल्यम्; 'बदरीवृक्षः' इत्यत्र सूक्ष्मकण्टका सूक्ष्मकण्टक इति प्रयोगयो.
1
Page #44
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे युकवद्भावप्रत्याख्यानसूत्रम् ।
विशेष्यभेदेन व्यवस्थास्वीकारात । तत्कि सूत्रेण ? सत्यम् । गुपचयः नानामाश्रयतो लिङ्गवचनानीति सूत्रार्थः । तथाहि-जातिभिवानि यानि विशेषणानि तेषां युक्तवत्, विशेष्यवदित्यर्थः । गुणवचनानामित्युद्धोपे ऽपि जातिभिन्नं गुणशब्दार्थः। तदुक्कममरण
स्त्रीदाराचैर्यद्विशेष्यं यारशैः प्रस्तुतं पदैः। गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः"[को०३-१-२] इति ।
सामान्ये नपुंसकस्य न्यायप्राप्तस्यापवादोऽयम् । तेन शुक्लं पटा इति न भवति । अनित्यश्चायमतिदेशः । “संस्कृतं मक्षाः" (अष्टा सु४२-१६) इत्यादिलिङ्गात । लक्ष्यानुरोधाद्यवस्था । हरीतक्याविषु व्य. क्तिः। नियमार्थमिदम् । तेन वचनं न युक्तवत् । हरीतक्याः फलानि हरीतक्यः । गौरादिङीषन्तात् "अनुदानादेश्व'' [अष्टा सू०४-३-१४०] इति लुए । खलतिकादिषु वचनम् । अयमपि नियम एव । खलनिकस्य पर्वतस्यादुरभवानि वनानि खलतिकं वनानि । खलतिको वरणादिः । मनुष्यलुपि प्रतिषेधः (कावा०) मनुष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव । चचा तृणमयः पुमान् । सब पवाऽभिरूपः । “संक्षायाम" [अष्टा०सू०५-३-८७] इति कन् "लुम्मनुः प्ये" [अष्टासू०५-३-९८] इति लुप् । चर्मविकारविशेषो वर्धिका. IN इव वर्धिका दर्शनीयः । तदिह द्वे वार्तिके आद्यस्य तृतीयन्तु द्वितीय स्यापवाद इति स्थितम् । इदं त्ववधेयम् । इहाभिरूपदर्शनीयपदयोर्वि. शेष्यलिने प्रतिषिद्धे नपुंसकत्वं प्राप्नोति । भाष्यकारीयोदाहरणसामनि भवतीति।
तदशिष्यं संज्ञाप्रमाणत्वात् [अ०सू०१-२-५३]। तत्-युक्तवा द्वचनम् । अशिष्यम्-अकर्तव्यम् । कुतः? संज्ञानां प्रमाणत्वात् । अयं भाव:-पश्चाला वरणा इत्यादयो न यौगिकाः। तभिवासेऽपि देशान्तरे अप्रयोगात् । “देशे तन्नानि" [अष्टा सु०ए०४-२-६७] इत्यधिकृत्यादर. भवे प्रत्ययविधानाच्च । किन्तु संहाशब्दा पते । ते च यल्लिङ्गसख्यतया लोके प्रसिद्धास्तत्र प्रमाणभूता एव । तदर्थप्रमाणका इत्यर्थः। यथा आपो दारा वनं गृहाः सिकता वर्षा इत्यादौ । नेह शाखेनुशासनमा. रम्यं तदर्थमपि मास्तु । किच
लुब्योगाप्रख्यानात् [अष्टा सू०१-२-१४] लुबप्यशिष्यः । “जनपदे लुप्" (अष्टा०सू० ४-२-८१) "वरणादिभ्यध' (मष्टा सू०४-२-८२) इति । कुतः? योगस्यावयवार्थस्येह अप्रत्यानात अप्रतीतेः । तथा चात्र "तस्य निवासः" (अष्टा०४-२-६९) "अदरभवश्व" (मष्टा०९८
Page #45
--------------------------------------------------------------------------
________________
३६
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे द्वितीयान्हिके
४-२-७०) इति तद्धितो नैवोत्पद्यते किं लुपो विधानेनेत्यर्थः ।
योगप्रमाणे च तदभावेऽदर्शनं स्यात् [ अष्टा०सू० १-२-६५ ] | च कारो ह्यर्थे । यदि हि योगस्यावयवार्थस्येदं प्रमाणं बोधकं स्यात्तदा तदभावे न दृश्येत । दृश्यते च सम्प्रति । विनैव क्षत्रिययोगं जनपदे पञ्चालशब्दः । न च भूतपूर्वगतिः । क्षत्रिययोगाद्देशे देशयोगाद्वा क्षत्रिये शब्द इत्यत्र विनिगमकाभावेन वैपरीत्यस्यापि सुवचत्वापत्तेरिति भावः । अतोऽक्षादिवन्नानार्था एवैते इति तत्त्वम् ।
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् [अष्टा०सु०१-२ - ५६ ] । प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमपि अशिष्यं कुतः ? अर्थस्य लोकत एव सिद्धेः । आख्यातस्य क्रियाप्रधानतया व्यभिचाराश्चेत्यर्थः ।
कालोपसर्जने च तुल्यम् [अष्टा०सू० १-२-५७ ] | अतीताया रात्रेः पश्चार्द्धन आगामिन्याः पूर्वार्द्धेन च सहितो दिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादिक्रमेण काल उपसर्जनं च पूर्वाचार्यैः परिभाषितं तत्रापि तुल्यम् । अशिष्यत्वं समानमित्यर्थः । लोकप्रसिद्धत्वादेवेति भावः ।
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् [ अष्टाऽसू० १-२-५८ ] ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः । एकोऽप्यर्थो वा बहुवदित्यतिदेशाद्विशेषणादपि सिद्धम् । बहूनां वचनं बहुवचनं प्रतिपादनमिति व्या• ख्यानाच्चातिदेशः फलितः ।
अस्मदो द्वयोश्च [अष्टा०सू० १-२-५९ ] | एकत्वे द्वित्वे च विवक्षि तेऽस्मदो बहुवचनं वा स्यात् । वयं वूमः । पक्षे अहं ब्रवीमि । आवां चूच इति वा । सविशेषणस्य प्रतिषेधः [का० वा०] । पटुरहं ब्रवीमि । कथं तर्हि "त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः” (वै०रा० २३) इति भर्तृहरिः । अश्रोशतत्वस्य विधेयत्वाद्भवत्येव । अनुवाद्यवि -शेषण परत्वात्प्रतिषेधस्येति हरवत्तः । भाष्ये त्वतत्सूत्रं प्रत्याख्यातम् । तथाहि महङ्कारावच्छिन्नेभ्यस्तानाञ्चक्षुरादीन्द्रियाणां वचादात्म्याद हमुलखगोचरता भेदाभेदप्रतीतिश्च । अहं शृणोमीति वन्मम श्रोत्रं शृणोतीत्यपि व्यवहारात् तत्र चक्षुरादीनां बहुत्वाद्भेदस्वातन्त्र्ययोर्वि वक्षायां 'वयं ब्रूमः' इति सिद्धम् । अभेदमात्रविवक्षायां तु एकवचनम् । न च गोणता । 'गौरोऽहम्' इत्यादीनां यावद्व्यवहारं बाधाभावात् । एतेन “पुष्यादिगुरावेकेषाम्” इति वृत्तिकारेण पठितमपि गतार्थम् । त्वं गुरु गुरव इत्यस्योक्तरीत्या सिद्धेः । अत एव "आचार्याः कथयन्ति" इत्यादि लौकिकप्रयोगोऽपि सङ्गच्छते ।
Page #46
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे द्वित्वातिदेशसूत्रम् ।
फल्गुनीप्रोष्ठपदानाच नक्षत्रे [अष्टा०सू०१-२-६०] । द्वयोरित्यनु. कर्षाद् द्वित्वं बहुत्वप्रयुक्त कार्य वा विधीयते । तेन विशेषणेऽपि सि. द्धम् । पूर्व फल्गुन्यौ पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे पूर्वाः प्रोष्ठपदाः । नक्षत्रे किम् ? फल्गुन्यौ माणविके। फल्गुन्योर्जाते इत्यर्थः । “फल्गु. न्यषाढाभ्यां टानौ” (काभ्वा०) इति टः। टिस्वान् ङोप । एकस्यान्तु तारायां नेमौ शब्दो प्रयुज्यते । उद्भूतावयवभेदं समुदाय एव निक ढत्वात् । सूत्रे तु नक्षत्रे इति प्रथमाद्विवचनं नक्षत्रेयद्यभिधीयते इत्यर्थात्।
छन्दसि पुनर्वस्वोरेकवचनम् [अष्टा०९०१-२-६१] । द्वयोरेकवचनं वा स्यात् । पुनर्वसुर्नक्षत्रमदितिर्देवता । पुनर्वसु वा। लोके तूभृताव. यवसमुदाय निरूढत्वाद् द्विवचनमेव । गाङ्गताविव दिवः पुनर्वसू ।
विशाखयोश्च [अष्टा०सू०१-२-६२] । प्राग्वत । विशाखा नक्षत्रमि. न्द्राग्नी देवता । पक्षे विशाखे । छन्दसीत्यनुवृत्तौके 'विशाखे' इत्येव । अमरस्तु-"राधाविशाखा" (अ०को०१-३-२२) इति प्रयुञ्जानो द्विवचः ननियमं नेच्छति । खुत्र तुदासीनम् ।
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् [अष्टा० सु० १-२-६३] । छन्दसीति न सम्बध्यते पूर्वत्र चकारेणानुकृष्टत्वात् । एतदर्थ एव हि पूर्वत्र योगविभागः । तिष्य पकः । पुनर्वसू दौ। तेषां द्वन्द्वो बव्हर्थः । तत्र बहुत्वं द्वित्ववद्भवतीत्यतिदेशोऽयम्। तिष्यपुन. र्वसु उदितौ। तिष्यपुनर्वसू इति किम् ? विशाखानुराधाः। नक्षत्रति किम् ? तिष्यपुनर्वसवो मागवकाः। तिष्यपुनर्वसुशब्दाभ्यां "नक्षत्रेण युक्तः कालः" (अष्टा०सू०४-२-३) इत्यण "लुबविशेषे" (अष्टा०२० ४-२-४) ततो जातार्थे "सन्धिवलादि" (अष्टा०पू०४-३-१६) सुत्रेणाण । तस्य "श्रविष्ठाफल्गुन्यनुराधा" (अष्टा सु०४-२-३४) इत्यादिना लुक् माणवकवृत्तिरयं द्वन्द्वो न तु नक्षत्रवृत्तिः । न चायं गौणः । यौगिकत्वात् । ननु नक्षत्रे इत्यनुवृत्या सिद्धमेतत् । किं पुनर्नक्षत्रग्रहणेन । अत्र भाष्यम्-"पर्यायाणामपि यथा स्यात्" इति। तस्याऽयं भावः-तिष्यपुनर्वस्वोः शब्दयोरभिधेये नक्षत्रे वर्तमानो यो नक्षत्रश.
दानां द्वन्द्व इति व्याख्यानात् । पुष्यपुनर्वसू सिध्यपुनर्वसु इत्यपि सिध्यतीति । स्यादेतत्-यथा भावे चाकर्मकेभ्यः" (अष्टा०स० ३-४-६९) इत्यकर्मकश्रुत्यान्तरङ्गं द्रव्यकर्म निषिध्यते न तु बहिरङ्ग कालादि कर्म तथान्तरङ्गस्य कालस्य व्यावृत्त्या अहवस्तिष्यपुनर्वसवोऽतिक्रान्ता इत्यादः सिद्धावपि माणवकस्य बहिरङ्गस्य व्यावृत्तये पुनर्नक्षत्रग्रहण. मस्तु । यद्वा-तिष्यपुनर्वस्वोरिति योगं विभज्य देशान्तरस्थमपि
Page #47
--------------------------------------------------------------------------
________________
३- शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे तृतीयान्हिकेतिव्यस्थ कार्य नक्षत्र एवेति व्याख्यास्यते । तेन "तिष्यपुष्ययोनक्षत्राणि यलोपः" (का वा०) इति सिद्धम् । तस्माद्वहिरव्यावृत्त्या योगविभागेन वा कृतार्थ नक्षत्रग्रहणं यं पर्यायग्रहणाथै स्यात् । उच्यते-अकर्मकशब्दः श्रुत्यैव कर्म व्यावर्चयन् मुख्यमन्तरङ्गमेव व्यावर्तयतीति युक्तम् । नक्षत्रशब्दस्तु स्वार्थार्पणप्रनाड्या अर्थान्तरं व्यावर्तयन्त्रवि शेषादुभौ व्यावर्तयतीति नाधं फलम् । नापि द्वितीयम् । पुण्यार्थवचः नस्यावश्यकत्त्वात् । अत एव पक्षद्वयेऽप्यपरितोषाद्भाप्ये पक्षान्तर मुक्तम् । द्वन्ध इति किम् ? यस्तिव्यस्तौ पुनर्वसू येषान्ते तिष्यपुनर्वसवः । तिप्यादय एव विपर्ययविषया इह बहुवीहिणोच्यन्ते। अतो भवत्ययं नक्षत्रसमासः न तु द्वन्द्वः । बहुवचनस्य किम् ? इदं तिष्यपुनर्वसु । सधै द्वन्द्वो विभाषयैकवत् । न्यायसिद्धं चेदम् । प्राण्यादीनां समा. हार एवेति हि नियमः। न तु विपरीतः। "चाथै द्वन्द्वः" (अष्टा सू०) २-२-२९) इति पृथग्विधानात् । प्रकृतसूत्रे बहुवचनग्रहणाचेति दिक् । इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीये पादे
द्वितीयमान्हिकम् ।
सरूपाणामेकशेष एकविभक्तो [अष्टा०सू०१-२-६४] । समानायां विभको यानि सरूपाण्येव दृष्टानि तेषां मध्ये एक एव शिष्यते । अनैमित्तिकत्वेनान्तरङ्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव उघन्ताबन्त. प्रातिपदिकानां प्रवते । हरिणी मृगी हरितवर्णा च, तयोः सह विव. क्षायां हरिण्यौ हरिण्यः। क्षितिक्षान्त्योः क्षमा । "वासोन सम्यक् क्षमा योश्च तस्मिन्" इति श्रीहर्षः, "श्रियो नरेन्द्रस्य निरीक्ष्य तम्य" इति च । "सकृच्छुतात्सकदर्थः प्रत्ययः" इति मते शब्दसारूप्येऽपि द्वन्द्वः स्यात् । अथाऽपि तन्त्रणानेकार्थताभ्युपगम्यते एवमपि सर्वत्र तन्त्रेणैव बोधनीयमिति नियमाभावात् पाक्षिको द्वन्द्वी दुर्वारः। आरब्धे वेक. शेषे सुबन्तद्वयविरहात् द्वन्द्वस्याप्राप्तिरेव फलिता भवति । अत एव एकशेषस्य छन्द्वापवादकतेत्युद्धोषः। “इको गुणवृद्धी" (अष्टान्सू०१-१-३) इत्यस्य "मलोन्त्य" (अष्टा सू० १-१-५२) अपवादकतेति पक्षेऽपवा.
शब्दस्येत्यमेव व्याख्यातत्त्वात् । अत एव 'घटी' 'घटा:' इत्यादीन्य. पाहोदाहरणानि । तत्रापि ऐच्छिकस्यानेकव्यक्तिबोधोइंश्यकस्यानेक. विशकलितशन्दप्रयोगस्य घटोऽयं घटोऽयमिति बहुशो दर्शनेन व. देव सहविवक्षायां 'घटौ' इत्यादिद्वन्द्वस्य दुर्वारस्वात् । एतेन “व्यथेषु
Page #48
--------------------------------------------------------------------------
________________
एक शेषप्रकरणे जिवनसूत्रम् ।
ai
सरूपाश्च
च मुक्तसंशयम्” (का०वा० ) इति वारिष्ट्रा नानार्थ एवेहोबाहर णमिति भ्राम्यन्तः परास्ताः । न च पदार्थतावच्छेदकभेदाभावाद् 'घटौ' इत्यादौ द्वन्द्वप्रसक्तिनेति वाच्यम्। "वार्गे द्वन्द्वः " ( अष्टा०सू० २-२-२९) इति सूत्रेण साहित्यमात्रे तद्विधानात् । तस्य चेतरेतरयोगद्वन्द्वे एकशेषे च विशेषणत्वं प्रयोगोपाधित्वं वा । समाहारद्वन्द्वे त प्राधान्येन भानमित्यन्यदेतत् । न चैवमपि 'घटकलशी' इत्यादि. द्वन्द्वापत्तिः । "विरूपाणामपि समानार्थानाम" (का० वा० ) इति वा . र्त्तिकेन एकशेषात् । वस्तुतस्तु सौत्र एवायमर्थः । रूप्यते बोध्यते इति रूपम्, अर्थः समानं रूपं येषामिति सरूपाः । "ज्योतिर्जनपद" (अष्टा०स० ६-३-८५ ) इति समानस्य सभावः । सरूपाश्च तेषामिति एकशेषेण व्याख्यानात् । न च स्वाङ्गे स्वव्यापारायोगः वाक्यापरिसमाप्तिन्यायादिति वाच्यम् । उद्देश्यतावच्छेदकरूपाक्रान्ततया " तुल्यास्यप्रयत्नम् " [ अष्टा०सू० १-१-९] इतिवत्स्वस्मिन्नपि प्रवृत्तेः । एतद्विषयविवेचनं तु "अइउण्" ( मा०सू० १) इत्यत्रैव कृतम् । अत एव जननीवाचिनो मातृशब्दस्य धान्यमापवाचिनस्तृजन्तस्य च एकशेषं निषेधुं प्रवृत्ते "मातृमात्रोः प्रतिषेधः सरूपत्वात्" (का० वा० ) इति वार्त्तिके स्वान्तर्गते मातृमात्रोरित्यत्रापि निषेधप्रवृत्तिः । नन्वर्थविशेषोपहितयोरेव तत्राऽनुवादः । अन्यथा जननीवाचिनोरपि निषेधापत्तेः । तत्कथं शब्दरूपपरे स्वान्तर्गते निषेधप्रवृत्तिरिति चेत्, "प्रकृतिवदनुकरणम्" इत्यतिदेशादिति गृहाण । सूत्रमतेतूत्तरसूत्र देव कारोऽत्राऽनुकृष्यते । तेन एकविभक्तौ यानि सरूपाण्येवेति व्याख्यानात्परिच्छेतृवाचिनश्च "अप्तृन्” (अष्टा०सू०६-४-११) इति सर्वनामस्थाने दीर्घविधानादसारूप्यादेकशेषाभावः । न च वाचनिकैकशेषविरहे ऽपि श्लिष्टरूपकस्थल इव तन्त्रन्यायाश्रयेण पाक्षिक एकशेषो मातृमात्रोः स्यादेवेति वाच्यम् । यान्येकविभक्तौ सरूपाण्येव तेषामेवैकशेष इति नियमात् । न चैवं 'घटघटौ' इति पाक्षिकं दुर्वारमिति वाच्यम् । तन्त्रावृत्त्याद्याश्रयणेन सरूपाणामेकशेष एवेत्य परनियमाश्रयणात् । तस्मात 'घटकुम्भौ' 'कुम्भकुम्भौ' 'मातृभ्यां' चेति पाक्षिकमनिष्टत्रितयं प्राप्तं सूत्रेणाऽनेन वार्यते । 'घट' इत्यादिसिद्धिस्तु स्यादेवैतद्विनापि हि । जातिपक्षे व्यक्तिपक्षेऽपीति निष्कर्ष संग्रहः । स्यादेतत् - देवदेव इत्यादावपि ठर्ह्येकशेषः प्राप्नोति । न च 'एकविभक्तौ' इत्यनेन तद्वारणम् । तस्य सारूप्योपलक्षणत्वादेकशेषस्य चानैमित्तिकत्त्वात् । अथ वक्ष्यमा णरीत्या एकशेषविशेषणतां ब्रूषे, तथाप्यनिस्तारः । देवदेव इत्यत्रापि
३९.
Page #49
--------------------------------------------------------------------------
________________
४०. शब्द कौस्तुभ प्रथमाध्यायद्वितीयपादे तृतीयान्हिके
षष्ठीसमासादुपरि एकविभक्तेः सत्वात् । अन्तर्वर्तिन्योस्तु लुका लुप्त त्वेन प्रत्ययलक्षणाभावात । अत्राहुः -- सहविवक्षायामेव एकशेषः । इतरेतरयोगद्वन्द्वस्य विषये इति यावत् । अत्र ह्यनेकस्यार्थस्य मिलितम्ये. तरान्वयः स तथाभूतो विषयः । उक्तञ्च --
"अनुस्यूतेव भिन्नानामेका प्रख्योपजायते । यदा सहविवक्षान्तामा हुर्द्वन्द्वैकशेषयोः” इति ।
अयञ्च विग्यनियमोऽभिधानवलाल्लभ्यते "वृद्धोयूना'' [ अष्टा०सू० १-२-६५] इत्यादिसूत्रेषु सहयोगे तृतीयायाः प्रयोगाञ्च । यद्वा -- पूर्वसूत्रात् 'द्वन्द्वे' इत्यनुवर्त्तते । अर्थाधिकाराश्चेतरेतरयोगद्वन्द्वावगमः | तेन द्वन्द्वे प्रसक्ते सतीति व्याख्यानादुक्तविषयनियमसिद्धिः । न च द्वन्द्वे कृते इत्येव व्याख्यायतामिति वाच्यम् । स्वरसमासान्तादिदोषप्रसङ्गेन "कृतद्वन्द्वानामेकशेषः" इति पक्षस्य दूषयिष्यमाणत्वात् । एतेन "सारवसारवोर्मिजः” इति श्रीहर्षप्रयोगोऽपि व्याख्यातः । सरख्यां भवाः सारवाः । ते च ते आरवसहिताश्चेति कर्मधारये सहविवक्षाविरहात् । "विद्वन्मानसराजहंस" इत्यादिश्लिष्टरूपके तु मानसमेव मानसमिति तन्त्रेण प्रयोगो न तु सौत्र एकशेषः । सहविवक्षाविरहात् । 'सारवः' इत्यत्राऽपि तथा स्यादिति चेत्, पक्षे एवमेव । तावताऽपि उभयप्रयोगस्य निर्वाह्यत्वात् । न चैवं समाहारद्वन्द्वविषये एकशेषानु शासनात्पाक्षिकं 'घटघटम्' इत्यादि दुर्वारमेवेति वाच्यम् । तत्राऽनभिः धानस्यैव शरणीकरणीयत्वात् । अस्तु वा तत्राप्येकशेषप्रवृत्तिः । न चैवं नपुंसकतापत्तिः। समाहारद्वन्द्व एव तदनुशासनात् । तथा च प्रत्यर्थ शब्दनिवेश इति पक्षे "न ब्राह्मणं हन्यात्" इत्यादौ सकलव्यक्तिसङ्ग्रहो भविष्यतीति प्रतिव्यक्तिलक्षणं नावर्तनीयम् । “एकवश्चास्यान्यतरस्याम्' [ अष्टा०सू०१-२-६९] इति ज्ञापकादेकशेषे कृते एकवद्भावो नेति तु तत्त्वम् । एकश्च एकश्च द्वौ च द्वौ चेत्यादौ तु द्वन्द्वैकशेष उभावपि अनभिधानेनैव वारणीयौ । उत्सर्गतः संख्याशब्देऽप्येवमेवेति बोध्यम् । 'विंशति' इत्यादौ त्वेकशेष इष्ट एवेति दिक् । एवं स्थिते सूत्रारंभपक्षेऽपि बहुशोऽनभिधानस्यैवाश्रयणादू 'घटघटौ” इ. त्यादावपि तथैवास्तु किं तन्निरासार्थे सूत्रारम्भेणेत्याशयेन भगवता एकशेषप्रकरणं प्रत्याख्यातम् । न चैवं 'पितरौ' इत्यत्र मातुः, 'श्वशुरौ' इत्यादौ श्वश्वादेश्व प्रतीतिः कथं स्यादिति वाच्यम् । एकशेषारम्भेऽपि तौल्यात् । यः शिष्यते स लुप्यमानार्थाभिधायीति चेत् तर्हि द्विवचनाचुपाधिविशेषपुरस्कारेण पित्रादिशब्दानामेव मात्रादौ शक्तिर्निरुदल -
Page #50
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे एकशेषप्रकरणम् । क्षणा चेति फलितोऽर्थः। तथा च लोकव्यवहारादेव तहसम्भवे न किञ्चिदनुपपनम् । न चैवं 'अग्निचित' इत्यादौ किबादयोऽपि प्रत्याख्या. यतामिति वाच्यम् । प्रत्ययलक्षणेन तुगागमप्रातिपदिकसंज्ञाद्यर्थ तदा. रम्भात् । तदेवं सरूपाणां विरूपाणां च सर्वमेकशेषं प्रत्याचक्षाणेनापि भगवता सरूपसूत्रमात्रं तु शास्त्रीये व्यवहारे संज्ञापरिभाषादिवद्विनापि सहविवक्षामेकशेषं विधातुं भविष्यतीत्याशयेन "द्विवचनचि" (अष्टा० सू०१-१-५९) इत्यत्र एकशेष इति भाष्येऽभिहितमिति दिक् । आर. भ्यमाणे तु सुत्रे यद्यपि षट् पक्षाः सम्भवन्ति तथापि तत्र त्रयो दुष्टा एव त्रयस्तु निर्दोषा इत्यवधेयम् । तथाहि-"पृथक सर्वेभ्यो विभक्तौ परत एकशेष: । "एकवचनान्तानां" च "अकृतद्वन्द्वानां वा" "सम. दायादेकविभक्ती वा "युगपदधिकरणवचने वा" "अनैमित्तिको वा" इति षट पक्षाः। तत्राद्ये एकशब्दः समानपर्यायस्तथा च वृक्ष स् वृक्ष स् इति स्थिते आद्ययोनिवृत्तौ स् वृक्ष स् इति स्थिते संयोगान्तस्य पदान्तस्य लोप इति व्याख्याने मध्यमस्य सोलापः । संयोगान्तं यत्पदं तदन्तस्येति व्याख्याने तु हल्ङयादिलोपः तत्रापि सुतिसीति प्रत्ययैः प्रकृतेराक्षेप इति पक्षे तु न कस्य चिल्लोपः । सर्वथाऽपीष्टरूपं न सिध्य. त्येव । आद्यन्तयोनिवृत्तौ तु स् वृक्ष स् स् इति स्यात् । परयोनिवृत्ती तु वृक्ष स् स् इति स्यात् । तथा वृक्षा अनित्या इत्यादावन्तसुप्रत्ययः श्रवणं स्यादिति दुष्ट एव प्रथमः पक्षः। द्वितीये तु वृक्ष स् इति सवि. भक्तिकस्यावस्थानात्, द्विवचनबहुवचनयोरनुत्पत्तिरेकवचनश्रवणश्च स्यात् । तृतीये तु द्वन्द्व इति अनुवयं अभिमतवाक्यार्थों यद्यपि लब्धं शक्यते तथापि अश्व अश्व औ इति स्थिते विभक्तयपेक्षाच्छेषात्पूर्वमा न्तरङ्गत्वात्समासान्तोदात्ते कृते यदि पूर्वशेषस्तर्हि सवानुदात्तं पदं स्यात । परशेषे त्वन्तोदात्तं स्यात् । इष्यते त्वाद्युदात्तम् । अशेः क्वनि न्युत्पादनात । “यो अश्वेभिर्वहते विभवोह्यश्वाः" इत्यादौ तथैव प्र. योगाच्च । किञ्च ऋक्च ऋक्च ऋचावित्यत्रान्तरङ्गत्वात "ऋक्प:" (अ. टा०स०५-४-७४) इति समासान्ते कृते विभक्तरकारेण व्यवधानादेक. शेषो न स्यात् । समासान्तो हि समासभक्तस्तमेव न व्यवदध्यात् । स्वरूपं तु व्यवदधात्येव । “समासार्थोत्तरपदस्यावयवः" इति भाष्यमतेऽपि विरूपत्वादेकशेषो दुर्लभः । "विरूपाणामपि समानार्थानाम्" ( का० वा०) इति तु यद्यपि प्राप्नोति तथापि पक्षे ऋव इत्यस्य शेषे टापि 'ऋचे' 'ऋचा' इत्याधपि स्यात् । एवं पथा पथौ इत्याद्यपि पक्षे स्यात् । अपि च 'करौ' 'कराः' इत्यादि न सिध्येत् । प्राण्यङ्गानां समा.
Page #51
--------------------------------------------------------------------------
________________
४२ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे तृतीयान्हिकेहार पवेति नियमात । अपि च 'सर्वेषाम् ' इत्यादौ "द्वन्द्वे च" ( अष्टा० सू०१-१-३१) "विभाषाजसि" ( अष्टा०सू०१-१-३२) इति प्रवर्तेत । मत एव विरूपैकशेषो न कृतद्वन्द्वानां तेषामित्यादौ "त्यदादीनिसर्वैः" (मष्टा सू०१-२-७२) इत्येकशेष सर्वनामत्वाभावप्रसङ्गाचदेवं त्रयः पक्षा दुष्टश इति स्थितम् । सिद्धान्तस्तु धा। तथाहि-राम राम राम इत्य. प्रावयवानामिव समुदायस्याप्येका प्रातिपदिकसंक्षा तावदस्ति । मि. लितनार्थवस्वात् । न चार्थवत्समुदायानां समासग्रहणं नियमार्थमित्यु. केः कथमेतदिति वाच्यम् ? नियमस्य सजातीयविषयकत्वेन यत्र समु. दाये पूर्वो भागः पदं तत्रैव प्रवृत्तः । अत एव 'बहुपटवः' इत्यत्र प्राति. पदिकत्वं भवत्येवेत्युक्तं "अर्थवत्" (अष्टासु०१-२-४५) सूत्रे । तथा वैकार्विचनन्यायन समुदायप्रातिपदिकादेव द्विवचनबहुवचनयोरु. स्पत्तिः । तावताप्यवयवानां संख्यान्वयेनानुग्रहसम्भवात् । तथा च समुदायादेकविभक्तौ परत एकशेषः । 'रामकृष्णौ' इत्यादौ तु यद्यप्युः करीत्या समुदायादेकविभकिः प्राप्ता तथापि द्वन्द्वविधावनेकं सुबन्तमि. स्यस्यानुवृत्त्या बाध्यते । अस्मिन्पक्षे मातृमानोरपि एकशेषः प्राप्तः । एकविभकावित्यस्यावृत्या एवकारस्य चानुकर्षणेन एकविभक्तो यानि सरूपाण्येवेति व्याख्यानान भवति । यद्वा-युगपदधिकरणवचनतायां द्विवचनबहुवचनान्तानामेकशेषः । द्वन्द्वोऽप्येवम् । अजहतस्वार्थायां हि वृत्तौ "रामकृष्णौ" इत्यादौ पूर्वपदमप्युभावभिधत्ते तावेवोत्तरपदमपि । न चान्यतरवैयर्थ्यम् । परस्परसमभिव्याहारणेवोभयार्थताध्यवसा. यात् । तथा च द्वन्द्ववृत्तेः प्रागेकैकार्थतावगमेऽपि वृत्तावुभयाभिधाना. प्रत्येक द्विवचनाद्युत्पत्तिः । एवमेकशेषवृत्तावपि परार्थाभिधानं वृत्ति रिति सिद्धान्तात् । तथा च रामश्च कृष्णश्चेति लौकिकवाक्यस्यादूर विप्रकर्षेण विग्रहतया प्रदर्शनेऽपि अलौकिकद्वन्द्वकशेषयोः प्रक्रियावा. क्ये राम औ कृष्ण औ इति प्रविशति । तथा च विभक्त्यन्तानामेकशे. षोऽपि निर्बाध एव । अथ वा उपक्रम एव यथा व्याख्यातं तद्रीत्या अ. नैमित्तिक एवैकशेषः । तथा च पक्षत्रयं स्थितं सिद्धान्ते । अत्रेदमव. धेयम्-उक्तपक्षत्रयमध्येऽपि समुदायादेकविभकाविति पक्षस्तावत् दुष्ट एव मातृमातरावित्यत्रातिप्रसङ्गं वारयितुं एकविभकाविषयस्य सरूपा. ज्येवेत्येतद्विशेषणतया आवश्यकत्वे स्थिते एकशेषविशेषविशेषणत्वा. योगात् । आवृत्तौ मानाभावात् फलाभावाच्च । न च 'पयः पयो जरयः ति' इत्यादिव्यावृत्तिः फलम् । सहाविवक्षायामित्यस्य द्वन्द्वग्रहणवले. नावश्यवाच्यत्वात् । अन्यथा 'पयः पयो नयति' इत्यत्र गौणमुल्यक.
Page #52
--------------------------------------------------------------------------
________________
विधिशेषप्रेकरणे एकशेषप्रकरणम् ।
४३ मणोरेकशेषापत्तः । 'देवदेवः' इत्यादावतिप्रसङ्गाच्च । प्रत्युत आवृत्त्यो. भयविशेषणत्वे 'भैक्षम् ' इति न सिध्येत् । तथा हि भिक्षा ३ आम् अ इति स्थिते "अन्तरङ्गानपि विधीन्बहिरङ्गोऽपि" इति लुकि कृते लुका लुप्ते प्रत्ययलक्षणविरहादेकशेषो न स्यात् तथा युगपदाधिकरणवचन. तापक्षोऽपि दुर्बलः । जहत्स्वार्थायां वृत्तौ तदयोगात् । तथा च द्वितीये भाग्यम् । सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा चेति । तच तत्रैव स्फुटीकरिष्यामः । तस्मात्प्रागुक्तषट्पक्षीमध्येऽनैमित्तिकत्वपक्ष एव प्रबलः । इतरे पश्चापि हेया इति तदभिप्रायकतयैव सुत्रं व्याख्यात. म् । 'पचति' इत्यादौ तु धातोर्द्वन्द्वादिप्रसक्तिरेव नास्ति यद्वाक्यशेषो मृग्येत । न च मिलितालडादिप्रसङ्गः । धातोरित्यक्त्वस्य विवक्षितत्वा. त् । न चैकस्मादेव कर्तृद्वये लद्वयं कर्तृबहुवे लकारबहुत्वश्च स्यादिति वाच्यम्। इष्टापत्तेः। "लस्य" (अष्टा सू०३-४-७७) इत्यत्र जातिवि. वक्षया लद्वयस्य तसादयः बहूनान्तु झिथादय इति सुवचत्वात् । वस्तु. तस्तु "वर्तमाने लट्" (अष्टा०सु०३-२-१२३) इत्यादी व्याकिनिष्ठैकत्वस्य विवक्षणान्न कश्चिदोषः । अत एव 'वृक्षं वृक्षं सिञ्चति' इत्यादौ नानक स्वाभिधानार्थ विभक्तिपरम्परा नेति दिक् । 'गर्गों' इत्यादावपि पितुरे. कत्वात्प्रकृतिरेकाप्रत्ययास्तु बहवः। सर्वेषां प्रकृत्यर्यान्विताभिधायित. या "विरूपाणामपि समानार्थानाम्' (का०वा०) इति गर्गयशम्दस्य शेषः । न च पक्षे यशब्दमात्रस्यापि तदापत्तिः। विकल्पस्याष्टदोषदुष्टः त्वात् । न च विनिगमकाभावः। "अणुरपि" इति न्यायेन स्पष्टप्रतिपत्ति. सामर्थ्यस्यैव विनिगमकत्वात् । यद्वा-यत्र इत्यपि व्यक्तयैक्यं विवक्षित तम् । प्रतिप्रधानञ्च गुणावृत्तिः। गार्यशब्दत्रयस्य चैकशेषः । उभयथा यजन्तं यदग्विति लुक् । न चैवं काश्यपस्य प्रतिकृतिः काश्यपः । ततः प्रतिकृतीनां सहविवक्षायां 'काश्यपाः' इत्यत्रापि अजन्तं बहुषु वर्तत इति लुक् स्यादिति वाच्यम् । “यस्कादिभ्यो गोत्रे" (अष्टा सू० २-४-६३) इत्यतो गोत्र इत्यनुवृत्तेः । यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं तथा हि "ऋषिप्रजन एव गोत्रं विवक्षितम्" इति "स्त्रीपुंसाभ्यां नमस्नो " (अष्टा सू०४-१-८७) इति सूत्रे कैयटः । तेन 'पौत्राः' 'दौहित्राः' इत्यत्र न लुगित्यवधेयम् । एतेन संख्या या कर्मभेद इत्यस्य व्युत्पादनाय प्रवृत्ते पृथक्त्वनिवेशात्संख्यया कर्मभे. दः स्यादित्यधिकरणे "सप्तदश प्राजापत्यान्" इत्युदाहृत्य
"किं त्वयं तद्धितान्तानामेकशेषः कृतो भवेत् । किंवा कृतैकशेषाणां पश्चात्तद्धितसङ्गतिः ॥"
Page #53
--------------------------------------------------------------------------
________________
४४
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे तृतीयान्हिके
इति वदतां भट्टानां ग्रन्थोऽपि व्याख्यातः । ण्यप्रत्ययान्ताना. मेकशेषः । ण्यप्रत्ययान्तानामेव वेति तदाशयात् । कृतैक शेषाणां प्रजापतिर्देवता येषामिति कृतैकशेषयच्छब्देनोपस्थापितानां तद्धितस गतिस्तद्धितवाच्यता। तथा च मिलितानां देवतासम्बन्धं बोधयितुं लौकिकविग्रहे येषामिति निर्देशः।वृत्तौ तु देवताववाचकस्य तद्धितस्यैः कशेष इति मिलितेषु पशुषु देवतान्वयादेको यागः। अग्नीषोमीय इत्यादौ मिलितयोदेवतायामभेदान्वये यथेत्युदात्तवार्तिकस्योत्तरा. धेऽर्थोध्यवसेयः। युक्तं चैतत् । प्रत्ययार्थबहुत्वं हि प्रत्यक्षमुपलभ्यते । तत्कृतं चैकशेषत्वमिति न प्रकृती भवेदित्युत्तरवार्तिकस्यानुगुण्यात् । स्यादेतत्-प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् । अमेदश्चेह सम्बन्ध आग्नेयादावियं स्थितिरिति पक्षे देवतावतां साहित्यं लभ्यते न तु सहित तानां देवतात्वे देवतायां प्रदेये च खण्डशः शक्तिरिष्यत इति पक्षेऽपि एकप्रत्ययोपात्तदेवतान्वयस्यान्तरङ्गत्वादेवमेवेति चेत्, सत्यम् । प्रदेये एव शक्तिः प्रकृतेस्तु प्रत्ययसमभिव्याहारादेवतायां निरूढलक्षणेत्या. शयेनाऽयं ग्रन्थो नेयः । केवलाद्देवतावाची तद्धितोऽग्नेः समुश्चरन्नित्या. दिग्रन्थास्तु मतान्तराभिप्रायेण नेयाः । न चैवमपि विरूपैकशेषपक्षेस मानार्थतालाभार्थ प्रकृत्यर्थान्वयस्य प्राथमिकत्वं स्वीकार्यमेवेति वाच्यः म् । ययय इत्येषामेकविभक्तिं प्रति प्रकृतित्वाभावेऽपि विभक्तौ परतः सा रूप्यसम्भवेन सरूपैकशेष एवेत्याशयात् । प्रकृतमनुसरामः। स्वरभिः नानां यस्योत्तरः स्वरविधिः स शिष्यत इति वक्तव्यम् । तेने पूर्वोदाटते 'हरिण्यो' इत्यत्र ङीबन्तस्य पित्वादनुदात्तप्रत्ययकस्य शेषः । न तु जा. तौ पुंयोगे वा यो ङीष् तदन्तस्य प्रत्ययस्वेरणान्तोदात्तस्य। ननु "वर्णा. दनुदात्तात्" [अष्टा०सू०४-१-३९] इति ङीषन्तस्यापि उदानिवृत्ति स्वरेणान्तोदात्तता स्यादेवेति चेत् , भ्रान्तोसि । उदात्तनिवृत्तेरेवाभा वात्। "वर्णानान्तणतिनितान्तानाम्" (फि०सू०-३३) इति फिटसूत्रेण प्रकृतेरनुदात्तत्वात् । तदुक्तं वर्णादनुदात्तादिति । तथा मीमांसते इति 'मीमांसक' लित्स्वरेण मध्योदात्तः । मीमांसामधीते मीमांसकः । "क्रमादिभ्यो वुन्" (अष्टा सू०४-२-६१)। नित्स्वरेणाधुदात्तः। उभयोः सहविवक्षायामाशुदात्तः । उभयोः सहविवक्षायामागुदात्तः शिष्यते नि. स्वरस्य परत्वात् । अक्षौ अक्षाः। “अक्षस्यादेवनस्व" (फिन्सू०३५) इति फिट्सुरेण शकटाक्षे आधुदात्तः । देवनाक्षे तु "फिषः"(फिन्सू०१) इत्यन्तोदात्तः । यद्वा-अशेहेवने इति प्रत्ययान्तत्वादन्तोदात्तः। शकटा. घयवबिभीतकयोस्तु घनन्तत्वादाधुदात्तः । अत एव "प्राचेयाम इति
Page #54
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे एकशेषप्रकरणम् ।
४५
सूक्ते अक्षकितवनिन्दाप्रस्तावअक्षस्याहमेकपरस्येत्यादयाऽक्षेशब्दा ब. हवोन्तोदात्ता एव प्रयुज्यन्ते । तस्य नाक्षः' इत्यादौ तु रथावयवपर. त्वादायुदात्तः । उभयोः सहविवक्षायान्तु आधुदात्तस्य शेषः । इन्द्रिय वाचिना क्लोबेन सहविवक्षायान्तु "नपुंसकमनपुंसकेन" (अष्टा०सू०१२-६९) इति अक्षमक्षाणीत्यायूह्यम् । नवचेतनानां देवतानां कथं न. पुंसकादिव्यवस्थेति चेत् , उच्यते । लोकप्रसिद्धमवयवसंस्थानविशेषा स्मकलिहू तावन्न व्याकरणे आश्रीयते । दारान् इत्यादौ नत्वाभावप्रस. कात् । तटस्तटीतटमित्यादी यथायथ लिङ्गात् त्रितयनिबन्धनकार्याणा. मसिद्धिप्रसनाच्च । किन्तु पारिभाषिकमेव लिङ्गत्रयम् । तच्च केवला. न्वयि । अयमर्थः इयं व्यक्तिरिदं वस्त्वितिशब्दानां सर्वत्राप्रतिवद्धप्रसरत्वात् । तत्र कश्चिच्छन्दः एकस्मिन्नेव लिङ्ग शक्तः कश्चित्तु द्वयोः क. श्चित् त्रिग्विति लिङ्गानुशाप्सनादिभ्यो निर्णेयम् । कुमारब्राह्मणा. दिशब्दास्तु लौकिकपुंस्त्वविशिष्टे शास्त्रोये पुंस्त्वे शक्ताः लौकिकस्त्री. त्वविशिष्टे च शास्त्रीयस्त्रीत्वे । कथमन्यथा “कुमारी' 'कुमार' इत्यादयः प्रयोगा व्यवतिष्ठेरन् । “करेणुरिभ्यां स्त्रीनेभे" (अको०३-३-५२) इत्यमा रस्याप्ययमेवार्थः। नन्वेवं पशुनेतिपुंस्त्वं विवक्षितमिति मीमांसकोदोषः कथं योज्यः । पारिभाषिकस्याव्यावर्तकतया तद्विवक्षाया अकि. श्चित्करत्वात् । लोकिकस्य तु पशुशब्दादप्रतीतेरिति चेत्, सत्यम् । "छागोवा मन्त्रवर्णात्" इति षष्ठान्त्याधिकरणन्यायन पुंस्त्वस्य नियमो बोध्यः । छागशब्दस्थ लौकिकपुंस्त्वविशिष्टपारिभाषिक शक्तत्वादिति दिक् । तच्च जातित्र येके । उक्तं च हरिणा-.
"तिस्रो जातय एवैताः केषां चित्समवस्थिताः ।
अविरुद्धो विरुद्धाभिगोमनुष्यादिजातिभिः" ।। इति । भाष्ये तु "स्त्रियाम्'' (अष्टा सू०४-१-३) इतिसूत्रे प्रकारान्तर. मुक्तम् ।
"संस्त्यानप्रसवौ लिङ्गमास्थेयो स्वकृत्तान्ततः । संस्त्याने स्त्यायतेर्डट् स्त्रीसूतेः सप्रसवे पुमान् ॥
उभयोरन्तरं यश्च तदभावे नपुंसकम् ॥” इति । अयमर्थः-संस्त्यानं-स्त्री । सत्वरजस्तमोलक्षणानां गुणानामपचयः । प्रसवो गुणानामुपचयः । स एव पुमान् । सूतेर्धातोः सप्सकारस्य प. कारादेश इत्यर्थः । सूङो दुमसुन्निति माधवः । यत्तु उज्ज्वलदत्तेन याः तेर्दमसुनित्युक्तम् । यच्च "सोसुड़" (अष्टा०सू०७-१-८९) इति सूत्रे न्यासरक्षिताभ्यां "पुनातेर्मकसुन हस्वश्च" इति सूत्रं पठितं तदुभयमपि
Page #55
--------------------------------------------------------------------------
________________
शब्द कौस्तुभप्रथमाध्यायद्वितीयपादे तृतीयान्हिके
भाग्याननुगुणन्तयोरुपचयापचययोरभावे सति यदुभयोरन्तरसदृशं तनपुंसकम | "नभ्राण्नपात्" (अष्टा०सू०६- ३-७५) इति निपातनादिति भावः । तथा च स्थितिमात्रं नपुंसकम् । अत एवाविर्भावतिरोभावयोरपि स्थितिसामान्यविवक्षासम्भवान्नपुंसकलिङ्गसर्वनामेति सिद्धान्तः । पुमानपुंसकमितिशब्दाश्च शुक्त्यादिशब्दवद्धर्मे धर्मिणि वर्तन्त इत्यवधेयम् । स्वकृतान्त इति । " कृतान्तौ यमसिद्धान्तौ" (अग्को०३३-६४) इत्यमरः । वैय्याकरणसिद्धान्ते इत्यर्थः ।
४६
वृद्धोयुनातल्लक्षणश्वेदेव विशेषः (अष्टा०सु०१-२-६५) । वृद्धो - गोत्रम् | "अपत्य मन्तर्हितं वृद्धम्” इति पूर्वाचार्यैः सूत्रितस्वात् । यूना सहोकौ वृद्धः शिष्यते गोजयुवप्रत्ययमात्र कृतञ्चतयोर्वैरूप्यं कृत्स्नं स्यात् । गार्ग्यश्च गार्ग्ययणश्च गार्ग्यौं । तल्लक्षणं किम् ? भागवित्तिभागवि fast | कृत्स्नं किम् ? । गार्ग्यवात्स्यायनौ ।
I
स्त्री पुंवञ्च (अष्टा०सु०१ -२ -६६) । यूना सह विवक्षायां वृद्धा स्त्री शिष्यते तदर्थश्च पुंवद्भवति । स्त्रीत्वस्य वैरूप्यकारणस्याधिक्यात्पूर्वेणाप्राप्तौ वाच्यम, पुंवदिति विधातुञ्च । गार्गी च गार्ग्यायणौ च गर्गः । अस्त्रियामित्यनुवर्त्तमाने "यञञोश्च" (अष्टा०सू०२-४-६४ ) इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ।
पुमान् स्त्रिया (अष्टा०सु०१-२-६७) । सरूपाणां मध्ये स्त्रिया सहोकौ पुमान् शिष्यते स च पुंवदेव स्यात्तल्लक्षण एव विशेषश्चेत् | सम्पृका च संपृकं च सम्पृक्तौ । “यः शिष्यते स लुप्यमानार्थाभिधायि” इति सि. द्धान्तात्स्त्रीत्वस्यापि सत्वेन टापू प्राप्तः पुंषदेवेत्यनुवृत्तेर्न भवति । हंसश्च वरटा चेत्यादा हंसजाति साम्येऽपि शब्दवैलक्षण्यस्य स्त्रीत्व पुंस्त्वमात्रप्रयुक्तत्वादेकशेषः प्राप्तः रूपग्रहणानुवृत्त्या वार्यते तदनुवृत्तौ च "भ्रातृपुत्रौ स्वदुहितृभ्याम् ” (अष्टा०सू०१-२-६८) इति सूत्रं ज्ञापकम् । अन्यथा एकापत्यत्वस्य अपत्यत्वस्य वा साम्यात्तत्राऽपि "पुमान् स्त्रिया" (अष्टा० सू०१-२-६७) इत्येव सिध्येत् । नन्वेवमपि गौरीयं गौश्चायं तयोः सहोक्तौ पतौ गावौ इति नियमतो न स्यात् । नैष दोषः । इयमयमिति पदान्तरगम्येऽपि तल्लक्षणविशेषे "तुमान् स्त्रिया" (अष्टा०सू०१-२-६७) इत्यस्य प्रवृत्तिसम्भवादिति कैयटः स्यादेतत्-तल्लक्षणविशेषरूपो विशिष्टा भाषोऽत्र हेतुः । स च किन्नरैरप्सरोभिश्च क्रीडद्भिरित्यादो विशेषणा भावाद | 'गायौ' इत्यत्र तु विशेष्याभावादित्यम्यदेतत् । तथा च किमये पदान्तरगम्यत्व पर्यन्तमुक्तमिति चेत्, उच्यते । नेह विशिष्टाभावः प्रयोजकः किन्तु तन्मात्रप्रयुक्तो विशेषः प्रयोजकः । अन्यथा 'भागवि•
Page #56
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे एकशेषप्रकरणम् । तिभागवित्तिकौ' इत्यत्र "वृद्धोयूना" (अष्टा सू०१-२-६५) इति स्या. त् । इह हि कुत्सासौवीरत्वाभ्यां प्रयुक्तऽपि ठकि युवप्रयुक्ततास्त्येवेति विशिष्टाऽभावो निर्बाधः। एवमिन्द्रेन्द्राण्यावित्यत्र प्रकृतसूत्रं प्रवर्तत । 'हिमहिमान्यौ' इत्यादौ चोत्तरसूत्रमिति दिक् । नन्वेवं गार्यवात्स्यायः नयोरतिप्रसङ्ग इति चेत् , योसौ विशेषः स तल्लक्षणश्चेदिति वचनव्य क्या पाठादुद्देश्यविधेयान्वयलाभात् । एवञ्च कृत्स्नस्य विशेषस्य त. न्मात्रप्रयुक्तत्त्वं फलितम् । तेन पदान्तरपर्यन्तानुसरणं कैयटादीनां युक्त मेवेति दिक् । तदितरप्रयुक्तविशेषविरहरूपविशिष्टाभावविवक्षायान्तु सर्व सुस्थम् । एतेन सा च स च तावितिव्याख्यातम् । अनैमित्तिक. स्यैकशेषस्य तद् तद् इत्यवस्थायां प्रवृत्तावपि पुंस्त्वनियमस्यैतेन ल.. भ्यत्वात् । ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र तु न भवति । स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सहविवक्षा च प्रधानयोरेव । तेन यत्र प्र. धानयोरेव स्त्रीपुंसयोर्विशेषप्रयोजकता तत्रैव एकशेषप्रवृत्तेः इह वा प्रधानकृतस्याऽपि विशेषस्य सत्त्वात । एवकारानुवृत्तेर्नेह-"इन्द्रेन्द्रा. प्यो' । इह हि पुंयोगकृतोऽपि विशेषः । 'भारण्यारण्यान्यौ । इह मह. त्वकृतोऽपि विशेषः । पुमानिति किम् ? प्राक् च प्रतीची च प्राक्प्रती. च्या स्तः । प्रपूर्वादश्चः क्विनन्तादस्तातेरंचलुगिति "तद्धितश्चासर्ववि भक्तिः” (अष्टा सू०१-१-३८) इत्यव्ययत्वादलिङ्गः प्राक्शब्दः ।
भातृपुत्रौ स्वसृदुहितृभ्याम् ( अष्टा०स०१-२-६८) । यथासंख्यं शि. ज्येते । भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ।
नपुंसकमनपुंसकेनैकवचास्थान्यतरस्याम् (अष्टा सू०१-२-६९) । अक्लीवेन सहोको क्लांबं शिष्यते तच वा एकवत् स्यात् । तल्लक्षण एच चेद्विशेषः । शुक्लः कम्बलः, शुक्ला बृहतीका, शुक्लं वस्त्रं, तदिदं शु. क्लम् । तानीमानि शुक्लानि । अनपुंसकेनेति किम् ? शुक्लं शुक्लश्च शुक्ले । एकवच्चेति न भवति । अस्येति किम् ? उत्तरसूत्रे एकवद्भावानु. वृत्तिर्मा मृत्।
पिता मात्रा (अष्टा सु०१-२-७०)। मात्रा सहोतो पिता वा शिष्य. ते। पितरौ। मातापितरौ। अयं योगः शक्योऽकर्नुम । तथाहि-"यः शिष्यते स लुप्यमानार्थाभिधायि” इतिन्यायेनास्मिन् विषये पितृशब्द एव मातरमपि वक्तीति निर्विवादम् । तत्र च निरूढलक्षणा वा शक्तिरेव वेत्यन्यदेतत् । न च द्वन्द्वनिवृत्त्यर्थ सूत्रम् । तस्याऽपि पक्षे इष्टत्वात् । एवं "श्वशुरः श्वश्वा "(अष्टा०सू०१-२-७१)इत्यत्रापि बोध्यम्। एतेन
"पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा' (या स्मृ०१३५)।
Page #57
--------------------------------------------------------------------------
________________
शब्दकौस्तुभ प्रथमाध्यायद्वितीयपादे तृतीयान्हिके
इत्यस्य व्याख्या पावसरे विग्रहे क्रमप्रतीतेः "प्रथमं माता घनभाक् तदभावे तु पिता" इति विज्ञानेश्वरग्रन्थश्चिन्त्यः । एकपदजन्ये बोधे क्रमाभावात् । सुत्रारम्भेऽप्येवमेव । प्रत्युत मुख्यार्थस्य प्रथमप्रतीतिरुचिता । न तु लक्ष्याया मातुः । यत्तु विग्रहे क्रमप्रतीतिरिति तन्न । वृत्तिविग्रहयोः सहाप्रयोगात् । वृत्तेरेवेह व्याख्येयश्लोके प्रयोगात् । किं च वृत्तावपि प्रयुक्तायां विग्रहोऽपि स्मर्यतां कथञ्चित् । न तु तत्रापि पूर्वापरिभावे किञ्चिन्निया मकमस्ति तस्मात्क्रमनिर्णये प्रमाणान्तरं मृग्यम् ।
४८
,
श्वशुरः श्वश्वा (अष्टा०सू०९-२-७१) श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते । श्वशुरौ । श्वश्रूश्वशुरौ । श्वश्वेति सौत्रनिर्देशादेव प्रत्ययान्तस्याऽपि प्रातिपदिकत्वम् । अन्यथा हि "प्रकृतिवदनुकरणम्” इति ऊडन्ततृतीया न स्यात् ।
त्यदादीनि सर्वैर्नित्यम् ( पा०सु०१-२- ७२) । सर्वैस्त्यदादिभिरन्येश्व सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । प्रत्यासत्तेत्यदादिभिरेव सहोक्तावित्यर्थो मा भूदिति सर्वग्रहणम् । स च देवदत्तश्च तैौ । द्वन्द्वनिवृत्त्यर्थं वचनम् । 'तौ' इति तु 'सरूप" (अष्टा०सू०१-२-६४ ) सूत्रेणैव सिद्धं देवदत्तस्यापि तच्छब्देनैव निर्देष्टुं शक्यत्वात् । त्यदादीनां मिथः सहोतौ यत्परं तच्छिष्यते शब्दपरविप्रतिषेधात् । स च यश्व यौ । “पूर्वशेषोऽपि दृश्यते" इति भाष्यम् । सचयश्च तौ । अहं च भवांश्वावाम् । त्यदादितः शेषे पुंनपुंसकनो लिङ्गवचनानि (का०वा० ) । आद्यादित्वात्तसिः । त्यदादीनां शेषे सहविवक्षितो योर्थः पुमान् यश्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । सा च देवदत्तश्च तौ । तश्च देवदत्ता च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु सहविवक्षायां नपुंसकवशेन व्यवस्थापर त्वात् । तश्च देवदत्तश्च ते । अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् [का० वा०] । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्द्ध पिप्पल्यास्तत् । अर्धपिप्पली च सा अर्धपिप्पल्यौ ते । इह "परवल्लिङ्गम्" (अष्टा० सू०२-४-२६) इति समासार्थस्य लिङ्गाऽतिदेशे कृते तद्विशेषणस्य सर्वनाम्नस्तदेव लिङ्गम् | भाष्ये तु एतत्सूत्रं प्रत्याख्यातम् । यदाह- सामान्यविशेषवाचिनोश्च द्वन्द्वाभावात्सिद्धमिति । विशेषसन्निधौ हि प्रयुक्तः सामान्यशब्दौ विशेषान्तरे वर्त्तते । ब्राह्मणा आगता वसिष्ठश्चेति य. था । तथाविधे विषये वाचनिकोऽयं द्वन्द्वनिषेधः । तेनैव तद्देवदत्तावि त्यादिनिवृत्तेः सिद्धत्वादयमेकशेषो न वक्तव्य इत्यर्थ इति कैय्यदः । कथं तर्हि 'शूद्राभीरं' 'गोबलीवर्द' 'तृणोपलम्' इति, अत्राहुः - आभीरी जात्यन्तराणि ।
I
Page #58
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे धातुसंज्ञासूत्रम् ।
"ब्राह्मणादुनकन्यायामाभाग नाम जायते ।
माहियोनौ प्रजायते विशुद्राङ्गनयो पात्" ॥ इति स्मृतेः॥ गोशब्दस्तु स्त्रीगवीपरोऽयं स्त्रीलिङ्गः । अपामुलप इति नामधेयमि. ति । अनित्योयं निषेधः । “प्राच्यभरतेषु (अष्टा०सू०ए०२-४-६६)इतिसूत्रनिर्देशाल्लिङ्गात् । तेन "प्रमाणप्रमेय" इत्यादिषु द्वन्द्वः सिद्धः । एतेन
'अविद्या तन्चितो योगः षडस्माकमनादयः । मत्स्यादौ तविशेषयोः" इत्यादिप्रयोगा व्याख्याताः । सूत्रारम्भे त्वे. तेन सिखयेयुरेवेति सहृदयैराकलनीयम् ।
प्राम्यपशुखचैवतरुणेषु स्त्री (अष्टा०स०१-२-७३) । एषु सहविव. क्षायां स्त्रीशिष्यते । “पुमान् स्त्रियां" (अष्टा सू०१-२-६७) इत्यस्यापवा. दः । गाव इमाः। प्राम्यग्रहणं किम् ? रुरव इमे । पशुग्रहणं किम् ? ब्राह्मणाः । सङ्घषु किम् ? पती गावौ चरतः । एकशेषस्यानेकविषयत्वे लब्धे सङ्घग्रहणसामर्थाद बहूनां सङ्घो गृह्यते । अतरुणेषु किम् ? वत्सा इमे । बर्करा इमे । अनेकशफेष्विति वक्तव्यम् (का० वा० ) अश्वा इमे । गर्दभा इमे । एकशफत्त्वात्पुशेष एव । “शर्फ क्लीबे खुरः पुमान्" ( अ० को०२-८-४९) इत्यमरः । हरदत्तस्तु "शफाः खुराः" इति प्रा. युङ्क । तत्र शफशब्दस्य पुंस्त्वे मूलान्तरं मृग्यम् । उष्ट्राणां स्वारण्य. त्वात स्त्रीशेषाभावः। ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य द्वितीये पादे
तृतीयमान्हिकं पादश्च समाप्तः ॥
सुवादयो धातवः (अष्टा सु०१-३-१) । क्रियावाचिनो गणपठिता धातुसंशाः स्युः । धातुत्वाल्लडादयः । भवति, एधते । क्रियावाचिन: किम ? 'याः पश्य' इत्यादी धातुत्वं मा भूत । सति हि तस्मिन् "मातो. धातो": (अष्टासु०६-४-१४०) इत्यालापः स्यात । न च "या प्रापणे" (पासू०१०४९) इत्याधर्थनिर्देशो नियामकः । तस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिशुरिति स्मयने । पाणिनिस्तु "वेध" इत्याघपाठीदिति भाग्यवार्तिकयोः स्पष्टम् । किश्च अभियुक्तैरपि कृतोर्थनि. देशो नार्थान्तरनिवृत्तिपरः सुखमनुभवतीत्यादावधातुत्वप्रसकात । उक्तश्च--
"क्रियावाचित्वमाख्यातुमेकैकोर्थः प्रदर्शितः। प्रयोगतोऽनुसतम्या अनेकार्था हि धातवः" ॥ इति ।
शब्द. द्वितीय. 4
Page #59
--------------------------------------------------------------------------
________________
५० शब्दकौस्तुभप्रथमाध्यायतृतीयपादे प्रथमान्हिके
अत एव "कुर्द खुर्द गुर्द गुद क्रीडायामेव" (धासु०२१-२२-२३२४)इत्येषकारः पठ्यते "श्लिष आलिङ्गने" (अष्टा०सू०३-१-४६) इत्यादिसूत्राण्यपीह सापकानि । तस्मात् 'याः पश्य'इत्यादिव्यावृत्तये क्रियावाचिन इति विशेषणं स्थितम् । गणपठिता इति किम् ? हिरुक, पृथक्, ऋते, इत्याद्यव्ययानां 'शिश्ये' इति भावार्थतिङन्तस्य च मा भूत् । न चैवं सौत्रध्वव्याप्तिः। स्तम्भवादीनामुदित्करणेन धात्वधिकारीयकार्य. विधानेन च धातुत्वानुमानात् । न चैवमपि लौकिकानां चुलुम्पादीना. मसङ्ग्रहापत्तिः । भ्वाद्यन्ते यजादिसमाप्त्यर्थ वृत्करणेऽपि भ्वादीनाम. समातेः । धातुवृत्तिषु तथैव व्याख्यातत्वात् । “कास्यनेकाग्रहणं चु. लुम्पाद्यर्थम्" (काभ्वा०) इति कात्यायनवचनेनाप्येतल्लभ्यते । एवं भ्वाद्यन्ते वृत्करणस्य पुषादिसमाप्त्यर्थतया दिवादीनामपरिसमाप्तेः 'मृ. ग्यति'इत्यादिसिद्धिः । वस्तुतस्तु चुरादीनामन्वे "बहुलमेतन्निदर्शनम्" इति गणसूत्रेण सकलेष्टसिद्धिः । तद्धि धातुवृत्तिषु द्वधा व्याख्या. तम् । भ्वादिगणपठितेभ्योऽपि णिच् प्रयोगानुसाराजप इति । दश. गणीपाठो दिङ्मात्रप्रदर्शनार्थस्तेनान्येऽपि शिष्टप्रयुक्ता धातवः सयाहा इति च । स्यादेतत्-भूरादियेषामिति विग्रहे यणि सति भ्वादय इति स्यात् । क्रियावाचित्वञ्च सुत्रानारूढमेवेति । उच्यते-"भवनं भूः क्रियासामान्यम् । वदन्तीति वादयः वदेरौणादिक इम्" इति भाग्यम् । यद्यपि "वसि वपि यजि राजि नजि सहि हनि धासि धादि पारिभ्य इझ" [उन्सू०५७४] इत्यौणादिकसुत्रेण वदेय॑न्तादिन विहितस्तथापि बहुलग्रहणात केवलादपि भविष्यतीति न्यासकारादयः । वस्तुतस्तु"ध. दन्तीति वादयः" इति भाग्यमर्थकथनपरम् । ण्यन्तादेव विश् । न चेह ज्यानन्वयः। पचतिपाचयत्योस्तुल्यार्थत्वात् । भुवो वादय इति वि. प्रहः । तथाच क्रियावाचित्वं तावत्सूत्रारूढम् । निरनुबन्धानां शब्धि. करणानां भूप्रभृतीनां पाठसामर्थ्यात्पठितानामेव संशेत्यनुमीयते । “स. नाधन्ता धातवः” (अष्टा०सू०३-१-३२) इति सूत्रारम्भाश। अथ वा भूरा. दिर्येषामिति विग्रहः । निपातनाद् वुगागमः महासंचाकरणं तु "दधति क्रियाम्" इति धातवः इत्यन्वर्थसंक्षाविज्ञानार्थम् । यद्वा-भूध वाश्चेति धन्वा । आविशब्दयोस्तु व्यवस्थाप्रकारवाचिनोरेकशेषः । ततो मूवी मादी येषामिति बहुव्रीहिः। भूप्रभृतयो वासडशाः क्रियावाचिन इति यावत । अथ वा वाइत्ययमादिर्येषामिति बहुव्रीहिः वाइत्यस्यादय इति तत्पुरुषः । तयोरेकशेषे स्वरभिन्नानामिति बहुव्रीहिशेषः। भुषो वादय इति षष्ठीतत्पुरुषः । वाच्यवाचकभावश्च षष्ठयर्थः । "द्विर्वचनेचि.'
Page #60
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे धातुसंज्ञासूत्रम् । (अष्टा००१-१-५९) इतिषत्तन्त्रावृस्यादिना वा उभयलामः । सर्वथा. पि क्रियावाचिनो स्वादय एष धातव एति स्थितम् । का.पुनः क्रिया ? उध्यते, करोत्यर्थभूता उत्पादनापरपर्याया उत्पत्त्यनुकूलव्यापारकण भावनैव क्रिया । तथाहि-अभवतो गगनादेरक्रियमाणतया भवताच घटादेः क्रियमाणतया भवत्यर्थक ः करोतिकर्मत्वम् । तथा च करोस्य. धकर्तुषितृप्रयोजकतया भवतेरुत्पस्यर्थाप्रयोजकव्यापारे णिजुत्पद्यमानः करोत्यर्थमवलम्बते । उक्तश्च
"करोतिक्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥ करोत्यर्थस्य यः कर्ता भवितः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यरचं प्रपद्यते ॥ प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः। ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु । तेन भूतिषु कर्तृत्त्वं प्रतिपन्नस्य वस्तुनः।
प्रयोजकक्रियामाहुर्माधिना भावनाविदः" इति । साच सकलधातूनां वाया । अत एव किं करोति' इति प्रश्ने 'पति' 'पठति' इत्याधुत्तरं समच्छते। न चालो मीमांसकोक्तरीत्या प्रत्ययवाच्यैवास्तामिति वाच्यम् । भोकव्यमित्यावावास्यातं विनापि तत्प्रतीतेः । तथा तत्रापि कारकापेक्षा दृश्यतं । अस्ति च तत्रापि करो. तिसामानाधिकरण्यं, किंकर्तव्यं, भोक्तव्यम् , किं कृतवान्भुक्तवानि. ति। किञ्च, भावयति घटम्' इति वत् त्वन्मते 'भवति घटम्' इत्यपि स्थात् ' तुल्यार्थत्वात । एष्टान्ते कर्नुः कुम्मकारस्य व्यापारं णिजाचष्टे, दार्शन्तिके स्वास्यातप्रत्ययः । मनु प्रयोजकव्यापारो णिज:, कर्तृव्या. पारस्पाख्याताः । इति वैषम्यमिति चेत्, कारकचकप्रयोक्तुः क. नुस्खे घटस्यातथास्वाद। यदि
"धातुमोक्कक्रिये नित्यं कारके कर्तृतज्यते" तिमहरिप्रतिपादितरीत्या प्राधान्येन धातूपातव्यापारस्वरूप कर्तृवं तवापि सम्मतं कस्तहादानीमाख्यातार्थः । व्यापारस्य धातुन. वामिहितत्वात् । अपि च, धातोः सकर्मकाकर्मकस्वविभाग उच्छिधेत । 'अकर्मकाउच' (अष्टा०सू०१-३-२६) इत्यादिसूत्राणि च विरुध्येरन् । मनु सिद्धान्तेऽपि क्रियायाः कर्मापेक्षानियमात्कथमकर्मकतेति चेत्, न, फलव्यापारयोः सामानाधिकरण्यवैयधिकरण्याभ्यां सकर्मकाकर्मकविभागस्य पश्यमाणत्वात् । किा, 'ज्योतिष्टोमयाजी' इत्यादौ "कर.
Page #61
--------------------------------------------------------------------------
________________
५२
शब्द कौस्तुभप्रथमाध्यायतृतीयपादे प्रथमान्हिके
णे यजः " ( अष्टा०सू०३ - २-८५) इति णिनिरस्मत्पक्षे सङ्गच्छते । धातुत्वेन धातूपात्त भावनां प्रति यजित्वेन तदुपात्तस्यांशान्तरस्य करणत्वा त् । पच्यादयो हि धातुत्वेन भावनामाहुः । विक्लित्याद्यंशान्तरे तु पाचत्वादिना प्रातिस्विकरूपणाहुः । तच्चांशान्तरभावतां प्रति प्रायेण भाव्यतया सम्बध्यते । 'ज्योतिष्टोमयाजी' इत्यादी तु करणतया 'ज्योति' प्रेमाख्येन यांगन स्वर्गे भावितवान् ” इत्यर्थप्रतीतः । स्पष्टं चेदं णिनिविधौ हरदत्तग्रन्थे । एतेन " ह्यर्थः पचिः" इति भाष्यं व्याख्यातम् । भट्टिश्चाह
विभज्यसेनां परमार्थेकर्मा सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्” इति । ननु क्रियाया धात्वर्थत्वे 'पचति' इत्यादी एककर्तृका वर्तमाना पचि. क्रियेति क्रियाविशेष्यको बोधो न स्यात् । प्रत्ययार्थ प्रति प्रकृत्यर्थस्य विशेषणताया औपगवादौ क्लुप्तत्वादिति चेन्न, " प्रत्ययार्थः प्रधानम्” इति शुत्सर्गः स चेद्द त्यज्यते । "क्रियाप्रधानमाख्यातम्” इति स्मरणात् । "पाचिका" इत्यादी स्त्रीत्वस्य विशेषणत्वाभ्युपगमाच्च । प्रत्युत तवैव 'पचति' इत्यादावनुपपत्तिः । पचन्तं तं पश्य' इत्यादौ शतृशानचोः कर्तृप्राधान्यस्य सर्वसम्मततया तिङ्क्ष्वपि तथात्वापत्तेः शत्रादीनां तिङाश्च लादेशत्वस्याविशिष्टत्वात्, आदेशानाञ्च स्थानिस्मारकत्वे स्थाम्यर्थाभिधायित्वे वार्यैक्यधोव्यात् । अत एव हि युष्मदि समानाधिकरणे मध्यमः अस्मयुत्तमः, इत्यादिपुरुषव्यवस्था सङ्गच्छते । अभिहिते कर्तरि प्रथमा, इत्यादि च । न च 'समानाधिकरणे' इत्यनेन स्वाभिधेय संख्यान्वयित्वम् अभिहितशब्देन चाभिहितसङ्ख्याकत्वं त्रिवक्षितमिति वाच्यम् । सुत्राननुगुणत्वात् । कृत्तद्धितसमासैः संख्याया अनभिधानात्तदभिहितेऽपि तृतीयाप्रसङ्गाच्च । न च कृत्यनभिधानमेच कर्तुरनभिधानमिति वाच्यम् । भावार्थलकारेऽपि कर्त्तरि प्रथमापत्तेरिति दिक् । स्थादेतत्-- अस्तिभवतिविद्यतिषु क्रियावाचित्वमव्यासम् । न हि तत्रोत्पादः प्रतीयते एवन्तिष्ठतावपि तथा जायत उत्पद्यते इत्यत्राप्यव्याप्तिः उत्पत्तिर्हि आद्यक्षणसम्बन्धः । तदनुकूलव्यापारश्वोस्पादना । तदनुभवश्चास्त्यादिभ्यो नास्त्येवः । अत एव 'किं करोति' इति प्रश्ने 'पचति' इत्यादिवत् 'अस्ति' इति न प्रतिब्रुवते इति चेत्, उच्यते, 'अस्ति' इत्यादेः स्वरूपधारणं 'करोति' इत्यर्थः । धारणञ्चो. त्तरफालसम्बन्धः । तथा सत्यपि करोत्यर्थे धात्त्वर्थान्तर्गतेन धारणेनैव भाग्याकाङ्क्षायाः पूरणात् 'जीवति' 'नृत्यति' आदिवदकर्मकता क्रिया हि
Page #62
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे धातुसंज्ञासूत्रम् ।
व्यापारख्यधिकरणैतोत्पत्तिरुच्यते । अत एव तत्र घटादीनां कर्मता । परसमवेतव्यापारफलीभूतोत्पत्तिशालित्वात् । जनिप्रभृतिभिस्तु व्या. पारसमानाधिकरणवोच्यते । अत एवाकर्मकता तेषाम । सोत्पत्त्यनुकू. लव्यापारभाजामपि सुक्ष्मरूपापन्नघटादीनां परसमवेतत्त्वघटितकर्मता. विरहात् । उक्तजन हरिणा
"आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते।" इति । अन्येप्याहुः"अस्त्यांदावपि धयंशे भाव्येऽस्त्येव हि भावना ।
अन्यत्राशेषभावात्तु सा तथा न प्रकाशते" इति ॥ तथा पचौ विक्लिदौ च विक्लित्तिर्यद्यपि साधारणी तथाऽपि पचौ व्यापारव्यधिकरणा विलिदौ तु तत्समानाधिकरणा सेति सकर्मकाक. मकविभागः । न हि धात्वर्थभूतफलशालिस्वमात्रं कर्मत्वं किन्तु व्यापारवैयधिकरण्यमपि फलेऽपेक्ष्यते । यत्तूतं 'किं करोति' इति प्रश्ने इत्या. दि । तदसिद्धम । आसन्नविनाशं कश्चिदुहिश्य 'किं करोति' इति प्रश्ने 'अस्ति' इत्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते 'किं करोति' इति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणात् 'अस्ति' इति नोत्तरम् । एतेन
"यावत्सिद्धमसिद्ध वा साध्यत्वेनाभिधीयते ।
आश्रितकमरूपत्वात्सा कियेत्यभिधीयते" ॥ इत्यपि व्याख्यातम् । पूर्वापरीभावापनानेकक्षणविशिष्टस्योत्पत्तिः "आत्मास्ति" इत्यादावपि सुलभैवेति भावः। पचत्यावावपि हि अधिश्रय. णादिरधाश्रयणान्तो व्यापारकलापः क्रिया । अत एष तस्य युगपदसत्रिकर्षान्न प्रत्यक्षता। किन्तु एकैकस्याधिश्रयणादिव्यापारस्य क्रमेणानुभवे सति मनसा सङ्कलना क्रियते । तदुक्तं भाग्य-"क्रिया नामेयम. त्यन्तापरिदृष्टा अशक्या पिण्डीभूता निदर्शयितुम्" इति । ऐक्यमपि पारिभाषिकम् । एकफलावच्छिन्नत्वात् । उकं च--
"गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यते " इति ॥ तदेवं भवत्यादौ क्रियावाचकत्वं सुवचम् । अत एव 'अभूत' 'म. स्ति' 'भविष्यति' इति कालयोगः । न हि क्रियात्वं विनाऽसौ सम्भव. ति। तदुकम
"क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिका"। इति । "कालानुपाति यदूपन्तदस्तीति प्रतीयते ।" इति च ।
Page #63
--------------------------------------------------------------------------
________________
शब्द कौस्तुभप्रथमाध्यायतृतीयपादे प्रथमान्हिके-
माध्ये तूकार्थसाधनाय निरुककारवचनमुदाहृतम् - "षद्भाववि कारा इति ह स्माह भगवान्वार्थापणिरिति । भावस्य क्रियायाः षट् प्रकाश इत्यर्थः । तेषु च जायतेऽस्तीति पाठात्सर्वक्रियान्वयः सिद्ध · स्वर्थः । कैयटस्तु प्रकारान्तरेणापि व्याचख्यौ । भावस्य सत्ताया एते प्रकाराः सप्तैवानेकक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतथावभासते " इति । तथा च "जातिसमुद्देशेऽपि सम्बन्धि भेदात्सत्तैवेत्युपक्रम्योक्तम्-
५४
" प्राप्तक्रम विशेषेषु क्रिया सेवाभिधीयते ।
क्रमरूपस्य संहारे तत्सत्वमिति कथ्यते” ॥ इति ॥
व्यापारविशेषाणां साध्यत्वात् क्रमिकत्वाच्च तदुपहितायास्ते भवत इत्यर्थः । ' पाकः' इत्यादौ तु प्रकृत्या साध्यावस्थाया असत्वरूपाया उपस्थितिः । घञा तु सिद्धरूपायाः । उक्तञ्श्च-
"क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्त्तिता ' सिखतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति धविधिम् ॥ आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स धत्रादि निबन्धने" ॥ इति । लिङ्गस इन्या कारकाद्यन्वय योग्येनावस्थाविशेषेण घमादिभ्य उपस्थितिरित्यर्थः । एतेन "कृदभिहितो भावो द्रव्यवत्प्रकाशते " इति सृ. तीयाध्याये भाष्यमपि व्याख्यातम् । प्रकल्पितेत्यनेन पदस्फोटस्यैव वा. स्वदर्ता श्यनयति-साध्यस्वनेति । अत एव तम्प्रतिकारकतया ओदनादेरन्वय इति मावः । अत एव 'भोक्तुं पाकः' 'भुक्त्वा गमनम्' इत्यादौ तुमुनादयः सिद्धाः । कृत्वोर्थास्त्वनभिधानानेत्येव शरणम् । अत एव कचिदृश्यतेपि द्विर्वचनम् । 'द्विरणविधिः' इति सूत्रवार्त्तिकयोः प्रयोगात् । सत्वभावस्त्विति । अत एव 'पार्क करोति' इत्यादी कारकत्वेन साऽन्वे. तीत्यर्थः । नन्वेवं "पश्य मृगो धावति" इत्यादौ मृगकर्तृकशीघ्र गते दें. शनम्प्रतिकर्मता न स्यात् । न च संसर्गमर्यादयेह कर्मतामानेऽपि प्रका रत्वेनाभानान्नोकदोष इति वाच्यम् । एवमपि 'पचति' भवति' इत्यादाबसङ्गतेः । एककर्तृका वर्त्तमाना पचिक्रिया एककर्तृका वर्तमाना भवनकियेति हि तत्र वाक्यार्थः । तत्र च 'भवति' इति लकारार्थस्य कर्तुर्देवइतकर्तृकपचिकियां प्रत्यभेदेन संसर्गेण विशेष्यत्वस्याव विकत्वात् । तथा च देवदत्तवत्पचिक्रियायाः सत्वधर्मो दुर्वारः । अत्राह :- "कर्तृत्व
Page #64
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इत्संज्ञाप्रकरणम् ।
कर्मत्वयोरनुभवबलाद्भानं स्वीक्रियते । कारकान्तराभावमात्रे तु तात्प. यम्" इति । "याख्यातशब्दे भागाभ्याम्" इत्युदाहृतश्लोकोप्येतदमिप्रायक एव । तत्र "यं प्रति" इत्युत्तरश्लोकानुरोधादिति तृतीये स्फुटी. करिण्यामः । एतेन 'अपाक्षीत्' 'अपाक्षीः' 'पचतः' पचन्ति' 'पक्ष्यति' 'पक्ष्यतः' इत्यादावपि भवति' इत्यनेन कर्तृत्वनान्वयो व्याख्यातः । 'भा. धावते' ध्वस्तोस्ति' इत्यादाविव सूक्ष्मावस्थस्य वर्तमानसत्ता. सम्भवात् । ___ उपदेशेऽजनुनासिक इत् (अष्टा सू०१-३-२) उपदेशेऽनुनासिकोजि. संशः स्यात् । उपदिश्यतेनेनेत्युपदेशः। “कृत्यल्युटो बहुलम्" (अष्टा सू० ३-३-११३) इति बाहुलकात्करणे घम् । अन्यथा ल्युट स्यात् । स च धातुपाठप्रातिपदिकपाठौ सूत्रवार्तिके च । एतैर्हि शब्द: उपदिश्यन्ते । तत्र शास्त्रकता पठितस्याप्यनुनासिकस्य पाठ इदानीमपभ्रष्टः । अत एवाहुवृत्तिकारा:-"प्रतिज्ञानुनासिक्याः पाणिनीयाः" इति । तत्र एध, स्पर्ध, इत्यादावनुदात्तत्वादात्मनेपदम् । एधते, स्पर्धते । 'भवति' इत्यप्रोगिवान्नुम् । भवान् । “लण्" (मा०सू०६) सुत्रे अकारस्येत्त्वाद्रप्रत्याहारसिद्धिः । "आचारेऽवगल्भक्लीबोंढेभ्यः" (का० वा०) इति वार्तिके. ऽवगल्भादेरनुनासिकरवनानुदात्तत्त्वात्तङ् । अवगल्भते इत्यादि । उपदे. थे इति किम ? अभ्र आँ अपः । "आङोनुनासिकश्छन्दास" (अष्टा०सू० ६-१-१२६) इत्यनुनासिकः । नाऽसौ शास्त्रे पठितः। नन्वेवं "उजः' (मष्ठासू०१-१-१७) "ॐ" (अष्टा०सु०१-१-१८) इत्यत्रातिप्रसनः । विधा. नसामोनेति तु प्रकृतेपि तुल्यम् । अथ "अनुबन्धा अनेकान्ताः" इति पक्षे 'अम्र माँ अटितः' इत्यादौ "आदितश्च" (अष्टा०४०७-२-१६) इती. निषेधार्थमित्संक्षाकिन स्यादिति चेन्न । एवमपि "आऊ इत" इति व. कव्ये मनुनासिकविधानस्य वैयर्थ्यापत्तः । एतेन दधि इच्छतीति दधि ब्राह्मणकुलं दधीयतेः क्विप्यल्लोपयलोपयोईस्वत्वे च "अणोऽप्रगृह्यस्य" (मटान्सू०८-४-५७) इत्यनुनासिकः! अत्र"इदितो नुम् धातो."(अष्टा०स० ७-१-५८) इति नुम् स्यात् । 'दधि 'मधु' इत्यादिषु प्रातिपदिकेषु 'भवति' 'पचति' इत्यादिषु च हत्कार्य लोप एव स्यात् । तस्मादुपदेशग्रहणं कर्तव्य. मिति परास्तमा "अणोऽप्रगृह्य इत्' इति वक्तव्येऽनुनासिकविधानसामर्थ्या. दिसंशाविरहोपपत्तेः । सत्यम् । उत्तरार्थमुपदेशग्रहणम् । अजिति किम्? मनिन्प्रत्यये मकारस्य मा भूत् । सत्यां हि तस्यां "अन्येभ्योपि दृश्यन्ते" (अष्टा०सू०३-२-७५) इति हलन्तेष्वन्त्यादचः परः स्यात् । अनुनासिकः किम् ? चिरिणोति, जिरिणोति ।
Page #65
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ प्रथमाध्यायतृतीयपादे प्रथमान्हिके
हलम्यम् [अष्टा०स्०१-३-३ ] । उपदेशे ऽन्त्यं हलित्स्यात् । यद्यपि स. व इल् तन्तमधि प्रत्यन्त्यो भवति तथाऽपि धातुप्रातिपदिकत्वाद्युपा धिपरिच्छिन्नसमुदायं प्रत्यन्त्य इह गृह्यते, अन्त्यग्रहणसामर्थ्यात् । "शीड् स्वप्ने” (अदा० भा०) ङित्त्वात्तङ् । शेते । उपदेशे किम् ? अभिचि त् । "श्रोत्रियश्छन्दोऽधीते" (अष्टा०सू०५-२-८४) "क्षेत्रियच् परक्षेत्रे चि कित्स्य:" [ अष्टा०सु०५ - २ - ९२] इत्यादौ तु वाक्यार्थे पदवचनमिति पक्षेऽविद्यमान प्रकृतिप्रत्यय विभागेप्युपदेशेन्त्यत्वाद्भवत्येवेत्संज्ञा । 'सनुतः' इत्यस्य स्वरादिपाठादित्संज्ञा प्राप्ता उच्चारणसामर्थ्यान्न भवति । न च रित्स्वरः प्रयोजनम्, अन्तोदात्तनिपातनवैय्यर्थ्यापत्तेः । स्यादेतत्- हल्प्रत्याहारसिद्धेरेतत्सुत्र सापेक्षत्वादन्योन्याश्रयः । पदार्थबोधं विना वाक्यार्थज्ञानासम्भवात् । अत्राहुः - हल् च ल् चेति समाहारद्वन्द्वे संयोगान्तलोपेन लक्कारोऽप्यत्र निर्दिश्यते । तेन लस्येत्संज्ञायां सत्यां "आदिरन्त्येन” [अष्टा०सू०१-१-७१] इति हल्संज्ञा । ततोऽन्त्यं हलिदिति वाक्यार्थबोधः । यद्वा- छल् इति तन्त्रावृत्येकशेषाणामन्यतमाश्रयणाद्धस्य समीपवर्त्ती लकारो हल् स इदिति । सम्पूर्णसूत्रावृत्त्या हल्सूत्रस्यान्त्यं हलन्त्यमिति वा । इह पक्षत्रये "पूर्वः पूर्वः प्रबलः, लाघवात्" इति तस्वम् | यद्वा- हल्पुत्रे लकारस्यैव 'तवल्कार:' इतिवद् गुणभूतस्य निर्देशः । तस्य च "पुषादियुतालदितः [अष्टा०सू०३-१-५५] इति ज्ञापकादित्संज्ञा । न तु " उपदशेऽजनुनासिकः " [अष्टा०स् १-३-२ ] इति, अच्संज्ञाया अद्याप्यनिष्पादात् । यत्तु णलो लित्करणं ज्ञापकमिति, तः च्चिन्त्यम्, लित्वस्याद्याप्यसिद्धेः । न च 'बिभेद' इत्यत्र लोपाभावार्थ हल्ङयादिसूत्रेऽपृक्तं हलिति द्वितीय हल्ग्रहणं तत्र ज्ञापकमिति वाच्यम् । 'भविता' इत्यादौ डानिवृत्त्यर्थं हल्ग्रहणोपपत्तेः । न च सुतिसीतिप्रत्ययैः प्रकृतेराक्षेपान्नैवमिति वाच्यम्, 'या' 'सा' इत्यादौ सुलोपानापत्तेः । न चैकदेशविकृतस्यानन्यत्त्वादेकादेशस्य च पूर्वान्ततया ग्रहणाद्धलन्तायाः प्रकृतेः परत्वेनेष्टसिद्धिः । 'यः' 'सः' इत्यत्रातिप्रसङ्गात् । तस्माल्लोपप्रवृत्तिकाले हलन्तत्वं वाच्यम् । तच्च 'या' 'सा' इत्यत्रापि नास्ति किं त्त्वाबन्तात्परत्वमाश्रित्य लोपः कार्यः । न च तत्राबन्ता प्रकृतिः । उभयत आश्रयणेन्तादिवद्भावायोगात् । अथ "तदस्यां प्रहरणम" (अष्टा० सु०४-२-६२) इति निर्देशादाबन्तस्थले उभयत आश्रयेप्यन्तादिवद्भावं ब्रूषे तथापि हल्शब्दस्यैवाद्यापि शक्त्यग्रहे कथं हल्ग्रहणसामर्थ्याणलो लित्त्वं निश्वेयम् । न च "लिति" [अष्टा०सु०६-१-१९३] इति ज्ञापकम्, ल्युडादौ चरितार्थत्वात् । तस्मादुक्तप्रकारचतुष्टयमेव शरणम् : स्याद
५६
Page #66
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इत्संज्ञाप्रकरणम् ।
५७ तत्-आये हल्संशातः पूर्व कथं संयोगान्तलोपः, संयोगसंज्ञाया अनिष्प. तेः। द्वितीये हस्य ल् इति कथं समासः, सुप्संज्ञाया श्चानिष्पादात् । एवं तृतीये हलोऽन्त्यमिति तत्पुरुषः कथम् । चतुर्थे च लदित इति बहुव्रीहिः कथम् ? उच्यते । साधुत्वज्ञानोपयोगिनः शास्त्रस्याप्यर्थबोधो यदि तद्वोध्यसाधुत्वानां पदानां स्वार्थानुभावकतायामुपयुज्येत तदैष दोषः स्यात् । स च नोपयुज्यते प्रमाणाभावात् , शतशो व्यभिचाराच । यथा चैतत्तथा “अइउण" (मा०सू०१) इत्यत्रैव प्रतिपादितम् । __न विभक्तो तुस्माः (अष्टा सु०१-३-४) । विभक्तिस्थास्तवर्गसका रमकारा इतो न स्युः । रामान्, पचेरन्, ब्राह्मणाः, पचतः, रामम्, अ. द्राक्षम् , विभक्तौ किम ?"अचो यत्"(अष्टासू०३-१-९७)"ऊर्णाया युस्" (अष्टा०सू०५-२-१२३) “रुधादिभ्यः श्नम्" (अष्टा०सू०३-२-७८) "प्रा. ग्दिशोविभक्तिः” (अष्टा०सू०५-३-१) इति यत्र विभक्तिसंशा तत्रायं नि. षेधो न भवति । इदमस्थम' (अष्टासु०५-३-२४) इति मकारपरि. त्राणार्थमुकारानुबन्धासअनाज्ज्ञापकात् । तेन "किमोत्" (अष्टा०प्नु० ५-३-१२) 'क' इति सिद्धम् । स्यादेतत्-'तदानीम्' इत्यादौदिानीमोऽपि तर्हि मित्वं स्थादिति चेन्न, यान्तत्वात्तस्य । यकारो ह्यन्त्यत्वमनुभवन्म. कारस्येत्संज्ञां प्रतिबध्नाति । "संयोगान्तस्य लोपः" (अष्टा सू०८-२-२३) इति यलोपस्येत्संज्ञां प्रत्यसिद्धतया मकारस्यान्त्यत्वाभावात् । यद्वा"इदमस्थमुः" (अष्टा०सू०५-३-२४) इत्यनेनानित्यत्वमा शाप्यते, न तु प्राग्दिशीयेप्वप्रवृत्तिः । "औत्" (अष्टा०सू०७-३-१२८) "इटोऽत्" (अष्टा सू०३-४-१०६) इत्यत्र तु मुखसुखार्थस्तकारः न स्वित्संज्ञका, तित्स्वरापत्तेः । न चेष्टापत्तिः, 'उरौ वाये' 'भक्षीय तवराधारा' इत्यादौ 'उरौ भक्षीय' इत्यनयोरन्तोदात्ततादर्शनात् । “आद्युदात्तश्च' (अष्टा० सू०३-१-३) इति सूत्रे 'भविषीय' इत्यत्र भाष्यकारैरेवान्तोदात्तत्वस्यसि द्धान्तितत्ताच्च । यत्त्विह वृत्तिकृतोक्तम्, "किमोत्, (अष्टा०सू०५-३-१२) "इटोऽत्" (अष्टा सू०३-४-१०६) इत्यत्रोऽयं निषेधो न भवति अनित्य. स्वादस्य विधेरिति, तत्स्वोक्तिविरुद्धम् । "इटोत्" (अष्टा सू०३-४१०६) इति तेनैवोक्तत्वात् । तस्मादभ्युपेत्यवादमात्रम् । यद्वा-"इटोत्" (अष्टा सू०३-४-१०६) इत्यत्रास्य अकारमात्रस्य विधेः। अनित्यत्वा. दिति तु "किमोत्" (अष्टा सू०५-३-१२) इत्येतत्परमिति व्याख्येयम् ।
आदिजिटुडवः (अष्टा०स०१-३-५)। उपदेशे आदिभूताःनि टुहुएते इतः स्युः। "मिहन्धी"(रुधा आ०१४४९) इद्धः। "टुवे' (भ्वा०आ०३६७) घेपथुः । “दुवप्" (भ्वा००१००३) उप्तिमम् । उपदेश इति किम् ? भि.
Page #67
--------------------------------------------------------------------------
________________
५८ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे प्रथमान्हिकेकारीयति । आदिः किम् ? पटूयति । अस्ति हि पृथ्वादिषु पटुशब्दस्यो. पदेशः । अत्रेत्संज्ञायां सत्यामथुच् स्यात् । अवयवे हचरितार्थ द्वित्वं समुदायस्य विशेषकं स्यात् ।। ___षः प्रत्ययस्य (अष्टा०सू०१-३-६) । प्रत्ययस्यादिः ष इत्स्यात् । "शि. हिपनि वुन्"(अष्टा०सू०३-१-१४५)नर्तकी। प्रत्ययस्येति किम् ? षोडश । “षष उत्वम्"(काल्वा०) इत्यत्रोपदेशस्थोऽयं षकारः। आदिः किम् ? अवि. षः, महिषः । "अविमहिभ्यां टिष" (उ०सु०४८)। नन्वत्र प्रयोजनाभा. वादेव षकारस्येत्संज्ञा न भविष्यति ईकारस्य टित्वादेव सिद्धेः । न च पक्षे ङीषर्थः षकारः । ङीषोऽपि चितः परस्योदात्तनिवृत्तिस्वरेणो. दात्तत्वात् , सत्यम, विनिगमकाभावेन पक्षे टकारस्यापि श्रवणं स्यात् ।
चुटू (अष्टा०स०१-३-७) । प्रत्ययाद्यौ चुटू इतौ स्तः । “गोत्रे कुजा. दिभ्यश्फ" (अष्टा सू०४-१-९८) कोजायन्यः । छस्य ईयादेशं व. क्ष्यति । जस् ब्राह्मणाः । झस्यान्तादेशो वक्ष्यति । सो(१)स्याभिजनः इत्यधिकारे "शण्डिकादिभ्यो ज्यः' (अष्टा सु०४-३-९२) शाण्डिक्यः। "चरेष्टः" (अष्टा सु०३-२-१६) कुरुचरी । ठस्येकादेशं वक्ष्यति । “स. तम्यां जनेर्डः" (अष्टा सू०३-२-९७) उपसरजः। ढस्यैकादेशं वक्ष्यति । "धनगणं लब्धा" (अष्टा सू०४-४-८४) इत्यतो 'लन्धा' , इत्यनुवर्तः माने "अन्नाण्णः" (अष्टा०सू०४-४-८५) अन्नं लब्धा आनः । “चुटुषाः प्रत्ययस्य' इति कर्तव्ये योगविभागादनित्यमिदम् । तेन 'कशचुचुः' 'केशचणः' इत्यत्र चकारस्येत्संज्ञा न । सत्यां हि तस्यां "चित (अष्टा०स०६-१-१६३) इत्यन्तोदात्तः स्यात् । चित्करणं तु पर्यायार्थ स्यात् । “अवारकुटारच" (अष्टान्सू०५-२-३०) इत्यतोऽवादित्यनुवर्त. माने "नते नासिकायाः" (अष्टा०सू०५-२-३१) इति टीटच्-अवटीटः । यद्वा चुचुप्चणप्टीटचो यादयः, "लोपोव्योः" (अष्टान्सू०६-१-६६) इति यलोपे इति व्याख्येयम् । __लशक्कतद्धिते (अष्टा०म०१-३-८)। तद्धितभिन्ने प्रत्यये आदिभूता लशकवों इतः स्युः । "ल्युट च" [अष्टान्सू०३-३-१९५] भवनम् । "कर्तरि शप्" [अष्टा०सू०३-१-६८] भवति । "क्तकवत निष्ठा'' (अष्टा० सू०१-१-२६) भूतः, भूतवान् । "प्रियवशेवदः खच्" (अष्टा सू०३-२३८) प्रियंवदः, वशंवदः । "ग्लाजिस्थश्चग्स्नुः " (अष्टा०पू०३-२-१३९)
[१] "सोऽस्य निवासः" [अष्टा०स०४-३-८९] इत्यतः सोऽस्यइत्यः नुवर्तमाने "अभिजनश्व" (अष्टासु०४-३-९०) इत्यधिकारे इत्यर्थः ।
Page #68
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे यथासङ्ख्य परिभाषासूत्रम् ।
५९
1
I
जिष्णुः । " भञ्जभासमिदोघुरच्" [अष्टा०सू०३-२-१६१] भङ्गुरम् । डेहरये । अतद्धिते किम् ? चूडालः । " प्राणिस्थादातो लजन्यतरस्याम्" (अष्टा०सू०५-२-९६) लोमशः । अत्र प्रयोजनाभावान्नत्संज्ञेत्यपि सुव चम् | 'कर्णिका' "कर्णलला टाकनलङ्कारे" (अष्टा०सू०४-३-६५) इति भवार्थे कन् । अत्र “किति च " [अष्टा०सू०७-२-११८] इति वृद्धिः स्यात् रूपश्च न सिद्ध्येत् । "हर उपसङ्ख्यानम्" [का०वा०] रुणद्धि । अयं वा रेफो "हलन्त्यम्" (अष्टा०सू०१-३-३) इतीत्संज्ञः । इकारस्तु " उपदे. शेऽजनुनासिकः” (अष्टा०सू०१-३-२ ) इति । स्यादेतत्-एवं सतीदि. वान्नुम् स्यात् । न च तक्रकुम्भीधान्यन्याय आश्रयितुं शक्यः, 'नन्दति' इत्याद्यव्याप्तेः, सत्यम्, स्कन्दिप्रभृतीनां नकारपाठो ज्ञापकः अन्तेदितामेव नुमिति । यद्वा - "गोः पदान्ते" (अष्टा०सू०७-१-५७) इति सूत्रादन्तग्रहणमनुवर्त्तयिष्यते । तच्चावश्यमनुवर्त्यम् । चक्षिङो नुम् मा भूदिति । अथवा "न दृशः " (अष्टा०सू०३-१-४७) इति शापफान भविष्यति सति हि तुमि इगुपधत्वाभावादेव क्सस्याप्राप्तेः किं तनिषेधेन । यद्वा - "इरितो वा" (अष्टा०सू०३-१-५७) इति ज्ञापकात्लमुदायस्येत्संशा | अवयवे अचरितार्थस्य स्वरितत्वस्य समुदायविशेषकश्वात्स्वरितत्वप्रयुक्तमात्मनेपदम् । तेन 'रुन्धे' इत्यादि सिद्धम् ।
तस्य लोपः [अष्टा०सू०१-३-९] । तस्यतो लोपः स्यात् । तस्यग्रहणं सर्वलोपार्थम् । ञिटुडूना मलोन्त्यस्य मा भूत् । "नानर्थकेऽलोन्त्यविधिः” (प०भा० ) इति तु नास्ति । "अलोन्त्यात्पूर्व उपधा” (अष्टा०सू०१-१६५) इति सूत्रे तस्य प्रत्याख्यानात् ।
समसङ
यथासङ्ख्यमनुद्देशः समानाम (अष्टा०सू०१-३-१०) स्थानां सम्बन्धो यथाक्रमं स्यात् । "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः " (अष्टा०सु०३-१-१३४) नन्दनः, ग्राही, पचः । “समूलाकृतजीवेषु हन्कृञ्ग्रहः” (अष्टा०सु०३-४-३६) 'समूलघातं हन्ति' इत्यादि । अत्रानुवा द्ययोरपि धातूपपदयोर्यथाक्रमं बोध्यम् । स्यादेतत्- 'विदिभिदिछिदेः कुरच्” (अष्टा०सू०३-२-१६२ ) इत्यादौ तच्छीलाद्यर्थत्रयेण यथासङ्ख्यं प्राप्रोति । एवं "रूपव्यात" (अष्टा०सु०६-१-११२) ङसिङसोः इत्यादावपीति चेत् । अत्रभाष्यम् - "स्वरितेनेत्यपकृष्यते । तेन स्वांरंतत्वाभावा नेह यथासङ्ख्यम्” इति । प्रतिशास्वरिताः पाणिनीयाः । स्वरितत्वा भावादेव "कर्तृकर्मणोश्च भूकृञोः” (अष्टा०सु०३-३-१२७) इति सूत्रे न यथासंख्यं "नाडीमुष्ट्योश्च" (अष्टा०स्०३-२-३०) इति सूत्रे यथासंख्यं च भवत्येदेति भाष्यम्। वृत्तिकारस्तु "कर्तृकर्मणोश्च" (अष्टा०सू०३-३-१२७)" ना
Page #69
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
डीमुष्ट्योश्व" (अष्टा०सू०३-२-३०) इति सूत्रद्वयंऽपि माय विपरांतं वदन्नुपेक्ष्यः । " नाडीमुष्टयोश्च (अष्टा०सू०३ - ३ - ३० ) इति सूत्रे यथा सङ्ख्या. भावपरं भाष्यमपि पूर्वापरविरोधाच्चिन्त्यम् । एतदेव वा मतान्तरपरं स. तत्रत्यवृत्तेरालम्बनमस्तु | "कर्त्तृकर्मणोः " ( अष्टा०सू०३-३-१२७) इत्यत्र तु वृत्तिश्चिन्त्यैव । "वैशोयशआदेभंगाद्यल् खौ ” (अष्टा०सू०४-४-१३१) इ. त्यत्राप्यस्वरितत्वादेव न यथासङ्ख्यम् । इह भाष्ये वृत्तौ चेत्थं स्थि तम् । चतुर्थे तु वृत्तिकारो योगं व्यभजत् । "भगाद्यल्" इति "खच" इति च ।
स्वरितेनाधिकारः (अष्टा०सू०१-३-११) । " इत्थंभूतलक्षणे" (अ. ष्टा०सू०२-३-२१) तृतीया । अधिकारविनियोगः स्वरितत्वयुक्त शब्दस्वरूपमधिकृतं बोध्यम् । "प्रत्ययः " ( अष्टा०सू०३ - १ - १) "परश्च' (अष्टा०सू०३-१-२) इत्यादि । यथा प्रायेणोत्तरत्रोपस्थितिः । क्व चित्तु पूर्वत्रापि । तदुक्तम्-"अतिङित्यु भयोर्योगायोः शेषः" इति । कियदूदूरमधिकार इत्यत्र व्याख्यानं शरणम् । यथा आतृतीयाध्यायान्तं धात्वधिकारो न तु प्राग्लादेशेभ्य एव । तथा आसप्तमाध्यायपरिसमाप्तेरङ्गा धिकारो न तु प्रागभ्यासविकारभ्य एवेत्यादि । यद्वा-'स्वरिते' इति सप्तम्यन्तम् । तेन तस्मिन्दृष्टे अधिकारो निवर्त्तत इत्यर्थः । कः स्वरिताधिकारार्थः कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तां किमनेन सूत्रेग, सत्यम्, अर्थान्तराणि सङ्ग्रहीतुं सूत्रं कृतम् । तथाहि स्वरितेनाधिकाररूपोर्थो ग्राह्यः । " गो. स्त्रियोः" (अष्टा०सू०१ -२-४८) इत्यत्र च स्त्रीशब्दः स्वर्यते । तेन गोटा• ग्रहणं कृन्निवृत्त्यर्थमिति न वक्तव्यम् । किञ्च अधिकं कार्यमधिकारः । गौणेऽपि शास्त्राप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते ( अपादानाधिकरणादौ ) तत्र स्वरितः पाठ्यः । अपि च अधिकः कारः कृतिरियम् । यत्पूर्वः सन् परं बाधते । तथा च पूर्वविप्रतिषेधा' संगृहीता भवन्ति । तत्र तत्र स्वरितपाठेनैव गतार्थत्वादिति दिक् । ॥ श्रीशब्द कौस्तुभे प्रथमस्याध्यायस्य तृतीये पादे प्रथमान्हिकम् ॥
६०
अनुदात्तङित आत्मनेपदम् (अष्टा०सू०१-३-१२) । अनुदात्तेक उपदेशे यो ङित्तदन्ताद्धातोर्लस्थाने आत्मनेपदमेव स्यात् । एधते, स्पर्धते, बोभूयते, ऋतीयते कथं तर्हि 'शेते' इत्यादि, डिदेव त्वयमिति चेत्, सत्यम् । व्यपदेशिवद्भ।वो बोध्यः । उपदेशे किम् ? 'चुकुटिषति - "गाडू. टादिभ्यः " (अष्टा०सू०९-२-१) इति सम आतिदेशिकं डिस्वम् । घाती
Page #70
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमसूत्रम् ।
रिति किम् ? अत्युतत् . अदुद्रुवत्, इति ङिदभ्यामङ्चङ्भ्यां मा भूत् । कथं पुनः “धातोः" इति लभ्यते इति चेत् , "भूवादि" (अष्टा०सू०१-३-१) सूत्रान्मण्डूकप्लुत्याऽनुवृत्तस्य "धातवः" इत्यस्य विभक्तिविपरिणामा. त्। “सादृश्यमात्रेण परिणामव्यवहारो वस्तुगत्या तु योग्यशब्दा. न्तरमेव सन्निहितं भवति" इति कैयटः । यद्वा-आत्मनेपदेनैव लका. रस्य धातोश्चाक्षेपः । "इको झल" (अष्टास०१-२-९) इत्यत्र सना धातोराक्षेपवत् । अत एव ङिता तस्य विशेषणात्तदन्तविधिा . ख्यातः । 'चित्रीयते' इत्यादौ तु अवयवेऽचरितार्थेन उकारेण क्यज. न्तस्य विशेषणं ततो व्यपदेशिवद्भावान्दिन्ततेति दिक् । एतेन 'चिनुतः' 'सुनुतः' इति व्याख्यातम् । यत्तु तत्र ङितीव द्विदिति व्याख्यानमाश्रित्य समाधानं, तदापाततः । 'पचेते' इत्यादौ “आतो. डितः" (अष्टा०सू०७-२-८१) इति इयादेशाभावप्रसङ्गात् । ननु "वृद्भयः स्यसनोः" (अष्टा सू०१-३-९२) इति सूत्रे स्थग्रहणेन 'विकरणेभ्यो नियमो बलीयान्" इति ज्ञापितत्वाश्चङकोः 'चिनुतः' इत्यादौ चानु पपत्तिरेव नास्तीति चेत, उपजनियमाणेनापि ङिता उपसञ्जातनिमि. तस्यापि परस्मैपदस्य बाधापत्तः । “नियमो बलीयान्" इत्यस्यापि पाक्षिकस्वाच । “वृद्भयः स्यसनोः" (अष्टान्सू०१-३-९२) इत्यस्य वि. करणव्यवधानेऽपि नियमप्रवृत्तिरिति ज्ञापकताया अपि सुवचत्वात् । "शदेः शितः" (अष्टा०सू०२-३-६०) इति सूत्रे भाष्यकैयटयोरिदं स्पष्टम् । तस्माद्यथाव्याख्यानमेव मनोरमम् । हरदत्तस्तु ङित इत्येव व्याख्यत् । “धातोः" इति नापेक्ष्यते । “नियमो बलीयान्" इत्याश्रयः 'णाश्चादौ न दोषः । न च भाविना ङिता बाधः । परत्वात्परस्मैपदस्यैः वोचितत्वात्" इति तस्याशयः । उभयथापि यडीयङोर्डित्वस्य गुणनिषेधे चरितार्थतामाशङ्कय यङः प्रागनुदात्तमकारं प्रश्लिष्य "जुचङ्. क्रम्यदन्द्रम्य" (अष्टा०सू०३-२-१५०) इति ज्ञापकाद्युजभावं वदन्तः ईयङः प्रागिकारमीकारं वा प्रश्लिष्य आद्ये अन्तेदित्वाभावान्न नुम् , द्वितीये एकाच इत्यनुवृत्तेः "श्वीदितो निष्ठायाम्" (अष्टास ७-२-१४) इति नेपिनषेध इति कल्पयन्तः परास्ताः । स्यादेत्-यङ्लुक्यपि सर्व. पातिव्याप्तिः, प्रत्ययलक्षणेन ङिदन्तत्वात् । सत्यम् , ङित्त्वस्य पत्ययाप्र. स्ययसाधारणतया 'सुदृषत्' इत्यत्र “सोमनसि" (अष्टासू०६-२-१९७) इतिस्वरस्येव "अत्वसन्तस्य" (अष्टा०पू०६-४-१४) इति दीर्घस्येव चेहात्मनेपदस्याप्रवृत्तरिति निष्कर्षः । प्राञ्चस्तु 'बोभूतु तेतिक्ते" इत्यत्र तिजेर्यलुगन्तादात्मनेपदविधानं ज्ञापकं यङ्लुगन्तात्प्रत्ययलक्षणेनात्म.
Page #71
--------------------------------------------------------------------------
________________
६२ शब्दकौस्तुभप्रथमाध्यायतृतीयंपादे द्वितीयान्हिके-- नेपदं नांत । अत एव “चर्करीतं च" इत्यदादौ पठितस्य चकारात्पर. स्मैपदमिति व्याख्यानं ज्ञापकसिद्धार्थानुवाद इति सिद्धान्तः । नन्वे. वमपि 'पास्प/ति' इत्यादावात्मनेपदं दुर्वारम , स्पर्द्धरनुदात्तेत्वात् । न चेदं प्रकृत्यन्तरमिति वाच्यम् , द्विःप्रयोगो द्विवचनं षाष्ठमिति वक्ष्यमा. णत्वात् । सत्यम् , "श्तिपा शपा" (काल्वा०) इत्यादिना निषेधो बोध्यः । अनुबन्धेन निर्देशो हि द्विधा । व चित्साक्षात्-"शीङः सार्वधातुके गुणः” (अष्टा०सू०७-४-२१) । "दीङो युद" (अष्टा०सू०६-४-६३) इति यथा । “अनुनादात्तेतः” (अष्टा सू०३-२-१४९) इत्यादी त्वनुबन्धत्वेनः। यत्र तु नोभयथापि निर्देशस्तद्भवत्येव । “आङो यमहन:' (अष्टा०सू० १-३-२८) "भावकर्मणोः" (अष्टा०म०१-३-१३) इत्यादि यथा । ननु "आङः" इति कथं नानुबन्धनिर्देश इति चेत्, न । प्रकृतिग्रहणे या लुगन्तस्य प्रहणमित्यस्य यमपवादः । तेन प्रकृतेर्यत्रानुबन्धेन निर्देशः स एवास्य विषयः । अत एव 'चेचितः' 'मरीमृष्टे' इत्यादौ 'डिति च" (अष्टा०सू०१-१-५) इति प्रवर्तत एवेति दिक् । अथ कथं "स ए. वायं नागः सहति कलभेभ्यः परिभवम्" इति । अत्राहुः । “आषाद्वा" (ग०सू०) इति विकल्पितणिचः सहेरिदं रूपम् । यद्वा-चलिमे किकरणमनुदात्तेरवलक्षणस्यात्मनेपदस्थानित्यतां शापयति । स हि अनुदात्तेत । "विचक्षणः प्रथयन्" इत्यादौ "अनुदात्तेतच हलादेः" (अष्टा०सू०३-२-१४९) इतियुवा दर्शनात् । न चायं ल्युट् । लित्स्वरा. पत्तेः । अन्तोदात्तस्य च पाठ्यमानत्वादिति । एतेन "स्फायत्रिोकस. निध' इति मुरारिप्रयोगो व्याख्यातः । स्यादेतत्-लस्य तिवादयः । लटः शतृशानचौ । लिटः कानज्वा । कसुश्च । “लटः सद्वा" [अष्टा सु०३-३-१४) इत्यात्मनेपदपरस्मैपदयोर्विहितवादित आरभ्यापादप. रिसमाप्तः प्रकरणं किमर्थमिति चेत्, नियमार्थमित्यवेहि । अत एवानु. दात्तङित आत्मनेपदमेवेति व्याख्यातम् । सोयं प्रकृतिनियमः । उत्तर. सूत्रे च भावकर्मणोरात्मनेपदमेवेति अर्थनियमः। यत्रैवकारस्ततोन्यत्रा. षधारणमिति सिद्धान्तात् । तथाहि
"तदसम्बन्ध्यसम्बन्धी व्याप्तिः सैवावधारणम् ।
व्यापकत्वद्योतकैव शब्दसम्बद्धभिन्नजम् ॥ न चास्मिन्पक्षे अनुदात्तेत्प्रभृतिभ्यः परस्मैपदं मा भूत् आत्मनेपदं स्वनियतत्त्वात् 'अत्ति' इत्यादावपि स्थादितिवाच्यम्।शेषात्परस्मैपदमेवेति नियमात् । ननु तत्र कर्तरात्युक्तेः कर्तरि परस्मैपदमेवास्तु । भावकर्मजोट । 'जागर्यते' 'अद्यते' इत्यादौ परस्मैपदं दुर्वारमेवेति चेत्र। भाव.
Page #72
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनिय मसूत्रम् ।
६३
3
·
कर्मणोरात्मनेपदमेवेति नियतत्त्वात् । अस्तु वा प्रत्ययनियमः । आत्मनेपदमनुदात्तङित पवेति । भावकर्मणोरेवेति । न चैवमनुदात्तेत्प्रभृतिभ्यः परस्मैपदप्रसङ्गः । परस्मैपदस्यापि "शेषात्कर्त्तरि" (अष्टा०सू०१-६-७८१ ) इति नियतत्वात् । ननु कीदृशस्तत्र नियमः कर्त्तरि यदि परस्मैपदं भवति शेषादेवेति शेषाद्यदि भवति कर्त्तर्येवेति वा, आधे अशेषात्कर्त्तरि मा भूत । भावकर्मणोस्तु शेषाद शेषाश्च परस्मैपदं दुर्वारम् । अन्त्ये शे. सद्भावकर्मणोर्मा भूत, अशेषान्तु भावकर्मकर्तृषु विष्वपि प्राप्नोति । सत्यम, योगविभागेन नियमद्वयं बोध्यम् । शेषादेव तत्रापि कर्त्तयैवति । तस्मादिह प्रकरणे प्रकृत्यर्थनियमः प्रत्ययनियमो वेति पक्षद्वयमपि स्थि. तम् । स्थादेतत्-विकरणव्यवधाने नियमो न प्राप्नोति । तथाहि - विक रणानामवकाशो लादेशभिन्नाः । “इश्तिपौ धातुनिर्देशे" (का०वा० ) इति तिप् । “पाघ्राध्माधेट्दृशः शः (अष्टा०सू०३-१-१३७) । ताच्छीव्यादिषु चानश् । नियमस्यावकाशः लिलिङो लुक लुइनमश्च । पस्पर्धे, स्पर्धिषीष्ट, आस्ते, शेते, अत्ति, जुहोति, भिनत्ति, भूयात्, इत्यादि । एघते, स्पर्धते, कुरुते, निविशते, इत्यादावुभयप्रसङ्गे परत्वान्नित्यत्वाच विकरणेषु तैर्व्यवधानान्नियमो न स्यात् । ततश्च प्रकृतिनियमपक्षे विकरणान्तादुभयप्रसङ्गः । प्रत्ययनियमेऽपि तुल्यजातीयस्यैव नियमेन व्यावृत्तिः धातोरनन्तरस्य लक्ष्य यद्यात्मनेपदम् "अनुदान्तङित एब" यदि तु परस्मैपदं, " शेषादेव" इत्यादि । तथा च धात्वन्तरात्तद्यावृत्तावपि विकरणव्यवधाने नियमाप्रवृत्तेः पदद्वयमपि स्यादेव | सत्यम्, विकरणेभ्यो नियमो बलियान्" इति "वृद्ध्यः स्यसनोः” (मष्टा०सू०१-३-९२ ) इतिस्यग्रहणेन ज्ञायते । अतो नियमद्वयेप्यदोषः । तत्रापि प्रकृत्यर्थनि. यमपक्षो बलीयानित्यवधेयम् । तत्र हि शेषात्कर्त्तरीति न वाच्यम्, किन्तु परस्मैपदमित्येव यत्र तच्चान्यच्च प्राप्तं तत्र परस्मैपदमेव स्यात् । प्रत्ययनियमपक्षे तु शेषादिति कर्त्तरीति वाच्यम्, योगश्च विभजनीय इति दोषत्रयमधिकं स्यात् । तिबादिवाक्येन सह वाक्यभेदः परिसङ्ख्याप्रयुक्तत्रिदोषता चेति दोषचतुष्कन्तु पक्षद्वयेऽप्यस्त्येव । यदि तु तदपि किमर्थे सोढव्यमिति बुद्धिस्तर्हि लस्य तिबादय इत्यनेन सहेदं प्रकरण - मेकवाक्यतया विधायकमिति व्याख्येयम् । अस्मिन्पक्षे शेषात्कर्त्तरीति कर्त्तव्यमेव । परस्मैपदमात्मनेपदमिति च सुत्रशाटकवद्भाविनी संज्ञानयणीया । अन्यथा विहितानां संज्ञा संज्ञया च विधानमित्यन्योन्याश्रयः स्वात । अस्मिश्च पक्षे विकरणेषु न कश्चिद्दोषः । लादेशेषु कृतेषु सार्वधातुकमाश्रित्य विकरणप्रवृत्तेः । न च स्यादिषु दोषस्तदवस्थ एवेति
Page #73
--------------------------------------------------------------------------
________________
६४
शब्दकोस्तुभप्रथमाध्यायतृतीयपादे द्वितायान्हिके
वाच्यम् , लमात्रापेक्षयान्तरङ्गेषु तिवादिषु कृतेषु लकारविशेषापेक्षतया बहिरङ्गाणां स्यादीनां प्रवृत्तेः ।
भावकर्मणोः (अष्टा०१०१-३-१३)। अनयोर्विहितस्य लस्यात्मनेपदं स्यात् । सुप्यते, क्रियते । प्राग्वेदकवाक्यतया विधिः भिन्नवाक्यतया नियमो वेति बोध्यम् । नियमोऽपि द्विधा, प्रत्ययनियमोऽर्थनिय. मश्चेति । न चान्त्यपक्षे कर्मणि घञ् न स्यात् 'को भवता लाभो लब्धा' इति, "अकत्तरि च" (अष्टा०सू०३-३-१९) इत्यस्य स्वपादानादिरवकाश इति वाच्यम् । तुल्यजातीयस्य परस्मैपदस्यैव नियमेन व्यावर्त्तनात स्या. देतत्-"लूयते केदारः स्वयमेव"इत्यत्र परस्मैपदं प्राप्नोति। "कर्मवत्कर्मः णा' (अष्टा सू०३-१-८७) इत्यनेन हि शास्त्रं व्यपदेशो वाऽतिदिश्यते । तथा च तेन तेन शास्त्रेण तत्तकार्य कर्त्तव्यम् । तत्र कर्मण्यात्मनेपदमित्य. स्यावकाशः शुद्ध कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता। कर्मकतर्युभयप्रसङ्गे परत्वात्परस्मैपदामिति । सत्यम्, प्राधान्यात्कार्यातिदेश एवेत्यात्मनेपदमेव परं बोध्यम् । पक्षान्तरे तु "शेषात्कर्तरि" (अष्टा० सू०१-६-७८) इत्यत्र "कर्तरि कर्म" (अष्टा सू०१-३-१४) इत्यतः कर्तरीत्यनुवर्त्य कर्तव यः कर्ता तत्र परस्मैपदं न तु कर्मकर्तरीति व्याख्यातम् ।
कर्तरि कर्मव्यतिहारे (अष्टा सू०१-३-१४) । विनिमयविषयीभूता. यां क्रियायां वर्तमानाद्धातोः कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्य. न्य योग्यं लवनं करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः। सम्प्रहरन्ते राजानः । "व्यात्युक्षीमभिसरणग्लहामदीव्यन्।' कर्तन हणमुत्तरार्थम् ।
न गतिहिंसार्थेभ्यः (अष्टा०सू०१-३-१५) । एभ्यः कर्मव्यतिहारे आत्मनेपदं न स्यात् । व्यतिगच्छन्ति, व्यतिसर्पन्ति, व्यतिघ्नन्ति । प्रतिषेधे हसादीनामुपसङ्ख्यानम् (कावा०)। हसादयो हसप्रकाराः शब्दक्रियाः। व्यतिहसन्ति, व्यतिजल्पन्ति । हरतेरप्रतिषेधः (काभ्वा०) सम्प्रहरन्ते राजानः । अर्थग्रहणसामर्थ्याधे शब्दान्तरनिरपेक्षा गतिहि. सयोर्वर्तन्ते त इह गृह्यन्ते । हरतिस्तूपसर्गवद्धिसायां वर्तत इति न तस्यायम्प्रतिषेध इत्याहुः।
_ "ततः सम्प्रहरिप्यन्तौ दृष्टा कर्णधनञ्जयो" इत्यत्र तु 'योत्स्यमानौ' इति विवक्षितं न तु कर्मव्यतिहारः । वस्तु नायं प्रतिबंधः। अगत्यर्थत्वात् । प्रापणं हि वहेरर्थः। गतिप्रतीति. स्वाक्षेपात्।
Page #74
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदमियमप्रकरणम्।
६५
इतरेतरान्योन्योपपदाच (अष्टा०सू०१-३-१६)। आत्मनेपदं न स्यात् । परस्परोपपदाति वक्तव्यम् (का०वा०) । इतरेतरस्यान्योन्यस्य पर. स्परस्य वा 'व्यतिलुनन्ति' । लौकिके शब्दव्यवहारे लाघवं प्रत्यनादरा. दितरेतरादिशब्दा व्यतीत्युपसर्गौ च कर्मव्यतिहारद्योतनाय समुच्ची. यन्ते । तथारमनेपदमपि समुच्चीयेतेति निषेधोऽयमारभ्यते। नन्वेवं_ "सम्पविनिमयेनोभो दधतुर्भुवनद्वयम"।
इत्यत्र तङ् कथं नेति चेत् ? करणविनिमये सत्यपि क्रियाविनिमय स्थाविवक्षितत्वात् ।
नेविंशः (अष्टा सू०१-३-१७) । निपूर्वाद्विश आत्मनेपदं स्यात् । नि. विशते ने किम् ? प्रविशति । कथं तर्हि 'न्यविशते' न्यविक्षते' इति, अटा व्यवधानात् । न च स्वाङ्गमव्यवधायकमिति वाच्यम् । अङ्गभक्त. स्याटो विकरणानां प्रत्यवयवत्वेपि धातुम्प्रत्यनवयवत्वेन व्यवधायक त्वादिति । अत्राहुः-तिबादिविधेः प्राग्लावस्थायां धातोरेवाडागमः । "लुङल" (अष्टा०सू६-४-७१) इत्यत्र द्विलकारकनिर्देशस्य भाष्यकृता "असिद्धवत्" (अष्टान्सू०६-४-२२)सूत्रप्रत्याख्यानावसरवक्ष्यमाणत्वात्। मतान्तरेऽपि लकारविशेषापेक्षत्वादहिरङ्गमडागमं बाधित्वा लमात्रापे. तत्वादन्तरङ्गेषु तिबादिषु कृतेषु नियमो भविष्यति । "विकरणेभ्यो नि यमो बलीयान्" इति सिद्धान्तात् । अत्र च "वृद्भयः स्यसनोः" (अष्टा० सू०१-३-९२) इति स्यग्रहणं शापकमिति बोध्यम् । अथेदं शापकं विक. रणव्यवधानेपि नियमः प्रवर्तते इत्येवंपरतयानीयेत तथाप्यदोषः, अ. तरकत्वात्तिबादिषु सत्सु शब्दान्तरप्राप्त्वाऽनित्ययोरड्विकरणयोर्म. ध्ये परत्वादप्रवृत्तेः । ननु विकरणः शब्दान्तरात्प्राप्तो न तु शब्दान्तरस्येति चेत , किन्ततः १ न हि "शब्दान्तरस्व" इति वाचनिकम् , किन्तु न्यायोऽयम् । तथा च शब्दान्तरस्य प्राप्नुवत इव तस्मात्प्राप्नुवतोय. नित्यत्वम् । यद्यक्तिसम्बधितया पूर्व प्राप्नोति तद्यक्किसम्बन्धितया पुनः रप्राप्तेस्तुल्यत्त्वात् । अत एवोपसर्गनियमे "अव्यवाय उपसमयानम् (कवा० ) इति बार्तिकं प्रत्याख्यानम् "शः शितः" (अष्टा०सू११-३६०) इति सूत्रे भगवता भाष्यकारेणेति दिक् । अर्थवद्रहणपरिभाषया ने. रुपसर्गस्य प्रहणं तेनेह न-मधूनि विशन्ति भ्रमराः । कथं तर्हि-. __"त्युक्त्वा मैथिली भर्नुरके निविशती भयात्' (०१२-३८).इति कालिदास इति चेत् , अङ्गानि विशतीमिति पाठ इति प्रामाणिकाः । यनु पदसंस्कारपक्षेण समाधान दुर्घटवृत्तौ कृतम्, तन्न । अपवादविषषपरिहारेणोत्सर्गप्रवृत्तेः। अन्यथाऽतिप्रसङ्गात् । “वा लिप्साया"
शब्द. द्वितीय. 5.
Page #75
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
६६
(का०वा० ) इत्यादेर्वैयर्थ्यापत्तेश्चेति दिक् ।
परिवयवेभ्यः क्रियः (अष्टा०सु०१-३-१८) । एभ्यः क्रीणातेरात्मनेपदं स्यात् । ञित्वादेव सिद्धे सत्यकर्त्रभिप्रायार्थीयमारम्भः । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । पर्यादय उपसर्गा इह गृह्यन्ते । तन्त्रावृत्याद्याश्रयणेन क्रीणातेर्ये पर्यादयस्तेभ्यः क्रिय इति व्याख्यानात् । परस्पर साहचर्याद्वा । तेनेह न - 'विक्रीणासि' इति । अत्र त्वेकदेशविकृतस्यानन्यत्वात्प्राप्नोति । न चायं विभक्तिविशिष्टस्य विरित्यस्य विकारो न तु विशब्दस्येत्युत्तर सूत्रस्थ कैयटवाक्याद् भ्रमितव्यम् विभक्तेलपात् । प्रकृतिभागस्यैव विकारात् । कैयटस्याप्ययमपरितोषोस्त्येव । अत एव वक्ष्यति - "पक्षिवाचिनो विशब्दस्य सम्भवे तु साहचर्यादुपसर्गग्रदणं व्याख्येयम्" इति ।
विपराभ्याञ्जे ः (अष्टा०सू०१-३-१९) । स्पष्टोर्थः । विजयते, पराजयते । प्राग्वदुपसर्गग्रहानेह - विजयति, पराजयति, सेना । परा उत्कृष्टा । ननु 'जेः' इति कथं निर्देशः । " प्रकृतिवदनुकरणम्" इत्यतिदेशेन धातुतया इयङि 'जियः' इति वक्तव्यत्वात् । न च 'नियः' क्रियः' इति दीर्घे सा वकाशमियडं परत्वाद् "घेडिंति" (अष्टा०सु७ - ३ - १११) इति गुणो बाधत इति युक्तम् । हस्त्रेष्वपि पूर्वविप्रतिषेधेनेयङ् इष्टत्वात् । अत एव 'क्षियः' इति निर्दिश्यते । किञ्च "क्षियो दीर्घात्" (अष्टा०सू०८-२-४६) इति सूत्रे दीर्घग्रहणमपीह शापकम् । अन्यथा "क्षियः" इति निर्देशांदव दीर्घस्य निर्णये किं तेन ? उच्यत-अनित्योयमतिदेशः । अतो नेयङ् । ब नित्यतायां प्रमाणन्तु "ऋलक्" (मा०सु०२) सूत्र एवोक्तम् । अविवक्षि तार्थरूपमात्रानुकरणाद्वा । यत्तु "पराजेरसोढः " (अष्टा०सू०१-४-२६) इति सूत्रे इयङः परत्वाद् " घेः " (अष्टा०सु०७-३-१११) इति गुण इति हरदत्तनोक्तम्, तच्चिन्त्यम् । “क्षियो दीर्घात् " (अष्टा०सु०८-२-४६) इत्येतत्सूत्रस्थभाष्यकै यटवृत्तिग्रन्यैस्तत्र त्ये हत्य स्वग्रन्थाभ्याञ्च सह वि रोधात् ।
आङो दोनास्यविहरणे (अष्टा०सू०१-३-२० ) । आपूर्वाद्ददातेर्मुख विकसनादन्यत्रार्थे वर्त्तमानादात्मनेपदं स्यात् । विद्यामादते । अनास्थविहरणे किम् ? मुखं 'व्याददाति' । आस्यग्रहणमविवक्षितम् । "उ पेयिवाननाश्वान् " (अष्टा०सु०३-२-१०९) इत्यत्रोपशब्दवत् । तेनेद्दानि न- 'विपादिकां व्याददाति' । पादस्फोटो विपादिका । नदीकूलं व्याददाति । पराङ्गकर्मकादनास्यइति निषेधो नेष्यते । तथा च वार्त्तिकमस्वाङ्गकर्मकाचेति (का०वा० ) स्वमङ्गमिह स्वाङ्गं न तु " मद्रवं मूर्त्तिम
•
Page #76
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
त्" इति परिभाषितम् । व्याददते पिपीलिकाः पतङ्गस्य मुखम्। कथ. न्तर्हि-"व्यादत्ते विहगपतिर्मुखं स्वकीयम्"। कत्रभिप्राये भविष्यति । अकभिप्रायार्थो ह्ययमारम्भः। एतेन 'मुख व्यादाय स्वपिति इत्यत्र 'सुप्त्वा व्यादत्ते' इति व्यत्यासेन प्रयोग इति प्रेत्य भावपरीक्षायां वाचस्पतिग्रन्थोपि व्याख्यातः । आङो डिद्विशिष्टस्य ग्रहणान्नेह'भिक्षामाददाति' । अत्र स्मृतावाकार इति हरदत्तः । __क्रीडोऽनुसम्परिभ्यश्च (अष्टा०सू०१-३-२१)। "क्रीड़ विहारे' (भ्वा० प०३५०) अस्मादात्मनेपदं स्यात् अनुसम्परिभ्यः । चकारादाङः । अनुक्रीडते, सीडते, परिक्रीडते, आक्रीडते । उपसर्गेण समा साहच. दिनोः कर्मप्रवचनीयान्न । माणवकमनुक्रीडति । माणवकेन सहेत्यर्थः । "तृतीयाथै" (अष्टा०सु०१-४-८५) इत्यनोः कर्मप्रवचनीयसंज्ञा । समो. ऽकजने (का०वा०) सङ्क्रीडति शकटम् । "मयास्य सङ्क्रीडति च. किचक्रः" इति श्रीहर्षः । कथं तर्हि-"क्रीडते नागराजः' इति । अपप्र. योग एवायमित्याहुः । आगमेः क्षमायाम् (का०वा०) ण्यन्तस्येदं ग्रहण म । आगमयस्व तावतू सहस्व कश्चित्कालम् ,मा त्वरिष्ठा इत्यर्थः। एतेन "यावदागमयतेऽथ नरेन्द्रान्' इति श्रीहर्षप्रयोगो व्याख्यातः। यावत्प्रतीक्षते इत्यर्थात् । शिक्षेर्जिज्ञासायाम् (का०वा०) धनुषि शिक्षते। "शि क्ष विद्योपादाने” (भ्वा० आ०५०६) इत्यस्य नह ग्रहणम्। अनुदात्तत्त्वा. देव सिद्धत्वात् किन्तु शकेः सन्नन्तस्य । “सनिमीम" (अष्टा०सू०७-४५४) इतीस् । धनुर्विषये ज्ञाने शको भवितुमिच्छतीत्यर्थः । क्रियैव हि शरर्थ प्रति विषयतयैवान्वेति । भोक्तुं शक्नोतत्यिादिदर्शनात् । भो. जनविषयकशक्तिमानिति. हि तदर्थः । “शकधृषज्ञाग्लाघटरम" (अष्टा० सू०३-४-६५) इति तुमुन् । इह तु ज्ञान विषयः । ज्ञातुमिति तु न प्रयु. ज्यते आत्मनेपदेनैव ज्ञानविषयकताया गमितत्त्वात् । न चैवं 'जिज्ञा. सायाम्' इत्यसङ्गतम् । ज्ञानेच्छा हि तदर्थः । लक्ष्ये तु ज्ञानं शको वि. षयः । शक्तिस्तु सनर्थभूतायामिच्छायामिति व्याख्यानात्, सत्यम्, ज्ञानविशिष्टायाः शक्तरिच्छाविषयतया ज्ञातस्यापि विषयतानपायात् । एतावानेव परम्भेदः । इच्छा सन्वाच्या शक्तिस्तु प्रकृत्यर्थः । तस्यास्तु ज्ञानविषयकत्वमात्मनेपदेन धोत्यतइति । आशिषि नाथः (कावा०) अनुदात्तेस्वादेव सिद्ध नियमार्थ वार्तिकम्-“मशिष्येव" इति । न चैव. मनुदात्तत्वं व्यर्थमिति वाच्यम् । तस्य 'नाथने' इति युजर्थत्वात् । 'स. पिषो नायते' । "आशिषि नाथः' (अष्टा० सू०२-३-५५) इति कर्मणि षष्ठी । 'सर्पिर्मे भूयादित्याशास्ते' इत्यर्थः। कथं तर्हि-"नाथले किमु पति
Page #77
--------------------------------------------------------------------------
________________
ફ્રૂટ
शब्द कौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
न भूभृताम्” ( कि०१३ - ५९ ) इति भारविः । उच्यते- नाधसे इति पाठः । तवर्गचतुर्थस्थाने लिपिप्रमादाद् द्वितीयः पठ्यते । अत एव काव्य • प्रकाशे च्युतसंस्कृतेरुदाहरणम्-
"तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थनादीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः " । (का०प्र०७ - ५) इति ।
"अनुनाथति स्तनयुगम्” इति तु पठनीयमिति तत्रैवोक्तम् । अत्रापि धकारो वा पाठ्यः । हरतेर्गतताच्छील्ये (का०वा० ) गतं प्रकारः । पैतुकमश्वा अनुहरन्ते । मातृकं गावोऽनुहरन्ते । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । " ऋतष्ठञ्” (अष्टा०सू०४-३-७८) सुसु 'कास्तात्कः” (अष्टा०सु०७-३-५१) । गतताच्छील्ये किम् ? मातुरनुहरति । सादृश्यमात्रमिह विवक्षितं न तु प्रकारताच्छील्यम् । किरते हैंजीविकाकुलाय करणेषु (का०वा० ) विक्षेपार्थः किरतिः । हर्षादयस्तु विषयत्वेनोपान्ताः । तत्र दर्षो विक्षेपस्य कारणं जीविकाकुलायकरणे तु फलम् । एष्वेवार्थेषु " अपाचतुष्पात्" (मष्टा०सू०६-१-१४२ ) इति सुविधीयते । अपस्किरते वृषो वृष्टः, कुक्कुटो भक्षार्थी, श्वा आश्र यार्थी च । हर्षादिष्विति किम् ? 'अपकिरति कुसुमम्' । इहात्मनेपदसुडागमौ न भवतः । हर्षादिमात्रसत्वे तु यद्यपि तङ् प्राप्नोति, तद्विषी चतुष्पाच्छकुनिकर्तृकत्वस्य निमित्तत्वेनानुपादानात्, तथापि शब्दशः तिस्वाभाव्यात्सुटा सह समानविषयोऽयं तङ् । तेन गजोऽपकिरति इत्येव भवतीत्याहुः । मङि नुप्रयोः (का०वा० ) आनुते । उरक ण्ठापूर्व शब्दं करोतीत्यर्थः । "णु स्तुतौ” (स्वा०प० १०३५ ) अदा दिः । आपृच्छते । “प्रच्छ शीप्सायाम्" (तु०प०१४१४) तुदादिः । "ग्रहिज्या" (भष्टा०स्०६-१-१६) इति सम्प्रसारणम् । " शप उपालम्भने” “शप आक्रोशे" ( भ्वा० उ०१०००) इति स्वरितेत् । तस्मादात्मनेपदमकर्तृगेऽपि फलं वक्तव्यं शपथरूपेर्थे । 'देवदत्ताय शपते' त्वत्पादौ स्यापि नैतन्मया कृतमित्येकं रूपं शपथं करोतीत्यर्थः । "श्लाघन्हूस्थाशपाम्” (अष्टा०सू०१-४-३४) इति सम्प्रदानसंशा । श्रीव्स्यमाने विवदन्ते । तद्यथा - "यस्मै माख्यायते स संम्प्रदानम्" इत्ये । “यं आख्यायते सः" इत्यन्ये । कथं तर्हि -
"नीवीम्प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किञ्चिदपि स्मरामि " । इति ॥ अत्राहु।—–'स्वाशयं प्रकाशयामि' इत्येतावदिह विवक्षितं न तु श.
Page #78
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
पथ इति ।
समवप्रविभ्यः स्थः (अष्टा०सू०१-३-२२) । एस्यस्तिष्ठतेः प्राग्वत् सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते । माङः प्रतिज्ञायामुपसंख्या• नम् (का०वा० ) 'शब्दं नित्यमातिष्ठते' नित्यत्वेन प्रतिजानी वृत्तौ तु 'अस्ति सकारमातिष्ठते' 'गुणवृद्धी भागमा वा तिष्ठत्यु दाहृतम् । अस्यार्थः - आपिशलिहिं " अस भुवि" ( म०प०१०१५) इति न पठति किं तु सकारमात्रम् । स्तः सन्तीत्युदाहरणम् | 'मस्ति' 'आसीत्' इत्यादिसिद्धये तु अडाटाबागमौ प्रतिजानीते । तावेव गु णवृद्धीति ।
प्रकाशनस्थेयाख्ययोश्च (अष्टा०सू०१-३-२३) । तिष्ठतेरेतयोरर्थयो', रात्मनेपदं स्यात् । गोपी कृष्णाय तिष्ठते । स्वाभिप्रायं प्रकाशयतीत्यर्थ “श्लाघनूङ्” (अष्टा०सु०१-४-३४) इति सम्प्रदानत्यम् । "संराज्य क र्णादिषु तिष्ठते यः " ( कि०३-१४) कर्णादीनिर्णेतृत्त्वेनाश्रयतीत्यर्थः । स्थेयो विवादपदनिर्णेता तिष्ठतेस्मिन्निति व्युत्पत्तेः । वृत्तौ तु 'डि न्त्यस्मिन्' इति प्रयुक्तम् । तत्र प्रकरणाच्छिदिना विवादपदनिर्णेतुः प्रतीतिनं तु शाब्दीत्यभिप्रायेण परस्मैपदं बोध्यम् । "कृत्यस्युटोबहुलम् " (अष्टा०सू०३-३-११३) इति अधिकरणे “अचो यत्" (अष्टो०सू०३-१- ९७) ।
उदोनूर्ध्वकर्मणि (अष्टा०सू०१-३-२४) । उत्पूर्वातिष्ठतेरनूर्ध्वस्ववि शिष्ठे परिस्पन्दे वर्त्तमानादात्मनेपदं स्यात् ।
"उत्तिष्ठमानस्तु परो नोपेश्यः पथ्यमिच्छता " । (शि०२-१०) अनूर्ध्वति किम १ "जवेन पीठ दुदतिष्ठदच्युतः " (शि०१-१२) । इह क्रियाया अनूर्ध्वत्वं नाम उपरिदेश संयोगफलकत्वाभावः । यद्यपि "उदेोऽनूर्ध्व" इत्युक्तेरनुर्ध्वताविशिष्टक्रियावाचकत्वं लभ्यत एव धा तोः क्रियावाचित्वाव्यभिचारात्तथापि लोकप्रसिद्ध परिस्पन्दात्मक कर्मपरिग्रहार्थं कर्मपदम् । तेनेह न - 'अस्माद् ग्रामाच्छतमुतिष्ठति' । उश्पद्यत इत्यर्थः । तथा च "उद ईहायाम्" (का०वा० ) इति वार्त्तिकं सौत्र कर्मपद सिद्धार्थकथनपरम् ।
उपान्मन्त्रकरणे (अष्टा०सू०१-३-२५) । मन्त्रकरणं कारकविशे यत्र तस्मिन्नर्थे वर्त्तमानादुपपूर्वका तिष्ठतेरात्मनेपदं स्यात् । आग्ने नीमुपतिष्ठते, ऐन्द्रया गार्हपत्यमुपतिष्ठते । मन्त्रकरणे किम् ? भ रमुपतिष्ठति यौवनेन । उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्टि वाच्यम् (का०वा ) देवपूजायां आदित्यमुपतिष्ठते । कथं तर्हि -. " स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती' (२०४-६) इति ।
Page #79
--------------------------------------------------------------------------
________________
शब्द कौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके-
देवतास्वारोपाद्भविष्यति । मद्दीपतेदेवतांशत्वाद्वा । सङ्गतकरणेरथिकानुपतिष्ठते । उपश्लिष्यतीत्यर्थः । एवं गङ्गा यमुनामुपतिष्ठते इति । मित्रकरणन्तुपश्लेषं विनाऽपि भवति । रथिकानुपतिष्ठते । अयं पन्थाः नमुपतिष्ठते । प्राप्नोतीत्यर्थः । वा लिप्सायामिति वक्तव्यम् । (का० वा० ) भिक्षुको ब्राह्मणमुपतिष्ठते, उपतिष्ठति वा । लिप्सया हेतुभूतया उपगच्छतीत्यर्थः ।
Go
अकर्मकाच्च (अष्टा०सू०१-३-२६) । उपपूर्वकात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निधत्ते इत्यर्थः ।
उद्विभ्यां तपः (अष्टा००१-३-२७) । आभ्यां तपतेरकर्मकादात्मने पदं स्यात् । उत्तपते, वितपते । दीप्यत इत्यर्थः । स्वाङ्गकर्मकाच्चेति वक्तव्यम् (का०वा० ) । स्वमङ्गं स्वाङ्गम् । नतु "अद्रवम्" इति परिभा षितम् । उत्तपते, वितपते पाणिम् । अकर्मकात्स्वाङ्गकर्म का दित्युक्तेः स्व. मङ्ग स्वाङ्गमिति व्याख्यानाच्च नेह - 'देवदत्तो यज्ञदत्तस्य पाणिमुत्तपति' । सन्तापयतीत्यर्थः । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । उद्विभ्यां किम् ? निष्टपति । "निसस्तपतावना सेवने" (अष्टा सू०८-३-१०२ ) इति मूर्धन्यः ।
आङो यमहनः (अष्टा०सू०१-३-२८) । आङ्पूर्वाभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्याञ्च यमिहनिभ्यामात्मनेपदं स्यात् । आयच्छते, आह ते । आयच्छते पाणिम् । आहते शिरः । नेह - परस्य शिर आहन्ति । कथं तर्हि "आजघ्ने विषमविलोचनस्य वक्षः" ( कि०१७-६३) इति भारविः । अत्र केचित् - 'आज' इति पदं छित्वा 'ने' इति भावे क्विपि चतुर्थीकवचनान्तमुक्ता ने हन्तुं आज जगामेति व्याचख्युः, तन्न । अ- लिटि वीभावेन 'विवाय' इति सिद्धान्तात् । अन्ये तु विषमविलोचनस्य समीपमेत्य स्वं वक्षमास्फालितवानित्यर्थः । मल्लो ह्युत्साहाविष्करणाय स्वं वक्षमास्फालयतीत्याहुः । भागवृत्तौ तु प्रमाद एवायमित्युक्तम् | एवञ्च “मोहादाहध्वं मा रघुत्तमम्" इति भट्टियोगोपि चिन्त्यः
समो गम्यृच्छिभ्याम् (अष्टा०स०१-३-२९) । सम्पूर्वाभ्यामकर्मकाभ्यां गच्छभ्यामात्मनेपदं स्यात् । सङ्गच्छते, समृच्छिष्यते । अकर्मका भ्यां किम् ? ग्रामं सङ्गच्छति । कथन्तर्हि "तच्चैक्यं समगच्छत" इति आर्यत्वात् । यद्वा-चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । एकं समपद्यतेत्यर्थः । विदि पृच्छिस्वतीनामुपसङ्ख्यानम् (का०वा० ) विदेर्शानार्थस्येह प्र. हणम् । परस्मैपदिभ्यां साहचर्यात् न लाभार्थस्य । स हि स्वरितेत्वादुभयपदी सत्ताविचारणार्थयोस्त्वनुदातेत्वादात्मनेपदं सिद्धमेव ।
.
Page #80
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपद नियमप्रकरणम् ।
७१
संवित्ते, संविदाते, संविदते । सम्पृच्छते, संस्वरते । अर्त्तिश्रुह शिभ्यश्चेति वक्तव्यम् (का०वा० ) । 'अर्त्ति' इतिभ्वादिजुहोत्यादी द्वावपि गृह्येते । "सर्त्तिशास्ति" (अष्टा०सु०३-१-५६ ) इत्यविधौ तु शास्ति ना लुप्तविकरणेन साहचर्याज्जुहोत्यादेरेव ग्रहणम् । परस्मैपदेषु इति तूत्तरार्थमनुवर्तमानमपि योगविभागसामर्थ्यादविधौ न सम्बध्यते । तेन 'मासमृत' 'मासमृषातां ' 'मासमृषत' इति भाष्यं स्वाद्यभिप्रायेण । 'समारत' 'समारेतां' 'समारन्त' इति वृत्तिस्तु जुहोत्याद्यभिप्रायेण योज्या । संशृणुते सम्पश्यते । "रक्षांसीति पुराऽपि संशृणुमहे" इति मुरारिप्रयोगस्तु चिन्त्यः । अकर्मकादित्यनुवृत्तेः । वृत्तिकारस्तु "समो गम्यृच्छिप्रच्छिस्व रत्यर्त्तिश्रुविदिभ्यः" इति पठित्वा "हशे श्च" इति वक्तव्यरूपेण पपाठ । तत्र वार्त्तिकानुपूर्वीभङ्गे केषाञ्चिदेव सूत्रे प्रक्षेपे दृशेश्च तद्बहिष्कारे बीजं न पश्यामः । अथास्मिन्नकर्मकाधिकारे ये सकर्मका हनिगमिप्रभृतयस्तेषां कथमकर्मकता । उच्यते"धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेविवक्षातः कर्मणोकर्मिका क्रिया" ॥
'वहति भारम्' इति प्रापणे सकर्मको वहिः । स्पन्दने त्वकर्मकः । 'वहन्ति नद्यः' इति । प्राणविशिष्टं धारणं जीवतिराह । गात्रविशिष्टं विक्षेपञ्च नृत्यतिः । अतो द्वावप्यकर्मकौ । प्रसिद्धेर्यथा- 'मेघो वर्षति' इति । कर्मणो ऽविवक्षातो यथा - "हितान्न यः संशृणुते स किं प्रभुः " (किं०१–५) । “उपसर्गादस्यत्यूह्योर्वा" (का०वा० ) इति वक्तव्यम् । इति आरभ्याकर्मकादिति न सम्बध्यते । निरस्यति, निरस्यते । समूहति, समूहते । उपसर्गात्किम् ? अस्यति, ऊहते । अनुदात्तेत्वादात्मनेपदी | कथन्तर्हि "अनुक्तमप्यूहति पण्डितो जनः" इत्यादि । चक्षिङो डिक्करणे. नानुदात्तेश्वलक्षणस्यात्मनेपदस्यानित्यताज्ञापनात्समाधेयम् ।
एकारान्तस्य
निसमुपविभ्यो ह्वः (अष्टा०सू०१-३-३०) । स्पष्टार्थः । निह्वयते । अकर्त्रभिप्रायार्थ सूत्रम् । स्यादेतत्- 'निह्नास्यते' इत्याद्युदाहरणमस्तु न तु 'निह्वयते' इति । आकारान्तस्य सूत्रे उपादानात् । ग्रहणाभावात् । नहि विकृतिः प्रकृर्ति गृह्णातीति चेत् ? उच्यते- --आका रान्तादपि कथमभ्युपैषि । नहि 'ह्वः' इति सूत्रे आकारविशिष्टः पठितः । प्रयोगसमवायिनां वाचकतेति सिद्धान्तरीत्या 'ह्व' इति वान्तस्य आकारान्तमर्थः । 'दध्ना' इत्यत्र नान्तस्य दधी वेति यदि तर्हि वान्तस्यैव एकारान्तनर्थ इत्यपि तुल्यम् । प्रक्रियादशायां हि एकारान्तानुकरणे लक्षणनशादशत्वं केतु आकारान्त इहानुकार्यः । तस्मान्न कि.
Page #81
--------------------------------------------------------------------------
________________
७२ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेशिदिहानुपपन्नम् । यत्त न्यासकृतोतं "नव्यो लिटि' (अष्टासु०६-१४६) इत्यात्वनिषेधके सूत्रे तात्वस्य 'व्य' इत्यस्य निर्देशाज्ञापकाद्वि. कतिरपि प्रकृति गृहातीति । सोयमस्थाने संरभ्भः । उक्तरीत्या पूर्वपक्ष स्व शिथिलत्वात् । “एरनेकावः” (अष्टान्सू०६-४-८२) "ओः सुपि" (अष्टा सु०६-४-८३) इत्यादावपि विकृतिग्रहणे 'शिशयिषत' इत्यादा. वीप यणापत्तेः। विकृतेः प्रकुतिग्राहकत्वे 'विश्वराजौ' इत्यत्रापि "वि. श्वस्य वसुराटोः" (अष्टा०सू०६-३-१२८) इति दीर्घप्रसङ्गात । 'तुरा. साहम्' इत्यादी मूर्धन्यप्रसङ्गाच्चेति दिक्।
पर्धायामाङः (अष्टा सु०१-३-३१)। आफ़्र्वात् हयतेरात्मनेप. दं स्यात्स्पर्धाया विषये । मल्लमाह्वयते। स्पर्धमानस्तस्याव्हानङ्करोतीत्य. थः। स्पर्धायां किम् ? पुत्रमाव्हयति । यद्यपि स्पर्धायामप्ययं धातुः पठ्यते तशापि आङपूर्वकस्तत्र न वर्तते किं तु शब्दने । अत एव स्पर्धा. यां विषये अयं विधिरिति व्याख्यातम् ।
गन्धनविक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृषः (अ. ष्टा सू०१-३-३२) । सप्तस्वर्थेषु कृम आत्मनेपदं स्यादकर्तृगेपि फले । ग.' न्धनमिह सूचनम् । तथाहि-"गन्ध अर्दने'' (चु०आ०१६८५) अर्द हिंसायाम्" (चु०उ०१८२९) इति च चुरादौ पाठाइन्धनं हिंसा । सूचनमपि वधबन्धादिकरणत्वाद्धिसेति स एवेह गन्धनशब्दा. र्थः । उत्कुरुते सुचयतीत्यर्थः । अवक्षेपणं भर्सनम् । श्येनो वर्तिकामुदा. कुरुते भर्सयते इत्यर्थः । हरिमुपकुरुते सेवत इत्यर्थः। सहसा वर्तते साहसिकः। "ओजः सहोम्भसा वर्तते(अष्टा सू०४-४-२७) इति उक् । तस्य कर्म साहसिक्यम् । व्यञ्। परदारान्प्रकुरुते तेषु सहसा प्रव. तत इत्यर्थः । प्रतियत्ने-एधो दकस्योपस्कुरुते । “अवोदधौधम" (अष्टा० स०६-४-२९) इति निपातः । समाहारद्वन्द्वः । कृतः प्रतियत्ने" (अष्टा० २-३-५३) इति षष्ठी। "उपात्प्रतियत्न" (अष्टासु०६-१-१३९) इत्या दिना सुट् । तस्य गुणान्तराधानं करोत्यर्थः । गाथाः प्रकुरुते । प्रकर्षे. ण कथयतीत्यर्थः। उपयोगः समीचीनो विनियोगः । शतं प्रकुरुते । धर्मार्थ विनियुक्त इत्यर्थः । एषु किम् ? कटं करोति । ___ अधेः प्रसहने (अष्टा सू०१-३-३३)। अधिपूर्वात्कृषः प्राग्वदभिभवे क्षमायाश्च । “षह मर्षणे" (भ्वा००८५२) अभिभवे चेति पाठात् । ये तु "अभिभवे छन्दनि" इति पठन्ति तेषामपि छन्दसोति प्रायोवाद इति हरदत्तः । तमधिचके । अभिभूतवान् सोढनात्यर्थः । अनेन
Page #82
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
"भ (१) वादृशाश्चेदधिकुर्वते परान् " ( कि०१-४३) इति भारविप्रयोगोऽपि व्याख्यातः । क्षमन्ते इत्यर्थात् ।
वेः शब्दकर्मणः (अष्टा०सु०१-३-३४) । विपूर्वात्कृञ आत्मनेपदं स्यात् शब्दश्चेत्कर्म कारकं भवति । स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् ? चित्तं विकरोति कामः ।
७३
अकर्मकाश्च (अष्टा०सू०१-३-३५) । वेः कृञो कर्मकात्प्राग्वत् ।
" हीनान्यनुपकर्तृणि प्रवृद्धानि विकुर्वते" । सम्माननोत्सञ्जनाचार्य करणज्ञानभृतिविगणनव्ययेषु नियः (अष्टा० सू० १-३-३६) । पषु बोधनीयेषु नयतेरात्मनेपदं स्यात् । तत्रोत्सञ्जनशानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथाहि आचार्यः शास्त्रे नयते । शास्त्रीय सिद्धान्तानुपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयतीत्यर्थः । ते च शिष्या युक्तिभिर्निश्चाय्यमानाः सम्मानिता भवन्ति तदीयाभिलाषितार्थसम्पादनात् । तथा चात्र नयतेः प्रापणमे• वार्थः । शिष्यसम्माननन्तु तदीयं फलं सत्प्रयोगोपाधिः । उत्सञ्जनेदण्डमुन्नयते । उत्क्षिपतीत्यर्थः । आचार्यकरणे - माणवकमुपनयते ! विधिना आत्मसमीपप्रापणमिह नयतेरर्थः । तत्फलं माणवक संस्कारः । । तस्य कर्तृगामित्वाभावादप्राप्तमात्मनेपदं आचार्यकरणे विधीयते उपनयनपूर्व केणाध्यापनेन हि कश्चिदतिशयोध्यापके जन्यते । स एवाचा. शब्दप्रवृत्तिनिमित्तम् ।
"उपनीय ददद्वेदमाचार्यः स उदात्हतः” (या०स्मृ०१-३४)
इत्यपि अतिशयविशेषपरिचायकपरम् । तथा चाचार्यकरणं फलीभूतं प्रयोगोपाधिः । न च तस्य कर्तृगामित्वादात्मनेपदं सिद्धमेवेति वाच्यम् । नहि तदुपनयनक्रियायाः साक्षात्फलं किन्तूपनयनपूर्विकाया अध्यापनक्रियायाः । प्रयोगोपाधित्त्वं तु परस्परया फलीभूतस्याध्यस्तीति दिक् । “विनिन्युरेनं गुरवो गुरुप्रियम्" इत्यत्र तु आचार्यक रणस्याविवक्षितत्वान्न तङ् । विवक्षा हि स्वायत्तेति "उपज्ञोपक्रमं तदा
(१) "भवादृशाश्चेदधिकुर्वते रतिं " ( कि०१-४३) इति पाठः । स च मल्लिनाथेन रतिं सन्तोषं अधिकुर्वते स्वीकुर्वतं चेत् इति व्याख्यातः । ते नैव च "अत्र प्रसहनस्यासङ्गतेरधिपूर्वात् करोतेः "अधः प्रसहने " (अष्टा०सू०१-३-३३ ) इत्यात्मनेपदं न भवति । प्रसहनं परिभवः इति का शिका | तथाऽप्यस्याः कर्त्रभिप्रायविवक्षायामेव प्रयोजकत्वात् । कर्त्रभि प्राये "स्वरितत्रितः " (अष्टा०सू०१-३-७२ ) इत्यात्मनेपदं प्रसिद्धम" इत्युक्तम ।
Page #83
--------------------------------------------------------------------------
________________
७४ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेधाचिख्यासायाम" (अष्टा०सू०२-४-२१) इतीच्छासना शापितम् । ज्ञाने. तस्वं नयते। निश्चिनोतीत्यर्थः । भृतिवेतनम् । कर्मकरानुपनयते । भृति. दानेनात्मसमीपं प्रापयतीत्यर्थः । विगणनमृणादेनिर्यातनम् । करंविनय ते । राजदेयं भागं शोधयति । निर्यातयतीत्यर्थः। व्ययो धर्मादौ विनियो गः । शतं विनयते । धर्मार्थ विनियुङ्ग इत्यर्थः । एषु किम् ? घटं नयति । __कर्तृस्थे चाशरीरे कर्मणि (अष्टा सु०१-३-२३) । नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवमिन्ने एव स्यात् । शरीरश. ब्देन तदवयवो लक्ष्यते । शरीरतादात्म्यापन्नस्य कर्तृतया शरीरस्य तत्स्थरवासम्भवात् । अवयवानान्तु सम्बन्धविशेषेण तत्स्थत्वस्यानुभ वात् । अत एव हि "करादि पुरुषत्त्वव्याप्यम्" इत्युद्धोषः। क्रोधं विन. यते । स्वकीयं क्रोधमपगमयतीत्यर्थः । क्रोधापनयनफलस्य चित्तप्रसा. दादेः कर्तृगतत्वात "स्वरितजितः" (अष्टासु०१-३-७२) इति सूत्रेण सिद्ध नियमार्थमिदम् । तेनेह न-गडं विनयति । कथन्तर्हि "विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः” (कि०२-३५) इति भारविः । कभिप्रायत्त्वाविवक्षायां भविष्यति । केचित्तु अपनयने वर्तमानादने. नात्मनेपदं विधीयते । इह तु करोत्यर्थे प्राप्त्यर्थे वा वर्तते । धातना. मनेकार्थत्त्वादित्याहुः ।
वृत्तिसगतायनेषुक्रमः (अष्टा सू०१-३-३८)।क्रम आत्मनेपदं स्यादप्र तिबन्धोत्साहस्फीततासु । वृत्ती-ऋच्यस्य क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः। सगे-व्याकरणाध्ययनाय क्रमते । उत्सहत इत्यर्थः । "सृजतेरु त्साहार्थता येनेन्द्रलोकावजयाय सृष्टः' इत्यादौ प्रसिद्धा । तायने क्रम. न्तेस्मिन् शास्त्राणि । स्फीतीभवन्तीत्यर्थः । "तायसन्तानपालनयोः" (भ्वा०मा०४८९) इत्यस्माल्युटि 'तायनम्' इति रूपम् ।
उपपराभ्याम् (अष्टा सु०१-३-३९) । वृत्त्यादिष्पपराभ्यामेव क्रमेरा. त्मनेपदं स्यान्न तुपसर्गान्तरपूर्वात् । उपक्रमते । आभ्यामेति नियमा. नेह-सकामति । वृत्यादिग्वित्येव । नेह-उपकामति पराक्रामति ।
आग उगमने (अष्टा०स०१-३-४०) । श्रापर्वात्कमेरुद्गमने वर्तमानादात्मनेपदं स्यात् । आक्रमते आदित्यः । उदयत इत्यर्थः । ज्योति. रुदमन इति वाच्यम् (कावा)। नेह-आक्रामति धूमो हऱ्यातलात् । भा. प्ये तु 'हऱ्यातलम्' इति पठ्यते । तत्रोद्गमनपूर्विकायां व्याप्ती क्रमिद्रष्टव्यः न तहमनमात्रे अकर्मकतापत्तेः । कथन्तर्हि "नभः समानामति चन्द्रमाः क्रमाव" इति । उच्यते-व्याप्ताविह क्रमिवर्तते न तूगमने।
वेः पादविहरणे (मासू०१-३-४१) । विपूर्वाक्रमे पादविहरणे
Page #84
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
वर्तमानादात्मनेपदं स्यात् । साधु विक्रमते वाजी । पादविहरणं पा दविक्षेपः । यद्यपि कमिस्तत्रैवार्थे पठ्यते तथापि धातुनामनेकार्थ. वात्सूत्रेर्थोपादानम् । तेनेह न--विक्रामत्यजिनसन्धिः. द्विधाभवति स्फुटतीत्यर्थः।
प्रोपाभ्यां समर्थाभ्याम् (अष्टा०सू०१-३-४२) । तुल्यार्थाभ्यां प्रोपा. भ्यां क्रमेरात्मनेपदं स्यात् । समस्तुल्योऽर्थो ययोरिति विग्रहे शकन्ध्या. दिस्वात्पररूपं सशब्द एव वा तुल्योर्थों बोध्यः । प्रारम्भेऽनयोस्तुल्या. थता । प्रक्रमते, उपक्रमते । आरभते इत्यर्थः । समर्थाभ्यां किम् ? प्रक्रा. मति गच्छतीत्यर्थः । उपनामति । आगच्छतीत्यर्थः । “उपपराभ्याम" (अष्टा०सू०१-३-३९) इति तु नेह प्रवर्तते । तत्र वृत्त्यादिग्रहणानुवृत्तेरु. तत्वात् । इह च वृत्त्यादेरविवक्षणात् ।
अनुपसर्गाद्वा (अष्टा सु०१-३-४३) । अनुपसर्गात्कमेरात्मनेपदं वा स्यात् । कामति, क्रमते । “उपपराभ्याम्":(अष्टा०सू०१-३-३९) इत्यस्य नियमार्थत्वाद्धृत्यादिसूत्रमनुपसर्गविषयकमेव । तेन वृत्यादौ नायं विक. ल्पः । तस्मादप्राप्तविभाषेवेयम् । ___ अपन्हवे शः (अष्टा सू०१-३-४४)। अपलापे वर्तमानाजानातरात्म. नेपदं स्यात् । शतमपजानीते अपलपतीत्यर्थः।। __ अकर्मकाञ्च (अष्टा०सू०१-३-४५)। अकर्मकाजानातेरात्मनेपदं स्यात्। सर्विषो जानीते । सर्पिषा उपायेन प्रवर्तत इत्यर्थः । "ज्ञोविदर्थस्य" (अष्टा०सू०२-३-५१) इति करणे षष्ठी । 'अकर्मकात्' इत्यस्य स्थाने 'स. करणात्' इत्येव तु नोक्तम् । “स्वरेण पुत्रं जानाति" इत्यत्रातिव्याप्तेः ।
सम्प्रतिभ्यामनाध्याने (अष्टा०सू०१-३-४६)। आभ्यां जानातरात्मनेपदं स्यादनाध्याने । शतं सञ्जानीते। अवेक्षत इत्यर्थः । शतम्प्रतिजानीते। अहीकरोतीत्यर्थः । अनाध्याने किम् ? मातुः सञ्जानाति । उत्कण्ठापूर्व स्मरतीत्यर्थः । "अधीगर्थ" (अष्टा०स०२-३-५२) इति कर्मणि षष्ठी । ननु तत्र "शेषे" इत्यनुवर्तते तेनात्र कर्मणः शेषत्वेन विवक्षित. स्वात् "अकर्मकाच्च" (अष्टा सू०१-३-४५) इति पूर्वेण प्राप्नोति, अ. पाहुः-'अनाध्याने' इति विभज्यते । स चोभयोर्योगयोः शेषः तेनाध्याने पूर्वेणापि न भवतीति ।
भासनोपसम्भाषाक्षानयत्नविमत्युपमन्त्रणेषु धदः (अष्टा०सू०१-३४७) । एवर्थेषु वदेरात्मनेपदं स्यात् । अत्रोपसम्भाषोपमन्त्रणे धातो. च्ये । इतरे प्रयोगोपाधयः। भासनन्दीप्तिः । शास्त्रे वदते । भासमानो ब्र. बीतीत्यर्थः । भासनं हेतुभूतं सद्विशेषणं शिष्यैः स्तूयमानो हि भासते ।
Page #85
--------------------------------------------------------------------------
________________
७६
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
तथा चोपर्युपरि शास्त्रार्थप्रतिभासात्सुष्ठक्तिर्निर्वहति । तेजोभङ्गे तु न शक्नुयाद्वदितुमिति भावः । उपसम्भाषो उपसान्त्वनम् । कर्मकरानु पवदते । उपसान्त्वयतीत्यर्थः । ज्ञाने - शास्त्रं वदते । उक्तिविषयकज्ञानवा निति फलितार्थः । यत्नः उत्साहः । क्षेत्रे वदते । तद्विषयकमुत्साहमावि· करोतीत्यर्थः । अत्राविष्करणरूपस्य वदत्यर्थस्य यत्नः कर्मेत्याहुः । विशिष्टोऽत्र वदतेरथं इत्यपि सुवचम् । विमतौ-क्षेत्रे विवदन्ते । विमत्या हेतुभूतया नानाविधं भाषन्त इत्यर्थः । उपमन्त्रणम् उपच्छन्दनम् | कु. लभार्यामुपवदते । स्वाभिलषिते प्रवर्त्तयितुं प्रार्थयत इत्यर्थः । पष्विति किम् ? यत्किञ्चिद्वदति ।
व्यक्तवाचां समुच्चारणे (अष्टा०सू०१-३-४८ ) । मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात् । सम्प्रवदन्ते ब्राह्मणाः देवा वा । यद्यपिवद धातुर्व्यक्तायामेव पठ्यते, तथापि "व्यक्तवाचाम्" इत्युपादानसामर्थ्याद्येषां प्रसिद्धतरं व्यक्तवाक्यन्तदेवेह गृह्यते । तेन शुकसारिकादीनां समुच्चारणे न भवति । "वरतनु सम्प्रवदन्ति कुक्कुटाः” । नन्विह तनुशब्दस्य ह्रस्वान्तत्वे सम्बुद्धौ चेति गुणेन भाव्यं दीर्घान्तत्वे नदी. लक्षणः कप् प्राप्नाति ? सत्यम्, तनुशब्दः स्त्रीजातौ कविभिः प्रयुज्यते । तस्मात् “ऊङुतः” (अष्टा०सू०४-१-६६ ) इत्यूङि कृते कर्मधारयोग्यमिति हरदन्तः ।
I
अनोरकर्मकात् (अष्टा०सू०१ - ३ - ४९ ) । अनुपूर्वाद्वदेर कर्मकाय. वाग्विषयकादात्मनेपदं स्यात् । अनुवदते कठः कलापस्य | अनुः सादृइये । तेन 'कलापस्य' इति तुल्यार्थयोगे शेषलक्षणा षष्ठी। अकर्मकादिति किम् ? पूर्वोक्तमनुवदति । व्यक्तवाचामित्येव । अनुवदति वीणा । विभाषा विप्रलापे (अष्टा०सु०१-३-५०) । विप्रलापात्मकं व्यक्त वाचां समुच्चारणे वर्त्तमानाद्वदेरात्मनेपदं वा स्यात् । विप्रवदन्ते वि प्रवदन्ति वा वैद्याः । युगपत्परस्परविरोधेन वदन्तीत्यर्थः । विप्रलापे किम् ? सम्प्रवदन्ते ब्राह्मणाः । व्यक्तवाचामित्येव । विप्रवदन्ति शकुनयः । समुच्चारण इत्येव । क्रमेण विप्रवदन्ति ।
1
अवाह्नः (अष्टा०सु०१-३-५१) । अवपूर्वाद्विरतेरात्मनेपदं स्यात् । अवगिरते । अवात्किम् ? गिरति । " गृणातेस्त्ववपूर्वस्य प्रयोगो नास्ति अनभिधानात् " इति भाष्यम् ।
समः प्रतिज्ञाने (अष्टा००१-३-५२ ) । सम्पूर्वाद्विरतेः प्रतिज्ञाने वर्त्तमानादात्मनेपदं स्यात् । शब्ळं नित्यं सङ्गिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् ? सहिरति ग्रासम् ।
1
Page #86
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
उदश्वरः सकर्मकात् (अष्टा०सू०१-३-२३) । उत्पूर्वात्सकर्मकाच्चरतेरात्मनेपदं स्यात् । धर्म्ममुच्चरते । उल्लङ्कय गच्छतीत्यर्थः । सकर्मक किम् ? बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ।
のの
समस्तृतीयायुक्तात् (अष्टा०सु०१-३-५४) । सम्पूर्वाश्ञ्चरतस्तृतीयातेन युक्तादात्मनेपदं स्यात् । रथेन सञ्चरते । तृतीयायुक्तात्किम् ? “उभौ लोकौ सञ्चरसि इमं चामुञ्च देवल" ।
दाणश्च सा चेच्चतुर्थ्यर्थे ( अष्टा०सु०१-३-५५) । सम्पूर्वाद्दणस्तृती यान्तेन युक्तादात्मनेपदं स्यात्सा चे तृतीया चतुर्थ्यर्थे । दास्या संयच्छ. ते । कामुकः संस्तयै ददातीत्यर्थः । अशिष्टव्यवहारे चतुर्थ्यर्थे तृतीया वक्तव्या (का०वा०) । एतश्चानेनैव ज्ञाप्यते । यद्वा - इह सूत्रे चेच्छन्द.
शब्दार्थे । निपातानामनेकार्थत्वात् । सा च चतुर्थ्यर्थे भवतीत्यर्थः । "अशिष्टव्यवहार" इति तु वक्तव्यमेव । भाष्ये त्विदं सूत्रमपि प्रत्याख्यातम् । तथाहि-“यो दास्या सह भुञ्जानस्तया दत्तं स्वयं भुङ्क्ते स्वयञ्च तस्यै ददाति तद्विषयेऽयं प्रयोग इष्यते । तत्र " सहयुक्ते'' (अष्टा०सु० २-३ - १९) इत्येव तृतीया । कर्मव्यतिहारे च तङ् । दानपूर्वके भोगे दाधातुर्बोध्यः" इति । नन्वारभ्यमाणे सुत्रे 'सम्प्रयच्छत' इत्यत्र कथं तङ् ‘समः' इति पञ्चम्या आनन्तर्यलाभात् । अत्राहु: - 'समः' इति विशे. बणषष्ठी तेन पूर्वसूत्रमपि 'अश्वेन समुदाचरते' इत्यादौ प्रवर्त्तत इति दास्या सम्प्रयच्छते इत्युदाहृत्य शिष्टव्यवहारे तु 'ब्राह्मणीभ्यः सम्प्रयच्छति' इति प्रत्युदाहरन् भाष्यकारश्चेह व्याख्याने प्रमाणम् ।
उपाद्यमः स्वकरणे (अष्टा०सू०१ - ३ - ५६) । उपपूर्वाद्यमेः प्राग्वत् स्वीकारेऽर्थे । भार्यामुपयच्छते । यत्स्वस्य सतो रूपान्तरेण करणं तदिह न गृह्यते कि न्त्वस्वस्य सतो यत्स्वत्वसम्पादनं तदेव । विप्रत्ययस्तु सूत्रे न कृतः "समर्थानां प्रथमाद्वा" (अष्टा०सू०४ - १ - ८२ ) इति विक ल्पितत्वात् । तेनेह न - स्वं शाटकमुपयच्छतीति । अत्र वृत्तिकारः पाणिग्रहण एवेश्यते । तेनेह न -देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति । दासीत्वेन रूपेण स्वीकरोतीत्यर्थ इति । एतच्च भाष्यविरुद्धम् । तत्र स्वीकारमात्रे आत्मनेपदस्योक्तत्वात् । तथा च भट्टिः प्रायुङ्क-"उपायंस्त महास्त्राणि शस्त्राण्यपायंसत जित्वराणि" । "नोपायंस्त दशाननः " । "उपायंसत नासवम्" इत्यादि ।
हाथुस्मृदृशां सनः (अष्टा०सू०१ - ३ - ५७) । सन्नन्तानामेषामात्मनेपदं स्यात् । " अपन्हवे हः " (अष्टा०स्०१-३-४४ ) इत्यादिभिः सूत्रैर्जानातेरात्मनेपदं विहितं श्रुशोरपि "समोगम्यृच्छिभ्याम्" (अष्टा०सु०१-३
Page #87
--------------------------------------------------------------------------
________________
७८ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके-- २९) इत्यत्रोपसङ्ख्यानम् । तस्मिश्च विषये "पूर्ववत्सनः" (अष्टा०स०१३-६२) इत्येव सिद्धम् । विषयान्तरेऽनेन विधीयते स्मरतेस्तु अप्राप्त एव विधानम् । धर्म जिज्ञासते, शुश्रूषते, सुस्मूर्षते, दिदृक्षते । __ नानोः (अष्टा सू०१-३-५८)। अनुपूर्वाज्जानातेः सन्नन्तादात्मा नेपदं न स्यात् । पुत्रमनुजिज्ञासति । अनोः किम् ? धर्म जिज्ञासते । पूर्वसूत्रेण प्राप्तस्यायं निषेधः । “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इति न्यायात् । तथा च सकर्मकस्यैव प्रतिषेध इति फलितम । पूर्वसूत्रस्य सकर्मकविषयत्वादकर्मकात्तु “पूर्ववत्सनः" (अष्टा०सू० १-३-६२) इत्यात्मनेपदं भवत्येव । “अकर्मकाच्च" (अष्टा०स०१-३-३५) इति सूत्रेण केवलाद्विधानात् । (१)औषधस्यानुजिज्ञासते औषधन प्रवर्तितुमिच्छनीत्यर्थः।
प्रत्याभ्यां श्रुवः (अष्टा०सू०१-३-५९)। आभ्यां श्रुवः सन्नन्ता. दात्मनेपदं न स्यात् । प्रतिशुश्रूषति, आशुश्रूषति । उपसर्गग्रहणं चेदम् , परस्परसाहचर्यात् । तेनेह न-देवदत्तं शुश्रूषते । “लक्षणेत्थम्भूत" (अष्टा सू०१-४-९४) इत्यादिना प्रतिः कर्मप्रवचनीयो नोपसर्गः।
शदेः शितः (अष्टा सू०१-३-६०)। शितःप्रकृतिभूतो यः शदि. स्तस्मादात्मनेपदं स्यात् । शीयते, शीयेते, शीयन्ते । शितः किम् ? शत्स्यति, अशत्स्यत् । “शेषात्कतरि" (अष्टा०सू०१-३-७८) इति परस्मैपदम् । __ म्रियतेलुंलिङोश्च (अष्टा०सू०१-३-६१) । शितो लुलिङाश्च प्रकृतिभूतो यो म्रियतिस्तत एवात्मनेपदं स्थानान्यस्मात् । तत्र शित्प्र. कृतित्वं पूर्ववच्छिदुत्पत्तेः प्रागेव योग्यतया बोध्यम् । लुङ्लिङोस्तु सत्यामेवोत्पत्तौ बोध्यम् । म्रियते, म्रियताम् , अम्रियत, अमृत, मृषीष्ट । नियमः किम् ? ममार, मासि, मरिष्यति, अमरिष्यत् । ङित्वं तु स्वरार्थम् । मा हि मृत । लुङि "तास्यनुदात्तेत्" (अष्टा०स०६-१-१८६) इति डिल्लक्षणः सार्वधातुकनिघातः । “हि च' (अष्टा०सू०८-१-३४) इति तिङि निघातप्रतिषेधः ।
पूर्ववत्सनः (अष्टा० सू०१-३-६२)। सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । येन निमित्तेन सनः प्रकृतेरात्मनेपदं वि. धीयते तदेव निमित्तं सना व्यवहितं सदप्यात्मनेपदं प्रवर्त्तयतीत्यर्थः । इह सूत्रे "तेन तुल्यम्" (अष्टा सू०५-१-११५) इति तृतीयान्ताद्वतिर्न तु पञ्चम्यन्तात, लक्षणाभावात् । यथा च 'ब्राह्मणेन तुल्यं वैश्यादधीते'
(१) "झोविदर्थस्यकरणे" (अप्रा०सू०२-३-५१) इत्यनेन षष्ठी।
Page #88
--------------------------------------------------------------------------
________________
विधिशषप्रकरणे आत्मनेपद नियमप्रकरणम् ।
"
इत्यत्र ब्राह्मणादिवेति गम्यते तथेहापि पूर्वस्मादिवेति गम्यते । ब्राह्मणापादानकेध्ययने ब्राह्मणशब्दस्य लक्षणया ब्राह्मणापादानकाध्ययनसादृश्यं वैश्यापादानकाध्यापनमिति क्रियासाम्यं दृष्टान्ते निर्वाह्यम् । अन्यथा घतिप्रत्ययायोगात् । यदाह - "तेन तुल्यं क्रिया चेतु" (अष्टा०सु०५१-११५) इति । एवञ्च प्रकृतेऽपि आत्मनेपदभावनस्य तुल्यत्वं बोध्यम् । तदपि निमित्तस्य तुल्यत्वात्तद्वारकमिति फलितार्थः । एतेन 'शब्दो ऽनित्यः, कृतकत्वात् । घटवत्' इत्यादि व्याख्यातम् । तत्रापि भवनक्रियायाः साम्यात् । अन्यथा वत्प्रत्ययासाधुतापत्तेः । अत एवानि. त्यो भवितुमर्हतीति प्राञ्चः प्रयुञ्जते । साध्यपदस्य ज्ञाने लक्षणया शानयोः साम्यं वाक्यार्थ इति वास्तु । सर्वथापि शब्दघटयोः साम्याथे न तु शाब्दमिति दिक् । असिसिषते, शिशयिषते निविविक्षते, बुभुक्षते, इत्यादि । इह तु न भवति - शिशत्सति, मुमूर्षति । न ह्येषा शदिम्रियतिव्यक्तिः शितः प्रकृतिः अतो नात्मनेपदनिमित्तम् । कृते हि सनि सन्नन्तमेव शितः प्रकृतिः । 'शिशयिषते' इत्यादौ तु प्रकृतौ ङिवानपायान्निमिचातिदेशः सम्भवत्येवेति वैषम्यात् । नन्वेवं 'अनु. चिकीर्षति' इत्यत्रातिप्रसङ्गः । गन्धनादेरर्थस्य ञित्वस्य चात्मनेपदनिमि त्तस्यातिदेशापत्तेरिति चेन्न । “अनुपराभ्यां कृञः” (अष्टा०सु०१-३-७९) इति वचनपर्यालोचनया अनुपूर्वकत्वाभावविशिष्टस्यैवात्मनेपदनिमिप्तताध्यवसायात् । अस्तु वा प्राधान्यात्कार्यस्यैवातिदेशः प्राक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योपि भवतीति । न चैवं 'शिशत्सति' 'मुमूर्षति' इत्यत्रातिप्रसङ्गः “शदेः शितः” (अष्टा०सू०२-३-६०) "म्रियतेर्लुङ्· लिङोश्च" (अष्टा०सू०१-३-६१ ) इति सूत्रद्वयेऽपि सनो नेत्यनुवर्त्य वाक्यभेदेन सन्नन्तान्निषेधात् । 'जुगुप्सते' इत्यादौ तु यद्यप्ययमतिदेशो न प्रा. प्नोति । नित्यसम्न्नन्तततया प्राक् सन आत्मनेपदादर्शनात् । तथापि "अनुदात्तङितः” (अष्टा०सु०१-३-१२) इत्यनेनैवात्मनेपदम् । अवयवे ह्यचारितार्थं लिङ्गं समुदायं विशिनष्टि सामर्थ्यात् । न चैवं 'जुगुप्सति' इत्यादावतिप्रसङ्गः । सन्पर्यन्तविशेषणेन चारितायै सति ततोऽप्यधिकविशेषणे प्रमाणाभावात् । नन्वेवं 'गोपयति' 'तेजयति' इत्यादावतिप्रसङ्गः । सन्णिचोर्मध्ये कतरद्विशेषणीयं कतरनेत्यत्र विनियामकाभावादिति । अत्राहुः यत्र निन्दादौ सन्निष्यते तदर्थका एवानुदा ततः नित्यसन्नन्ताश्चैते । अर्थान्तरे स्वननुबन्धका एव चुरादौ पा व्याः । अन्यथा निन्दाक्षमादिभ्योन्यत्र यथा णिज् भवति तथा लडादिरपि स्यात् ।
७९
Page #89
--------------------------------------------------------------------------
________________
८०
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
आम्प्रत्ययवत्कृनोनुप्रयोगस्य । (अष्टा०सू०१-३-६३) आम्प्रत्ययो यस्मादित्यतद्गुणसंविधानो बहुव्रीहिः । आम्प्रकृतिभूतस्य धातोरिवा. नुप्रयुज्यमानात्करोतरात्मनेपदं स्यात् । जित्त्वादेव सिद्धेश्कर्षभिप्रायार्थ सूत्रम् । ईहाञ्चके । नन्वस्य विध्यर्थत्वात 'इन्दाञ्चकार' इत्यादावपि का अभिप्राये तक प्राप्नोति, सत्यम्, पूर्ववदित्यनुवर्तते, तत्सामर्थ्याद्वाक्य. भेदेन नियमोऽपि क्रियते पूर्ववदेवात्मनेपदं न तु पूर्वविपरीतमपीति । कुत्रः किम् ? ईहामास, ईहाम्बभूव । इह कृग्रहणसामर्थ्यान्न प्रत्याहा. रग्रहणम् । अतएव च ज्ञापकादनुप्रयोगविधौ प्रत्याहारग्रहणम् ।
प्रोपाभ्यां युजेरयक्षपात्रेषु (अष्टा०सू०१-३-६४)। प्रोपाभ्यां युजेरयो. ग इत्यस्मादात्मनेपदं स्यादयक्षपात्रेषु। प्रयुक्त उपयुङ्क्ते । युजिरः स्व. रितेतो रुधादेरकभिप्रायार्थोऽयं विधिः। "युज समाधौ (रु०उ०१४४५) इति दिवादेस्तु नेह ग्रहणम् । अनुदात्तत्त्वादेव सिद्धेः । सूत्रे युजेरिती. कारस्य विवक्षितत्वाच्च । यक्षपात्रविषयतायास्तत्रासम्भवाचं । स्व. राद्यन्तोषसृष्टादिति वक्तव्यम् [ का० वा०] स्वरोऽचआदिरन्तो वा यस्य तादृशेनोपसर्गेण सम्बद्धादित्यर्थः । सम् निस् निर् दुस् दुर् एत. द्भिनाः सर्वेप्युपसर्गाः सगृहीताः । उद्युङ्क्ते, नियुके । अयशपात्रेषु. किम् ? द्वन्द्वं न्यश्चिपात्राणि प्रयुनक्ति । __ समः क्ष्णुवः (अष्टा०स०१-३-६५)। सम्पूर्वाणुधातोः प्राग्वत् । "समोगम्युच्छिभ्याम्' (अष्टासु०१-३-२९)इत्यतो विच्छिद्य पाठः स. कर्मकादपि विधानार्थः । संक्ष्णुते शस्त्रम् ।
भुजोऽनवने(अष्टा०सू०१-३-६६) रक्षणातिरिक्तऽर्थे वर्तमानाद् भु. जेः प्राग्वत् । "भुजोऽभक्षणे" इति वक्तव्येऽनवन इति वचनमर्थान्तरेव. पि यथा स्यात् । भुजेहि पालनाभ्यवहारादिवोपभोग आत्मसातकरणं चार्थः । ओदनम्भुड़े अभ्यवहरतीत्यर्थः। 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । "दि(१)वं मरुत्वानिव भोक्ष्यते महीम्" । (र०३-४) !
नेह पालनमर्थः किन्तुपभोग आत्मसात्करणं वा । एतेन "वृद्धो जनो दुःख शतानि भुक्के” इति व्याख्यातम् । अनवने किम् ? महीं भुनक्ति। रुधादेरेवेह ग्रहणम् । अवनप्रतिषेधात् । पठन्ति हि-"सयोगो विप्रयो. गश्च" इत्युपक्रम्य "विशेषस्मृतिहेतवः” इति । यथा दोग्धीपर्यायो धेनुः शब्दः संसर्गिभिर्विशेषेऽवस्थाप्यते । 'सवासा धेनुरानीयता' 'सकिशो. रा' 'सवर्करा' इति, तथाऽवत्साऽकिशोराऽबर्करेति गौर्धेनुर्वडवा अजा (१) 'भुवम्' इति पाठः मल्लिनाथकृतसञ्जीविन्याम् ।
Page #90
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
च क्रमेणानीयते नान्या तथेहापि । तेन "भुज कौटिल्ये" (रु०मा०१४५५) इत्यस्य तुदादरग्रहणान्नेह-विभुजति पाणिमिति ।
णेरणौ, यत्कर्म णौ चेत्स कर्ताऽनाध्याने (अष्टा०सू०१-३-६७)। ण्यन्तादात्मनेपदं स्यादनाध्याने । अणौ यत्कर्म णौ चेदिति द्वितीयं वाक्यम् । कर्मेह क्रिया णिच्प्रकृत्युपात्ता या सैव चेण्ण्यन्तेनोच्येते. त्यर्थः । सकतेति तृतीयं वाक्यम् । अणापित्याद्यनुवर्तते कर्मेह कारक शब्दाधिकाराश्रयणात् । णिच्प्रकृतेरर्थ प्रति यत्कर्म कारकं स चेण्य. न्ते कर्तत्यर्थः। "णिचश्च" (अष्टासु०१-३-७४) इत्यात्मनेपदं सिद्धे. ऽपि अभिप्रायार्थमिदं सूत्रम् । कत्रभिप्रायेऽपि "विभाषोपपदेन प्रतीयमाने" (अष्टा०सू०१-३-७७) इति विकल्पबाधनार्थश्च । "अणाव. कर्मकात" (अष्टा०सू०१-३-८८) इति परस्मैपदबाधनार्थश्च । न चाकर्ष. भिप्राये चरितार्थस्यास्य विकल्पपरस्मैपदाभ्यां पराभ्यां बाधः स्यादिति बाच्यम् । पूर्वविप्रतिषेधाश्रयणात् । अत्र च प्रमाणं 'दर्शयते राजा' इति भाग्योदाहरणमिति दिक् । उदाहरणन्तु कर्तृस्थभावकाः कर्तृस्थक्रि. याश्च तत्र हि कर्मवद्भावो नास्तीति वक्ष्यते । प्रकृतसुत्रेणैव स्वात्मनेपदम्। तथा हि-विषयत्वापत्त्युपसर्जनविषयत्वापादानवचनो हशिः सकर्मकाणामशब्दाभिधायितानियमात् । तत्र धातूपात्तव्यापाराश्रयः कर्ता धात्वर्थभूतव्यापारव्यधिकरणफलशालिकर्म तथा च पश्यन्ति भवं भक्ताः' इति प्रयोगः चाक्षुषक्षानेन विषयीकुर्वन्तीत्यर्थः। यदा तु सौकर्यातिशयविवक्षया प्रेरणांशस्त्यज्यते तदा 'पश्यति भवः' इति प्रयोगः विषयीभवतीत्यर्थः । उक्त--
"निवृत्तप्रेषणं कर्म स्वक्रियाषयवैः स्थितम् ।
निवर्तमाने कर्मत्वे स्कर्तृत्ववतिष्ठते" इति ॥ ततः पश्यन्तं प्रेरयन्तीति णिचि 'दर्शयन्ति भषं भक्ताः' इति प्र. योगः । पश्यन्तीत्यर्थः । उक्तञ्च
"निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते” इति ।
ततः पुनर्व्यर्थस्य सौकर्यचोतनार्थमविवक्षायां दर्शयते भषः वि. षयीभवतीत्यर्थः । तदिह पश्यतिदर्शयत्योः समानार्थतया कर्तृस्थभाव. कत्त्वाच कर्मषद्भावविरहे प्रकृतसूत्रेणात्मनेपदम् । इह हि जिप्रकृतिमा तेन रशिना य एवार्थो द्वितीयकक्षायामुपातः स पवं चतुर्थ्यामिति सामानक्रियत्वमस्ति अणौ यत्कर्म प्रथमकक्षायां तदेव कर्तृ। एवं 'आरोह यते हस्ती' इत्यप्युदाहरणम् । "आरोहन्ति हस्तिनं हस्तिपकाः' । न्य.
मानीमा । 'आरोहति हस्ती' म्यग्भवतीत्यर्थः। ततो नि शब्द. द्वितीय. 6.
Page #91
--------------------------------------------------------------------------
________________
८२ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेषणाणिचि 'आरोहयन्ति' आरोहन्तीत्यर्थः। ततः पुनर्व्यर्थत्यागे 'आरो. हयते' भ्यग्भवतीत्यर्थः । इहापि प्राग्वत्प्रथमतृतीययोर्द्वितीयचतुर्योश्चा. र्थलाम्याच्चतुर्थी कक्षा उदाहरणम् । सोय निवृत्तप्रेषणपक्ष । आह च
"न्यम्भावनं न्यग्भवनं रुही शुद्ध प्रतीयते । न्यग्भावनं न्यग्भवनं ण्यन्तेपि प्रतिपद्यते"। अवस्थां पश्चमामाह ण्यन्ततत्कर्मकर्तरि ।
निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते" इति ॥ इह विशिष्टवाचकयोः श्रुद्धण्यन्तयोर्वाच्यावंशी वाचकभेदात् वेधा गणयित्वा पूर्वोक्तप्रथमतृतीयकक्षायामवस्थाचतुष्टयञ्चतुर्थकक्षायान्तु पञ्चमी अवस्थेति श्लोकार्थोभिप्रेतः । यद्वा-पश्यन्ति भवं भक्ताः'। 'आ. रोहन्ति हस्तिनं हस्तिपकाः' इति प्राग्वदेव प्रथमकक्षा। ततः सौकर्यद्यो. तनार्थ कर्मणा एव प्रेषणमध्यारोप्य णिच् क्रियते । 'दर्शयति भर 'मारो. हयति हस्ती' इति पश्यत आरोहतश्च प्रेरयतीत्यर्थः। ततो णिच्प्रकृतिभ्यां णिजभ्याञ्चोपात्तयोईयोरपि प्रेषणयार्युगपत्यागे 'दर्शयते' 'आरोहयते' इत्युदाहरणम् । विषयीभवति न्यग्भवतीति च पूर्ववदेवार्थः। सोयमः ध्यारोपितप्रेषणपक्ष इहाध्यारोपितप्रेषणपक्षे 'दर्शयति भवः' 'आरोहयति हस्ती' इति द्वितीयकक्षायामतिव्याप्तिं वारयितुं समानक्रियत्वपरं द्वितीयं वाक्यम् । तेन प्रेषणाधिक्यानातिव्याप्तिः । निवृत्तप्रषेणपक्षेद यिन्ति भवम्' 'आरोहयन्ति हस्तिनम्' इत्येवंरूपं तृतीयकक्षायामति व्याप्ति वारयितुमणौ यत्कर्म स चेण्णी कर्तेत्येवंरूपं तृतीयं वाक्यम् । इह तु अणौ कर्मणो वहस्तिनोः कर्मत्वमेव न तु कर्तृतेति नातिव्याप्तिः अत्र प्राञ्चः-अणौ यत्कर्मेति वाक्यं कर्मान्तरनिवृत्तिपरम् । तथा हियत्तदोनित्यसम्बन्धादिह यच्छब्देन तच्छद आक्षिप्यते । धर्मान्तरस्य चानिर्देशादुद्देश्यतयापि श्रुतं कर्मत्वमेव विधीयते । तच विधीयमानं सामर्थ्याण्णरित्यस्य सन्निहितत्त्वाच्च ण्यन्तावस्थायामेव विधीयते । न हो तद्विधानं सम्भवति अणौ यत्कर्मेत्यनुवादसामर्थ्यादेव तत्सिद्धेः। तदेवमणी यत्कर्मत्येतावत एवाणी यत्कर्म णौ चत्तत्कमेत्यर्थः फलितः। अनेन च कर्मान्तरनिवृत्तिः क्रियते । न त्वणी कर्मणो णो कर्मत्वं प्रति. पाद्यते । स कर्मेत्युत्तरवाक्येन तस्य कर्तृत्त्वप्रतिपादनात् । एकस्य युगपदेकस्यां क्रियायां कर्मकर्तृत्त्वयोरसम्भवात्तस्मात् , __"उद्देशप्रतिनिर्देशालुब्धे यत्समहे पुनः ।
तद्रहो वाक्यभेदेन कर्मान्तरनिवृत्तये" ॥ ततो णौ चदिति वाक्यान्तरम। अणी यदित्येव अणौ यत्प्राते.
Page #92
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम्। ८३ पाद्य वस्तु तदेव णौ प्रतिपाद्यञ्चदित्यर्थः इति व्याचख्युः। अत्रेदं चि. न्यम्-कर्मान्तरनिवृत्तिपरं व्याख्यानं यद्यपि कर्तुं शक्यं तथापि तस्य फलं दुर्लभम् । 'आरोहयमाणो हस्ती' 'स्थलमारोहयति मनुष्या. न्' इत्यस्य व्यावृत्तिः फलमिति चेत्र, तत्र समानक्रियत्वाभावात् । "णो चेत्" इति वाक्यं हि प्रतिपाद्यसाम्यार्थमिति वृत्तिपदमार्योः स्थितम् । न चेह तदस्ति । न चास्तु वृत्यादिमते दोषोऽयं भाष्यफैयटयोस्तु समानक्रियत्वस्यानुक्तत्वात्कर्मान्तरव्यावृत्तिफलकं वाक्यं सा. र्थकमेवेति चेत्, न, भाग्यमपि समानक्रियत्वस्य व्याख्येयत्वात् । त. स्यानुक्तत्वेष्यप्रत्याख्याततया सम्मतत्वात् । अन्यथा अध्यारोपितप्रेषणे द्वितीयकक्षायामतिप्रसङ्गात् । भाग्यवार्तिकयोः कर्मशब्दस्य क्रियापरतयैव व्याख्यातुं शक्यत्वाच्च । अभ्युपेत्यापि ब्रूमः--मास्तु भाग्यमते समानक्रियत्वं तथापि 'दर्शयते भृत्यान् राजा' इत्युदाहरणं व्याचक्षा' गेन कैयटेन अणौ ये कर्तृकर्मणी तद्भिनं कर्म व्यावयते इति तावत्स्प. टीकृतम् । तथा च 'मनुष्यान्' इत्यस्याणौ कर्तृतया गत्यर्थाद् द्रुहेरें कर्मत्वेऽपि दुर्वारमात्मनेपदम् । मनुष्यस्थलयोरणौ कर्तृकर्मणोरेवेह कर्मतया तदितरकर्माभावात् । अपि च, सकर्त्तत्यंशोऽवीह नास्ति । हस्तिन एष कर्तृत्त्वात् । स्यादेतत्-'आरोहयमाणः' इत्यत्राणौ कर्मणो हस्तिन एव कर्तृत्त्वं स एव च 'स्थलमारोहयति' इत्यत्रापि कति, सदपि न । प्रत्यासत्तिबलेनैवातिप्रसङ्गभङ्गात् । तथा हि-यन्तादात्मने। पदं स्यादणौ यत्कर्म स चेत्कतत्युक्ते प्रत्यासत्तरेतदम्यते । "येन णिचा. ण्यन्तादात्मनेपदं विधित्सितं तत्प्रकृतौ यत्कर्म स चेत्कर्ता" इति। इह तु यत्रायमुपाधिः कृतमेव तत्रात्मनेपदम् । 'आरोहयमाणः' इति यत्र तु न कृतं 'स्थलमारोहयति' इति न तत्रायमुपाधिरस्ति, येनातिव्याप्तिः स्यात् । यत्तु हरदत्तेनोक्तम्-"हस्तिपकानारोहयति हस्ती इत्यत्र मा भूत्" इति । तत्रेदं वक्तव्यम्-किमिदमध्यारोपितप्रेषणपक्षे द्वितीयक क्षायामुदाहरणं किं वा निवृत्तप्रेषणपक्ष इति ? नाद्यः, णिज्वाच्यव्यापा. रभेदेन समानक्रियत्त्वाभावात् । न द्वितीयः, तत्राद्ययोः कक्षयोरण्यन्त. वातातृतीयस्यान्तु हस्तिनः कर्तृत्वायोगात् । हस्तिपकानां कर्मस्वास. म्भवाच । तस्माच्चतुर्थी परिशिष्यते । तत्रापि न्यग्भवतीत्यर्थापर्यवसानेन कर्मणो नान्वयः स्पष्ट एव । स्वादेतत्-दर्शयते भृत्यान् राजा' इति तावद्भाग्ये स्वीकृतं तत्समर्थनाय मणौ ये कर्तृकर्मणी तदितरकर्मः व्यवच्छेदोऽभिप्रेत इत्याह कैयटः । तस्याप्ययमाशय:-अणौ यत्क. मत्यत्र "कर्तरि कर्म" ( अष्टा०स०१-३-१४) इत्यतोनुवृत्तं 'कर्तरि' इ.
Page #93
--------------------------------------------------------------------------
________________
४४ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेत्येतत्प्रथमया विपरिणम्यते । यश्च यच यदिति "नपुंसकमनपुंसके. न" (अष्टा सू०१-२-६९) इत्येकशेषः । तेन कर्मक!ौँ कर्मवष्यदोषः। एवञ्च "करेणुरारोहयते निषादिनम्" इति माघप्रयोगीप्युपपद्यत इति । एवं स्थित निवृत्तप्रेषणाध्यारोपितप्रेषणपक्षयो. द्वयोरपि चरमकक्षायामकर्मकतया भाज्यकैयटादिग्रन्थाः सर्वएवान. न्विताः स्युस्तत्किं हरदत्तं प्रत्येव पर्यनुयोगेन । एतावानेव हि भेदः भाष्यमतेऽणौ ये कर्तृकर्मणोरिति व्याख्यानादुदाहरणमिदं वृत्तिकार. हरदत्तादिमते तु प्रत्युदाहरणम् । अणौ यत्कर्मत्येव व्याख्यानादिति । अत्रोच्यते-अननन्वयस्तावदुरुद्धरः। बाधे ढेऽन्यसाम्यारिक दृढेन्यदपि बाध्यतामिति न्यायात् । 'गम्भीरायां नद्यां घोषः' इत्यत्र गम्भीरनदी. पदार्थयोरेभेदबोधानन्तरं तीरलक्षणायामपि प्राथमिकबोधमादाय गम्भीरपदसार्थक्यवदिहाप्यध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मः ग्यन्विते ततो णिजस्येव कर्मणोऽपि त्यागे णिचः कर्मपदस्य च प्रा. थमिकबोधमादाय कथं चित्सार्थक्यम् । स्वक्षाप्यसम्बन्धो लक्षणेत्यः भ्युपगमात् । एषैव "अर्थवादः प्राशस्यलक्षणायां गतिः" इति कैयंटस्यों.. किसम्भवो बोध्यः । निष्कर्षस्तु कर्मव्यवच्छेदवाक्यार्थो भाग्यवार्तिक. योरनभिमत एव, उक्तरीत्या प्रयोजनाभावात् । प्रन्थस्तु कर्मपदस्य क्रियापरताया सुस्थ एव । उदाहरणेषु तु भृत्यानित्यादेरविवक्षायां कर्मः व्यापारमात्रे विवक्षित सिद्धं भवतीत्येवाशयो बोध्यः।"स्मरयत्येनं वन. गुल्मः स्वयमेव"इतिभाग्यवृत्योाख्यावसरे एनमिति कर्मणो विवक्षायाः केयटहरदत्ताभ्यामुभाभ्यामपि शरणीकृतत्वाच । यत्तु सुत्रशेषे कैयटनै. नमित्यस्य विवक्षेति पुनः प्रतिपादितं तदेव त्वापातत इति दिक् । तस्माद
"भृत्यादीनां परित्यागाच्छन्दभेदास्पारग्रहात् ।
कर्मवाक्ये च तादर्यवर्णनात्सर्वमुज्ज्वलम्" । स्थादेतत्-सकर्मकाणां सर्वेषामंशद्वयाभिधायितया कर्मकर्तरि का भवद्भावातिदेशादेव सिद्धानीह मूलोदाहरणानि । नचाध्यारोपितप्रेषणपंक्षे 'मारोहयतो हस्तिनः' कर्मत्वाभावात्समानधातौ च कर्मत्वाभावेन "पचत्योदनं देवदत्तः' 'राध्यत्योदना स्वयमेव इतिवस्कर्मवद्भावो न प्रा. प्नोतीति वाच्यम् । निवृत्तप्रेषणप्रक्रिययैव सकललक्ष्यसङ्ग्रहात । अध्या. रोपितप्रेषणपक्षपरित्यागेऽपि क्षत्यभावात् । न च । कर्तुस्थभावका स्या रुहेश्च कर्तृस्थक्रियतया कर्मवद्भावो न प्राप्नोतीति वाच्यम् । पचिमिचादिभ्यो लक्षण्यस्य दुरुपपादत्वात् । विक्केवनविषाभवनयो.
Page #94
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
८५
रपि कर्तृस्थतापत्तौ कर्मवद्भावातिदेशस्य निर्विषयतापतेः । तत्र व्यापारांशस्य कर्तृस्थत्वेऽपि विलित्तिद्विधाभवनरूपं फले कर्मस्थे इति । यदि तर्हि दृशिरुह्योरपि विषयत्वन्यग्भावौ कर्मस्थाविति तुल्यम् । त स्मादिह वैषम्ये बीजं वक्तव्यमिति चेत्, अत्राहुर्भर्तृहरिः"विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्थास्वन्येषां शब्दैरेव प्रकल्पिता" इति ॥ अस्यार्थः यत्र क्रियाप्रयुक्तो विशेषो दृश्यते यथा- प्रकेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र क्रिया स्थिता । तेन 'पच्यते ओदनः “छि द्यते काष्ठम्' इति कर्म्मवद्भावः सिद्धः । अन्येषां मते- अन्येषां धातूनां वाशब्दैरेव क्रियाव्यवस्था | शब्देन कर्तृव्यापारस्यैव प्राधान्येनावग मात्कर्तृस्थतेत्यर्थः । उद्देशतापि कचित्कर्मस्थांशस्य क्वचित्तु व्यापारांशस्येति औत्सर्गिकं नियामकं बोध्यं तदिह दर्शन रोहणाभ्यां विषये व्यग्भूते च विशेषानुपलम्भात्कर्तृस्थ एवेह भावः क्रिया च । उद्देशानुरोधाश्च 1 'अहं पश्येयम्' इति ह्युद्देशः न तु अयं विषयो भवत्वित्येवम् 'अहमुपरि गच्छेयम्' इत्युद्देशो न तु 'हस्तिनो न्यग्भावो भवतु' इति । उपरिंगम नरूप एव च व्यापारविशेषो रुहेरर्थो न तु न्यग्भावनमात्रम् । भूमिष्ठ वृक्षस्य शाखां हस्ताभ्यामवनमयत्यपि आरोहतीत्यप्रयोगात । अत एव "यद्धितुपरं छन्दसि" (अष्टा०सू०८ - १ - ५६) इत्यत्र भाष्यं -" रुहि र्गत्यर्थः” इति । “अत एव चाणकर्त्तर्णौ कर्मत्वम् । पचिच्छिद्योस्तु विक्लित्तिद्विधाभवनरूपो विशेषः कर्मणि दृष्टः तदुद्देशेनैव च कारक व्यापार इति महद्वैषम्यम् । एवञ्च 'आरुह्यते हस्ती' इति कर्मवद्भावं प्रदः र्शयन्तो भाष्यन्यायविरोधादुपेक्ष्याः" इति कैयटः । एतेन --
“अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्कृपावशतस्तस्मै नमोस्तु गुरवे सदा" ॥.
इति प्रयोगो व्याख्यातः । न चैवं क्रियत इति न स्यादिति वाच्यम् । यत्नार्थतावादिनामेतद्दोषप्रसङ्गेऽपि भूवादिसूत्रस्थ माध्यानुसारेण क. रोतेरभूतप्रादुर्भावार्थतामभ्युपगच्छतामस्माकं सर्वसामञ्जस्यात् । ए वञ्च कर्तृस्थभावक्रियेषु कर्मवद्भावाप्राप्तेर्विध्यर्थमिदं सूत्रमिति स्थितं भाष्ये । 'लावयते स्वयमेव' इत्यादौ तु कार्यातिदेशपक्षे परत्वात् "कर्मवत्कर्मणा" (अष्टा०सू०३-१-८७) इत्येवात्मनेपदम् । शास्त्रातिदेशे तु " भावकर्मणोः '' (अष्टा०सू०१-३-१३) इत्येतदपेक्षया परत्वात् रणादिसुत्रेणेत्यवधेयम् | यदि स्वर्णौ ये कर्तृकर्मणी तद्भिन्नकर्मनिवृत्तिभ यकृतोभिप्रेता स्यात्तर्हि सकर्मकाणां मध्ये तत्सूत्रदाहरणतापत्तौ कर्म
Page #95
--------------------------------------------------------------------------
________________
८६
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके--
स्थक्रिया अप्युदाहरणं स्युः । न हि तत्रातिदेशः सुलभः । "कर्मवदकर्मः काणाम्" इति वक्ष्यमाणत्वात् । तथा नियमार्थत्वपराणां यक्चिणोः प्र. तिषेधार्थ वित्यादिभाष्यवार्तिकग्रन्थानामप्यसामञ्जस्यं स्यादिति दि. क् । तस्मादिहास्मदुक्तमेव वाक्यार्थत्रयं मुनित्रयसम्मतम् । जयादित्य. न्यासकारहरहत्तकैयटादिसकलग्रन्थकाराणामिह महानेव पूर्वापरवि. रोधो विपश्चिद्भिरुद्धर्तव्यः । अस्मदुक्तिस्तु मात्सर्यमुत्लार्य परिभाव. नीयेत्यलं बहुना । यत्तु "करेणुरारोहयते निषादिनम्" इति माघे प्रयुक्त तणिचश्चेति सिद्धम । एतेन--
"स सन्ततं दर्शयते गतस्मयः ।
कृताधिपत्यामिव साधु बन्धुताम्" ॥ (कि०१-१०) इति व्याख्यातम् । बन्धुता तं पश्यति, तां दर्शयते । यद्वा-बन्धुतां कृताधिपत्यामिवलोकः पश्यति तां दर्शयते इत्यर्थः । आये बन्धुता अणौ की । द्वितीये त्वणौ सा कर्म। उभयथापि णौ कर्मत्वं निर्विवादमेवेति दिक् । रिति किम् ? आरोहतीति निवृत्तप्रेषणान्मा भूत् । न च "णो चेत्" इति वाक्यशेषे श्रुतत्वाण्णेरेव भविष्यतीति वाच्यम् । अणावित्यः स्यापि श्रुतत्वात् । किं चोत्तरार्थमवश्यं रिति वाच्यमेव । तदिहैव स्पष्टार्थमुक्तम् । हेतुमण्णिज्यहणार्थ च । भीस्म्योस्तस्यैव सम्भवात् । ते. नगणयते गणः स्वयमेवेति सिद्धम्। गणयतिर्हि विभज्य भागशोऽवस्थापने वर्त्तते । तथा च कर्मस्थभावकादस्मानिवृत्तप्रेषणाद्धेतुमण्णौ पुनः प्रेषणांशत्यागे सत्यात्मनेपदमिष्टम् । णेरिति हेतुमण्णिचा सन्निधाना दणावित्यत्रापि तस्यैव ग्रहणाच्चुरादि णौ यत्कर्म तत्कर्तृकाद्धेतुमण्ण्य. न्तादपि सिध्यतीति । यत्तु वृत्तिकृता गणयतीत्येव रूपमवस्थाचतुष्ट. येऽप्युदाहियते। तत्र सन्यानिमित्तस्य परिच्छेदस्य ज्ञानविशेषात्म. कतया कर्तुस्थस्य धातुवाच्यतामाश्रित्य कर्मवद्भावाप्रवृत्या द्वितीया. वस्थायां परस्मैपदमुपपादनीयम् । चतुर्थावस्थायां तु परस्मैपदमशुद्धमेव । णेरणावित्यत्रापि "अणावकर्मकात्" (अष्टा०सु०१-३-८८) इत्य. त्रेव हेतुमण्णिच एव ग्रहणस्य न्याय्यत्वात् । तथैव भाज्ये स्थितत्वाच । भागशोऽवस्थापनपरत्वे तु द्वितीयावस्थायामप्यात्मनेपदमिति विशेषः । कर्मवद्रावस्य हुरित्वात् । यक्विणी तु "णिश्रन्धि" (का०वा०) इत्या. दिनिषेधान स्त. इति. दिक् । णौ चेदिति किम् ? निवृत्तप्रेषणापणी 'आरोहयन्ति हस्तिपकाः' इति तृतीय कक्षायां मा भूत् । असति हि णौ चेहणे श्रुतत्वादणावेव कर्मत्वं कर्तृत्वञ्च लभ्येत । न चैकस्योमयः रूपता बाधितेति वाच्यम् । प्रथमावस्थायां कर्मणो द्वितीयावशायां
Page #96
--------------------------------------------------------------------------
________________
विधिशषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
कर्तृत्वस्य निर्विवादत्त्वात् । अनाध्याने किम् ? स्मरति वनगुल्मकोकिलः। ततश्चतुर्थावस्थायां स्मरयति वनगुल्मः। उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । "स्मृ आध्याने," (भ्वा०प०८०७) घटादिः। ___ भीस्म्योर्हेतुभये (अष्टा सू०१-३-६८)। आभ्यां ण्यन्ताभ्यामात्मा नेपदं स्यात्प्रयोजकादेव चेद्भयविस्मयो स्तः। सूत्रे भयग्रहणं विस्म. यस्याप्युपलक्षणम् । मुण्डो भीषयते । “भियो हेतुभये षुक' (अष्टा०सू० ७-३-४०) इति षुक् । "बिभेतेहेतुभये" (अष्टा०सु०६-१-५६) इति वैकल्पिकात्वपक्षे तु 'भापयते' अत्र षुडन । तद्विधावीकारप्रश्लेषात् । जटिलो विस्मापयते । “नित्यं स्मयतेः" (अष्टा०सू०६-१-५७) इत्यात्वम् । “अर्तिह्रीं" (अष्टा०सू०७-३-३६) इति पुक् । हेतुभये किम् ? कु. श्चिकया भाययति । रूपेण विस्माययति । इह करणाद्भयविस्मयो न तु हेतोः। यद्यपि हेतोापारे णिज्विधानात्प्रयोजकसाध्यता दुवारा तथापि हेतुस्वरूपमेवान्यनिरपेक्षं धात्वर्थप्रयोजकञ्चदितीत्यर्थः । विशेषणोपादानसामर्थ्यात् । अत एव 'मौंड्येन भापयति' इत्यत्र न मौड्याख्यधर्मस्य भेदेन विवक्षणात् । उदाहरणे तु तादात्म्यस्य विव. क्षणाद्धेतोरेव भयम् । एतेन
"मनुष्यवाचा मनुवंशकेतुं-विस्माययन्" । (र०२-३३) इति व्याख्यातम् । इह हि न सिंहाद्विस्मयः किन्तु मनुष्यवाचेति करणात । अत एवात्र "नित्यं स्मयतेः" (अष्टासु०६-१-५७) इत्यात्वं न। तद्विधाने "बिभेतेहेतुभये" (अष्टान्सू०६-१-५६) इत्यतो हेतुभ. यानुवृत्त्या भयग्रहणस्य च स्मयोपलक्षणतया व्याख्यानात् । क्वचित्तु 'विस्मापयन्' इति पुगागमपाठः प्रामादिकः । यद्वा-वाक् विस्मापयते सिंहस्तु विस्मापयमानां वाचं प्रयुक्ते विस्मापयति । ण्यन्ताण्णिचू । चाचेति तु प्रयोज्ये कर्तरि तृतीया न तु करणे इति समाधेयम् ।।
गृधिवञ्च्योः प्रलम्भने (अष्टासु-१-३-६९) । प्रतारणार्थाम्या. माभ्यां ण्यन्ताभ्यामात्मनेपदं स्यात् । माणवकं गर्धयते वञ्चयते वा। प्रलम्भने किम् ? श्वानार्धयति । अभिकांक्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः।
लियः सम्माननशालिनीकरणयोश्च (अष्टा सू०१-३-७०)। सम्माननशालिनीकरणयोश्चकारात्प्रलम्भने च 'वर्तमानापण्यन्तालीधातोरा. त्मनेपदं स्यात् । " लीलेषणे"(
द्विआ०११३९)दिवादिः,"ली श्लेषणे" (क्या०प०१९०२) क्रयादिः, उभयोरपि ग्रहणम् । निग्नुबन्धकपरिभाषा तु प्रत्ययविगिणो । “वामदेवाड़ राड्यो (अप्रा०सू०४-२-९) इति डिकर.
Page #97
--------------------------------------------------------------------------
________________
८८ शब्दकौस्तुमप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेणेन शापिता हि सा । ज्ञापकञ्च सजातीयविषयकमवेत्युत्सर्गः । सम्मा नने--जटामिरालापयते । पूजां समधिगच्छतीत्यर्थः । अकर्मकश्वायम् । धात्वर्थेन कोडीकृतकर्मत्वात् 'पुत्रीयति' इत्यादिवत् । शालिनीकरणेप्रयेनो वर्तिकामुल्लापयते । न्यक्करोतीत्यर्थः। प्रलम्भने--बालमुल्लाप. यते । “विभाषा लीयतेः" (अष्टा०स०६-१-५१) इति णावावं . विधी: यते । तदस्मिन्विषये नित्यम् । अन्यत्र तु विकल्पः । व्यवस्थितविभाषा हि सा । न च "लीयतेः" (अष्टा०सू०६-१-५१) इति विहितमात्वं कथं लीनातेः स्यादिति वाच्यम् । लीनातिली पत्यार्यका निर्देशायमिति सि. बान्तात् । सम्माननादिग्विति किम् ? बालकमुल्लापयति । आश्ले. षयतीत्यर्थः।
मिथ्योपपदात्कृतोऽभ्यासे (अष्टा०सू०१-३-७१) । ण्यन्तात्कृती मिथ्योपपदादात्मनेपदं स्यात्पौनःपुन्ये । पदं मिथ्या कारयते । सापचार स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । “नित्यवीप्सयोः" (अष्टा० सू०८१-४) इति द्वित्वं तु न भवति । आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात् । करोतिश्चेहोच्चारणवृत्तिरकर्मकः । ण्यन्तस्तूच्चारणवृत्तिः सकर्मकश्च। मिथ्योपपदाकिम् ? पदं सुष्टु कारयति । कृत्रः किम् ? पदं मिथ्या वा. चयति । अभ्यासे किम् ? सकृत्पदं मिथ्या कारयति । ___ स्वरितत्रितः कत्रभिप्राये क्रियाफले (अष्टा०सू०१-३-७२) । स्व. रितेतो भितश्च धातोरात्मनेपदं स्याक्रियाफले कर्तृगामिनि सति । यजते, सुनुते । कत्रभिप्राये किम् ? यजन्ति याजकाः, सुन्वन्ति दक्षि. णादि तु न फलम् । उतं हि हरिणा--
"यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः ।
तत्प्रधानफलं तेषां न लाभादि प्रयोजनम्" ॥ इति । पचा पाकः । षित्त्वादङ् । केचित्तु प्रयोजकव्यापारवृत्तिभ्यो धातुभ्यस्तयोतकमात्मनेपदमनेन विधीयते । कुरुते । कारयतीत्यर्थः । 'कारयते' इत्यत्र तु प्रयोजकन्यापारद्वयमर्थः । णिजन्ताणिचि यथा "कभिप्राये” इति सूत्रांशोपि कर्तृपदस्थाहतुकर्तृपरत्वादुक्तार्थतात्प. र्यक एवेत्याहुः । उक्तश्च हरिणा--.
क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थना। असती वा सती वापि विवक्षितांनबन्धना ॥ येषाञ्चित्कभिप्राय णिचा सह विकल्पते । आत्मनेपदमन्येषां तदर्था प्रकृतियथा ॥
Page #98
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् । क्रीणीष्व, पचते, धत्ते, चिनोति, चिनुतेऽपि च ।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते'' ॥ इति । असती चेत्यनेन "कमलवनोद्धाटनं कुर्वते ये''इत्यादयः प्रयोगाः समर्थिताः । तत्रापि स्वार्थताविवक्षायाः सम्भवात् । ण्यर्थस्य वाचक द्योतकं वा आत्मनेपदमिति मतद्वयं सगृहीतं केषां चिदित्यादिना श्लोकेन । चिनोति चिनुत इति, चिनोति चापयति चेति क्रमेणार्थः । - अपाद्वदः (अष्टा सू०१-३-७३) । अपपूर्वाद्वदतेरात्मनेपदं स्याः स्कर्तृगामिनि फले संविधाने च । न्यायमपवदते । कभिप्राय किम् ? अपवदति । __ णिचश्च (अष्टा०सू०१-३-७४) णिजन्तादात्मनेपदं कर्तृगे फले संवि. धाने च । कटं कारयते । कथं "कृतश्मश्रुरपि श्मशूणि कारयति" इति भाष्यम् । संविधाने इति व्याख्याने भविष्यति । आद्यपक्षे तु कर्तृगामि. स्वाविवक्षायां भविष्यति । अत्र कश्चित् लक्षयतेः स्वरितेत्करणाज्ञा. पकाच्चुरादिणिजन्तादिदमात्मनेपदं न भवतीति । आह च
स्वरितेत्स्याद्रहिः क्रयादौ लक्षिश्चैकश्चुरादिषु । इति । चन्द्रस्तु-"णिजभावपक्षे स्वरितत्वस्य सार्थकत्त्वानोक्तार्थज्ञापकता अतश्चुरादेरप्ययं विधिर्भवत्येव"इत्याह । मैत्रेयस्तु स्तरितत्त्वमस्यानाकरमित्याह । तदेतद्धरदत्तोऽपि सञ्जग्राहएष(१) विधिर्नचुरादिणिजन्तात्स्यादिति कश्चन निश्चिनुते स्म । आप्तपचोऽत्र न किंचन दृष्टं लक्षयतेः स्वरितत्त्वमनार्षम्" इति ।
समुदाङ्भ्यो यमोऽग्रन्थे (अष्टा०सू०१-३-७५) । एभ्यो यमः प्रा. ग्वत्कर्तृगे फले संविधाने च न तु ग्रन्थे विषये । आपूर्वकस्य वचनं सकर्मकार्थम् । अकर्मके तु “आङो यमहनः' (अष्टा०म०१-३-२८) इत्ये. व सिद्धम्। व्रीहीन्सयच्छते भारमुद्यच्छते वस्त्रमायच्छते । अग्रन्थे किम् ? उद्यच्छति चिकित्सां वैद्यः । इहाधिगमपूर्वकमुद्यमं यमेरर्थः । चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः । कमिप्राय इत्येव । संयच्छति, उद्यच्छति, आयच्छति । ___ अनुपसर्गाज्ञः (अष्टा०सू०१-३-७६) । अस्मात्प्राग्वत्कर्तृगे फले संविधाने च । “अकर्मकाच" (अष्टान्स०१-३-४५) इत्येव सिद्ध वचन. मिदं सकर्मकार्थम् । गाजानीते । अनुपसर्गात्किम् ? स्वर्ग लोकं न प्रजानाति । कथं तर्हि भट्टिः
(१) दोधकं नाम वृत्तमिदम्-"दोधकवृत्तमिदं भभभाद्गो" (वृ०र० ३-३४) इति तल्लक्षणात् ।
Page #99
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेइत्थं नृपः पूर्वमवालुलोचे ततोऽनुजले गमनं सुतस्य । इति । कर्मण्ययं लिट् । 'नृपेण'इति तृतीयान्तस्य विपरिणामादिति ज. यमङ्गला।
विभाषोपपदेन प्रतीयमाने (अष्टा०म०१-३-७७) । स्वरितेत्प्रभृतिभ्य आत्मनेपदं वा स्यात् समीपोच्चारितपदेन क्रियाफलस्य कर्तृगत्वे प्रती ते । "स्वरितत्रितः' (अष्टा०स०१-३-७२) इत्यादि पञ्चसया यदात्मनेपदं विहितन्तत् क्रियाफलस्य कर्तृगत्वे उपपदे न द्योतिते न प्राप्नोति । उक्तानामप्रयोगात । तत्राप्राप्तविभाषेयम् । उपपदं चेह समीपे श्रूय. माणं पदं न तु पारिभाषिकम् । असम्भवात । इह च पञ्चमत्री अनुव. र्तते । स्वं यज्ञं यजति यजते वा । स्वं कटं करोति कुरुते वा । स्वं पुत्र. मपवदति अपवदते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वाङ्गी जानाति जानीते वा।
शेषात्कर्तरि परस्मैपदम् (अष्टा०स०१-३-७८) । आत्मनेपदनिमि. त्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । याति, वाति । कथं तर्हि
__ स्मराग्नौ जुम्हानाः सुरभिघृतधाराहुतिशतैः । (श्लो०३३)
इति सौन्दर्यलहरी। सत्यम् । नायं शानच किन्तु चानश् । एतेन "रसमानसारसेन (शि०६-७५) इति माघी व्याख्यातः ।
अनुपराभ्यां कृत्रः (अष्टा सू०१-३-७९)। आभ्यां कृत्रः परस्मैपदं स्यात् कर्तृगेऽपि फले गन्धनादावपि । अनुकरोति, पराकरोति । ननु कर्मकर्तर्यपि प्राप्नोति । 'अनुक्रियते स्वयमेव' इति । नैष दोषः । कार्या. तिदेशपक्षे “कर्मवत्कर्मणा" (अष्टा०सू०३-१-८७) इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशे तु "भावकर्मणोः” (अष्टा०सू०१-३-१३) इत्यस्य पूर्वत्त्वात्परेणानेन यद्यपि भाव्यं तथापीह "कर्तरि कर्म (अष्टा० सू०१-३-१४) इत्यतः "शेषात्कर्तरि" (अष्टा०म०१-६-७८) इत्यतश्च कर्तृग्रहणद्वयमनुवर्तते तेन कतैव यः कर्ता तत्रायं विधिन तु कर्मक रीति बोध्यम् ।
अभिप्रत्यतिभ्यः क्षिपः (अष्टा सू०१-३-८०)। 'क्षिप प्रेरणे" (तु०३०१२८६) स्वरितत् । आभिक्षिति, प्रतिक्षिपति, अतिक्षिपति । एभ्यः किम् ! आक्षिपते । कर्तरीत्येव । नेह-आक्षिप्यते मत्रम । द्विती. यकर्तृग्रहणानुवृत्तेः कर्मकर्तर्यपि न ।
प्राद्वहः (अष्टा सू०१-३-८१) । "वह प्रापणे" (भा उ०१००४) स्व. रितेत् । प्रवहति । प्राकिम् ? आवहते।
Page #100
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे परस्मैपदनियमप्रकरणम् ।
९१
परमृष: (अष्टा०सु०१-३-८२) "मृष तितिक्षायाम्" (दि०उ०११६४ ) स्वरितेत् । परिमृष्यति । परेः किम् ? आमृष्यते । इह परेरिति योगं विभज्य वह इत्यनुवर्त्तनात् परिवहति इति केचिदिच्छन्ति ।
व्याङ्परिभ्यो रमः (अष्टा०सु०१-३-८३) । "रम क्रोडायाम्" (स्वा०आ०८५३) अनुदात्तेत् । विरमति, आरमति, परिरमति, एभ्यः किम् ? अभिरमते ।
उपाच्च (अष्टा०सू०१-३-८४) । उपपूर्वाद्रमेः प्राग्वत् । सकर्मकार्थोयमारम्भः । अकर्मकात्तु विभाषां वक्ष्यति । स्थादेतत् — उपपूर्वको रमिर्निर्वृत्तिविनाशयोर्वतते । उपरतोध्ययनात् । "उपरता निधनानि " इति यथा । न चानयोरर्थयोः सकर्मकता सम्भवति । सत्यम् । अन्त. र्भावितण्यर्थोऽत्रोदाहार्यः । तद्यथा - 'यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः ।
विभाषाकर्मकात् (अष्टा०सू०१-३-८५) । उपाद्रमेरकर्मकात्परस्मैपदं वा स्यात् । उपरमति उपरमते वा । निवर्त्तत इत्यर्थः ।
बुधयुधनराजने रुस्रुभ्यो णेः (अष्टा०सू०१ - ३ - ८६ ) | एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । " णिचश्व" (अष्टा ०१-३-७४) इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । इह “अणावकर्मकात्" (अष्टा०सू०१-३-८८) इति न सिध्यति । अचित्तवत्कर्तृकत्वात् । इङ् - अध्यापयति । दूस्रणां "निगरणचलनार्थेभ्यश्च” (अष्टा०सू०१-३-८७ ) इत्येव सिद्धे यदा न चलनार्थस्तदर्थं वचनम् । प्रावयति - प्रापयतीत्यर्थः । द्रावयति-विलापयतीत्यर्थः । स्स्रावयति-स्यन्दयतीत्यर्थः । स्यन्दनं द्रवत्वजन्यचलनम् । न चैवं चलनार्थत्वात्सिद्धमिति वाच्यम् । द्रवत्वजन्यतावच्छेदकचलनत्वव्याप्यजातिविशेषे शक्ततयास्य विशेषशब्दत्वेप्यपर्यायत्वात् ।
निगरणचलनार्थेभ्यश्च (अष्टा०सू०१-३-८७) । अभ्यवहारार्थेभ्यः क. स्पनार्थेभ्यश्च ण्यन्तेभ्यः परस्मैपदं स्यात् । निगारयति, आशयति, भो जयति, चलयति, चोपयति, कम्पयति । सकर्मकार्थोऽचितवत्कर्तृकार्यश्चायमारम्भः । “आदेः प्रतिषेधो वक्तव्यः" इति काशिका | भाष्यका रस्तु "गतिबुद्धि” (अष्टा०सू०१-४-५२) इति सूत्रे इममर्थं वक्ष्यति | आ· दयते देवदत्तेन । "गतिबुद्धि” (अष्टा०सु०१-४-५२ ) इत्यादिना णौ क र्त्तः कर्मसंज्ञा प्राप्ता "आदिखाद्योः प्रतिषेधः" (का०वा० ) इति वचनान भवति । कथं तर्हि "आदयत्वन्नं बटुना" इति । अकर्त्रभिप्राये भविष्यति । कर्त्रभिप्राये प्राप्तस्य "निगरणचलन" (अष्टा०सु०१-३-८७) इत्यस्य ह्ययं निषेधो न तु "शेष | त्कर्त्तरि" (अप्रा०सू०१ - ३ - ७५ ) इत्यस्य । कथं
Page #101
--------------------------------------------------------------------------
________________
९२ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेतर्हि श्रीहर्ष:
इमां किमाचामयसे न चक्षुषी
चिरं चकोरस्य भवन्मुखस्पृशि । इति । न च नायं भक्षणार्थः।
न पीयतां नाम चकोरजिव्हया
कथं चिदेतन्मुखचन्द्रचन्द्रिका ॥ इति । पूर्वार्धानुरोधेन पानार्थत्वादिति वाच्यम् । पानस्यापि भक्षणवि. शेषात्मकत्वात् । सामान्यग्रहेण विशेषस्यापि ग्राह्यत्वात् । अन्यथहैव सुत्रे 'चोपयति' इत्युदाहरणासङ्गतेः। चुपेर्मन्दगत्यर्थकत्वात् । इमामित्य. स्याकर्मकत्वासङ्गतिप्रसङ्गाञ्च । गत्यादिसूत्रेण ह्यस्य कर्मसंज्ञा सा । प्रत्यवसानार्थतां विना दुरुपपादेति । अत एव "नपादमि" (अष्टा सू० १-३-८९) इति सत्रे पाग्रहणं धेट उपसख्यानञ्च सङ्गच्छते । अन्यथा पाधेटोरप्याचमिवत्पानार्थत्वेन निषेधो व्यर्थः स्यात् । न चैवं वुधयुधादि. त्सुत्रे द्रवतिग्रहणं व्यर्थ चलनविशेषवाचकस्यापि चलनवाचकतानपायादिति वाच्यम् । चलनत्वव्याप्याया अखण्डाया एव जातेःप्रवृत्तिनिमित्त. ताया उक्तत्वात । पानन्तु द्रवद्रव्यस्य गलादधः करणम् । तत्र द्रवद्रव्यां. शस्याधःकरणे कर्मीभूतस्याधिकस्य भानेऽपि भक्षयतेरर्थस्य भानं नि. विवादम् । यथा मन्दगती भासमानायां गर्भानम् । अधिकं प्रविष्टं न तु तद्धानिरिति न्यायात् । न च पानत्वमप्यखण्डस्यन्दनत्ववदिति वा. च्यम् । तत्साधकानिरुक्तेः । दृष्टान्ते तु कार्यतावच्छेदकतया तत्सिद्धे. रिति । उच्यते-'आचामय' इति लोडन्तं छित्वा "किं नाचामयः" इति व्याख्येयम् । 'से' इति तु सम्बोधनं दमयन्त्याः । तथा हि-अ. स्य स्त्री ई-लक्ष्मीः तया सह वर्तमाना सेः तस्याः सम्बोधनं से। स. लक्ष्मीके इत्यर्थः। ___ अणावकर्मकाच्चित्तवकर्तृकात् (अष्टा सू०१-३-८८) ! णेः पूर्वम कर्मकाच्चित्तवत्कर्तृकाण्ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं शाय. यति गोपी । अणौकिम् ! आरोहयमाणं प्रयुत आरोहयते । “णेरणौ" (अष्टा०सू०१-३-६७) इति सूत्रे उदाहरणत्वेन योऽकर्मको निर्णीतस्तस्माद द्वितीये णौ मा भूत् । स हि णावकर्मकः निवृत्तप्रेषणाध्यारोपितप्रेषणयो. रुभयोरपि न्यग्भवतीत्यर्थे पर्यवसानस्योक्तत्वात् । अकर्मकात्किम् ! कटं कुर्वाणं प्रयुङ्क्ते कारयते । चित्तवत्कर्तृकात्किम् ? वीहीन शोषयते । अत्र केचित् । चुरादिण्यन्ताद्धेतुमण्णौ "अणौ' (अष्टान्सू०१-३-८८) इत्यस्य प्रत्युदाहरणमाहुः । तत्तु भाष्यादिविरुद्धम् । तथा हि-बुधादिमत्रादिह
Page #102
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे परस्मैपदनियमप्रकरणम् ।
९३
रित्यनुवर्तते । बुधादिभ्यश्च हेतुमण्णिरेव सम्भवतीति निषेधोऽपि प्र. त्यासत्तेस्तस्यैव न्याय्यः। तेन चुरादिण्यन्तादपि हे तुमण्णौ भवत्येवेदं प. रस्मैपदमिति भाष्ये स्थितम् । यत्न रूपयन्तं प्रयोजयति 'रूप' इति केन चित्प्रत्युदाहृतं तच्चुरादिण्यन्ता तुमण्णिचं विधाय तस्य च सोकर्याति. शयात्प्रयोजकव्यापाराविवक्षायां प्रयोज्यव्यापारमात्रवृत्त्या अकर्मकता. माश्रित्य ततो द्वितीये हेतुमण्णिचि बोद्धव्यम् । अत एव 'प्रयोजयति' इत्याह । इह हि युजिना णिचा च प्रयुक्तिद्वयं वदता हेतुमणिद्वयं सु. च्यते । अन्यथा 'प्रयुङ्क्ते' इत्येवादर्शयिष्यत् । एवञ्च चेतयमानं प्रयुङ्क्ते 'चेतयते' इति केषां चित्प्रत्युदाहरणं यदृत्तिकता दूषितं तत्समर्थित भ. वति । स्वार्थण्यन्तादेकस्मिन्नेव हेतुमण्णौ तु 'रूपयति' 'वेनयति' इ. त्येव बोध्यम् ।
न पादम्याङयमाङयसपरिमुहरुचिनृतिवदवसः (अष्टा०स०१-३८९) । एभ्यो ण्यन्तेभ्यः परस्मैपदं न स्यात् । तत्र पिबतिनिंगरणार्थः । इतरे चित्तवत्कर्तृकाः । नृतिश्चलनार्थोऽपि । तेन "अणावकर्मकात्" (अष्टा०सू०१-३-८८) इति "निगरणचलन' (अष्टा०म०१-३-८७) इति प्राप्तमिह निषिध्यते । “पा पाने' (भ्वा०प०९२५) पाययते । “पा रक्षणे'' (अ०१०१०५६) इत्ययन्तु न गृह्यते । “लुग्विकरणाऽलुग्विकरण योरलग्विकरणस्यैव ग्रहणम्" (प० भा० ) इति परिभाषणात । ते. नाणावकर्मकत्वविवक्षायां परस्मैपदं भवत्येव । पालयति । "पातेलुग्व. क्तव्यः'' [कावा०] इति लुगागमः । “दमु उपशमे" (दि०प०१२०३) दमयते । आपर्वो "यम उपरमे" (भा०प०९८४)। आयामयते । “न कम्यमिचम'पु' (ग० स० ) इत्यतो नेत्यनुवर्तमाने "यमोऽपरिवेषणे" (ग० सू० ) इत्यनेनमित्संज्ञाप्रतिषेधः । ङकारविशिष्टस्योपादानमुपसर्गप्रांतपत्त्यर्थम् । तेनान्यान्वितादाकारात्परस्य न । आयूर्वो “यसु प्रयत्ने" [दे०२०१२११] । आयासयते । पारपूर्वो "मुह वैचित्ये" [दि०प०११९८) । परिमोहयते, रोचयते, नर्तयते, वादयते, वासयते । "वस आच्छादने' [भ्वा०प०१००५] इत्यस्य लुम्विकरणत्वादग्रहणम् । पादिषु धेट उपसङ्ख्यानम् (काभ्वा०) "धापयेते शिशुमेकं सामीची" प्रत्यवसानार्थत्त्वाच्छिशुमित्यस्य कर्मत्वम् । समीचीति प्रथमाद्विवच. नम् । “वा छन्दसि" (अष्टा सू०६-१-१०७) इति पूर्वसवर्णदीर्घः । स्यादेतत् , "वत्साम्पाययति पयः" । "दमयन्ती कमनीयतामदम् । "अवीवदद्वीणां परिवादफेन" | "भिक्षा वासयति" इत्यादिप्रयोगास्तर्हि
Page #103
--------------------------------------------------------------------------
________________
९४ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके-- कथमिति चेत् , अत्राहु:-कर्तृगे फले प्राप्तस्यात्मनेपदस्यापवादो यद्वि. हितं परस्मैपदं तस्यैवायं निषेधः। यत्त्वकत्रभिप्राये "शेषात्" [अष्टा० सू०१-२-७८) इति परस्मैपदं तनिधिमेवेति ।
वा क्यषः (अष्टा सू०१-३-९०)। क्यषन्तात् परस्मैपदं वा स्यात् । लोहितायति, लोहितायते । नविह परस्मैपदाभावपक्षे लकार एवा. श्रयेत न त्वात्मनेपदम् । तस्य प्रकृतिविशेषेऽर्थविशेषे च नियतत्वात् । सत्यम् । पूर्वसूत्रे तावदपवादमपनयता प्रतिषधेनात्मनेपदं प्रवर्यंत इति निर्विवादम् । स एव च प्रतिषेध इहानुवय॑ते । तदनुवृतिसामर्थ्याच्चहात्मनेपदविकल्पः सिध्यति । आत्मनेपदप्रवृत्यविनाभूतेन निषेधेनात्मने. पदस्य लक्षणया उपस्थितौ तस्यैव विकल्पनात् । तेन मुक्त "शषात्क. तरि परस्मैपदम्" (अष्टा०स०१-३-७८) भविष्यति । प्रकृत्यर्थनियमपक्षे एकवाक्यताविधिश्चेति पक्षे च परस्मैपदविकल्पेपि न कश्चिहोष इत्यवधेयम् ।
धुभ्यो लुङि ( अष्टा०म०१-३-९१) । द्युतादिभ्यः परस्मैपदं वा स्याल्लुङि । अद्युतत्, अद्योतिष्ट । अलुठत, अलोठिष्ट । लुङि किम् ? द्योतते, लोठते । अनुदात्तेत्यानित्यं तङ् । नन्विह विकल्पानुवृत्तियर्था। "अनुदात्तेतः" (अष्टा०स०१-३-१२) इत्यनेन प्रतिषिद्धस्य परस्मैपदस्था. नेन प्रतिप्रसवे कृते "लस्य" (अष्टा०सू०३-४-७७) इत्युत्सर्गेणैव पा. क्षिकस्यात्मनेपदस्य सिद्धेः । सत्यम् । परस्मैपदे प्रतिप्रसूते आत्मनेपदं न भवतीति ज्ञापयितुं वानुवृत्तिः । तेन 'अनुकरोति" इत्यादौ पाक्षि कमात्मनेपदं न भवति । यदा तु "अनुदात्तङिता" (अष्टा०४०१-३-१२) इत्यादिप्रकरणेनात्मनेपदमेव विधीयते 'शेषात्" (अष्टा०सू०१-३-७८) इत्यादिना च परस्मैपदम् । तदा 'अनुकरोति' इत्यादौ परस्मैपदेनात्म नेपदं बाध्यते येन नाप्राप्तिन्यायात । पक्षे आत्मनेपदप्रवृत्यर्थ चेह वा. ग्रहणमित्यवधेयम् । पक्षद्वयमपीदं "अनुपराभ्याम्"(अष्टा०सू०१-३-७९) इति सूत्रे भाष्ये स्थितम् । "प्रत्ययलोपे प्रत्ययलक्ष गम्' (अष्टान्सू.११-६२) इति सूत्रे नियमसूत्राणां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति पक्षद्वयस्यापि तत्वं निरूपितमस्माभिः । तदप्येतस्माद्भाध्यादुत्थितमित्यवधेयम् ।
वृभ्यः स्यसनोः (अष्टा०सू०१-३-९२)। वृतुवृधुशुधुस्यन्दुभ्यः पर. स्मैपदं वा स्यात्स्ये सनि च । वय॑ति, अवय॑त् । विवृत्तति, "न वृद्भ्यः श्चतुर्यः (अष्टा सु०७-२-५९) इतीनिषेधः । पक्षे वर्तिप्यते, अवर्तिष्यत ।
Page #104
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे परस्मैपदनियमप्रकरणम् ।
विवर्तिषते । स्यसनोः किम् ? वर्तते । ननु द्युतादिष्वेव वृतादयः प. ठ्यन्ते । तथा च तक्रकौण्डिन्यन्यायेनयं प्राप्तिवृद्भयः पूर्वी प्राप्ति बा. धेत । ततश्च 'अवृतत् , अवर्तिष्ट'इति लुङि पूर्वण विकल्पो न सिध्येत् । तथाचोत्तरसूत्रे चकारः क्रियते । लुटीति विशेषविधिना स्यसनोरियं प्राप्तिा बाधीति ?)। अन्यथा कृपेरपि वृताद्यन्तभावादननैव सिद्ध कि.
कारणेति चत् ? सत्यम , द्युतादिपाठसामथ्यांहृतादिभ्यो लुङि भविष्यति । यद्वा लुङीति स्वरयिष्यते। - लुटि च क्लपः (अष्टा०मूर-३-९३) । लुटि स्यसनोश्च कृपेः परस्मैपदं वा स्यात् । कल्तासि, कल्प्स्यति, अकल्प्स्यत् । चिक्लप्सति । "तासि च क्लपः" (अष्टा०सू०७-२-३०) इतीप्रतिषेधः । पक्षे का ल्पितासे । कल्पिष्यते, अकल्पिष्यत । चिकल्पिषते । इहेपिनषेधो नास्ति । तत्र हि "गमेरिट परस्मैपदेषु' (अष्टा०स०७-२-५८) इत्यतः परस्मैपदेग्वित्यनुवर्तते । ऊदित्वात्पाक्षिक इडभावम्त्वस्त्येव । स्यादे. तत, स्यसनारित्यस्य स्वरितत्वमेवास्तु "वा क्यषः' (अष्टासू०१३-९०) इति वाशब्दस्य यथा । तथा च "स्वरितेनाधिकारः" (अष्टा० सू०१-३-११) हत्येव सिद्ध किश्चकारेण ? सत्यम्, स्पष्टार्थश्चकारः । अत एवानुकर्षणार्थाः सर्व चकारा भाष्ये प्रत्याख्याताः। इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य तृतीय पादे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ॥ --
-- - आकडारादेका संज्ञा (अष्टा सू०१-४-१) । इत ऊर्ध्व कडाराः कर्मधारये (अष्टा०सू०२-२-३८) इत्यतः प्रागेकस्य एकैव संज्ञा स्यात् । तत्रोभयोः सावकाशत्वे "विप्रतिषेधे परम्” (अष्टा सू०१-४-२) इति परैव । निरवकाशत्वे तु सैवेति विवेकः ।
तत्र परस्या उदाहरणं-'धनुषा विध्यति' इति । शराणामपायं प्र. त्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकत्वमित्युभयप्रसङ्गे परत्वा. स्करणसंज्ञा अपादानसंज्ञां बाधते । तथा 'कांस्यपान्याम्भुङ्के' इत्यधि. करणसंज्ञा 'धनुर्विध्यति' इति कर्तृसंज्ञा (१)च । तदुक्तम्-"अपादानमु. त्तराणि" इति ।
निरवकाशायास्तूदाहरणम्-'अततक्षत्' इति । अत्र हि "संयोगे गुरु" (अष्टा०स०१-४-११) इति गुरुसंशा लघुसंशां बाधते । तेन "सन्वल्लघुनि" (अष्टा सु०७-४-९३) इत्येतन प्रवर्तते ।
(१) अपादानसंज्ञां बाधते इत्यर्थः ।
Page #105
--------------------------------------------------------------------------
________________
९६ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे प्रथमान्हिके___स्यादेतत् । भपदसंज्ञाभ्यां तर्हि अङ्गसंज्ञा बाध्येत । तथा च 'गा
>ः' इत्यत्र “यस्येति च" (अष्टा०सू०६-४-६४८) इति लोपो न स्यात् । 'धानुष्कः' इत्यत्राङ्गस्योच्यमाना वृद्धिर्न स्यात् । अङ्गसंज्ञा तु 'कत्त. व्यम्' इत्यादी सावकाशा । नहि धातुप्रत्यये पूर्वस्य भपदसंज्ञे स्तः । ___ अत्राहुः-"सुपि च" (अष्टा०सू०७-३-१०२) "बहुवचने झल्यत्' (अष्टा०स०७-३-१०३) "तद्धितेष्वचामादेः" [अष्टा सू०७-२-११७] इत्यादी स्वादिषु तद्धितेषु चाङ्गस्य कायविधानं समावेशस्य ज्ञापकम् । द्विविधा हि स्वादयः-यजादयो वलादयश्च । तत्र यथाक्रमं भपदसंज्ञा. भ्यां भाव्यम् । ताभ्यां चाङ्गसंज्ञाबाधे निर्विषयां एव तत्तद्विधयः स्युः ।
गुरुलघुसंज्ञे वर्णमात्रस्य विधीयेते, नदीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविशतः । तेन 'वात्सीबन्धुः' इत्यत्र "नदी बन्धुनि" (अष्टान्सू०६-२-१०९) इति पूर्वपदान्तोदात्तत्वं, 'हे वात्सीबन्धी इत्यत्र "गुरोरनृतः" (अष्टा०सू८-२-८६) इति प्लुतश्च सिध्यति । तथा विश्व ना च विनरौ "द्वन्द्वे घि" (अष्टा०सू०२-२-३२) इति पूर्वनिपातः। विन. रावाचष्ट विनयति प्रविनय्य गतः । "ल्यपि लघुपूर्वात" (अष्टामू० ६-४-५६) इति णेरयादेशः । यथा चायादेशे कर्तव्ये टिलोपो न स्था. निवत्तथा “अचः परस्मिन्” (अष्टा०स०१-१-५७) इत्यत्र व्युत्पादितम् । यत्त कं विन्त्रोभीवो वैन्त्रम् "इगन्ताञ्च लघुपूर्वात्" [अष्टा सू०५-११३१] इत्याणिति, तश्चिन्त्यम् ; "द्वन्द्वमनोशादिभ्यश्च" [अष्टा सू०५-११३३] इति वुप्रसङ्गादिति कैयटः । पुरुषसंज्ञा तु परस्मैपदसंज्ञां न बाधते "णलुत्तमो वा" (अष्टा०म०७-१-९१) इति शापकात् । अन्य. त्रापि यत्र समावेश इएस्तत्र चकारादिना स्वस्थाने साधयिष्यते । भाष्ये तु पाठान्तरमप्युपन्यस्तम-"प्राकडारात्परं कार्यम्" इति । अ. स्यार्थः-प्राकडारात्संज्ञाख्यं कार्य पर स्यादिति । संज्ञाप्रकरणाद्धि सं. शारूपमेवह कार्यम् । परासंझेत्येव तु न मूत्रितम्। "विप्रतिषेधे" (अष्टान्सू०१-४-२) इत्युत्तरसूत्रे परङ्कार्यमित्यस्यानुवृत्तिर्यथा स्यात् । तत्र यस्याः संज्ञायाः परस्याः पूर्वयाऽनवकाशया बाधः प्राप्तः सा परा. ऽनेन विधीयते । एतदेव च ज्ञापकमिह प्रकरणे संज्ञानां बाध्यबाध. कभावस्य । तेन परयाऽनवकाशया सावकाशा पूर्वा बाध्यते । द्वयोस्तु. सावकाशयोर्विप्रतिषेधे परया पूर्वी बाध्यते इति । अस्मिन्पक्षे अङ्गसंज्ञा पररा कर्तव्या भपदसंज्ञे तु पूर्वे, एवं यत्र यत्र समावेश इष्टस्तत्र सर्वत्र बोद्धव्यम् । अस्मिन्पक्षे ऋत्विय इति न सिध्यति । तथाहि, "ऋतो. रण" (अष्टा सु०५-१-१०५) "छन्दसि घस्" (अष्टा०स०५-१-१०६)
Page #106
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे नियमप्रकरणम् ।
"सिति च" (अष्टा०सू०१-४-१६) इति पदसंज्ञवेष्टा । तेन तत्र परं कार्य. मिति बचनाद्भसज्ञापि स्यात् । ततश्च "ओर्गुणः" [अष्टा सू०६-४१४६] प्रसज्येत । पदत्वप्रयुक्तनावग्रहेण सित्करणं सार्थकं स्यात् । "शेषो बहुव्रीहिः" [अष्टा०सू०२-१-२३] "शेषो ध्यसखि" [अष्टा०स०१४-७] इति शेषग्रहणं चास्मिन्पले कर्त्तव्यं स्यात् । अन्यथा हि 'उन्मत्तगलम्' इत्यादौ "अन्यपदार्थे च सज्ञायाम्" (अष्टा०सू०२-१-२१) इति सत्यामव्ययीभाव सज्ञायां परङ्कार्यमिति पचनाद्वहुव्रीहिसझाऽपि स्यात् । 'मत्यै' इत्यत्र नदीसझापर्याये घिसंज्ञाऽपि स्यात् । ततश्च गुणप्रसन्नः। वस्तुतो बहुव्रीही शेषग्रहणं पाठद्वयेऽपि कर्तव्यं, घिसंज्ञा. यान्तु पाठबयेऽपि न कर्तव्यमिति तत्रैव वक्ष्यामः।
इदं त्ववधेयम् । एका संक्षेति पाठेऽपि संक्षाग्रहणं न कर्तव्यम् । एकेत्युकेऽपि सज्ञाधिकारादेव तल्लाभात् ।
स्यादेतत् , "आद्वन्द्वात" इत्येवोच्यताम् । न हि "चार्थे द्वन्द्वः" [अष्टा०सू०२-२-२९] इत्यतः परत्रेदमुपयुज्यते । सत्यम् , तथा सति "न्वश्व प्राणितर्य" [अष्टा०सू०२-४-२] इत्यस्याप्यवधित्वं सम्भाव्येत । ततश्च सम्बुद्धिसामन्त्रितसञ्जयोः समावेशो न स्यात् । मनु "मा. कडारात्" इत्युक्तेऽपि "प्राकडारात्समासः" [अष्टा सू०२-१-३] इत्य. स्यावधित्वं कुतो न स्यादिति चत् ? व्याप्तिन्यायाल्लिकाच । यदयं "तत्पुरुषः" (अष्टा०सूर-१-२२) "द्विगुश्च" [अष्टा सू०२-१-२३] इ.यार. भते । समावेशार्थ हि च तत् । वस्तुतस्तु "संख्यापूर्वो द्विगुः" [अर ० सू०२-१-५२] इत्यत्रैव चकारः पाठ्यः । तावतैव "दिवः कर्म च" [अष्टा सू०१-४-४३] "तत्प्रयोजको हेतुश्च" [अष्टा सू०१-४-५३] इत्यादाविध समावेशसिद्धेः । “विगुश्च" (अष्टा०सू०२-१-२३)इति सूत्रान्तरं तु न कर्तव्यमेव । एवं समानाधिकरणसमासप्रकरणं समाप्य "कर्मधार यश्च" इत्येव पाठ्यम् । “तत्पुरुषः समानाधिकरणः कर्मधारयः" [अष्टा० सु०१-२-४२] इति सुत्रं तु मास्त्विति दिक् ।
विप्रतिषेधे परङ्कार्यम् [अष्टा सू०१-४-२]। विरोधे सति कृत्यह यत्परं तत् स्यात् । विप्रतिपूर्वात्सेधतर्घञ्, “उपसर्गात्सुनोति" (अष्टा० सू०८-३-६५)इति षत्वम् । उपसर्गवशाच विरोधार्थकत्वम् । 'कार्यम्' इत्यत्र "अहें कृत्यतृचश्च" (अष्टा सू०३-३-१६९)इत्यर्हार्थे कृत्यप्रत्ययः । तेन तुल्यबलविरोध इति पर्यवस्यति । नापवादादीनां सन्निधौ उत्स. र्गादीनां कृत्यहत्वं, तैर्बाधितत्वात् । तत्र नित्यमावश्यकत्वाद्धाधकम् । अन्तरजन्तु लाघवात् । अपवादस्तु वचनप्रामाण्यात् । तद्भिन्नस्तु प्र. शब्द. द्वितीय. 7.
Page #107
--------------------------------------------------------------------------
________________
९८ शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे प्रथमान्हिके
1
कृतसूत्रस्य विषयः । तदुक्तम् - " पर नित्यान्तरङ्गापवादानामुत्तरोत्तरस्य बलवत्त्वम्” [प०भा०३८ ] इति । जातिपक्षे विध्यर्थं सूत्रम् । वृक्षेषु, वृक्षा भ्याम् इत्यत्र हि लब्धावकाश यांरेत्वदीर्घत्वशास्त्रयोर्वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे सति गमकाभावादप्रतिपत्तिरेव स्यात् । तदुकम् - " अप्रतिप-' त्तिर्वोभयोस्तुल्यबलत्वात्" इति I तत्रास्माद्वचनात्परस्मिन्कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति । यथा 'भिन्ध कि' इत्यत्र परत्वाद्धिभावे कृतेऽप्यकच् । तदुक्तं - "पुनः प्रसङ्गविज्ञानात्सिद्धम् (प०भा०३९) इति । व्यक्तिपक्षे तु तद्व्यक्तिविषयकयोर्लक्षणयोरन्यत्र चरितार्थत्वासम्भवात्तव्यत्तव्यानीयरामिव पर्याये प्राप्ते नियमार्थमिदं सूत्रम् - विप्रतिषेधे परमेव न तु पूर्वमिति । एतल्लक्षणारम्भाच्च तत्र पूर्वस्यानारम्भोऽनुमीयते । तथाच जुहुतात्त्वमित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेन घित्वं न भवति । तदुक्तं - " सकृद्रतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव" (१० भा०४०) इति । जातिव्यक्तिपक्षयोश्च लक्ष्यानुरोधाड्यवस्थेत्युक्तं पस्पशायाम् । नित्यादिषु तु नास्य प्रवृत्तिरित्युक्तम् | तेन रधेर्णिचि "अत उपधायाः " (अष्टा०सु०७-२-११६) इति वृद्धि परा. मध्यनित्यां बाधित्वा "रधिजभोः" (अष्टा०सू०७-१-६१ ) इति नुमेव । न च सोऽपि शब्दान्तरप्राप्त्याऽनित्य पवेति वाच्यम्, कृताकृतप्रसङ्गत्वमात्रेणापि कचिन्नित्यताभ्युपगमात् । तेन 'रन्धयति' इति सिद्धम् | तथा 'अदुद्रुवत्' इत्यादावन्तरङ्ग उवङ् परमपि लघूपधगुणं बाधते । तथा 'शुनः' इत्यत्रान्तरङ्गत्वात् “सम्प्रसारणाच्च” (अष्टा०सू०६-१-१०८) इति पूर्वत्वम् । अल्लोपे तु सति तस्य स्थानिवत्त्वाद्यण् स्यात् । 'बहुश्वा नगरी' इत्यत्र "अन उपधालोपिनः' (अष्टा०सु०४-१-२८) इति ङीप् स्यात् । सिद्धान्ते गौरादिलक्षणो ङीष् तु न, उपसर्जनत्वात् । यत्त्वि हत्यभाष्यं 'बहुशुनी' इति, तत्सिद्धान्तेन स्थितम्, अल्लोपाभ्युपगमपक्षे प्रवृत्तत्वात् । एतच्चे हैव कैयटे आभात्सुत्रीय भाष्य कैयटयोश्च स्पष्टं न्यायसिद्धञ्च । यन्तु “बहु श्वेत्येव भवितव्यम्" इति डान्सूत्रे भाग्यम्, तदिह साधकतया न ग्राह्यम् । डाप्पक्षमेवोप्रक्रम्य 'बहुशका' इति रूपं तिरस्कर्तुं तस्य प्रवृत्तत्वात् । 'वृक्ष इह' इत्यादौ त्वन्तरङ्गेण गुणेन दीर्घो बाध्यते । न चासौ अपवादः कथं बाध्यतामिति वाच्यम्, समानाश्रये तस्य चरितार्थत्वात् । तथा च वार्त्तिकम् - "इङिशीनामाद्गुणः सवर्णदीर्घत्वात्" (का०वा० ) इति । इह शीनामिति नदीत्वान्नु, विभक्तिप रतया नित्यस्त्रीत्वात् । अत एव "औङः श्याम्" (का०वा० ) इति प्रयोगः । उदाहरणन्तु 'अयजे इन्द्र, वृक्षे इन्द्रं, सर्वे इह' इति बोध्यम् । इहान्तरङ्ग
Page #108
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे नदीसंज्ञाप्रकरणम् ।
बलवदिति लाघवन्यायमूलकमिति कैयटः । “अचः परस्मिन्" [अष्टा० सु०१-१-५७] इतिसूत्रे भाष्यमप्येवम् । “असिद्धं बहिरङ्गम्" (प०मा०५०) इति तु "वाह ऊ' (अष्टा०सू०६-४-१३२) इत्यूठग्रहणेन शापितम् । "षत्वतुको" [अष्टा सू०६-१-८६] इत्यनेन तु तदपवादभूतं "नाजानन्तर्ये' (प०भा०५१) इति । तत्र "असिद्धम्"(प०भा०५०)इत्यनया पचावेदम्' इत्यादविवाभावार्थमवश्याश्रयणयिया गतार्थत्वाद् "अन्तर बलीयः' इति न कर्तव्येतीहत्यं भाष्यं विरुद्धम् । न्यायसिद्धताया उक्त. त्वात । किञ्च सापवादयाऽसिद्धपरिभाषया कथं निरपवादाया गता. र्थता? अथ "षत्वतुकोः" (अष्टा०स०६-१-८६)इत्यनेन "आसिद्धं बहिः रङ्गम" (प०भा०५०)इत्यस्या अनित्यतैव ज्ञाप्यते, लाघवात्; न तु "नाजा. नन्तर्य" (प०भा०५१) इति, गौरवात् । तर्हि प्रबलमिदं भाष्यम् । स्फटी. कृतं चेदम् "अचः परास्मन्" (अष्टा००१-१-५७)इति सूत्रेऽस्माभिः । एवश्वाचोरानन्तर्यमिति द्वित्वं विवक्षितम् । नचेत्यादयोऽपि प्राचाङ्क: लहा मुधैव । एवञ्च "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते" (प० भा०५२) इत्यपि गतार्थम् । “षत्वतुकोः' (अष्टा०स०६-१-८६)इति वा कृतितुग्ग्रहणेन वाऽनित्यताशापनात् “अश्विमानण" (अष्टा०स०४-४१२६) "श्वयुव" (अष्टा०सू०६-४-१३२)इत्यादिनिर्देशाच । तेन 'गोम. प्रियः' इत्यादि सिद्धम् । आचारकिपि तवममादिबाधे च क्रमेण प्रत्ययो. त्तरपदग्रहणस्य कृतार्थत्वात्तदीयापकता प्रवादोऽपि यथाश्रुताभिप्रा. येणैवेति दिक् ॥
॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य
चतुर्थे पादे प्रथममान्हिकम् ।।
यस्त्रयाख्यो नदी [अष्टा०स०१-४-३]। इवोंवर्णान्तो नित्यत्री. लिङ्गो नदीसंलो स्तः। दीर्घान्तयोरेषा संज्ञा व्यतिष्ठते, अण्वेन सब.
ग्रहणात् । हस्वान्तयोस्तु प्राप्ताप्येषा परया घिसंक्षया बाध्यते । तेन 'मते, धेनो' इत्यादौ “अम्बार्थनयोः" [अष्टासु०७-३-१०७] इति हस्वो न भवति । ननु शेषग्रहणाद् घिसंशा कथं भवेदिति चेत् ? न, शेषग्रहणस्य प्रत्याख्यातत्वात् । तथाहि, एका संक्षेति पाठे तावच्छेष. स्य ग्रहणं व्यर्थमिति स्पष्टमेव । अपरङ्कार्यमिति पाठे तु दीर्घान्ते साव. काशां नदीसंक्षां पुनपुंसकयोः सावकाशा घिसंशा 'हे मते' इत्यादी परत्वाद्वाधिष्यते । 'मत्य, धेन्वै' इत्यादौ तु निरवकाशाऽपि “जिति हस्वश्च" (अष्टा०सू०१-४-६) इति नदीसंशा घिसंज्ञा न बाधेत । अतः
Page #109
--------------------------------------------------------------------------
________________
१००
शब्दकौस्तुभप्रथमाध्यायचतुथपादे द्वितीयान्हिके
शेषग्रहणं कृतम् । तदपि वस्तुतो व्यर्थमेव, नदीसंज्ञावचनसामर्थ्यादेव घिसंज्ञाबाधोपपत्तेः । हस्वलक्षणा हि नदीसंज्ञा । सा च प्रत्ययापेक्षत्वा. द्वहिरङ्गा । तत्रान्तरङ्गायां घिसंज्ञायां "घेर्डिति" (अष्टा०सू०७-३-१११) इति च गुणे कृते हस्वाभावान्नदीसंज्ञा निर्विषया स्यात् । तदुक्तम्“तत्र वचनप्रामाण्यान्नदीसंज्ञायां घिसंज्ञाभावः" इति । यद्वा, ईश्व ऊश्च यू " वा छन्दसि” [अष्टा०सु०६-१-१०७] इति पूर्वसवर्णः । तेन दीर्घयोरेवेयं नदीसंज्ञा । न चैवं "ङिति इवस्श्च" [अष्टा०सू०१-४-६] इति सुत्रे हस्वांशेऽनन्वयः स्यादिति वाच्यम्, विभक्तिविपरिणामेन य्वोः सवर्णो यो ह्रस्व इति व्याख्यानात् । उदाहरणन्तु 'गौयै' 'वध्वै' इत्यादि । यू इति किम् ? मात्रे, स्वस्त्रे । स्त्रधाख्यौ किम् ? वातप्रस्ये ।
स्यादेतत् । स्त्रियमाचक्षाते इति विग्रहे स्त्रधाख्यायाविति प्राप्नोति । "आतश्चोपसर्गे” [अष्टा०सू०३-१-१३६] इति कप्रत्ययस्य 'सुग्लः' इत्यादौ सावकाशस्य परेण कर्मण्यणा बाधितत्वात् । सत्यम्, मूलविभुजादित्वात्कः । यद्वा, विच्प्रत्ययो भविष्यति । एतेन “तत्प्रख्यञ्चान्य. शास्त्रम्” (जै०सू०१-४-४) इति जैमिनिसुत्रमपि व्याख्यातम् । नन्वेमपि स्त्रियामित्येवास्तु किमधिकेन ? मैवम्, आसमन्ताश्चक्षाते इति व्युत्पत्त्या नित्यस्त्रीत्वलाभार्थे तदुपादानात् । तेन 'ग्रामण्ये सेनान्ये स्त्रियै' इत्यत्र न भवति । ग्रामं सेनाञ्च नयतीति हि क्रियाशब्दावेतो लिङ्गत्रयसाधारणौ । अत एव 'आध्यै ब्राह्मण्यै' इति भाष्योदाहरणं चिन्त्यमिति कैयटः, आध्यान कर्तृत्वस्यापि लिङ्गत्रयसाधारणत्वात् ।
स्यादेतत्, आसमन्ताद्वीर्यस्या इति विग्रहे उत्तरपदस्य नित्यस्त्री. त्वाद नदीत्वमस्तु " प्रथमलिङ्गग्रहणं च" (का०वा० ) इति वक्ष्यमाणत्वात् । 'अतिलक्ष्म्यै ब्राह्मणाय' इतिवत् । तत्कुतो भाष्यस्य चिन्त्यतेति चेत् ? न, तथा सति यणो दुर्लभत्वात् । " गतिकारकपूर्वस्येष्यते " इत्यत्र हि गतिसाहचर्यात्कारकपूर्वस्यापि नित्यसमासस्य ग्रहणम् । गतिसमासश्च प्रतिपदोक्त एव गृह्यते । तेन 'दुर्धियः' 'निर्भियः' 'वृश्चि कमिया पलायमानरूप' इत्यादावनित्यसमासत्वान्न यणिति पुरुषोत्तम प्रभृतयः । अत एव "कृन्मेजन्तः" (अष्टा००१-१-३९) इति सूत्रे " माना समस्यदुत्य" इति मन्त्रव्याख्यायां 'दुर्धियः' इति कैयटेनेयस् प्रयुक्तः मदूरविप्रकर्षेण बहुवीहिणेदमप्यर्थकथनम् । व्याख्येयमन्त्रे तु दुष्टं घ्या यतीति विग्रहे नित्यसमास एव बोध्यः । ततो यम् । “दुरो नाशदाच दमध्येषु" (का०वा० ) इति पृषोदरादिसूत्रस्थवार्त्तिकेन उत्वष्टुत्वे -यस्तु तद्वार्त्तिकव्याय्यावसरे दुष्टं ध्यायतीति विगृह्य" बात खोपसर्गे"
1
Page #110
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे नदीसंशाप्रकरणम्।
१०१
(अष्टान्सू०३-१-१३६) इति कप्रत्यय इति कैयटहरदत्तादिभिरुक्तम् , वचिन्त्यम् । अन्तस्वरितानुरोधेन अर्थानुरोधेन च "ख्यत्यात्" (अष्टा. सू०६-१-१९२) इतिवत्कृतयणादेशानुकरणतयैव वार्तिकस्य व्याख्ये. त्वात् । “सर्वस्य दुर्वधेः अहंतिरुपद्रवः नोस्मान् मा वधीत्" इति तृती. यचरणस्थेन सहान्वयः । “अमेरतिः" [उ०प्ल०५०८] इत्यनुवर्तमाने "हन्तरंहच" [उ०सू०५११] इत्यहादेशोऽतिश्च प्रत्ययः। अंहतिशब्दस्य.
प्रादेशनं निर्षपणमपवर्जनमंहतिः (अको०२-७-३०) इत्यमरकोशादिबलाहाने रूढी तु प्रद्वेषयुक्तमाभिचारिकाद्यनभूतमेव तदिह ग्राह्यम् । उणादीनामव्युत्पत्तिपक्षाश्रयणादन्तोदात्तता। "वहिव. स्थतिभ्यश्चित्" (उ००५०९) इति चिद्रहणानुवृत्तेरिति तु तत्वम। एतेन "मानो गर्वः" हाते व्याचक्षाणा अपि प्रत्युक्ताः, पदद्वयत्वस्याध्यापकस. म्प्रदायसिद्धत्वात् वाक्यशंषानुगुण्याञ्च । तस्माद् 'आध्ये ब्राह्मण्ये' इति भाष्योदाहरणं चिन्त्यमिति स्थितम् । प्राक्सुबुत्पत्तयंत्र समासस्तत्रैव गतिकारकपूर्वस्येष्यत इति यण प्रवर्तत इति वदतां श्रीपतिदत्तादीनाम: पि मते कैयटोकंचिन्त्यं दृढमेव ।वस्तुतस्तु आध्यानमाधीरिति व्युत्पाध गुणगुणिनोरभेदविवक्षयैव प्रयोगोऽयमिति चिन्त्योद्धारोऽवधेयः । हर. दत्तस्त्वाह-नित्यत्रीत्वं नाम न लिङ्गान्तरानभिधायकत्वं, किन्तु श. ब्दान्तरसमभिव्याहारं विनैव स्त्रियां वर्तमानत्वं तत् । वृत्तिस्वरसो. ऽप्येवम् । कथन्तर्हि 'ग्रामण्ये' 'खलः' इत्यादि प्रत्युदाहियते इति चेत ? शृणु । क्रियाशब्दत्वेप्यनयोः पुंसि मुख्या वृत्तिः । पुंसामेव स्व. यमौसर्गिको धर्मः यद्भामनयनं खलपवनं वा । आध्यानं तु स्त्रीपुंस. साधारणमेवेति वैषम्यम् । तस्मायुक्तमेवेदं भाष्यमिति । ___ अत्र वार्तिकम्-प्रथमलिङ्गग्रहणश्च । प्रयोजनं किन्लुक्लमासाः । अस्यार्थ:-यः पूर्व व्याख्यः पश्चादुपसर्जनतया लिङ्गान्तरविशिष्टं द्र. व्यान्तरमाह तस्य नदीसंत्रा वकव्या । क्विपि कुमारीमिच्छति कुमारी. यति । तत; किए, अल्लोपवलोपो, को लुतस्य स्थानिवत्वनिषेधान्न यण । यद्वा, कुमारयतीति कुमारी, आचारक्तियन्ताकर्तरि किए । कु. मारी ब्राह्मणः । ड्यन्तत्वात्सुलोपः । तस्मै कुमार्य ब्राह्मणाय ।। __ स्यादेतत् । इह क्यान्क्विपोः प्रकृतिभूतस्य डीबन्तस्यापि नित्यत्रीत्वं दुर्लभं पुंलिङ्गात्स्यच्क्किपोः निवृत्तेन त्रिलिनेन समानाकारत्वादिति चेत् ? न, अर्थभेदेन शब्दभेदाश्रयणात् । तत्र प्रथमोदाहृतस्येत्यं रूपा. णि-कुमारीमिच्छन् कुमारीवाचरन् वा ब्राह्मणः कुमारी, ड्यन्तत्वात्सु. लोगः । मार्यो । कुमार्य' । न चह “अनितधातु' (अपा०सु०६-४
Page #111
--------------------------------------------------------------------------
________________
.१०२
शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे द्वितीयान्हिके -
७७) इतीयप्रसङ्गः । " एरनेकाचः " (अष्टा०सू०६-४-८२) इति यणा बाधितत्वात् । अत एव अमि शसि च कुमार्य, कुमार्यः; प्रध्यं, प्रध्य इति० वत् । न च "गतिकारकपूर्वस्यैव" इति निषेधः शङ्कयः, तदितरपूर्वस्य नेत्यर्थात् विशिष्टाभावस्या पूर्वेपि सत्वात् । ङयि कुमार्यै, कुमार्याः, कुमारीणां कुमार्या ब्रह्मणे, हे कुमारि ब्राह्मणे इत्यादि । पत्न्यादेस्तु संयोगपूर्वकत्वादियङ् । पत्नियो, पत्नियः इत्यादि । शेषं प्राग्वत् । पुंलि. ङ्गात्क्यच्क्य डोर्निष्पन्नस्य तु अङ्यन्तत्वात्सुलोपो न । कुमारीः । हेकुमारीः। अनदीत्वाद्ध्रस्वो न । कुमार्य, कुमार्याः कुमार्या ब्राह्मणानां कुमार्थि ब्राह्मणे इत्यादि । कुमारमात्मनमिच्छन्ती ब्राह्मणी कुमारीत्यित्रापि कै. टमते नित्यस्त्रीत्वाभावात्पुंवदेव रूपम् । हरदत्तमते तु लक्ष्मवित् । अमि शसि च यण्विशेषः ।
I
"
,
प्रकृतमनुसरामः । “लुम्मनुष्ये" (अष्टा०सू०५ -३ - ९८ ) इति लुप् । खरकुट्यै ब्राह्मणाय । यद्यप्यत्र युक्तवद्भावात्स्त्रीत्वमस्ति तथापि स्वा श्रयस्य पुंस्त्वस्यापि सत्त्वान्नित्यस्त्रीत्वं नास्तीति कैयटहरदत्तादयः । तच्चिन्त्यम्, 'चञ्चः पथ्य' इत्यादौ शसो नत्वापत्तेः । तस्माल्लुबन्तैः खरकुटीचञ्चादिशब्दैः शास्त्रीयस्त्रीत्वविशिष्ट एव लौकिकः पुमानभिधीयते इत्येव तत्त्वम् । एवञ्च लुपः प्रयोजितत्वं कथं गणनेत्यपि चि. न्त्यम् । समासे अतिलक्ष्मीः, बहुश्रेयसी । "ईयसश्च" (अष्टा०सू०१-४१५६) इति कन्निषेधः । " ईयसो बहुव्रीहेर्न” (का०वा० ) इत्युपसर्जनहस्वो न । उभयत्रापि सम्बुद्धौ ह्रस्वः ङित्सु आडागमादिकञ्च नदीसंज्ञा कार्य बोध्यम् ॥ अवयव स्त्रीविषयत्वात्सिद्धम् ॥ समासे तावदवयवो लक्ष्म्यादिशब्दः स्त्रियामेव वर्त्तते इति तदानीमेव संज्ञाः । ततश्च व र्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात्कार्यसिद्धिः । तदन्तस्य संज्ञेति पक्षे तु अङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वचनात् । वस्तुतस्तूक्तव चनस्य प्रागेव दूषितत्वात्तदन्तत्वेनैव सिद्धिर्बोध्या । अतितन्त्रीबन्धुरित्यत्रापि "नदी बन्धुनि" (अष्टा०सू०६-२-१०९) इति पूर्वपदान्तोदात्तत्वं सिध्यति, – पूर्वपदस्य नद्या विशेषणात् । क्विलुपोरपि अन्तरङ्गत्वाक्कि बादेः प्रागेव प्रवृत्ता संज्ञा बहिरङ्गग लिङ्गान्तरयोगेण न निवर्तते वकत्पितृ केऽऋज्वत् । “अकृतव्यूहाः " (प०मा०५६ ) इत्यस्यानित्यताया चः परस्मिन्” (अष्टा०सू०१-१-५७) इति सूत्रे वर्णितत्वात् ।
66
स्यादेतत् । इयकुवस्थानप्रतिषेधं यवस्थानप्रतिषेधप्रसङ्गोऽवयवस्येयङुवङ्ख्थानत्वात् । यथा ह्यवयवस्य स्त्रीविषयत्वात्समुदायस्य नदी संज्ञेत्युक्तम्, तथावयवस्येयङुवङ्स्थानत्वात्समुदायस्य यणस्थान
अ.
Page #112
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे नदीसंज्ञाप्रकरणम् ।
१०३
स्यापि प्रतिषेधः स्यात् । यथा स्त्रियै आध्यै प्रध्यै । __अत्राहुः,-इकुवड्भ्यामङ्गमाक्षिप्यते,-अङ्गाधिकारे तयोर्विधानात । तेन यस्याङ्गस्येयङवडी निर्वतेते तस्य नदीसंज्ञानिषेधः । 'आध्यै' इत्यत्र तु अवयवस्याङ्गत्वं नास्ति अङ्गस्य तु "एरनेकाचः" (अष्टासु०६-४८२) इति यण्विधानादियकुवङः स्थानता नास्तीति निषेधाभावः । एतदर्थमेव च तत्र स्थानग्रहणम् , इयत्वङोयंदा स्थितिस्तदा प्रतिषे. धो यथा स्यात् , यदा त्वपवादेन बाधस्तदा मा भूदिति । एवं "ङिति हस्वश्च" (अष्टा०सू०१-४-६) इत्यत्राप्यङ्गस्याक्षेपात्सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य । शकट्यै, अतिशकटये ब्राह्मणाय । श्रिये, अतिश्रिये ब्राह्मणाय । इह तु स्यादेव-अतिश्रिये अतिश्रिय वा ब्राह्मण्यै इति स्थितं भाष्ये । न चेह नित्यस्त्रीत्वं नास्तीति वाच्यम , हरदत्तमते तत्सत्वात् । कैयटमते तु "डिति ह्रस्वश्च'' (अष्टा०स०१-४-६) इत्यत्र स्त्रीग्रहणमात्रमनुवर्तते, न त्वाख्याग्रहणम् । एवञ्च सुधीशब्देऽपि रूप. द्वयं निर्विवादम् । सुध्यादयः पुंवदिति प्रक्रिया तु प्रामादिक्येव । अतिलक्ष्म्यतिचम्वोर्वातप्रमाहूहूभ्यां साम्योक्तिरप्येवम् । तथा 'स्वयंभूः पुंव द' इत्यपि प्रमाद एव । __ स्यादेतत् , 'निष्कौशाम्बिः पुमान्' इत्यत्रापि अन्तरङ्गतया नदीसं. ज्ञा स्यादतिलक्षम्यादौ यथा । सत्यम, सत्यामपि तस्यां न कश्चिद्रूपे दोषः । न च सम्बुद्धिहस्वादिप्रसङ्गः, इस्वादेशेन नद्या अपहारात् । वर्णस्य नदीत्वात् । स्त्रयाख्यत्वं तु तस्य शक्त्याश्रयतामात्रेण बोध्यम् । पर्याप्तयधिकरणताया अविवक्षितत्वात् । तदन्तस्य नदीसंक्षेति पक्षेऽपि एकदेशविकारानभ्युपगमेन सर्वादेशस्यैव वक्तव्यत्वात् । न च स्थानिवद्भावः, अल्विधित्वात् । 'प्रपठ्य' इत्यत्रेडभावार्थ विशेषणतयाऽप्य. लाश्रयणे निषेधस्य सिद्धान्तितत्वादिति दिक् । निस्कौशाम्ब्यै निको. शाम्बये ब्राह्मण्यै इत्यत्र तु "डिति हेस्वच" [अष्टा सू०१-४-६] इति विकल्पो भवत्येवेति दिक् ।
नेयवस्थानावस्त्री (अष्टा०सू०१-४-४) । इयवङोः स्थितिः स्थानं निरपवादा प्रसक्तिर्यत्र तावदूतौ नदीसंझौ स्तः स्त्रीशब्दं विना। हे श्रीः । हे भूः। अस्त्रीति किम् ? हे स्त्रि । कथं तर्हि "विमानना सुरु कुतः पितुहे" इति कालिदासः । “हापितः क्वासि हे सुह" इति भट्टिश्च । “एकवंशप्रभवभ्रुव' इति श्रीहर्षश्च । प्रमाद एवायमिति हरदतः । "सामान्ये नपुंसकम्" ( का० वा०) इति वा कथञ्चि समाधयम् । केचित्तु तदो दावचनेन "सकृद्वन्द्वमनित्यम्'
Page #113
--------------------------------------------------------------------------
________________
१०४ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे द्वितीयान्हिकेइति परिभाषाज्ञापनमाश्रित्यानित्योऽयं प्रतिषेध इति समादधुः । किं. न्त्वेतत्सक लप्रमादेषु सुवचम् । तदोदावचनप्रत्याख्यानपरमाध्यादिवि. रुद्धश्च । अन्ये तु "वामि' [अष्टासू०१-४-५) इत्यता वाग्रहणस्य सिंहावलोकितन्यायनानुवृत्तस्य व्यवस्थितविभाषापरत्वेनेष्टसिद्धिमाहुः। तदपि न, सिंहावलोकितन्यायस्येहाभिमतत्वे नग्रहणस्य "वामि" (अष्टा०सू०१-४-५) इत्युत्तरसूत्रस्य च वैयापत्तेः । यत्तूक्तं दुर्घट. वृत्तौ भ्रुशब्दाद् "अप्राणिजातेश्च" (का०वा०) इत्यूडि समासे उपसर्ज. नहस्वत्वे च कृते "ऊकुतः” (अष्टा०सू०४-१-६६) इत्युङि तस्य समुदा. यभक्तत्वानोवस्थानत्वमिति । तदतिस्थवीयः, प्रत्ययस्य भक्तताया निष्प्रमाणकत्वात् । तत्स्थानिकस्यैकादेशस्यान्तवद्भावेन भ्रूशब्दावय वताया अनपायात् , अङ्गाधिकारे तदुत्तरपदग्रहणस्य निर्विवादतया समुदायभक्तेऽप्युवप्रवृत्तेश्च । 'सुरुवौ' इत्यादिरूपाणां सर्वसम्मत. त्वाञ्चेति दिक। __ वामि (अष्टा०सू०१-४-५) । इयवस्थानी वा नदीसंझौ स्तः स्त्रियामामि । श्रीणाम , श्रियाम् । भरणाम, भरुवाम । द्वितीयैकवचनं तु नेह सूत्रे गृह्यते, तत्र नदीका भावात् । अस्त्रीत्येव । स्त्रीणाम् । इह "वाचि इस्वश्च' इत्येव कुतो न कृतम् । एवं हि ङितीति न कर्तव्यमिति चिन्त्यम् । वस्तुतस्तु सन्निपातपरिभाषया 'भ्रूणाम्' इति नुट् न स्या. दत आमीत्युक्तम् । परिभाषा चेयमननैव झाप्यते इति ध्येयम् ।
डिति हस्वश्च (अष्टा सू०१-४-६) । इयवस्थानौ हस्वी च यू वा नदीसंझौ स्तः स्त्रियां ङिति परे । श्रियै, श्रिये, भ्रुवै, भ्रुवे, कृत्य, कृतये, धेन्वै, धेनवे । अस्त्रीत्येव । स्त्रियै । स्त्रीलिङ्गाविति किम् ? अग्नये, वायचे । इह प्रथमलिङ्गग्रहण नास्ति । तेन निष्कौशाम्बिहरिवदित्यु कम् । स्त्रियमतिक्रान्तोऽतित्रिरित्यत्र तु विशेषः । अतिस्त्रियौ, "स्त्रियाः" (अष्टा सु०६-४-७९) इतीयङ् । अयं हि गौणत्वेऽपि भवति । किन्तु
गुणनाभावौत्वनुभिः परत्वात्पुंसि बाध्यते ।
क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥ "जसि च" (अष्टा सू०७-३-११९) इति गुणः-अतिस्त्रयः । “वाम् शसोः" (अष्टा सू०६-४-८०) अतिस्त्रियम्, अतिस्त्रीम् । प्रतिस्त्रियो । अतिस्त्रियः, अतिस्त्रीन् । “आङ नाऽस्त्रियाम्" (अष्टा०सू०७-३-१२०) अतिस्त्रिणा। अतिस्त्रिभ्याम् । “धेिित'(अष्टा०सू०७-३-१११)इति गुण:अतिस्त्रये, अतिस्त्रः । अतिस्त्रियोः । “हस्थनद्यापः" [अष्टा सू०७-१-५४] इति नुट् अतिस्त्रीणाम् । “अच्च घेः' [अष्टा सू०७-३-१९९] अविखौ ।
Page #114
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे घिसजाप्रकरणम् ।
औकारे ओसि नित्यं स्यादम्शसोस्तु विभाषया।
इयादेशोऽचि नान्यत्र स्त्रियाः [२] स्यादुपसर्जने ॥ एवं क्लीबे नुमा इयङ्बाध्यते। तेन 'अतिस्त्रि, अतित्रिणी' इत्यादि वारिवत् । स्त्रियान्तु "ङिति हस्वश्च" (अष्टा सू०१-४-६) इतिहस्वान्त. त्वप्रयुक्तो नदीसंज्ञाविकल्पः । अस्त्रीति तु इयबस्थानावित्यस्यैव विशेषणम्, तत्सम्बद्धस्यैवानुवृत्तेः । न चहावृत्योतयविशेषणता, प्रमा. णाभावात् । तेन अतिस्त्रिय, अतिस्त्रिये । "औत्' (अष्टा०सू०७-३-१२८) इति बाधित्वा "इदुद्भयाम्" अष्टा०सू०७-३-११७) इति राम्-अतिस्त्रि. याम् । पक्षे "अश्वघेः" (अष्टा०सू०७-३-११९) अतिस्त्री।
शेषो ध्यसखि [अष्टा०सू०१-४-७] । हस्वी यौ यू तदन्तं सखिभिन्न मनदीसंज्ञं घिसंशं स्यात् । हरये, भानवे। हस्वी किम् ? ग्रामण्य, खलप्वे। यू किम् ? मात्रे । असखि किम् ? सख्ये । शेषः किम् ? मत्यै । शेषग्रहणं व्यर्थमिति नदीसज्ञासूत्र एवोक्तम् । समासे तु सुसखेरागच्छतीत्यादौ घिसजला भवत्येव, समुदायस्य सखिशब्दाद्भिन्नत्वात् । तदन्तग्रहणं तु नास्ति, विशेष्यसम्बन्धाभावात् । यत्तु "ग्रहणवता' (प०भा०३१) इत्यादि हरदत्तेनोपन्यस्तं ख्यत्यानसूत्रे च कैयटेन । तत्पूर्वापरविरुद्धमिति "येन विधिः" (अष्टा०सू०१-१-७२)इति सूत्रे व्युत्पादितम् । न चैवं "यस्येति च" [अष्टा०स०६-४-१४८] इति सुत्रे इवर्णस्य ईति सखीत्युदाहरणं न युज्यते, सखिशब्दात् "सख्याशश्वीतिभाषायाम्' [का वा०] इति ङोषि सति लोपे सवर्णदीर्धे वा विशेषाभावात । यत्तु तत्र भाष्ये वृत्तौ चो. तम्-असति लोपेऽतिसखरागच्छतीत्यत्र सवर्णदीर्घस्य पूर्व प्रत्यन्त. घद्भावादसखीति घिसंज्ञाप्रतिषेधः स्यादिति, तदसखीति प्रसज्यप्रति.
धमाश्रित्येति कैयटादौ स्पष्टम् । अत एवापाततः पर्युदासस्यैवेह स्थितत्वात् । अन्यथा वाक्यभेदादसमर्थसमासात् । 'सुसखेः' इत्याद्य. सिद्धापत्तेश्च । तस्मादीति लोपे फलं दुर्लभमिति चेत? अत्रोच्यते, सखी, सख्यौ, सख्या इत्यादावनाणत्वे माभूनामिति इलोप पषितव्यः। न च सिद्धान्तेऽपि प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणाहोषतादव. स्थ्यम्, विभको लिङ्गविशिष्टाग्रहणात् । एतेन इकारलोपस्य तद्धिते एवोदाहरणं न त्वीति परत इति वदन् हरदत्तोऽशास्तः ।
पतिः समास एष (अष्टा०स०१-४-८) । पतिशब्दः समास एव घिसक्षःस्यात। भूपतये। नेह-पत्या, पत्ये । विपरीतनियमं वारयित.
[९] 'पुंस्युपसर्जने' कचित् ।
Page #115
--------------------------------------------------------------------------
________________
१०६ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे द्वितीयान्हिकेमेवकारः । दृढमुष्टिना।
स्यादेनत्, “शषोध्यसस्निपती' इत्येवास्तु । समस्तस्य तु पूर्वो. तरीत्या सिद्धम् । न चोत्तरसूत्रे सख्युरपि सम्बन्धापत्तिः, बाधकामा. वात् । इष्टरूपस्य तावतापि सिद्धेः । द्वितीयस्य तु साधोगपि छन्दस्य. पठितस्यानापाद्यत्वात् । न चैवमुत्तरसूत्रे षष्ठीयुक्तग्रहो व्यर्थः स्यादिति वाच्यम् , इष्टापत्तेः। एवमेव हि "श्रीग्रामण्योच्छन्दसि" (अष्टा०सू०७१-५६)इति श्रीग्रहणं "नित्यं मन्त्रे" [अष्टा०म०६-१-२१०] इत्यादीनि च प्रत्याख्यातानि । “सम्बुद्धौ शाकल्यस्य" [अष्टा०सू०१-१-१६] इत्यत्रा नार्षग्रहणमप्येवम् । सत्यम् । यथा सखिगृहे गृहसखायावित्यत्र पूर्व निपातानियमस्तथा पतिगृहे इत्यत्र मा भूत । इह हि घित्वात्पूर्वनिपात एव । बहुपूर्वस्य तु सुसस्त्रिन्यायेन घित्वाद् 'बहुपतिना' इत्यादि बोध्या म् । अथ कथं "सखिना वानरेन्द्रण"
"पतिना नीयमानायाः पुरः शुक्रो न दुण्यति"। "नष्टे मृते प्रव्रजिते ल्कीबे च पतिते पतौ" । इत्यादि ? अत्र हरदत्तः, छन्दोवदृषयः कुर्वन्तीति । अस्यायमाश. यः-असाधव पवैते त्रिशङ्काद्ययाज्ययाजनादिवत्तपोमाहात्म्यशालिनां मुनीनामसाधुप्रयोगोऽपि नातीव बाधते । अम्मदादीन्प्रति तु स्मृति पुराणाद्यध्ययनविधिबलादेव तदन्तर्गततत्पाठो न बाधकः । तथाच स्वातन्त्र्येणेदृशं प्रयुञ्जाना अस्मदादयः प्रत्यवयन्यवेति नदीसंज्ञासुत्रे भाज्यकैयटयोरपि स्थितमिदम् । यद्वा, सखेत्याख्यातः सस्त्रिः, पतिरि. त्याख्यातः पतिः, तेन सखिना, पतिना । आख्यातण्यन्तात्कर्मणि "अच इ." (उ०सु०५८८) इत्यौणादिक इप्रत्ययः । लाक्षणिकत्वाच्चैतयोयिसंक्षा पयुदासे ग्रहणं नास्तीति दिक् । एतेन
__ अर्जुनस्य सखा कृष्णः कृष्णस्य सखिरर्जुनः।। इत्यपि व्याख्यातम् । कथं "वचो वाचस्पतेरपि" इति माघः । न ह्ययं समासः, अलुग्विधायकादर्शनादिति । सत्यम् , "तत्पुरुषे कृति" (अष्टा मू०६-३-१४) इति बहुलग्रहणादलुक् । एतेन दिवस्पतिवास्तो पती व्याख्यातौ । “षष्ठयाः पति'(अष्टा०सू०१-४-८)इत्यादिना सत्वम् । ये तु तत्र छन्दसीत्यनुवर्तयन्ति "श्रियः पतिः" (शि०१-१) इत्यादिसि. द्धये तन्मते पारस्करादित्वात्सुट् । केचित्तु “द्यावापृथिवीशुनासीरमरु स्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छच" (अष्टासु०४-२-३२) इति सा. मान्यापेक्षशापकात् षष्ठया अलुक् । कस्कादित्वात्सत्वम् । इणः परस्य तु षत्वमित्याहुः।
Page #116
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अङ्गसञ्ज्ञाप्रकरणम्
१०७
पदकारास्तु वाचस्पतिं विश्वकर्माणम्, वास्तोष्पते प्रतीत्यादौ वृ· थक् पदमधीयते ।
षष्ठीयुक्तश्छन्दसि वा (अष्टा०सु०१-४-९) । षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् । इह योगो विभज्यते । षष्ठयुक्तश्छन्दसीति । ततो वा । छन्दसीत्येव । सर्वे वि. धयश्छन्दसि विकल्पयन्ते इत्यर्थः । " बहुलञ्छन्दसि " इत्यादिकस्त्वस्यैव प्रपञ्चः ।
OT:
ह्रस्वं लघु (अष्टा०सू०१-४-१०) । हस्वं लघुसंज्ञं स्यात् । लघूपधगु· :- चेतति । न च हस्वप्रदेशेष्वपि लघुसंज्ञयैव व्यवहारः सुकरः 'सर्पिः ष्ट्वम्' इत्यादी "ह्रस्वात्तादौ तद्धिते" (अष्टा०सु०८-३-१०२ ) इति त्वासिद्धिप्रसङ्गात् । गुरुसंज्ञया तत्र लघुलज्ञाया बाधात् । तस्मादेकसंज्ञाधिकाराद्बहिर्हस्वसंज्ञाप्रणयनं सम्यगेव कृतम् । यद्येवन्तर्हि दीर्घप्लुतसंज्ञायाः समावेशमाशङ्कय एकसंज्ञाधिकारेऽयं योगः करिष्यते इति भाग्यं विरुध्यते, गुरुसंज्ञाया लघुसंज्ञाया इव गुरुलघुसंज्ञाभ्यां ह्रस्व सं शाया बाधप्रसङ्गात् । न च निरवकाशता, लघु संज्ञाप्रवृत्त्युपायतामात्रेण सार्थक्यात् । यथा पदं सद्धं भवतीति व्याख्यायां पदसंज्ञायाः । सत्यम्, चकारादिना समावेशः कर्तव्य इत्याशयः । एतदपरितोषादेव वा तत्र पक्षान्तराण्युक्तानीति दिक् ।
संयोगे गुरु (अष्टा०सू०१-४-११) । इस्वं गुरुसंज्ञं स्यात्संयोगे परे । शिक्षा, भिक्षा । "गुरोश्च हलः” (अष्टा०सू०३-३-१०३) इत्यकारप्रत्ययः । दीर्घञ्च (अष्टा०सू०१-४-१२) । दीर्घ गुरुसंज्ञं स्यात् । ईहाञ्चक्रे ।
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (अष्टा सू०१-४-१३ । प्रत्ययो यस्माद्विहितस्तदादिशब्दः प्रत्यये परेऽङ्गसंशं स्यात् । रामेण । विधिरिति किम् ? स्त्री ईयती । न चेह वतुपः स्त्रीशब्दादविधानेऽपि स विधिरसत्येवेति वाच्यम्, सन्निधानबलेन यस्माद्यः प्रत्ययो विहितस्तस्मि न्त्सोऽङ्गमिति व्याख्यानात् । तदादि किम् ? वदामि, वदिष्यामि । " भ तो दीर्घो यात्रि'' (अष्टा०सु०७-३ - १०१) इति दीर्घः । न चायमारम्भसामदेव भविष्यतीति वाच्यम्, "यय गतौ" "चय गतौ (स्वा०आ० ४७८) आभ्यां यङ्लुकि यायामि, यायावः, यायामः, चाचामि, चाचावः, चाचामः इत्यादौ चरितार्थत्वात् । प्रत्यये किम् ! प्रत्ययविशिष्टस्य ततव्यधिकस्य वा मा भूत् । एवं हि 'ववश्व' इत्युरदत्वम्य परनिमित्तत्वं न लभ्यते । तथाच "अचः परस्मिन्" (अष्टा०सु०१-१-५७) इति स्थानिवत्वाभावाद्वकारस्य सम्प्रसारणप्रसङ्गः । न च प्रथमसूत्रेण स्थानिवद्भावः,
Page #117
--------------------------------------------------------------------------
________________
१०८ शब्दकौस्तुभप्रथमाध्यायचतुथपादे द्वितीयान्हिकेअल्विधित्वात् । अत एव हि सत्यपि प्रथमलिङ्गग्रहणे निष्कौशाम्ब्यादौ नदीकार्य नेत्युक्तम् ।
इह "प्रकृत्यादिप्रत्ययेऽङ्गम्" इत्येव लाघवाद्वक्तुं युक्तम् । प्रकृति मात्रस्य तु व्यपदेशिवगावात्सिद्धम् । योगविभागेन परिभाषार्थलाभार्थ तथोक्तमिति तत्वम् । कर्ता, कारकः । इह योगो विभज्यते । यस्मा. त्प्रत्ययविधिस्तदादिप्रत्यये इति । परिभाषेयम् । प्रत्यये गृह्यमाणे य. स्मात्तस्य विधिस्तदादि गृह्यते इत्यर्थः । तेन "नित्यादिः" (अष्टा सू० ६-१-१९७] इत्यादौ यत्र प्रत्ययः सप्तम्या निर्दिश्यते तत्र तदादेग्रह. णम । तेन 'देवदत्तो गायः' इति सङ्घातस्य जित्स्वरो न भवति । "सु. प आत्मनः क्यच्" (अष्टासु०३-१-८) इत्यत्राप्यनेन तदादिनियमः । तत्र सुपा कर्मणस्तदादेर्वा विशेषणात्तदन्तविधिः । तेन 'महान्तं पुत्रम्' इत्यादावतिप्रसङ्गो न । सति हि वाक्यात्क्यचि 'महत्पुत्रीयति' इति स्यात् । तथा 'देवदत्तश्चिकीर्षति' इति सङ्घातस्य धातुसंज्ञा न, 'देवदत्तो गाय:' इति सङ्घातस्य प्रातिपदिकसंशा न, 'देवदत्तो गाायणः' इति सङ्घातात्फ नेति दिक् ।
अस्यापवादः "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" (पा०भा० २८) इति । इह च "गातरनन्तरः" (अष्टा सु०६-२-४९) इत्यनन्तरग्रहणं शापकम् । तद्धि अभ्युद्धतशब्दे उच्छब्दव्यवहितस्याभिशब्दस्य प्रकतिस्वरनिवृत्त्यर्थम् । न च परत्वाद् "गतिर्गतौ" (अष्टा सु०८-१-७०) इति निघाते कृत उदात्तग्रहणानुवृत्त्या विधीयमानः पूर्वपदप्रकृतिस्वरो न भविष्यतीति वाच्यम्, अपादादावित्यधिकारात्पादादौ निघाताप्रवृ. त्तः । तदादिनियमे तु हृतशब्दस्य कान्तत्वेप्युदधृतशब्दस्याकान्तत्वा. प्राप्तिरेव नेति किमनन्तरग्रहणेन ? प्रयोजनन्तु समासतद्धितस्वराः । तथाहि, 'अवततनकुलस्थितम्' इत्यत्र "केन" इत्यनुवर्तमाने "क्षेपे" (अष्टा सू०२-१-४७) इति समासः । “तत्पुरुषे कृति" (अष्टासु०६३-१४) इत्यलुक् । 'सांकृटिनम्' इत्यत्र “आणेनुणः' (अष्टा०स०५-४१५) इति सोपसर्गादण् । अत एव वादिवृद्धिरुपसर्गाशे पर्यवस्यति । 'व्यावक्रोशी' इत्यत्र "कर्मव्यतिहारे णच स्त्रियाम्" (अष्टा०९०३-३-४३) इति णच् । ततो "णचः स्त्रियाम्" (अष्टा०स०५-४-१४)इत्यम् । “न क. मव्यतिहारे" [अष्टा सू०७-३-६] इत्यैजागमानषेधः पुरावागतः' इत्यत्र थाथादिस्वरेणान्तोदात्तत्वम्। ननु परिभाषां विनाऽपि "समासस्य" (अष्टान्स०६-१-२२३) इत्यन्तोदात्तो भविष्यतीति चेत ? मैवम्, आग. म्यते स्मेति हि कर्मणि कः । तथाच समासस्वरं बाधित्वा "गनिरन.
Page #118
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे पदज्ञाप्रकरणम् ।
१०९
कग्रहणस्या
न्तरः" (अष्टा०सु०६-२-४९) इति मध्योदात्तं स्यात् । सत्यां तु परिभा पायां "थाथघञ्” (अष्टा०सू०६-२-१४४) इत्यनेन कृत्स्वरापवादगतिस्वरं बाधित्वा परत्वादन्तोदात्तत्वं भवति । ननु यायादिस्वरस्याप्यपवादो गतिस्वरः । सत्यम्, गतेरुत्तरस्य क्तान्तस्य यदन्तोदात्तत्वं त स्यैवासावपवादः । कारकादुत्तरस्य तु धाथादिस्वर एव भवतीति वक्ष्यते । नन्वस्तु गतिस्वरेणायुदात्त आगतशब्दः । ततो दूरशब्दस्य " स्तोकान्तिक" [ अष्टा०सु०२-१-३९] इति समासः । “पञ्चम्याः स्तो कादिभ्यः " (अष्ट ०सु०६-३-२) इत्यलुक् । ततः सतिशिष्टत्वात्समासा• न्तोदात्त एव भविष्यति । सत्यम्, अभ्यार्थ कृतया परिभाषया कृदुत्तरपदप्रकृतिस्वरेणायुदात्ते आगतशब्दे प्राप्ते सगतेरपि कान्तत्वात्स्थानान्तरप्राप्तत्वाद्वतिस्वरस्य बाधकस्यापि बाधेन थाथादिस्वरो भवतीत्ये वाभिप्रेतं न तु स्वर एवानन्यथासिद्धं परिभाषोदाहरणम् । तथाच परिभाषा प्रातिपदिकसंज्ञायां न प्रवर्तते, - मध्ये पवादन्यायेन प्रत्यय इति निषेधमात्रबाधकत्वात् । समासेतरपदसंज्ञक पूर्व भागघटितः सङ्घातो न प्रातिपदिकमिति निषेधस्तु परत्वाब्दाधक पत्र । तेन 'मूलकेनांपदंशम्' इत्यत्र न सुपो लुक् । न च समासविकल्पसामर्थ्यम, "न समास" (का०वा० ) इति शाकलनिषेधाप्रवृत्त्या दध्युपदेशादौ तत्सार्थक्यसम्भवात् । एतच्च "पुंयोगादाख्यायाम्" (अष्टा०सु०४-१-४८) इति सूत्रे भाग्य कैयटयोः स्पष्टमिति दिक् । “व्यङ्ः सम्प्रसारणम्' (अष्टा०सु०६-१-१३) इति सूत्रे भाध्ये तदादिनियमस्यापवादान्तरं पठि तम् "स्त्रीप्रत्यये चानुपसर्जने तदादिनियमो न" इति । एतच्च वाचनिकमेवेति सर्वादिसुत्रे व्याख्यातम् । यद्वा, इह "नेयङुवङ्ख्थानौ ” (अष्टा०सु०१-४-४) इत्यतोऽस्त्रीत्यनुवर्त्तते । तच यद्यपि तत्र स्वरूपपदार्थकं तथार्पाहार्थपरं सम्पद्यते । प्रत्ययग्रहणे तदादि ग्राह्यं, स्त्री चेन्नाभिधीयते इत्यर्थः । तेन स्त्रीप्रत्यये तदादिनियमो नास्तीति फलितम् । न चैवम् 'अतिकारीषगन्ध्यापुत्रः' इत्यत्र सम्प्रसारणप्रसङ्गः, अस्त्रीत्यने न प्रधान स्त्रियामेव प्रतिषेधात् । "गौणमुख्ययोः” इति न्यायात् । तेन यावान् शब्दः स्त्रियं प्राधान्येनाह तावान् स्त्रीप्रत्ययान्तः न तु ततोऽधि. कोऽपीति स्थितम् ।
"
सुप्तिङन्तं पदम् (अष्टा०सु०१-४-१४) । सुबन्तं तिङन्तञ्च पदसंशं स्यात् । ब्राह्मणा ऊचुः । अन्तग्रहणमन्यत्र "संज्ञाविधौ प्रत्ययग्रहणे त दन्तग्रहणं नास्ति" (१०मा०२७) इति ज्ञापनार्थम् । गौरब्राह्मणितरा । घायां तरबन्तग्रहणे हि सति गौरीशब्दस्य "पुंवत्कर्मधारय"
Page #119
--------------------------------------------------------------------------
________________
११०
शब्द कौस्तुभप्रथमाध्याय चतुर्थपादे द्वितीयान्हिके-
(अष्टा०सू० ८-३-४२) इति पुंवद्भावं बाधित्वा पुंवद्भावाद् हस्वत्वं "खि द् घादिकेषु" इति -हस्वः स्यात् पद्विततिवत् । ब्राह्मणशब्दस्य ह. स्वो न स्यात् । कथं तर्हि प्रातिपदिकसंज्ञायां कृत्तद्धितशब्दाभ्यां तदन्तग्रहणमिति चेत् ? अत्र भाष्यकारा:-: :- अर्धवद्ग्रहणं तत्रानुवर्तते । तत्सामर्थ्यात्तदन्तग्रहणमिति ।
स्यादेतत्; यद्यर्थवत्ता पारमार्थिकी विवक्ष्यते, तर्हि सा पदस्य वाक्यस्य वाऽस्नि, न तु कृत्तद्धितान्तस्य । तथाचार्थवत्सुत्रे वार्त्तिकम् - "अर्थवता नोपपद्यते केवलेनावचनादिति । अथ सिद्धं त्वन्वयव्यतिरे. काभ्यामिति” । तत्रत्योत्तरवार्तिकानुरोधेन प्रक्रियादशायां कल्पिता साविवक्ष्यते, तर्हि कृतद्धितयोरपि सास्तीति चेत ? सत्यम्, अत एवार्थवग्रहणसामर्थ्यमुक्तम् । प्रत्ययान्तेन त्वेकार्थीभूतेन प्रतीयमानोSर्थ इह गृह्यते, तस्य लौकिकार्थे प्रति प्रत्यासन्नतरत्त्रात् । मतुपः प्रा. शस्यपरतया तस्यैव ग्रहणात् । अत एव च तदुपादानं सार्थकम् | पूर्वसूत्रे ऽधातुरिति पर्युदासबलेनापि तल्लाभसम्भवात् ।
नः कये (अष्टा०सू० १-४-१५) । क्यचि क्यांड क्यषि च नान्तमेव पदसंज्ञं स्यात् । क्यच् - राजीयति । क्यङ् - राजायते । क्यष्- चर्मायति, चर्मायते । सामान्यग्रहणार्थे कवषः ककार इति वदतो वृत्तिका. रस्य मतेनेदमुदाहृतम् । भाध्ये तु कयषः ककारस्य प्रत्याख्यानात्कयच् - क्यङोरेवेह ग्रहणम् । चर्मायतीति रूपं चासाधु, क्यङन्ततया नित्यमा• त्मनेपदाभ्युपगमात् । तथा च वक्ष्यते - "लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणि" (का०वा० ) इति । एतच्च तृतीयएव स्फुटीकरिव्यामः । नान्तमेवेति किम् ? वाच्यति, सुव्यति, तपस्यति । ननु क्य एव नान्तमिति विपरीतो नियमः कुतो नेति चेत ? न. . ङिसम्बुद्ध्योरिति शापकात् नलोपः प्रातिपदिकान्तस्येति ज्ञापकाच्च । अन्यथा हि "नलोपः क्ये" इत्येव सुत्रयेत् ।
6
सिति च (अष्टा०सू०१-४-१६) । सिति प्रत्यये परे पूर्व पदसं स्थात् । भसंज्ञापवादः । भवतष्ठक्छसौ" (अष्टा०सु०४ - २ - ११५) भवदीयः "ऋतोरण" (अष्टा०सू०५-१-१०५) "छन्दसि घम्” (अष्टा०सू०५१ - १०६) ऋतुः प्राप्तोऽस्य ऋत्वियः ।
स्वादिष्वसर्वनामस्थाने (अष्टा०सू०१-४-१७) । कप्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वे पदसंज्ञं स्यात् । राजभ्यां राजभिः । राजत्वं, राजता । सर्वनामस्थाने तु राजानौ, राजानः । भुवद्वस्यो, धारयद्वद्भ्यः इति पदसंज्ञाया उपसङ्ख्यानम् । "तसौ मत्वर्थे" (अष्टा०सू०
Page #120
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे वचनप्रकरणम् ।
१११
१-४-१९) इति भसंक्षाया अपवादः । व्यत्ययेन भवतेः शपो लुक् ।
यचि भम् (अष्टा०सू०१.-४-१८)। यकारादिष्वजादिषु च स्वादिष्व. सर्वनामस्थानेषु परत: पूर्व भसझं स्यात् । गार्यः, राज्ञः। वाचिकष. डिकयोस्तु यथा भत्वाभत्वे निर्वहतस्तथा पञ्चमे वक्ष्यते । नभोगिरो. मनुषां वत्युपसंख्यानम् ( का० वा०) । नभसा तुल्यं वर्तते । इति नभस्वत, भत्वाद्दुत्वाभावः । मनुष्वदग्ने । “अङ्गिरस्वदगिरः" । "जनेरुसिः" (उ०सू०२८०) इत्यत्र बहुलग्रहणानुवृत्तेर्मन्यतेरुपिप्रत्य यः "आदेशप्रत्यययोः" (अष्टा०सू०८-३-५९) इति षत्वम् । “वृषण्व स्वश्वयोः” (का० वा० ) वृषं वर्षकं वसु यस्य सः वृषण्वसुः । एवं वृषणश्वः। कर्मधारये षष्ठीतत्पुरुषादिर्वा यथासम्भवं बोध्यः । इहान्तवर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोपः प्रसज्येत । भत्वानु न पदत्वम् । अत एव "पदान्तस्य' [अष्टा०म०८-४-३७]इति णत्वनिषेधो न । “अल्लोपोनः" (अष्टा सू०६०४-१३४) इति तु न भवति अङ्गसज्ञाया अभावात् । अङ्गस्येति तत्राधिकारात्। उपसंख्यानान्येतानि उन्दोविषयाणीति कैयटः।
तसौ मत्वर्थे (अष्टा०म०१-४-१९)। तान्तसान्तौ भसंझौ स्तो मत्व. थै प्रत्यये परे । विद्युत्वान् । भत्वाजश्त्वं न । उदकेन श्वयति वर्धते उद. श्वित् । किए "उदश्वितोऽन्यतरस्याम्"(अष्टा मू०४-२-१९) इति निपा तनात्सम्प्रसारणाभावः । "उदकस्योदः संज्ञायाम्"(अष्टा सू०६-३-५७)। उदश्वित्वान् घोषः। यशस्वी। मत्वर्थवृत्तित्वं मतुपो विनिप्रभृतीनां चाविशिष्टम् । अत उभयत्र भत्वप्रवृत्तिः । यथा देवदत्तशालास्था आ. नीयन्तामित्युक्त देवदत्तोऽप्यानीयते उद्देश्यतावच्छेदकरूपाक्रान्तत्वात् । ___ अयस्मयादीनि छन्दसि [अष्टा०सू०१-४-२०)। एतानि छन्दसि साधूनि । भपदसंझाधिकाराद्यथायोगन्तदुभयद्वारैषां साधुत्वं विधी यते। तथा च वार्तिकम-उभयसज्ञान्यपीति वक्तव्यमिति । अय स्मयं पात्रम् । भत्वादुत्वन । अयसो विकार इत्यर्थे "घचश्छन्दसि' (अष्टा सू०४-३-१५०)इति मयट । एतेन "मयड्वैतयोर्भाषायाम्" (अष्टा० सू०४-३-१४३)इत्युक्तेः कथमिह मयडित्याशयात एव निपातनादिति वदन् न्यासकृत्परास्तः। ससुष्टुभा सऋकता गणेन। इह ऋक्कतेति पदत्वात्कुत्वम् , भत्वाजश्त्वाभावः । जश्त्वविधानार्थायाः पदसञ्झाया भत्वेन प्रतिबन्धात्।
बहुषु बहुवचनम् (अष्टान्सू०१-४-२१)। बहुत्वे एतत्स्यात् । वृक्षाः । कथन्तर्हि दारा इति ? अषयवबदुत्वस्यावयविनि आरोपाद्भविष्यति ।
Page #121
--------------------------------------------------------------------------
________________
११२
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
न चैवमेकस्मिन्नपि वृक्षे बहुवचनापत्तिः, तत्रारोपे प्रमाणाभावात् । दा. रादौ तु नित्यबहुवचनान्तत्वग्राहककोशादेवृद्धव्यवहारस्य च मान स्वेन वैषम्यात् ।
धेकयोर्दिवचनकवचने (अष्टा०स०१-४-२२) । वित्वैकत्वयोरेते हतः । वृक्षी, वृक्षः । इह द्ववेकशब्दो सङ्ख्यापरौ, न तु सहयेयपरौ । अत एव द्वयेकयोरिति द्विवचनम् । अन्यथा बहुवचनं स्याज । पूर्वसूत्र ऽपि बहुविति सक्यापरमेव । बहुवचनन्तु आश्रयगतं बहुत्वं धर्म आ. रोप्य कृतम् । तत्फलन्तु बहुः पर्वत इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव । वस्तुतो व्यर्थ तत् । परत्वादेकवचनसम्भवात् । यत्तु “आ. शितःसङ्ख्यासमन्यय" इति, तत्प्रायोवादमात्रम् । अत्र श्लोकात्तिक
सुपाङ्कर्मादयोप्यर्थाः सङ्ख्या चैव तथा तिकाम् ।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा। "कर्मणि द्वितीया" (अष्टान्सू०२-३-२) इत्यादेः प्रकरणस्य "बहुषु बहुवचनम्"(अष्टान्सू०१-४-२०) इत्यादेश्च स्वादिसूत्रेण सहकवाक्यतया विधायकत्वम् । तथा "बहुषु बहुवचनम्" (अष्टा०सू०१-४-२०) इत्यादि. सूत्रयोस्तिबादिवाक्येनाप्येकवाक्यतेति पूर्वार्धस्यार्थः। तृतीयचरणेनार्थनियम उक्तः। चतुर्थेन तु प्रकृतार्थापेक्षः प्रत्ययनियम उक्तः।एषां पक्षाणां बलाबलचिन्ता तु "तद्धितश्चासर्वविभक्तिः" (अष्टा सू०१-१-३८) इति सूत्र एवास्माभिः कृता । इह "एकद्विबहुम्वेकवचन द्विवचनबहुवचनानि" इति कर्तुमुचितम् । बहुशब्दश्च सब्जयावाच्येव ग्रहीप्यते, द्विशब्दसाहच. र्यात् । अत एव हि एकशब्दः सङ्ख्यावाच्येव गृह्यते । वस्तुतस्तु इदं सूत्रद्वयं मास्तु । एकवचनादिसंज्ञानामन्वर्थताश्रयणेन सफलेष्टसिद्धः।
॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य चतुर्थे
पादे द्वितीयमान्हिकम् ॥
कारके (अष्टाग्सू०१-४-२३) । अधिकारोऽयम् । व्यत्ययेन प्रथमार्थे सप्तमी । तथाच 'ध्रुवम्' इत्यादौ प्रतिसूत्रं वाक्यं भिवा कारकसंज्ञा विर्घायते । तथाहि, अपाये ध्रुवं कारकसंझं स्यात् । तत अपादानम् । उक्त कारकमपादानसंश स्यात् । पुनः कारकशब्दानुवृत्तिसामोद्वि. शेषसंचाभिः सह समावेशो न तु पर्यायः। अनुवृत्ति विनापि प्रथमवा. क्यमात्रात्तत्सिद्धेः । तेन 'स्तम्बरमः' इत्यादी अधिकरणत्वात्सप्तमी, कारकत्वाद् "गतिकारकोपपदात्कृत" (अष्टा०१०६-२-१३९) इति प्रकृ. तिस्वरश्च. सिखः । थाधादिस्वरस्तु न भवति, अपा साहचर्यादेरच
Page #122
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
एव तत्र प्रहणात् । न चोपपदत्वादेव कृदुत्तरपदप्रकृतिस्वरोऽस्त्विति, वाच्यम्, "स्तम्बकर्णयोः " (अष्टा०सू०३-२-१३ ) इति निर्देशात्प्रातिप दिकयोस्तथात्वेऽपि सप्तमीविशिष्टयोरतथात्वात् । न हि सप्तमीविशिष्टं सप्तम्या निर्दिष्टम, येनोपपदसंज्ञां लभेतेति दिक् ।
अन्वर्था चेयं संज्ञा करोतीति कारकमिति । तेन क्रियानन्वयिनो न भवति । ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । इह हि ब्राह्मणः पुत्रवि . शेषणं न तु क्रियान्वयी । ननु पुत्रोऽपि कथं कारकम् ? प्रश्नो हि जि. ज्ञासा । तत्र प्रष्टुः कारकत्वेऽपि यं प्रति प्रश्नस्तस्य जनकत्वायोगादिति चेत् ? सत्यम्, मास्तु जनकता । क्रियान्वयमाश्रमिह विवक्षितम् । तच्चास्त्येव । एतेन सम्प्रदानस्य कारकत्वं व्याख्यातम् । यद्वा, सम्प्रदा नादेरपि प्रथमं बुद्ध्यारोहात्कारकता । एवं ज्ञायते करोतीत्यादौ कर्तृ· कर्मणोरपि बोध्यम् । कार्याव्यवहितपूर्वक्षणवृत्तीनां कथं कारणतेति चेत् ? यथा यागस्येत्यवेहि । तत्र व्यापारोऽस्तीति चेत् ? न ताव वाऽपि यागस्य पूर्ववर्तितानुपपादनात् । अव्यवहित पूर्ववर्तिस्वस्व व्यापारान्यतरकत्वं कारणत्वमिति चेत् ? न, व्यापारत्वस्य कारणत्वगर्भतया आत्माश्रयापत्तेः, स्वयापारस्येव स्वज्ञानस्यापि प्रवेशसम्भवाच्च । भ० त एव ज्ञायमानं लिङ्गं पदञ्चानुमितिशब्दज्ञानयोः कारणमिति जरनै यायिकाः । ज्ञायमानाः पदार्थाः कारणमिति च मीमांसकाः । अत एव चरथन्तरसामादेरैन्द्रवाय्वानत्वादौ निमित्ततेत्युद्घोषो मीमांसकानाम् । अथवा उपसर्जनसंज्ञा यथा राज्ञः कुमार्या राजकुमार्या इत्यादी यथासम्भवमन्वर्थाऽपि 'अर्धपिप्पली' इत्यादौ वचनाद्भवति, तथा कारकसंज्ञापि प्रतिसूत्रं विधीयमाना वचनात्सम्प्रदानादौ भवति । प्रदेशेषु तु संज्ञाप्रकारक एव बोधः । तत्तद्रूपप्रकारको वेत्यन्यदेतत् ।
११३
स्यादेतत् । 'वृक्षस्य पर्ण पतति' इत्यादौ पर्णविशेषणस्यापि वृक्षस्य कारकतापत्तिः, 'वृक्षात्पतति, इतिप्रयोगानुरोधात् । तर्हि अस्मदीयशब्दप्रयोग वैलक्षण्यमात्रेण एकस्यैव जनकत्वाजनकत्वे व्यवतिष्ठेते इति चेत् ? अत्रेदं सिद्धान्तरहस्यम् । कारकत्वं तयाप्यकर्तृत्वादिषट्कञ्च वस्तुविशेषेऽनवस्थितम् । विशेषणविशेष्यवत् तर्हि गौः सबै प्रति गौरव न तु कञ्चित्प्रत्यगौरितिवद्विशेषणं विशेषणमेवेति सुव चम् । तथाच किं कारकं कः कर्त्ता किं कर्मेत्यादिप्रश्रे सर्वमित्युत्तरम् । वक्ष्यमाण कर्तृत्व कर्मत्वादेरचेतनेषु अनादिषु च निर्बाधत्वात् कया पचिधातुव्यक्त्या उपस्थापितेऽर्थे किं कर्त्रादिकमिति प्रश्ने तु प्रकृतपचिव्यक्त्युपाक्त्तव्यापाराश्रयः कर्ता । व्यापारव्यधिकरणफलाश्रयः कर्म ।
शब्द. द्वितीय. 8.
Page #123
--------------------------------------------------------------------------
________________
११४
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
यद्यापारोत्तरभावित्वं क्रियाया विवक्ष्यते तत्करणम् । कर्तृकर्मणोरा. श्रयोऽधिकरणमित्यादि क्रमेणोत्तरम् । विक्लित्यनुकूलव्यापारी हि प. व्यर्थः । व्यापारश्चानेकधा । तत्र पचेरधिश्रयणतण्डुलावपनधोपक र्षणापकर्षणफूत्कारादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता। ज्वलन तात्पर्यकत्वे त्वेधाः कर्तारः । तण्डुलधारणादिपरत्वे स्थाली की। अवयवविभागादिपरत्वे तण्डुलाः कतारः । अत एव कर्मका करण. कर्तेत्यादिव्यवहारः । एवं 'स्थाल्या पचति' इत्यत्र तृतीयोपात्तव्यापारा. श्रयोऽपि स्थाली करणमेव, न तु तदा की; देवदत्तादिव्यापारस्यैव तत्र धातूपात्तत्वात् । तथा आदिखादिभ्यामुपात्तेर्थे बटुः कर्ता । तस्मि. नेवार्थे भक्षयतिनोपात्ते बटुः कर्म । अधिपूर्वैः शीङ्स्थाप्रभृतिभिरुपा. तेऽर्थ आधारः कर्म । तत्रैव केवलैरुपात्तेऽधिकरणमित्यादि । नन्वव. मननुगम इति चेत् ? सत्यम् , कस्य कः पिता को म्रात इत्यत्रेवाननु. गतस्यैव लक्ष्यत्वात् । अत एव प्रयोगाणां साध्वसाधुता व्यवतिष्ठते । अन्यथा कचित्कर्तुः सर्वत्र कर्तृतापची सकलप्रयोगाः सङ्कीर्येरन् । उक्तं च हरिणा
वस्तुतस्तदनिश्यं न हि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा व्यवस्था दृश्यते यतः ॥ इति ॥ अत एव प्रयोजकव्यापारव्याप्यत्वाविशेषेपि पच्यादिधातुषु प्रयो. ज्यो न कर्म गम्यादिग्धेव तु कर्म तथा 'पौराणिकाच्छृणोति' 'नटस्य शृणोति' इत्यत्र पौराणिकोपादानं कारकञ्च, नटस्तु नोभयमित्यादि व क्ष्यमाणं सङ्गच्छते । नन्वेवं "लः कर्माण" (अष्टा सू०३-३-६९) इत्यादि. विधिषु किं कर्म ग्राह्यमिति चेत् ? विनिगमकाभावात्सर्वमित्यवेहि । यथा भस्येत्यत्र सर्व भम । तर्हि टिघुभादिवत्पारिभाषिकमेव कारक त्वकर्मत्वादिकं स्यादिति चेत् ? को वा ब्रूते नेति । एतावानेव परं मे. दः-टिघुमादीनां शब्दसंज्ञात्वमितरेषान्त्वर्थसंशात्वमिति । एवञ्च “क. मणि द्वितीया" (अष्टा०स०२-३-२) इत्यनेन यथायथमाधारादावपि द्वि. तीया विधीयते इति फलितम् । 'रथेन गम्यते' 'रयो गच्छति' इत्या. दावपि कर्तृविभक्तिरुत्सर्गेणैव सिद्धेति न तत्र लक्षणाऽऽश्रयणीयेत्यव. धेयम् । विभक्तीनां वाच्यांशानिष्कर्षस्तु करिष्यते । एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोधमुद्भावयन्तः परास्ताः, शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षादावुक्तिसम्भवात् । एतेन परसमवेतक्रियाफलशा. लित्वं कर्मत्वं चेदपादानेऽतिव्याप्तिरित्याशक्य धात्वर्थतावच्छेदकफलशालित्वं तदिति परिष्कुर्वन्तोऽपि परास्ताः । 'ग्रामं गमयति देवदत्तम्'
Page #124
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् । ११५ इत्यादौ गन्तरि अव्याप्तेः । त्वन्मते गमनस्य प्रकृत्यर्थत्वेऽपि तथात्वा. नवच्छेदकत्वात् । तत्त्वे वा पाचयत्यादिप्रयोज्यकर्तर्यतिव्याप्तेः। तत्र पारिभाषिकमनुशासनोपयोगिकर्मत्वं वचनबलाद्यवस्थितमिति चेत् ? अपादानेऽपि तर्हि तन्नास्तीत्यवेहि, एकसंज्ञाधिकारऽनवकाशया बाधा. त । अत एव 'आत्मानमात्मा हन्ति' इत्यादौ परया कर्तृसंज्ञया कर्मसं. ज्ञाबाधमाशड्याहारादिविशिष्टात्मभेदमाश्रित्य तत्रतत्र भाप्ये समाहितमिति दिक् ।
नन्वेवं करणं कारकमिति सामानाधिकरण्यं कथम्, अस्वातन्त्र्येण ण्वुल्प्रत्ययागेगात् । अन्यथा कर्तृसंज्ञापत्तौ करणसंज्ञायाः पर्यायापत्ते रिति चेत् ? उच्यते, अधिकारसामात्कारकशब्दापनीतं स्वातन्त्र्य. मवस्थान्तरगतं विज्ञायते । अवस्थान्तरे यत्स्वतन्त्रं तत्साधकतमङ्कर. णमिति । यथा 'कुरुक्षेत्रस्थाः काश्यां वसन्ति' इत्यादौ । कर्तुस्तु साम्प्र. तिकं स्वातन्त्र्यम् । तच्च कर्तृसंज्ञायामुपयुज्यते इति । यद्वा, कारक. शब्दः क्रिया परः, करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः । तथाच अपादानादिसंज्ञाविधी क्रियायामित्यस्योपस्थित्या क्रियान्वयिनामेव तत्तत्संज्ञाः स्युः । “कारकाहतश्रुतयोः" (अष्टा०सू०६-२-१४८) इत्यादी तु कारकशब्दः स्वर्यते । तेनैतदधिकारोकंकादिषट्कमेव गृह्यत इति ।
ध्रुवमपायेऽपादानम् (अष्टा०सू०१-४-२४) । अपायो विश्लेषो विभा. गस्तद्धतुत्वोपहितो गतिविशेषश्चेह विवक्षितस्तस्मिन्साध्येऽवधिभूत. मपादानसंङ्गं स्यात् । वृक्षात्पतति । 'ध्रुवम्' इत्यत्र "धु गतिस्थैर्ययोः" (तु०प०१४००) इत्यस्मात्कुटादेः पचायच् । ये तु "ध्रुव स्थैर्ये" इति पठन्ति । तषामिगुपधलक्षणः कप्रत्ययः । ध्रुवतीति धुवं स्थिरम् । एक. रूपमिति यावत् । ध्रुवमस्य शीलमिति यथा । तथा चापाये साध्ये यदेकरूपमित्युक्त प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तदुपयोगीति ल. भ्यते। तच्चार्थादवधिभूतमेव पर्यवस्यति । तेन धावतो ऽश्वात्पतति' इत्यादौ क्रियाया विशिष्टस्याप्यश्वस्य प्रकृतधातूपात्तक्रियां प्रत्यवः धित्वन्न विरुध्यते । तथा 'परस्परस्मान्मेषावपसरतः, इत्यत्र सृवा. तुना गतिवयस्याप्युपादानादेकोषनिष्ठाङ्गति प्रत्यपरस्यापादानत्वं सिध्यति । उकच हरिणा प्रकीर्णकाण्डे
अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते ॥ पततो धुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पनने कुड्यादि धुवमिप्यते ॥
Page #125
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथक् ॥ इति ॥ अतदावेशादिति अपायानावेशादित्यर्थः ।
गतिर्विना त्ववधिना नापाय इति कथ्यते ।
इति तत्रैवोक्तेरवधिनिरपेक्षस्य चलनस्यापायत्वाभावादिति भावः । 'पर्वतात्पततोऽश्वात्पतति' इत्यत्र तु पर्वतावधिकपतनानयो योऽश्वस्तदवधिकं देवदत्ताश्रयं पतनमर्थः । पञ्चमी त्ववधौ शक्ता । तत्राभेदेन संसर्गेण प्रकृत्यर्थो विशेषणम् । प्रत्ययार्थस्तु क्रियायां विशेषणम् । कारकाणां क्रिययैव सम्बन्धात् । अन्यथाऽसाधुत्वात् । क्रियान्वये सत्येव हि कारकसंज्ञा, तत्पूर्विका विशेषसंज्ञाश्च स्थिताः । अत एवाहु:--
११६
नाम्नो द्विचैव सम्बन्धः सर्ववाक्येष्ववस्थितः ।
सामानाधिकरण्येन षष्ठया वापि कचिद्भवेत् ॥ इति । सामानाधिकरण्येनेति 'नीलो घटः' इत्याद्यभिप्रायम्। 'नीलं घटमानय' इत्यादावप्यन्तरङ्गक्रियान्वयानन्तरमेकक्रियावशीकृतानां पाणिक्यबोघाभिप्रायञ्च । षष्ठघेति अकारकविभक्तेरुपलक्षणं 'हरये नमः' इति यथा । क्वचिदिति, अकारकविभकेरपि, 'नटस्य शृणोति' इत्यादौ क्रियान्वयदर्शनादिति भावः । एतेन 'भूतले घटो न' इत्यत्र भूतलावेयत्वाभावो घटे भूतलावेयत्वं वा घटाभावे विशेषणमिति द्वेधा व्याचक्षाणा नैयायिकाः
रास्ता, उभयथाऽपि क्रियानन्वये कारकविभकेर साधुत्वाव, अर्थाभा. वेऽव्ययीभावापत्तेश्च । तस्य नित्यसमासत्वात् । नन्वस्मदुक्कोऽपि बोधोऽस्मदर्शनव्युत्पन्नानामनुभवसाक्षिक इति चेत् ? सत्यम्, न हि वयं बोध एव नोतीति ब्रूमः । सर्वे सर्वार्थबोधनसमर्था इत्यभ्युपगमात् किन्तु तस्मिन्नर्थेऽसाधुताम् । तथाच "सिद्धे शब्दार्थसम्बन्धे” इति वार्तिकं व्याचक्षाणा भाष्यकारा आहु:-- “ समानायामर्थावगतौ साधु. भिश्चासाधुभिश्च गम्यागम्येतिवन्नियमः क्रियते" इति । उक्तञ्चभेदाभेदकसम्बन्धोपाधिभेदनियन्त्रितम् ।
साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ॥ इति ॥
एवञ्च कस्माद्वाक्यात्कीडग् बोध इति प्रश्ने यो यथा म्युप्तन्नस्तस्य ता. हगेवेति स्थितिः । कीडशे बोधे साधुत्वं कुत्र नेति परं विचारविषय इति तत्त्वम् । एतेन 'घटः कर्मत्वमानयनं कृतिः' इत्यादीनां स्वरूपायोग्यतेति परास्तम्, तथा व्युत्पन्नस्य बोधानुभवात् । अन्यथा व्युत्पन्नस्य व्युत्पत्तिरूपसहकारिविरहात्कार्यानुदयेऽपि स्वरूपयोग्यतानपायात् । एतेन प्र
Page #126
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
कृत्यर्थप्रकारको बोधो यत्र विशेष्यतया नत्र विषयतया प्रत्ययजन्य इत्यादिकार्यकारणभावं कल्पयन्तोऽप्यपास्ताः, विपरीतव्युत्पादिते व्य. भिचारस्योद्भवात् । सिद्धान्ते तु घटः कर्मत्वमित्याद्यसाध्वेव । तथाहि, “अभिहिते प्रथमा" इति वार्तिकं, तत्कथं घटः कर्मत्वमिति प्रथ. मा? घटानयनयोरानयनकृती प्रति कर्मतया "कर्तृकर्मणोः” (अष्टासु० २-३-६५) इति षष्ठीप्रसङ्गाचेति दिक् ।
निर्दिष्टविषयं किञ्चिदुपातविषयं तथा।
अपेक्षितक्रियश्चेति त्रिधापादानमुच्यते ॥ यत्र साक्षाद्धातुना गतिनिर्दिश्यते तनिर्दिष्टविषयम् । 'अश्वात्पत. ति' यथा । यत्र तु धात्वन्तरार्थाङ्गं स्वार्थ धातुराह तदुपात्तविषयम् । यथा 'बलाहकाद्विद्योतते' इति । निः सरणाङ्गे विद्योतने युतिर्वर्तते । यथा वा 'कुसूलात्पचति' इति । आदानाते पाकेऽत्र पचिर्वर्तते । अपेक्षितक्रियं तु तत् , यत्र प्रत्यक्षसिद्धमागमनं मनसि निधाय पृच्छति कुतो भवानिति, पाटलिपुत्रादिति चोत्तरयति; अर्थाध्याहारस्य न्याय्यताया उक्तत्वात् । इह 'सार्थाद्धीयते' इत्यपि निर्दिष्टविषयस्यो. दाहरणम् ।
स्यादेतत् । परत्वात्सार्थस्य कर्तृसंक्षा प्राप्नोति । उकं हि "अपादा. नमुत्तराणि' इति । किञ्च सार्थस्य कर्तृत्वाभावे त्यज्यमानस्य कर्मसं. झा न स्यात् कर्तृव्यापारव्याप्यत्वाभावात् । ततश्च हीयते हीन इति क. मणिं लकारो निष्ठा च न स्यात्। न च कर्मकर्तर्ययं लकार इति वाच्यम् , जहातेः कर्तृस्थक्रियत्वात्कर्मण्येवायं लकार इति इन्दुनोतत्वात् । यतु "अपादाने चाहीयरुहोः" (अष्टा०सू०५-४-४५) इति सूत्रे न्यासका. रेण सम्प्रदानसूत्रे कैयटेन चोक्तं कर्मसंक्षायां कर्तृग्रहणं स्वातन्योपलक्षणम् । अतो हानक्रियायां स्वतन्त्रेणापादानेनेप्स्यमानस्येह कर्मते. ति । तश्चिन्त्यम् , 'माषवश्वं बध्नाति' इत्यत्र कर्मणोऽप्यश्वस्यं वस्तु तो भक्षणे यत्स्वातन्त्र्यं तदाश्रयकर्मसंज्ञापत्तेः । अत एव कर्मसंहावि. धायकसूत्रशेषे कैयटेनोक्तम्-प्रयोजकव्यापारस्याशब्दार्थत्वात्तदपेक्षं कर्मत्वमयुक्तमिति।
अत्राहु:-'सार्थाद्धीयते' इत्यत्र कर्मकर्तरि लकारः । तथाहि, अपगमना जहातेरर्थः । सा च क्षुदुपधातादिना देवदत्तस्यापगमते तत्समर्थाचरणम् । यदा तु क्षुदुपघातादिना स्वयमेवापगच्छति तदा कर्मक र्तृत्वम् । स्फुटशेदं हरदत्तमाधवप्रन्ययोः। स्यादेतत् । धवग्रहणं किमर्थम् न च'प्रामादागच्छति शकटेन' इत्यत्र
Page #127
--------------------------------------------------------------------------
________________
११८ शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
शकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः । यथा 'धनुषा विष्यति' इत्यत्र । इह हि शरनिःसरणं प्रत्यवधिभावोप गमेनैव व्यधने करणतेत्युभयप्रसङ्गः । 'वृक्षस्य पर्णे पतति' इत्यादी तु वृक्षः पर्णविशेषणं न त्वपायेन युज्यते । न च संक्षिनिर्देशार्थे ध्रुवग्रहणम्, अपाये क्रियायां यदन्वेतीत्यस्याक्षिप्तस्य संशिसमर्थकत्वात् । य द्वा, कारके इति निर्धारण सप्तम्याश्रयणात्कारकमिति लभ्यते । पूर्वत्रा पि प्रथमार्थे सप्तमीत्युक्तत्वाच्च । तस्माद् ध्रुवग्रहणं चिन्त्यप्रयोजनम् ।
-
जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् (का०वा० ) । अधर्माज्जुगुप्सते विरमति प्रमाद्यति वा । संश्लेषपूर्वको विश्लेषो विभागः । स चेह नास्ति | बुद्धिकल्पितस्तु गौणत्वान्न गृह्यते इति वार्त्तिकारम्भः । भाष्यकारास्तु जुगुप्सादयोऽत्र जुगुप्सादिपूर्विकायां निवृत्ती वर्तन्ते इत्युपात्तविषयमेतत् । कारकप्रकरणे च गौणस्यापि ग्रहणम् | "साध कतमम्” (अष्टा०सू०९ - ४-४२) इति तमग्रहणालिङ्गात् । अपायादिपदानां स्वरितत्वाद्वा “स्वरितेनाधिकारः" (अष्टा०सू०१-३-११) गौणो ऽप्यर्थी गृह्यते इति व्यवस्थापनात् । तेन बुद्धिकल्पितस्याप्यपायस्य सत्वात्सिद्धम् । पूर्वं हि बुच्चाऽधर्म सम्प्राप्य ततो दोषदर्शनान्निवर्तते इत्यस्त्यपायः । एवमुत्तरसूत्रेष्वपि प्रपञ्चत्वं बोध्यमिति दिक् ।
भीत्रार्थानां भयहेतुः (अष्टा०सु०१-४-२५) । भयं भीः, त्राणं त्राः, भयार्थानां त्राणार्थानाञ्च योगे भयहेतुः कारकमपादानं स्यात् । चो रभ्य उद्विजते बिभेति, रक्षति वा त्रायते । भयहेतुग्रहणं चिन्त्यप्रयोज. नम् | 'अरण्ये बिभेति' इत्यादौ तु परत्वादधिकरणसंज्ञा ।
1
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।
इति रामायणश्छेोकस्तु कस्य संयुगे इति योजनया व्याख्येयः । पराजेरसोढः (अष्टा०सू०१-४-२६) । परापूर्वस्य जयतेः प्रयोगेऽसो. ढो ह्योर्थोऽपादानं स्यात् । 'अध्ययनात्पराजयते' ग्लायतीत्यर्थः । अकर्मकश्चायम् । तत्र षष्ठ्यां प्राप्तायां वचनम् । असोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः । असोढ इति कार्थो भूतकालोऽत्राविवक्षितः ! तेन 'अध्ययनात्पराजेष्यते' इत्यादि सिद्धम् वस्तुतस्तु असोढग्रहणं व्यर्थे 'शत्रून्पराजयते इत्यत्र परत्वात्कर्मसंज्ञासिद्धेः । इह सूत्रे पराजेरिति रूपं "विपराभ्याञ्जे ः " ( अष्टा०सू०१२-३-१२) इतिवत्समर्थनी थम् । यत्तु परत्वात् "प्रेरित" (अष्टा०स०७-३-१११) इति गुण इति हरद चेनोक्तं तत्सूत्रभाष्यादविरुद्धमिति प्रागेव प्रनिम् ।
वारणानतः (अष्टा००१-४-२७) । वारणार्थानां प्रयोगे
Page #128
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
११९
क्रियया आप्तुमिष्टं कारकमपादानं स्यात् । यवेभ्यो गां वारयति । "वृञ् वरणे" (चु०उ०१८१४) चुरादिः । प्रवृत्तिविघातो वारणम् । इप्सित इति किम् ? यवेभ्यो गां वारयति क्षेत्र । नन्विह परत्वादधिकरणसंज्ञा भविष्यति यथा कृतेऽपीप्सितग्रहणे गोषु इप्सिततमत्वप्रयुक्का कर्मः संज्ञा । सत्यम, चिन्त्यप्रयोजनमेवेप्सितग्रहणम् । __अन्तधौं येनादर्शनमिच्छति (अष्टा सू०१-४-२८) । अन्तविति सप्तमी । येनेति कर्तरि तृतीया । न च द्योगे षष्ठीप्रसङ्गः । उभयप्राप्ती कर्मण्येवेति नियमात् । व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्यामा वमिच्छति तत्कारकमपादानं स्यात् । मातुनिलीयते कृष्णः । “लोड श्लेषणे" (दि०आ०११३९) देवादिकः । अत्रान्तर्धाविति चिन्त्यप्रयोजनम्। न' दिक्षते चोरान्' इत्यत्र हि परत्वात्कर्मता सिद्धा। इच्छतीति किम् ? इच्छायामसत्यां सत्यपि दर्शने यथा स्यात् ।
आख्यातोपयोगे (अष्टा सू०१-४-२९)। उपयोगो नियमपूर्वकं वि. धास्वीकरणम् । तस्मिन्साध्ये य आख्याता तत्कारकमपादानं स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य शृणोति ।
जनिकर्तुःप्रकृतिः(अष्टासु०१.४.३०)। जायमानस्य हेतुरपादानं स्यात्। पुत्रात्प्रमोदो जायते । इह जनिरुत्पत्तिः । “जनिरुत्पत्तिरुद्भवः" इत्यमरः (अको०१.४.३०)। "इञजादिभ्यः" (काभ्वा०) इति जनेर्भावे इल् “जनिघ. सिभ्याम्" (उ०सु०५७९) इत्युणादिसूत्रेणेण वा । “जनिवध्योश्च (अष्टा सू०७-३-३५) इति वृद्धिप्रतिषेधः। तस्याः कर्तेति षष्ठीतत्पुरुषः। "कर्तरि च" (अष्टा सू०२-२-१६) इति प्रतिषेधस्त्वनित्यः, अत एव झापकात् । यद्वा, शेषषष्ठया समासोऽयम् । निषेधस्तु कर्मषष्ठीविषयति "कारके" (अष्टासु०१-४-२३) इति सूत्रे कैयटः । तथा चार्थमात्रस्य ग्रहणाद्धा. त्वन्तरयोगेपि भवति 'अनादलात्सम्भवति' इति यथा । एतेन "इक. रितपो धातुनिशे'' (कावा) इतीका निर्देशोऽयमित्याश्रित्य “गमः हन" (अष्टा०९०६-४-९८) इत्युपधालोपमासमति चोडावयन्तो मी. मांसावार्तिककाराः समाहिताः । अत्र प्रकृतिग्रहणमुपादानमात्रपरमि स्येके । अत एव "प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधात्" (सू०) इत्य. धिकरणे ब्रह्मणो जगदुपादानतायां "यतो या इमानि भूतानि जायन्ते" इति पञ्चमीमुपष्टम्भिकामाहुः । अन्ये तु 'पुत्रात्प्रमोदो जायते' इति वृ. त्तिस्वरसात्प्रकृतिशब्द इह कारणमात्रपर इत्याहुः । भस्मिश्च पक्षे 'यतो वा' इति सामान्यशब्दोऽपि उपादानरूपविशेषपरः "छागोवा म. न्त्रवर्णात्" (जै००६.८९-३१) इति पाष्ठन्यायात् । “महमेव बहु स्याम्"
Page #129
--------------------------------------------------------------------------
________________
१२० शब्दकौस्तुभप्रथमाध्यायचतुथपादे तृतीयान्हिकेइति हि सामानाधिकरण्यं श्रूयते । तच चतुर्धा-भ्रमे, बाधायाम्, अ. भेदे, तादात्म्ये च । प्रकृते तादात्म्ये, भिन्नत्वे सत्यभिन्नसत्ताकत्वम् आविद्यका सम्बन्धविशेषो वा तादात्म्यमित्यायुत्तरमीमांसायां स्पष्टम।
भुषः प्रभवः (अष्टा०सू०१-४-३१) । भूकर्तुः प्रभवः प्राग्वत् । हिम. वतो गङ्गा प्रभवति । कश्मीरेभ्यो वितरता प्रभवति । "तसु उपक्षये" (दि.प.१२१३)भावक्तः। विगतस्तावितस्ता अशोप्यत्यर्थः । अत्रोफ्लमतेः कर्मव्यापार प्रभवतिर्वर्तते । प्रकाशते इत्यर्थः । "भीत्रार्थानाम्" (अष्टा सू०१-४-२५) इत्यारभ्ययं सप्तसूत्री भाष्ये प्रत्याख्याता । तथाहि चोरे. भ्यो बिभेति । भयान्निवर्तते इत्यर्थः । त्रायते, रक्षणेन चोरेभ्यो निवर्त. यतीत्यर्थः । पराजयते, ग्लान्या निवर्तते इत्यर्थः । वारयति, प्रवृत्तिम्प्र. तिबध्ननिवर्तयति । निलीयते, निलयनेन निवर्तते इत्यर्थः । अधीते, उपाध्यायानिःसरन्तं शब्दं गृहातीत्यर्थः । ब्रह्मणः प्रपञ्चो जायते इत्य. त्रापि ततोऽपक्रामति । यथा वृक्षात्फलमिति लोकप्रसिध्याश्रयेणापायो बोध्यः । प्रभवतीत्यत्रापि भवनपूर्वकं निःसरणमर्थः।
अत्रेदं वक्तव्यं, निवृत्तिनिःसरणादिधात्वन्तरार्थविशिष्ट स्वाथै वृत्ति माश्रित्य यथाकथञ्चिदुक्तप्रयोगाणां समर्थनेऽपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः । 'नटस्य शृणोति' इतिवत् । न ह्युपाध्यायनटयोः क्रियानुकूलव्यापारांशे विशेषो वक्तुं शक्यः । अनभिधानब्रह्मास्त्रमाश्रि. त्य प्रत्याख्यानन्तु नातीव मनोरमम् । एवञ्च "जुगुप्साविराम" (का० वा०) इत्यादिवार्तिकमप्यवश्यारम्भणीयम । तथाच सूत्रवार्तिकमतमे. वेह प्रबलमिति यावद्वाधं साधु । तथा ध्रुवं भयहेतुरसोढ इत्यादिसं. विनिर्देशोऽपि सार्थकः परत्वात्तत्तत्संज्ञाप्राप्तावपि शेषत्वविवक्षायां न माषाणामश्नीयादित्यादाविव षष्ठया इष्टतया तत्रापादानसंज्ञाया वार. णीयत्वादित्यवधेयम् ।
कर्मणा यमभिप्रेति स सम्प्रदानम् (अष्टा०सु०१-४-३२) । कर्मणा करणभूतेन कर्ता यमभिप्रेति सम्बनाति ईप्सति वा तत्कारकं सम्प्र. दानं स्यात । न च युगपत्कर्मत्वं करणत्वञ्च कथमिति वाच्यम्, क्रिया.. भेदेनाविरोधात् । दानक्रियायां हि कर्म अभिप्रापणक्रियायां करणम् । दीयमानया गवा हि शिष्य उपाध्यायमभिप्रेति । उपाध्यायाय गां द. दाति । अत्राभिप्रेतीति पदत्रयम् । न तु समासः । "उदात्तवता गति. मता च तिङा गतः समासो वक्तव्यः" इति वार्तिकस्य छन्दोविषय. स्वादिति हरदत्तः । माषाविषयत्वे बाधकं तु तत्रैव वक्ष्यामः।
अत्र वृत्तिकारा:-अन्वर्थसंक्षेयं सम्यक् प्रदीयते यस्मै तत्सम्प्रदान
Page #130
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२१
मिति । तेनेह न-रजकस्य वस्त्रं ददाति । इनतः पृष्ठं ददाति । इह हि ददातिौणः न तु वास्तवं दानमस्तीत्याहुः । __भाष्ये तु नैतत्स्वीकृतं 'खण्डिकोपाध्यायस्तस्मै चपेटां ददाति' 'न शुद्राय मतिं दद्यात्' इत्यादिप्रयोगात् । 'रजकस्य ददाति' इति तु शेषत्वविवक्षायां बोध्यम् । नन्वेवम् 'अजान्नयति ग्रामम्' इति नयतिक्रियाकर्मभिरजैः सम्बध्यमानस्य ग्रामस्य सम्प्रदानत्वं स्यादिति चेत् ? न, यमभिप्रेतीत्युक्त्या हि यमिति निर्दिष्टस्य गवादेः शेषत्वं च प्रतीयते । यथा कभिप्राये क्रियाफले इति कर्तुः शषित्वं क्रियाफलस्य शेषत्वं च। न चेह ग्रामं प्रत्यजा शेषभूता । तथा च प्रयोजकलक्षणे प्रासनवन्मैत्रावरुणाय दण्डप्रदानमित्याधिकरणे "कीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति" इति दण्डदानं न प्रतिपत्तिः, किन्तु द्वितीयापेक्षया बलीय. स्या चतुर्थीश्रुत्याऽर्थकर्मत्युक्तम् । अत्र वार्तिकं-क्रियाग्रहणं कर्तव्यम् । पत्ये शेते । भाष्यकारास्तु सन्दर्शनप्रार्थनाध्यवसायैराप्यमानत्वारिका यापि कृत्रिमं कर्म । तथा च सूत्रेणैव सिद्धम् । प्रतीयमानक्रियापेक्षोपि हि कारकभावो भवत्येव । प्रविशपिण्डीमिति वत् । सूत्रकारश्चाह "क्रि. यार्थोपपदस्य च कर्मणि स्थानिनः" (अष्टा०सू०२-३-१४) इति । न चैवमप्यददातिकर्मत्वात क्रियाग्रहणं कर्त्तव्यमेवेति वाच्यम्, भाज्ये अन्वर्थसंज्ञात्वास्वीकारात्। नन्वेवं 'कटङ्करोति' इत्यादावपि सम्प्रदानत्वं स्यात् । वचनबलाच्च कर्मसम्प्रदानत्वयोः पर्यायप्रसङ्गः । अत्राहु:-नेदं वार्तिकं सार्वत्रिकम, किन्तु प्रयोगानुसारानियतविषयं, धातूपात्तफ. लानाधार एव प्रवृत्तेः। भाग्यमते तु यत्र सम्प्रदानत्वमिष्टं तत्र सन्दर्श. नादीनां क्रियायाश्च भेदो विवक्ष्यते । ततश्च तैराप्यमाना क्रियापि कृत्रिम कर्मेति सिद्धं तयाऽभिप्रेयमाणस्य सम्प्रदानत्वम् । यत्र तन्नेष्टं तत्र भेदो न विवक्ष्यते । ततश्चोत्पत्तिविक्लित्यायेकफलावच्छेदेनैकीकृतया क्रियया व्याप्यमानस्य कर्मत्वमेव भविष्यति । 'कटङ्करोति' 'ओदनं पचति' इति । गत्यर्थेषु तु भेदोऽभेदश्चेत्युभयं विवक्ष्यते । तत्र भेदविवक्षायां 'प्रामाय गच्छति' इति प्रयोगः । अभेदविवक्षायान्तु 'ग्रामं गच्छति' इति । तथाच “गत्यर्थकर्मणि" (अष्टासु०२-३-१२) इति सूत्रे प्रत्या. ख्यास्यते। उक्तंच हरिणा
भेदस्य च विवक्षायां पूर्वी पूर्वी क्रियां प्रति । परस्याङ्गस्य कर्मत्वात्तक्रियाग्रहणं कृतम् ॥ क्रियाणां समुदाये तु पदैकत्वं विवक्षितम् । तदा कर्मक्रियायोगात्स्वाख्ययैवोपचर्यते ॥
Page #131
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ प्रथमाध्यायचतुर्थपादे तृतीयान्हिके
भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता । तस्माद्गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ विकल्पेनैव सर्वत्र संज्ञे स्वातामुभे यदि । आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ इति ॥ अस्यार्थः-कर्म स्वाख्ययैव क्रियेप्सितत्वप्रयुक्त कर्मसंज्ञयैवोपचर्यते, व्यवहियते । न तु सम्प्रदानसंज्ञया गत्यर्थकर्मणि तु भेदाभेदौ द्वावपि विवक्ष्येते इति रूपद्वयसिद्धिः । व्यभिचारोऽतिप्रसङ्गस्तु न दृश्यते । विवक्षाया व्यवस्थितत्वादेव । एतदेव द्रढयति विकल्पेनेति । समं तु. ल्यफलकम् । तस्मात्सूत्रं प्रत्याचक्षाणस्य भगवतो विवक्षानियमोऽभि मतः । गत्यर्थेषु विवक्षाद्वयम् । 'पत्ये शेते' इत्यादौ तु भेदविवक्षैव । 'ओदनं पचति' इत्यादावभेदविवक्षैव । चेष्टायामनध्वनीत्येतत्प्रत्युदाहरणयोरपि अभेदविवक्षैत्र । 'मनसा हरिं व्रजति' अध्वानं गच्छति' इति त्रिधा चेदम् | यदाह
१२२
अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम् ॥ इति ।
अनिराकर्तृ यथा-सूर्यायार्ध्यं ददाति । नात्र सूर्यः प्रार्थयते, न वानुमन्यते, न च निराकरोति । प्रेरकं यथा - विप्राय गां ददाति । अनुमन्तृ यथा - उपाध्यायाय गां ददाति । ननु दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थी सिद्धैव तत्किं सम्प्रदानसंज्ञया ? मैवम्, दानक्रियार्थे हि सम्प्रदानं न तु दानक्रिया तदर्था, कारकाणां क्रियार्थत्वात् । सम्प्रदानार्थ तु दीयमानं कर्मेति वाक्यार्थभूतापादनक्रियाया अतादर्थ्यांसादर्थचतुर्थ्या अप्राप्तौ संज्ञारम्भादिति हेलाराजः । तदेतत्सूचितम् – श्यागाङ्गं कर्मणेप्सितमिति । कर्मसम्प्रदानयोः करणकर्मत्वे वाच्ये । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । एतच्च वचनं उक्तोदाहरणमात्र. विषयम् । अत एव सुळ्यत्ययेन सिद्धत्वात्प्रत्याख्यायते । लोके तु यजेः पूजार्थत्वात्पशोः करणत्वं सिद्धम् ।
सम्प्रदानं स्यात् ।
रुच्यर्थानां प्रीयमाणः (अष्टा०सू०१-४-३३) । देवदत्ताय रोचने स्वदत्ते मोदकः । अत्राह हरिःदेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् । रुच्यर्थादिषु शास्त्रेण सम्प्रदानाख्यमुच्यते ॥ अस्यार्थः-अन्यसमवेतोऽभिलाषो रुच्यर्थः । रोचते । अभिलाषविषयो भवतीत्यवगमात् । विषयीभवन्तं मोदकं देवदत्तः प्रयुङ्क्ते । लौव्यात्तदानुगुण्यमाचरनीति देवदत्तस्य हेतुसंज्ञायां प्राप्तायां सम्प्रदान
Page #132
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२३ संज्ञा कथ्यते । तथाच हेतुसंज्ञाविरहे णिजभावाद्धेतुसमवायिन्या द्वि. तीयस्याः क्रियाया अप्रतीतेर्मोदकः स्वक्रियायां धातुवाच्यायां कर्ता भवति, न तु कर्म । यदा तु रोचते प्रीणयतीत्यर्थः, तदा कर्मसंज्ञायां प्राप्तायां वचनम् । तथा च प्रीयमाण इति विशेषणम् । "प्रीञ् तर्पणे" (चुउ०१८३६ ) इत्यस्मात्सकर्मकारकर्मणि लट् । देवादिकस्तु ङि. दकर्मकः । तठमाण इत्यर्थः । यत्तु समर्थसूत्रे 'रोचयामहे' इति हरदत्तेन प्रयुक्तं, तदस्मिन्नेव पक्षेऽध्यारोपितप्रेषणपक्षमाश्रित्येत्यवधेयम् । यदा तु देवदत्तस्य योऽभिलाषस्तद्विषयो भवतीत्यर्थस्तदा शेषत्वात्यष्ट्यां प्राप्तायां वचनमिति । प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि । कर्मादाविवाधिकरणे मा भूत् । अत एव 'आदित्यो रोचते' इत्यत्र दीप्त्यर्थे संज्ञा न भवति ।
श्लाघन्हस्थाशपां शीप्स्यमानः (अष्टा०सू०१-४-३४) । एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात् । देवदत्ताय श्लाघते । श्लाघा स्तुतिः । देवदत्तं स्तोतीत्यर्थः । एवं हि देवदत्तः शक्यते ज्ञापयितुम् ।
अन्ये त्वाहुः-देवदत्तायात्मानं परं वा श्लाघ्यं कथयतीत्यर्थ इति । तथा च भट्टिकाव्यम
श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः । इति । आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। तत्राद्ये पक्षे कमंत्वे प्रासे द्वितीये तु कारकशेषत्वात् षष्ट्यां प्राप्तायां वचनम् । ह्रौतिप्रभृ. तयोऽत्र स्वार्थोपसर्जनज्ञापनावचनत्वात्सकर्मकाः । तथाच झीप्स्यमान इति संशिविशेषणमुपातमिति हेलाराजः । 'देवदत्ताय न्हुते' देवदत्तं न्हुवानस्तमेव न्हुति तमेव बोधयति । सन्निहितमपि देवदत्तं धनिका. देरपलपतीत्यर्थः । अथवा होतव्यं देवदत्तं बोधयतीत्यर्थः । 'देवदत्ताय तिष्ठते' ईदृशोहमित्यवस्थानेन बोधयतीत्यर्थः । 'देवदत्ताय शपत' शपथेन किश्चित्प्रकाशयतीत्यर्थः । ज्ञापस्यमानग्रहणाद् 'देवदत्तः श्लाघते' 'गार्गिकया श्लाघते पथि' इत्यादौ कादिविषये संज्ञान भवति : 'झीप्यमाने विवदन्ते' इति "शप उपालम्भे" इति वार्त्तिकोदाहरणव्याख्यायां कैयटः । तत्र यस्म आख्यायते स शीप्स्यमान इति मते तु यस्मा आख्यायमानः प्रायुदाहरणम् । तस्माद् द्वितीया, 'देवदत्तं श्लाघते' इति। आख्यायमानी जीप्स्यमान इति मते तु यस्मा आख्यायते स प्रत्युदाहरणम् । तस्माच्च षष्ठी, देवदत्ताय श्लाघते विष्णुमित्रो यज्ञद. त्तस्येति । "अप मिच" चु०उ०१६२४) इति चुरादिकार पनि कर्मणि शानाने बीपस्यमान इति रूपं बोध्यम । न .. साधानाः नस्य बोधन
Page #133
--------------------------------------------------------------------------
________________
१२४ शब्दकौस्तुभप्रथमाध्यापचतुर्थपादे तृतीयान्हिकेमित्त्वाभावात् । 'तज्ज्ञापयति' इत्यादिभाष्यप्रयोगात् । अत एव "मार. णतोषण" (गसू०) इत्यत्र निशानेविति पाठो न तु निशामनेविति । निशानं तनूकरणम् । श्यतेयुट् । 'संज्ञपितः पशुः' इत्युदाहरणम् । “आ. पूज्ञप्यधामीत्" (अष्टा सू०७-४-१५) इत्यत्र तूभयोरपि ज्ञप्योर्ग्रहणमिति सिद्धान्तः । चौरादिकश्च मारणतोषणनिशामनेषु वर्त्तते इति माधवः ।
धारेरुत्तमर्णः (अष्टान्सू०१-४-३५)। अयमुक्तसंज्ञः स्यात् । “धृङ् अवस्थाने" (तु०आ०१४१३)। ण्यन्तः । उत्तमो धनस्वामी । उत्कृष्टार्थवृत्तेरुच्छब्दात्तमपि द्रव्यप्रकर्षत्वादामभावः । अतः कः । क्र. णम् । “ऋणमाधमण्ये' (अष्टा०सू०८-२-६०) इत्यत्र कालान्तरदेयन्द्र. व्यविनिमयोपलक्षणार्थमाधमर्यग्रहणम् । तेनोत्तमणेऽपि नत्वं भवति । अस्मादेव निपातनानिष्ठान्तस्य परनिपातो बहुव्रीही बोध्यः । देवद. त्ताय शतं धारयति । ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वभावादप्रच्य. वमानं शतं प्रयुक्त इत्यर्थः। कारकशेषे षष्ठ्यां प्राप्तायामिदं वचनम् । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे । परत्वादिहाधिकरण. संज्ञा भविष्यतीति चेत् ? उत्तमणेऽपि तर्हि हंतुसंज्ञा स्यात् । ___ स्पृहेरीप्सितः (अष्टा०सू०१-४-३६) । स्पृह ईप्सायां चुरादावदन्तः । अस्य प्रयोगेऽभिप्रेतः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । इप्सितमात्र इयं संज्ञा। प्रकर्षविवक्षायान्तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ।यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्षितं तदा षष्ट्येवेति हरदत्तादयः। हेलाराजस्तु "हेतुत्वे कर्मसंज्ञायाम्" (वा०५०) इति प्रागुः कश्लोकव्याख्यावसरे स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठ्याश्च बाधि केयं सम्प्रदानसंज्ञेत्याह । वाक्यपदीयस्वरसोऽप्येवम् । अस्मिन्पले "परस्परेण स्पृहणीयशोभम्" इति कर्मण्यनीयर् दुर्लभः। 'दानीयो विप्रः' इतिवत्सम्प्रदान एव तु व्याख्येयः। तथा
कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च । इति षष्ठ्यप्यसङ्गता । विभक्तिविपरिणामेन कान्ताय स्पृहयन्तीति तु व्याख्येयम् । हरदत्तमते तु यथाश्रुतावेव उक्त प्रयोगौ निर्बाधाविति ।
क्रुधदुहेासूयार्थानां यम्प्रति कोपः (अष्टा०सू०१-४-३७)। क्रोधा. धर्थानां धातूनां प्रयोगे यं प्रति कोपस्तत्कारकं सम्प्रदानं स्यात् । देव. दचाय क्रुध्यति दुह्यति ईय॑ति असूयति वा । वाक्चक्षुरादिविकारानु. मेयः प्ररूढः कोपोऽत्र क्रोधः । अपकारो द्रोहः । असहनमाया । गुणेषु दोषारोपणमसूया । ननु चित्तदोषार्थानामित्येवास्तु किं क्रोधादीनां वि. शिष्योपादानेनेति चेत् ? न, विषादावतिप्रसङ्गात् । “योऽस्मान्द्वष्टि"
Page #134
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२५
इत्यादौ घनभिनन्दनं द्विषेरर्थः । अत एवाचेतनेष्वपि प्रयुज्यते 'औषधं द्वेष्टि' इति । यम्प्रतीत्यादि किम ? भार्यामीर्ण्यति-मैनामन्योद्राक्षीदिति । नात्र भार्याम्प्रति कोपः किन्तु परैदृश्यमानां तां न क्षमते इत्येव । क्रुध. अहोरकर्मकतया कारकशेषत्वात् 'नटस्य शृणोति' इतिवत् षष्ठ्यां प्राप्तायां वचनम् । इतरयोस्तु सकर्मकत्वात् द्वितीयायां प्राप्तायाम् ।
क्रुधगृहोरुपसृष्टयोः कर्म (अष्टा०सू०१-४-३८)। सोपसर्गयोरनयोर्य प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात । पूर्वसुत्राफ्वादः । देवदत्तमभिक्रु. ध्यति, अभिद्राति । ___ राधीक्ष्योर्यस्य विप्रश्नः (अष्टासु०१-४-३९)। एतयोः कारकं स. म्प्रदानसंशं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गःशुभाशुभं पर्यालोचयतीत्यर्थः । शुभाशुभपर्यालो. चनमिह धात्वर्थः । शुभाशुभरूपयोः कर्मणोर्धात्वर्थेनोपसङ्ग्रहादकर्मका. वेतौ। षष्ठ्यां प्राप्तायां वचनम् । अत एव राध्यतीति श्यन् , अकर्मका. देव तद्विधानात् । तथाच दिवाद्यन्तर्गणसूत्रं "राधोऽकर्मकादृद्धावेव" (गसु०) इति । अस्यार्थः-एवकारो भिन्नक्रमः। राधोऽकर्मकादेव । यथा वृद्धाविति । अत एव "कर्मवत कर्मणा" (अष्टा सु०३-१-८७) इति सूत्रे "राध्यत्योदनः स्वयमेव" इति भाष्यं सङ्गच्छते । तत्र हि सिध्यती. त्यर्थः । एतेन
न दये सात्वतीसुनुर्यन्मह्यमपराध्यति ।
क्रियासमभिहारेण विराध्यन्ते क्षमेत कः ॥ इति माघप्रयोगी व्याख्यातौ । एतेनैतयोःकर्मकारकं सम्प्रदानं स्या. दिति व्याचक्षाणाः परास्ताः। यस्येत्यनर्थकं यम्प्रतीत्यनुवृत्त्यैवेष्टसिद्धः ।
प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता (अष्टा०स०१-४-४०)। प्रतिपूर्व आ. पूर्वश्च शृणोतिरभ्युपगमे वर्त्तते । तस्य पूर्वो व्यापारः प्रवर्त्तनक्रिया, तस्याः कर्ता सम्प्रदानं स्यात । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मानां देहीति प्रवर्तितः प्रतिजानीते इत्यर्थः । हेतुसंज्ञायां प्राप्तायां 'देवदत्तेन प्रतिशृणोति' इति प्रयोगनिवृत्तये वचनम् । विव. क्षान्तरे तु देवदत्तो गां प्रतिश्रावयति' इति भवत्येवेति हरदत्तः । अत्रेदं चिन्त्यम-उक्तरीत्या 'देवदत्तो रोचयति मादकम्' इत्यपि प्रयोगो दर्वारः । न चेष्टापत्तिः । तत्रत्यस्वग्रन्थेन हेलाराजग्रन्थेन च विरोधात । तत्र हेतुत्वबाधान्न णिजिति यदि, तार्ह प्रकृतेऽपि तुल्यम् । तस्मादिह वैषम्यं दुर्वचमिति ।
अनुप्रतिगृणश्च (अष्टा सु०१-४-४१)। अनुपूर्वस्य प्रतिपूर्वस्य गृ.
Page #135
--------------------------------------------------------------------------
________________
१२६
शब्द कौस्तुभ प्रथमाध्यायचतुर्थपादे तृतीयान्हिके -
जातेः कारकं पूर्वस्य कर्तृभूतं सम्प्रदानं स्यात् । अनुप्रतिभ्यां गृणाः अनुप्रतिगृणाः तस्येति विग्रहः । अनुप्रतिपूर्वश्च गृणातिः शंसितुः प्रोत्साहने वर्त्तते । तत्र पूर्वो व्यापारः शंसनम् । होत्रे अनुगृणाति प्रति गृणाति वा होता प्रथमं शंसति तमध्वर्युः 'ओथामोदेव' इत्यादिभिः शब्दैः प्रोत्साहयतीत्यर्थः ।
,
साधकतमं करणम् (अप्रा०सृ०१-४-४२) | क्रियायां प्रकृष्टोपका रकं करणसंज्ञं स्यात् । यद्यापारानन्तरं क्रियानिष्पत्तिः तत्प्रकृष्टम् । उक्तश्च
क्रियायाः परिनिष्पत्तिर्यद्वयापारादनन्तरम् ।
विवक्ष्यते यदा तत्र करणं तत्तदा स्मृतम् ॥ इति । काष्ठैः पचति । विवक्ष्यते इत्यनेन स्थाल्यादीनामपि वैवक्षिकं करणत्वमस्तीत्युक्तम् | आह च
वस्तुतस्तदनिर्देश्यं न हि वस्तुव्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः
ननु कारकाधिकारादेव सिद्धे साधकत्वे पुनः श्रुतिः प्रकर्षार्थाऽस्तु किं तमपा ? सत्यम, अस्मिन्प्रकरणे सामर्थ्यगम्यप्रकर्षो नाश्रीयते इति ज्ञापयितुं तमप् । तेन 'गङ्गायां घोषः' इति सिद्धम् । यदा च तीरधर्म आधारत्वं प्रवाहे उपचर्यते तदेदं प्रयोजनम् यदा तु गङ्गाशब्द एव तीरे वर्त्तते तदा न प्रयोजनम् । तत्राद्ये विभक्तिर्लाक्षणिकी । "सु· विभक्तौ न लक्षण।" इति तु "येन विधिः" (अष्टा०सु०१-१-७२ ) इति सूत्र एव निराकृतम् । द्वितीये तु प्रकृतिर्लाक्षणिकी । ननु उभयं मुख्यमस्तु | परम्परासम्बन्धस्तु संसर्गः । मैवम्, कारकविभक्त्यर्थानां प्रकृत्यर्थे साक्षात्सम्बन्धेन विशेष्यताया व्युत्पन्नत्वात् । अपादानप्रकर णोक्तानि च बहून्युदाहरणानि तमग्रहणस्य प्रयोजनानीति बोध्यम् ।
दिवः कर्म च (अष्टा०सु०१-४-४३) । दिवः साधकतमं कर्मसंनं स्यात्, चकारात्करणसंज्ञम् । करणशब्दानुवृत्त्या वक्ष्यमाणस्यान्यतरस्यांग्रहणस्याकर्षणेन वा संज्ञयोः पर्याये लब्धे समावेशार्थश्चकारः । तेन 'मनसा दीव्यतीति मनसादेवः' इत्यत्र कर्मण्यण् करणे तृतीया चेत्युभयं सिध्यति । "मनसः संज्ञायाम्" (अष्टा०सु०६-३-४१) इत्यलुक् । किञ्च 'अक्षैर्देवयते यज्ञदत्तेन' इत्यत्र सकर्मकत्वादणि कर्तुण कर्मत्वं न, "अणावकर्मकात्" (अष्टा०सु०१-३-८८) इति परस्मैपदं च नेति दिक् ।
1
स्यादेतत्, यदि समावेशः, तर्हि 'अक्षान् दीव्यति' इत्यत्र परत्वा
Page #136
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२७
तृतीया स्यात् । तथाहि, करणसंज्ञाया अवकाशः - 'देवना अक्षाः । करणे ल्युट् । कर्मसंज्ञाया अवकाशः - दीव्यन्ते अक्षाः । " भावकर्मणोः" (अष्टा०सु०१-२-१३ ) इति यगात्मनेपदे | 'अक्षान्' इत्यत्र तूभयसंज्ञाप्रयुक्तकार्यप्रसङ्गे परत्वान्तृतीयैव प्राप्नोति । अत्राहुः, कार्यकालपक्षे "कर्मणि द्वितीया" (अष्टा०सु०२ - ३ - २) इत्यत्र पदस्योपस्थानं तस्यानवकाशत्वात् द्वितीयेति । ननु ' दीव्यन्ते अक्षाः' इत्यत्र कर्मण्यभिहितेऽपि करणत्वस्यानभिधानात्तृतीया स्यात् । तथा 'देवना अक्षा:' इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानात् द्वितीया स्यात् । मैवम्, एकैव ह्यत्र शक्तिः संज्ञ । द्वययोगिनी । तथाचोभयत्राप्यभिधानमेव न स्वनभिहितत्वम् ।
परिक्रयणे सम्प्रदानमन्यतरस्याम् (अष्टा०सृ०१-४-४४) । नियतकालं वेतनादिना स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं सः म्प्रदानसंज्ञं वा स्यात् । शताय शतेन वा परिक्रीतः । परिशब्दः सामीप्यं द्योतयति । क्रयो नामात्यन्तिकं स्वीकरणम् । नियतकालन्तु तस्य स मीपमिति भावः ।
I
आधारोऽधिकरणम् (अष्टा०सु०१-४-४५) । आध्रियन्तेऽस्मिन् क्रिया इत्याधारः । “अध्यायन्यायोद्याव' (अष्टा०सू०३-३-१२२) इत्यादिना करणे घञ् । क्रियाश्रययोः कर्तृकर्मणोर्धारणात् परम्परया क्रियां प्रति आधारः तत्कारकमधिकरणं स्यात् । कटे आस्ते, स्थाल्यां पचति । स्यादेतत् । साक्षात्क्रियाधारयोः कर्तृकर्मणोरेव कुतो नेयं संज्ञेति चेत् ? न, पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अत एवाहु:कर्तृकर्मव्यवहितमसाक्षाद्धारयत्क्रियाम् ।
उपकुर्वत्क्रियासिद्धो शास्त्रेऽधिकरणं विदुः ॥ इति ॥
अत एव 'भूतले घटः' इत्यादौ अस्तीत्यस्याध्याहारो नियतः । यथा 'पुष्पेभ्यः' इत्यत्र स्पृहयतेः । अत एव च नञा सह कारकान्वयं वदन्तः परास्ताः । त्रिविधं चैतदधिकरणमिति "संहितायाम्" (अष्टा० सु०६-१-७२ ) इति सूत्रे भाष्यम् - औपश्लेषिकं वैषयिकमभिव्यापकञ्चेति । कटे आस्ते, गुरौ वसति, तिलेषु तैलमिति ।
अधिशीस्थासां कर्म (अष्टा०सु०१-४-४६) । अधिपूर्वाणामेषां आधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः । अभिनिविशश्च (अष्टा०सू०१ - ४-४७ ) । एतत्पूर्वस्य विशतेराधारः कर्म स्यात् । ग्राममभिनिविशते । अभिनिवेश आग्रहः, तद्वान् भवतीत्यर्थः । अकर्मकोऽयं, तत्राधिकरणस्य कर्मसंज्ञा विधीयते । प्रवेशनार्थे
Page #137
--------------------------------------------------------------------------
________________
१२८
शब्दकौस्तुभप्रथमाध्यायच तुर्थपादे तृतीयान्हिके
तु सिद्धैव । “परिक्रयणे सम्प्रदानम्" (अष्टा०सू०१-४-४४) इति सूत्रा दिहान्यतरस्यां ग्रहणमनुवर्त्तते मण्डूकप्लुतिन्यायेन । व्यवस्थितविभाषा चेयम् । " एष्वर्थेष्वभिनिविष्टानाम्” इति समर्थ सूत्रस्थभाष्यप्र योगश्चेह मानम् । तेन पापेऽभिनिवेशः' इत्यादि सिद्धम् । इह सूत्रे नेरल्पाच्तरस्य परनिपाताकरणमीदृशानुपूर्वीकसमुदायविवक्षार्थम् । तेनेह न 'निविशते यदि शूकशिखापदे' इति । कर्मत्वविवक्षायान्तु तत्रापि भवितव्यमेव द्वितीयया ।
उपान्वध्याङ्ग्वसः (अष्टा०सू०१-४-४८) । एतत्पूर्वकस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसत्यावसति वा ग्रामं सेना | वसेरभ्यर्थस्य प्रतिषेधो वक्तव्यः ॥ अर्थशब्दो निवृत्तिवचनः । व्यधिकरणे षष्ठ्ट्यौ । वाच्यवाचकभावः षष्ठयर्थः । भोजननिवृत्तेर्वाचको यो वसिस्तस्य नेत्यर्थः । श्रामे उपवसति । कथम 'उपोष्य रजनीमे काम्' इति ? “कालाध्वनोः " (अष्टा०सु०२ - ३ - ५ ) इति द्वितीया भवि. ष्यति । कथम् 'एकादश्यां न भुञ्जीत' इति ? उपपदविभक्तेः कारकविभक्तिर्भविष्यति ।
कर्तुरीप्सिततमं कर्म (अप्रा०सू०१-४-४९)। कर्त्रा यदाप्तुमिष्यतेतमां तत्कर्मसंज्ञं स्यात् । यद्यापाराश्रयत्वादसौ कर्ता तेनैव व्यापारेणाप्तुमिष्टमिति सन्निधानाल्लभ्यते । तेन क्रियाफलशालित्वं पर्यवस्यति । क्रिया हि फलेच्छा पूर्व केच्छा विषयः फलमेव त्विष्टतमम् । तच्च धातुनोपात्तमिति तद्विशिष्टत्वे नेच्छाविषयोऽत्र संज्ञी । स च त्रिविधः ।
उक्तश्च
तथा
निर्वर्त्यश्च विकार्यञ्च प्राप्यञ्चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्घाऽन्यत्तु कल्पितम् ॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥
यदसज्जायते सद्वा जन्मना यत्प्रकाशते । तन्निर्वर्त्य विकार्यन्तु कर्म द्वेधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसंभूतं किञ्चित्काष्ठादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्या सुवर्णादिविकारवत् ॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥
'तत्र निर्वत्यै यथा- 'घटं करोति' इति । घटा ह्यसन्नेव जायते वैशे
Page #138
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२९
षिकादिमते । सङ्ख्यादिसत्कार्यवादिमते तु सन्नेवाभिव्यज्यते इत्य स्ति विशेषलक्षणम् । सामान्यलक्षणन्तु कृधातूपात्तोत्पत्त्याख्य फलशालित्वात् । एतेन करोतिर्यत्नार्थकं इति मतं प्रत्युक्तम्, यतते इतिवदकर्मकतापत्तेः । न च जानातिवद्विषयत्वापादनपर्यन्तार्थाभ्युपगमेनापि निर्वाहः, लाघवेनोत्पादन मात्रपरत्वात् कर्तृस्थक्रियतया कर्मव द्भावासिद्धिप्रसङ्गाच्च । प्रकृतेः प्रकृतिभूतस्यात्मन उच्छेदं सम्भूतं प्रा. प्तम् । तद्यथा, 'काष्टं भस्म करोति' । गुणान्तरोत्पत्त्या यथा-'सुवर्ण कु· ण्डलं करोति' इति । इह भस्मकुण्डलयोर्निर्वत्र्यत्वमेवेति बोध्यम् । प्राप्यन्तु - 'आदित्यं पश्यति' इति । तथायुक्तमिति द्विविधम्-द्वेष्यमितरच्च । “अकथितं च' (अष्टा०सू०१-४-६१ ) इत्यपरम् | संज्ञान्तरप्रसङ्गे चान्यत् –“दिवः कर्म च " ( अष्टा०सु०२-४-४३) इत्यादि । तदित्थं सप्तविधं कर्मेति स्थितम् । इह प्राप्ये यद्यपि विषयताख्यः क्रियाकृतवि. शेषोऽस्त्येव । अन्यथा कर्मत्वानुपपत्तेः । तथापि प्रतिपत्तव्यतिरिक्तपु· रुषापेक्षया विशेषो न गम्यते इत्युक्तम् । विकार्ये तु काष्ठादौ कथं धातुपाचफलाश्रयतेत्यवशिष्यते । तत्रेदं तत्त्वम् । प्रकृतिविकृत्योरभेदविव. क्षया निरूढया उत्पत्त्याश्रयता । यद्वा, काष्ठानि विकुर्वन् भस्मोत्पादयतीत्यर्थः । तण्डुलान् विक्लेदयन्नोदनं निर्वर्त्तयतीतिवत् । एतच्च "ह्यर्थः पचिः" इति प्रक्रम्य भाष्ये व्युत्पादितम् । तत्र 'तण्डुलानोदनं पचति' इति प्रयोगे तण्डुलनिष्ठविक्लित्ते रोदनोत्पत्तेश्चानुकूलो देवदत्तनिष्ठव्यापार इत्यर्थः । 'तण्डुलान्पचति' इत्यत्र तु विक्लेदयतीत्यर्थः । 'ओदनं पचति' इत्यत्र तु विक्लित्त्या निर्वर्तयतीत्यर्थः । उकंच
सम्बन्धमात्रमुक्तञ्च श्रुत्या धात्वर्थभावयोः ।
तदेषांशनिवेशे तु व्यापारोऽस्या न विद्यते ॥ इति ।
तस्माद्धातुत्वेन धातूपाचां भावनां प्रति पचित्वेन पच्युपात्ता वि.. क्लित्तिः कर्मतया करणतया वा यथायथं सम्बध्यते इति स्थितम् । इदं त्ववधेयम्, क्रियाया धातुना कर्तुरपि देवदत्तादिशब्देन लाभाद्यथा न द्वितीयार्थता तथेष्टतमत्वादेरपि प्रयोगोपाधिमात्रत्वात् । अधिशीङा. दिवत् । एवञ्च तथायुक्तस्थल इवेहापि धातूपात्तफलाधारमात्रमर्थः । आधेयमेव वा । तच्चाभेदेन फलेऽन्वेति । "अनन्यलभ्यः शब्दार्थः" इति न्यायात् । अन्यथा तथायुक्तत्वानसितत्वयोरपि वाच्यतापत्तौ सकलतान्त्रिकविरोधाच्च । एवन्तु फलाश्रयः कर्मेत्येवास्तां किं द्विसूत्रयेत्यव - शिष्यते । तत्रेदमुत्तरम् 'अग्नेर्माणवकं वारयति' इत्यत्र माणवकस्थ अपादानसंज्ञां बाधितुतितममिति तावद्वक्तव्यम् । तस्मिञ्चोके द्वे शब्द. द्वितीय. 9.
F
Page #139
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
ध्योदासीनतेः सङ्ग्रहार्थ "तथायुक्तम्" (अष्टा०सु०९ - ४-५०) इत्यपि सूत्रणीयम् | अनप्सितग्रहणन्तु शक्यं प्रत्याख्यातुम् । तथा च कर्तृकविभक्त्योरुभयोरप्याधारो वाच्य, आश्रयं वा । व्यापारेण फलेन चान्वय इति तु व्यवस्थयाः शब्दबोधवैषम्यमिति स्थितम् । 'मोदोहनी' 'प क्का' 'पक्कः' इत्यादिकृदन्तानां नामार्थेऽभेदान्वयानुरोधादाधार एवार्थः, फलभावनयोस्तु विशेषणविशेष्यभावो विपरीत इत्यवधेत्यम् । तथायुक्तञ्चानीप्सितम् (अष्टा०सू०१-४-५०) । ईप्सिततमवत्क्रिय युक्त मनीप्सितमपि कर्मसंज्ञं स्यात् । ग्रामं गच्छन् वृक्षमूलाम्युपसर्पति । चौरानः पश्यति |
१३०
अकथितञ्च (अष्टा०सू०१-४-५१) । अपादानादिविशेषैरविवक्षितं का. रकं कर्मसंज्ञं स्यात् । 'नटस्य शृणोति इत्यादावतिप्रसङ्गं वारयितुं परिगणनं कर्तव्यम् ।
तुहियाचिरुधिप्रछिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदाकीर्तितमाचरितं कविना ॥ नीवह्यो ईरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं कर्तव्यमिति निश्वयः ॥
इह प्रछीत्यत्र “छे च" (अष्टा०सु०६-१-४३) इति तु न कृतः, आ गम शासनस्यानित्यत्वात् "सनाद्यन्ता धातवः" (अष्टा०सू०३-१-३२) "इको यणचि" (अष्टा०सू०६-१-७७) इतिवत् । उपयुज्यते इत्युपयोगो मुख्यं कर्म क्षीरादि तस्य निमित्तं गवादि दुह्यादीनां मुख्यकर्मणा स· म्बध्यमानमिति यावत् । तथा बुविशास्या गुजेन कारकेण कर्मणेति वा वत् ; कारकाणां क्रियां प्रति विशेषणत्वात् । तत्रापि कर्मण एव प्रकृत. त्वात् । यत्सचते सम्बध्यते । “क्या समवाये" (म्बा० उ०९९७) स्वरितेत । केचित्तु परस्मैपदिभिः सहेनं धातुं पठन्ति । "बच समवाये, रप लप व्यक्तायां वाचि" इति । तन्मते "पच सेवने" (स्वा०জ' १६३) इत्यस्यानुदातो घालून्यमनेकार्थत्वात्समवाये वृतिकच्या उभयथापि सम्बध्नातेः कर्मव्यापारे सचिर्वर्तते । अत एव कर्तृपक्षस्य प मपदेनार्थकथनं न विरुध्यते । “राध्बत्यो दन:ः" इत्यस्य पात्रे इत्यनेन यथा । उभयत्राप्योदननिष्ठविक्टिसेर्भानाविशेषात् । कविना मेधाकि ना सूत्रकारेण तदकीर्तितमित्याचरितं व्यवहृतमित्यर्थः । अपूर्वविधाविति । पूर्वोक्तानामपादानादिसंज्ञानां विषय कोणास्तीत्यर्थः । न चैवं वक्ष्यमाणयोर्हेतुकर्तृसंश्योर्विषयेऽतिप्रसङ्गः स्यादिति वाच्यम्, एकसं• शाधिकारेण पराभ्यां हेतुकर्तृसंज्ञाभ्यां कर्मसंज्ञायाः बाघात् । प्राञ्चस्तु
Page #140
--------------------------------------------------------------------------
________________
विभिशेषप्रकरणे कारकप्रकरणम् । १३१ पूर्वग्रहणमन्यमानोपलक्षणम् । तेन वक्ष्यमाणयोर्हेतुकर्तृसंशयोर्विषये ना. तिप्रसङ्गः । सूत्रेप्यकथितमिति कथननिवृत्तिपरायानोदनायां भूतकालो न विवक्ष्यते । यथा “पराजेरसोढः" (अष्टा०सू०१-४-२६) इत्यत्रासहि. ऽयमाणस्याप्यपादानसंशा भवति 'अध्ययनात्पराजयते' इति तोहा. पीत्याहुः । तम्चिन्त्यम् , उक्तरीत्या यथाश्रुतेऽपि सर्वसामञ्जस्यात् । "नीवह्योः" इति श्लोके गत्यर्थानामित्युत्तरसूत्रोपातानामुपलक्षणम् । चकारेण जयत्यादयो गृहान्ते इति कैयटः। माधवोप्याह
जयनेः कर्षनेमन्थेर्मुषेईण्डपतेः पत्रेः । तारेहेस्तथा मोचेस्त्यार्जेदार्पिश्च सहः ॥
कारिकायावशब्देन सुधाकरमुखैः कृतः ॥ इति । एतनिष्कर्षस्तु करिष्यते । कमेणोदाहरणानि-गान्दोग्ध पयः। अविनीतं विनयं याचते । ग्रामवरुणद्धि ब्रज़न । माणवकं थानं पृ. च्छति । पौरखं गां भिक्षते । वृक्षमवचिनोति फलानि । माणवकं धर्म ब्रूते शास्ति वा । अजां नयति ग्रामं, वहति भारं ग्रामं हरति व्रा, गम यति ग्राममित्यादि । जयते:-शत जयति देवदत्तम् । कृर्षति शाखां ग्रामम् । क्षीरनिधिं सुधां मथ्नाति । मुष्णाति शतं देवदतेन । गान् शतं दण्डयति । तण्डुलानोदनं पचति । तारप्रति कपीन् समुद्रम् । प्रा. हयति बटुनेदम् । मोचयति त्याजयति ना कोप देवदन्तम् । दीपयति शास्त्रार्थ शिष्यान् । __ स्यादेतत् , दुहादीनामर्थनिबन्धनेयं संज्ञा न तु स्वरूपाश्रया, "अ. हमपीदमचोद्यं चोद्ये" इति तद्राज़सूत्रभाग्ये पृच्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शनात् । तथा च भट्टिः
स्थास्तुं रणे स्मेरमुचो जगाद
मारीचमुच्चैर्वचनं महार्थम् । कालिदासोपिशिलोच्चयोऽपि क्षितिपालमुझेः
प्रीत्या तमेवार्थमभाषतेव । इति । भारविश्वउदारचेता गिरमित्युद्वारा वैपायनेमाभिवन्धे नरेन्द्रः। इति ।
तथाच मिरर्थपरत्वाद्यानेदपि सिद्धम् , तुल्यार्थत्वात। पौरवं गामर्थयते' इति यथा। तन्कि पाचेः पृथग्ग्रहफेनेति बेत १.अत्राहु, नुनयार्थोऽत्र याचतिः । विनयं याचते ! विनयायध्यासुनयत्तीत्यर्थात् भस्तु तर्हि याचेरेव ग्रहणम् । तस्यानेकार्थत्वाद्रिक्षेरपि सिमिति
Page #141
--------------------------------------------------------------------------
________________
१३२ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिकेचेत् ? न, अर्थभेदेन शब्दभेद इति दर्शनमाश्रित्यानुनयार्थस्यैव पाचेरिह प्रहणात् । अत एव हि नयतिग्रहणेनानुनयार्थस्यापि न गतार्थता । स्प. ष्टार्थ भिक्षेः पृथग्ग्रहणमित्यन्ये । चकारेण पचेग्रह इति यन्माधवा. दिभिरुक्तं तन्मतभेदेन । तथाच "कर्मवत्कर्मणा, (अष्टा०म०३-१-८७) इति सत्रे "दुहिपच्यार्बहुलं सर्कर्मकयोः" इतिवार्तिकव्याख्यावसरे पचेद्धिकर्मकता कैयटेन स्फुटीकृता । यत्तु “कर्तुरीप्सिततमम्" (अष्टा०सू०१-४-४९) इति सूत्र 'द्वयर्थः पचिः' इत्यादि भाष्यं तत्तु मतान्तरेण । अन्यथा तण्डुलानोदनं पचति' इति प्रयोगस्य यथाश्रुत. स्योपपत्तौ किं मुधा क्लेशेन । अत पव अकथितशब्दो यद्यप्रधानार्थों गृह्येत तदा 'पाणिना कांस्यपाध्यां दोग्धि पयः' इति पाणिकांस्यपा. ज्योरतिप्रसङ्गः । करणाधिकरणयोस्तु पचत्यादिरवकाशः। न हि तत्रा. स्य प्रसङ्गो दुहादिपरिगणनादित्यकथितसूत्रे कथयतः कर्मवत्सुत्रे तु पचेर्द्विकर्मकतां ब्रुवतो हरदत्तस्य न पूर्वापरविरोधः, मतभेदपरत्वात् । अत एव पचिधातुनिरूपणे 'तण्डुलानोदनं पचति' इति प्रयोगं द्विकर्मः कतयैव माधव उदाहृतवानिति दिक् । तथा प्राहेर्द्विकर्मकत्वं बहवो न मनिरे । अत एव
तमादौ कुलविद्यानामर्थमर्थविदां वरः।।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥ इति कालिदासश्लोके पूर्वार्धे नहेर्दुह्यर्थतया "गतिबुद्धि" (अष्टा० सू०१-४-५१) इति सूत्रेणाणो कर्तुर्णौ कर्मत्वात्तमिति योजयित्वा उत्त. राधैं तेनेति विभक्तिविपरिणामेन व्याचख्युः । अत एव च
अजिग्रहत्तं जनको धनुस्तद्येनार्दिददैत्यपुरं पिनाकी : जिज्ञासमानो बलमस्य बाव्होर्हसन्नभासीद्रघुनन्दनस्तत् ॥ इति भट्टिप्रयोगो जयमङ्गलायामित्थं व्याख्यातः। अजिग्रहत् अनेन धनुषा भगवता त्रिपुरदाहः कृत इति बाधितवानिति । युक्तञ्चैतत, श्री रघुपति प्रति नियोगकथनानौचित्येन स्वरूपोपस्थापनस्यैव कर्तव्यत्वात् । एतेन
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक । इति व्याख्यातम् , अहेर्बुद्ध्यर्थत्वात् । यद्वा, इषिशक्योस्तुमुनन्तस. मभिव्याहृतयोकिर्मकताया 'भाष्ये स्थितत्वात्सिद्धमेतदिति माधवः । आहेर्द्विकर्मताभ्युपगमपक्षे तु "जायाप्रतिग्राहितगन्धमाल्याम्" (र०व० २-१-) इति न सिध्येत् । तत्र हि "ण्यन्ते कर्तश्च कर्मणः" इति प्रयोज्ये धेनुरूपे कणि कः स्यात् । तथाच जायया गन्धमाल्ये प्रतिग्राहिता
Page #142
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१३३
येति विग्रहे बहुव्रीहिरेव न स्यात, त्रिकतः शेषस्य भाष्ये स्थितत्वात् । सत्यपि वा तस्मिन् पुंवद्भावो दुर्लभः । सिद्धान्ते तु प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहः । जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्कर्त्री मित्यर्थः । अन्यपदार्थान्तर्भावेणैव विशेषणविशेव्यवैपरीत्येनैवैकार्थीभावकल्पनात् । मासजातादिवत् । व्यपेक्षापक्षे तु तु अषष्ठीविभक्त्यर्थे वहुव्रीहौ सर्वत्र व्युत्पत्यन्तरकल्पनाऽस्त्येव । 'प्रा. तादेकम्' इत्यस्य हि उदककर्तृकप्राप्तिकर्मीभूतमर्थः । 'ऊढरथः' रथकर्मकवहनकर्ता । 'उपहृतपशुः' पशुकर्मकोपहारसम्प्रदानम् । 'उद्धृतौदनः' ओदनकर्मकोद्धरणापादानम् । 'वीरपुरुषकः' वीरपुरुषकर्तृकस्थि भ्यधिकरणमिति दिक् ।
स्यादेतत् । अपादानाद्यविवक्षायां द्विकर्मकताऽस्तु तद्विवक्षायान्तु "जायाप्रतिग्राहित" इत्यादि सेत्स्यति । मैवम्, “हरतेश्च" इति चकारेण समुच्चितानां जयत्यादीनामकथित सूत्रविषयत्वेऽपि "तथैव च " इति समुच्चितानामणौ कर्तुर्णौ कर्मताभ्युपगमात् । गत्यर्थैः साहचर्यात् । अत एव तार्यादयः पृथगेव सङ्ग्रहीताः । युक्तश्चैतत्, ग्रहणकर्तृत्वस्याविवक्षायां प्रयोजकस्य हेतुत्वाभावे णिचो दुर्लभत्वात् । न चैवं दीपि ग्रहणवैयर्थ्यामकर्मकत्वादेवाणी कर्तुर्णौ कर्मत्वसिद्धेरिति वाच्यम्, स्ताण्णिचि तत्सार्थक्यात् । शिष्याः तत्वं दीपयन्ति तानसौ प्रेरयतीत्यर्थः । नन्वेवं त्याजेः सङ्गृहीतत्वाद्यद्यपि "त्याजितैः फलमुत्खातैः” "मुक्ताहारञ्चिरपरिचितं त्याजितो दैवगत्या" इत्यादि सिद्धम् । तथापि गवा पयस्त्याजयतीत्यर्थ इति कैयटहरदत्तादिग्रन्थो विरुध्यते इति, चैत्रविशेषाविवक्षायां कर्मत्वेऽपि कर्तृत्वविवक्षायां तस्य निर्बाधत्वात् ।
ण्य
स्यादेतत्, "कर्तुरीप्सिततमं कर्म" (अष्टा०सु०२-४-४९ ) " तथायुक्तञ्चानीप्सितम् ” (अष्टा०सू०१-४-५० ) इति सूत्राभ्यां सर्वमिदं सिद्धम् । तथाहि यथा विक्लित्युपसर्जनं विक्केदनं पचेरर्थः, न्यग्भावनं रुहेः, द्विधाभावनं भिदेः, तथा त्यजनोपसर्जनं त्याजनं दुहेः, दापनं याचेः भिक्षेश्व; अङ्गीकारणमपि याचेः, प्रवेशोपसर्जनमवस्थापनं रुधेः, आख्यापनं पृच्छेः, मोचनं चित्रः, प्रतिवादनं ब्रूञः, तद्विशेषस्तु शासे. रित्यादि । एवञ्च धातूपासव्यापारविषयाश्रयत्वं गवादेः स्पष्टमेवेति । अत एवाकडारसूत्रे “अपादानमुत्तराणि, गान्दोग्धीत्यत्र परत्वात्कर्मसं शा" इति भाष्ये सङ्गच्छते । पञ्चकं प्रातिपदिकार्थ इति पक्षेऽवधित्वफलाश्रयस्वयोर्युगपद्विवक्षायां चेदम्, अवधिभूता या गौस्तनिष्ठां यः क्षरणानुकूलव्यापारस्तद्विषयिणी गोपनिष्ठा प्रेरणेत्यर्थात् ।
Page #143
--------------------------------------------------------------------------
________________
१३४ शब्दकौस्तुभम,माध्यायचतुर्थपादे तृतीयान्हिके--
अमोच्यते, कर्मणः शेषत्वेन विवक्षायां 'न माषाणामप्नीयात्' इति बत् षष्ठी बाधितुं सूत्रम् । अपादानत्वमात्रविनक्षायां तु पञ्चम्येव, गोः क्षीरविशेषणब्वे तु षष्ठी भवत्येवेति न कश्चिद्दोषः । तथाचेह षष्ठीसम्ब. मधमानं द्वितीयार्थ इति स्थितम् ।
अथेदं विचार्यते--कर्मणि विधीयमाना-लकृत्यक्तखलाः किं द्विकर्मकेन्यो मुख्ये कर्मणि स्युगौणे वेति । अत्र भाध्यम
प्रधानकर्मण्याख्येये लादीनाहुद्धिकर्मणाम् । __ अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥ इति । मभिधाने इति शेषः । अत्र द्विकर्मणामित्यनेन "नीवयोहरतश्च" इति च शब्दसमुश्चितः कृषिर्तयत्यादयश्च त्रय उच्यते, अन्येषां विशेषस्य वश्यमाणत्वात् । तथा दुह्यादीनाभित्यनेन कारिकोपासाः, चशब्दसमु बिसेष्वहेतुमण्ण्यन्ता दण्ड्यादयश्वोच्यन्ते । ण्यन्त इत्यनेन तु गत्यादि. सूत्रोपात्ताश्चशब्दसमुच्चितास्तार्यादयश्च । तत्र अणौ कर्म तस्याभिधाने लादय इत्यर्थः । तत्रापि बुद्धिमत्यवसानार्थशब्दकर्मकेषु गुणकर्मणीति मतान्तरम् । तथाच भाष्यम्--
कथितेऽभिहिते त्वविधिस्त्वमत्तिर्गुणकर्मणि लादिविधिः सपरे । ध्रुवचेष्टितयुक्तिषु चाथ गुणे तदनल्पमतेर्वचनं स्मरत ॥ इति । भत्र प्रधानकर्मणि लादिभिरभिहित्ते गुणकर्मणि षष्ठीत्येकीयमतदू षणपरः प्रथमः पादः । स्वस्या षष्ठ्याः विधिरितीयं त्वस्य अन्यस्य म. तिन तु ममेत्यर्थात् । सपर गत्यादिमत्रोपात्तसहिते दुह्यादौ गुणकर्माण लादयः । गुणकर्मेति । पुरुषप्रवृत्तेः पयःप्रभृत्यर्थत्वाद् दुहादावप्रधानं ग. वाधुच्यते : ण्यन्ते तु शब्दतः प्रयोजकन्यापारस्य प्राधान्यम् । प्रयो ज्यव्यापारस्य त्वप्राधान्यमिति तदार्थधर्माधुच्यते । धुवयुक्तयोऽ. कर्मकाधेष्टितयुक्तयो गत्यर्थाः। एप्वगुणे प्रयोज्ये । न च बुद्धिप्रत्य. घसानार्थशब्दकर्मकेषु गुणकर्मण्येव स्यात् ण्यन्ते कर्तुश्चेत्यस्य सप र इत्यनेन बाधादिति वाच्यम, अपर आहेति भाष्येण मतान्तरता. धक्साया । भवाय सङ्ग्रहः
गौणे कर्मणि दुह्यादेः प्रधाने नाहकम्वहाम् । बुद्धिप्रत्यवसानार्थशब्दकर्मसु चेच्छया । प्रयोज्यकर्मण्यन्येषां ण्यन्तानामिह निश्चितः ।
लकृत्यक्तखलानां प्रयोगो भाग्यपारगैः ॥ तत्र नीप्रभृतीनां प्रधानकर्मसम्बन्धोऽन्तरङ्गः । दुह्यादीनान्तु विप.
Page #144
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् । १३५ रीतम् । तेन तदंशे न्यायसिद्धो नियमः । इतरतु सर्व वाचनिकम् । क्रमेणोदाहरणानि--गौर्दुह्यते पयः । दोहा दुग्धा सुदोहा। अजा प्राम नीयते।नेया नीता सुनया । बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा । देवदत्तो ग्रामं गम्यते गमयितव्यः गमितः सुगम इति । यत्तु कोमुद्यां दुह्याच्यर्थेत्यादिना दुह्यादीन् न्यादींश्च द्वैराश्येन पठित्वा न्याद. यो मुख्ये दुह्यादयो गौण इत्युक्तम् । तत्र ग्रहः पाठो निर्मूल एव । “जग्रा. ह धुतरं शक्रम्" इत्युदाहरणश्चायुक्तम् । इतरेषान्तु द्विकर्मकतामात्रता. त्पर्यकः पाठः । न्यादयो दुह्यादयश्चेत्युभयत्राप्यादिशब्दः प्रकारे इति सिद्धान्ताविरोधेन व्याख्येयम । यथाश्रुते हि दण्डिमुषिभ्यां मुख्य स्यात् । तथाच 'गर्गाः शतं दण्ड्यन्ताम्' इति भायं विरुध्यत । शतं त्वत्र प्रधान, गर्गाः अर्थिनश्च राजानो हिरण्येन भवन्तीति वाक्य. षात् । दण्डिश्चेह ग्रहणार्थो न तु निग्रहार्थः। अत एव ह्यत्र समुदाये वा. क्यसमाप्तिः, गुणानुरोधेन प्रधानावृत्तेः सम्भवात् । तथा मन्थेरपि प्र. धाने स्यात् । इष्यते तु गौणे । तथा च भारविः
येनापविद्धसलिलः स्फुटनागसद्मा
देवासुरैरमृतमम्बुनिधिर्ममन्थ । इति । अमृतं ह्यत्रोद्देश्यतया मुख्यम् । अम्बुनिधिस्तु गौणः। यदपि अन्ये तु यथारुचीत्युक्त्वा “गोपीहावमकार्यत भावश्चैनामनन्तेन" इत्युदा. हुतम् । तदपि न, ण्यन्ते कर्तुश्च कर्मण इति सिद्धान्तात् । यद्वा, "कृ विज्ञाने" इतिचुरादावात्मनेपदीबोपदेवेन पठितः । तस्येदमुदाहरणम्, बुद्धर्थेषु पक्षद्वयस्योपपादितत्वात् । यत्तु श्रीहर्षः प्रायुत
स्वक्रीडाहंसमोहग्राहिलशिशुभृशधार्थितोनिद्चन्द्रा। इति,
तश्चिन्त्यम् , शिशुना चन्द्र प्रार्थित्वप्रधाने कप्रत्यये बहुव्रीहयो गात् । वक्ष्यति हि-अप्रथमाविमत्यर्थे चायमिति । न च चन्द्रे का, "अप्रधाने दुहादीनाम्" इत्युके । अतएव "काकपक्षधरमेत्य याचितः" इदि कालिदासः।
कृषष्ठी गुणमुख्याका कर्मभ्यां प्राप्यते पृथक् । अविशेषाद् द्वितीयावनेता ग्रामस्य गोरिति ॥ यत्रत्येकन शब्दन भिन्नकश्यद्वयाभिधा । न शक्यते तत्र युक्तमेकस्यैवोपजीवाम् ॥ प्रधाने नियता षष्ठी गुणे ह्युभयथा भवेत् ।
इत्याह गोणिकापुत्र इति भाण्याद् गुणद्वयम् ॥ नेताम्यस्य स्रुध्नस्य खुध्नं वा । इह प्रधाने कर्मणि नित्या षष्ठी
Page #145
--------------------------------------------------------------------------
________________
१३६ शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
भाष्यकारवचनान्तु गुणकर्मणि वैकल्पिकीति स्थितम् । नन्वकर्माणां प्राकृतकर्माभावात्कथं द्विकर्मकता ? तथाच ण्यर्थकर्मणि प्रत्ययोऽस्तु 'आस्यते माणवकः' इति । मासमिति तु प्रयोगोऽसङ्गतः । “ध्रुवचेष्टितयुक्तिषु वाप्यगुणः" इति लोके ध्रुवग्रहणञ्च व्यर्थमिति चेत् ? न, "कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणां, देशश्चाकर्मकाणाम्” इति भाष्याद्गन्तव्योऽध्वा अद्य गन्तव्यः । अस्मादेव निपातनाद् गन्तव्यशब्दस्य परनिपातः । गन्तव्यतया लोके प्रसिद्धस्य नियतपरिमाणस्य को. शयोजनादेरेव ग्रहणम् । तेन 'अध्वानं स्वपिति" इति न भवति । मा समास्ते । गोदोहमास्ते । यावता कालेन गौदुह्यते तावन्तं कालमास्ते इत्यर्थः । क्रोशमास्ते । कुरून् स्वपिति | जन्यमात्रं कालोपाधिरिति पक्षे गोदोहादेद्यपि कालत्वात्सिद्धं तथापि लोके मासादेरेव तथात्वेन प्रसिद्धत्वात्पृथग्भावग्रहणम । देशशब्देन च ग्रामसमुदायविशेषाः कु· रुपञ्चालादयो गृह्यन्ते इति कैयटः । तेन "अधिशीस्थासाम्” (अष्टा० सू०१-४-४६) इत्यादेर्वैय्यध्ये नेति ध्येयम् । " कालाध्वनोरत्यन्तसंयोगे" (अष्टा०सू०२-३-५) इति तु गुणद्रव्ययोरर्थे आरम्भणीयम् । कोशं कुटिला । मासगुडधानाः । सकर्मकार्थञ्च । मासं वेदमधीते । यद्वा, आस्यादयस्तत्पूर्वके व्यापने वर्त्तन्ते । तथाचेोत्सर्गेणैव सिद्धम्, मास. मासनेन व्याप्नोतीत्यर्थात् । तथाच द्वितीये भाष्यम् - "प्राकृतमेवेदं कर्म" इति । न चैवं सकर्मकेष्वप्यतिप्रसङ्गः, लक्ष्यानुरोधेनाकर्मकाणामेयोक्तप्रकाराभ्युपगमात् । आह च
कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः ।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ॥ इति ।
1
हेलाराजस्त्वाह । सकर्मकेष्वपि मासमोदनं पचतीति भवत्येव । अत एवोकं सर्वैरिति । अकर्मकैरिति त्वविवक्षितमिति । कैयटोऽप्येवम् । अस्मिन्पक्षे 'मासमास्ते कटे' इति कटादेरपि द्वितीया प्राप्ता तथापि कालादेरेव व्यापनकर्मत्वं न तु कटादेरिति हेलाराजः । अनभि धानञ्चेह शरणम् । 'अधिशीङ्” (अष्टा०सू० १ - ४ - ४६ ) इत्यादिज्ञापकं वा बोध्यम् । इह च कर्मणि भावे च लकारे 'दवदेत्तेनास्यते मासौ मासे' वा' इति रूपद्वयमपीष्टम् ।
स्थादेतत्, भावेचाकर्मकेभ्य इति वचनान्मासादिकर्मकात्कथं भाव ल इति चेत् ? उच्यते, अकर्मकेभ्य इत्यनेनान्तरङ्गं द्रव्यकर्म व्युदस्यते न तु बहिरङ्गं कालादिकर्म । कर्मणीत्यत्र तु व्यक्तिपक्षाश्रयणादन्तरङ्गासन्निधौ बहिरङ्गे कालादिकर्मण्यपि प्रतिरविरुद्धा, जातिव्यक्ति पक्षयो
Page #146
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
लक्ष्यानुरोधेन व्यवस्थेति सिद्धान्तात् । उक्तञ्च हरिणा
शक्तिप्रमाणसंख्यादेव्यधर्माद्विशिष्यते क्रियासु कालयोगोऽतः प्राग्योगो द्रव्यकर्मणा ॥ इति ॥ अतस्तैः कर्मभिर्धातुर्युक्तो द्रव्यैरकर्मकः।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ इति च । एतेन
"सस्तेमाघमघाभिधानि यमुना गङ्गौघसने यया" इति श्रीहर्षप्रयोगो व्याख्यातः।
गतिबुद्धिपत्यवसानार्थशब्दकमाकर्मकाणामाण कर्ता स गो (अष्टा० सू०१-४-५२) । गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यः कर्ता स णो कर्म स्यात् । नियमार्थमिदम्-णिजथैनाप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेवेति । तेन 'पाचयति देवदत्तो यज्ञदत्तेन' इत्यत्र प्रयोज्ये पूर्वप्रवृत्तकर्तृसज्ञाया एव निरपवादत्वेनावस्थानात्तृतीया सिध्यति । आह च
गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मताङ्गतः।
नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥ इति । कर्तुः स्वधर्मेण तृतीययेत्यर्थः । 'गमयति माणवकं ग्राम' ग्रामकर्मक यद्गमनं तदनुकूलव्यापाराश्रय इत्यर्थः।
नीवह्योः प्रतिषेधो वक्तव्यः ॥ यद्यप्येतयोः प्रापणमर्थो न तु गति. स्तथापि विशेषणतया गतिरपि वाच्यकोटिनिविष्टेत्येतावन्माण प्राप्ति मत्वा प्रतिषेध उक्तः। नाययति वाहयति वा भारं देवदत्तेन । वहेरनि. यन्तृकर्तृकस्यैव प्रतिषेधः ॥ नियन्तृकर्तृकस्य प्रयोज्यः कर्मेति वक्तव्य. मिति फलितोऽर्थः। वहन्ति वाहाः वाहयति वाहान् रथिनं सुतः । "या प्रापणे" (अ०प०१०४९) इत्यत्र तु गतिरेव प्रापणशब्दार्थः, याति गच्छतीत्येकार्थप्रतीतेः । तेन 'कालं पाचयति' इत्यादौ प्रयोज्य. स्य कर्मता बोध्या । बुध्यर्थग्रहणेन शानसामान्यवाचिन एव गृह्यन्ते न तु तद्विशेषवाचिनः स्मरत्यादयः । अत एव श्रुशोरुपसङ्ख्यानं करि. ध्यते । बोधयति माणवकं धर्मम् । प्रत्यवसानं भक्षणम् । भोजयति आ. शयति माणवकमोदनम् ।
आदिखाद्योः प्रतिषेधो वक्तव्यः ॥ आदयति खादयत्यन्नं बटुना ।
भक्षरहिंसार्थस्य प्रतिषेधो वक्तव्यः ॥ हेतुमण्णिजन्ते विधिरिति प्रतिषेधोऽप्यणावित्ययं सन्निधानात्तद्विषयः । तेन चुरादिणिजन्तेऽपि भक्षयती प्राप्तिसत्त्वात्प्रतिषेध उपसङ्ख्यातः । भक्षयत्यन्नं बटुना। अ.
Page #147
--------------------------------------------------------------------------
________________
१३८
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
हिंसार्थस्येति किम् ? भक्षयन्ति बलीवः सस्यम् । भक्षयति बलीव. र्दान् सस्यम् । क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा द्रष्टव्या, तस्या मवस्थायान्तेषां चेतनत्वाभ्युपगमात् । शब्दः कर्मकारकं येषान्ते शब्द. कर्माणः, न विह "कर्तरि कर्मव्यतिहारे" ( अष्टा सू०१-३-१४ ) इत्यत्रेव कर्मशब्दः क्रियापरः, गतिबुद्धिप्रत्यवसानशब्दाति वक्तव्ये. ऽर्थशब्दात्कर्मशब्दस्य पृथगुपादानात् अध्याययति पाठयति माणवकं वेदम् । __ जल्पतिप्रभृतीनामुपसङ्ख्यानम् ॥जल्पयति विलापयति आभाषयति पुत्रं देवदत्तः। -दृशेश्वोपसङ्ख्यानम् ॥ दर्शयति हरि भक्तान् । यद्यपि शेर्शानसा. मान्यपरत्वे बुध्यर्थत्वादेव सिद्धं तथापि ज्ञानविशेषार्थतायां न सिध्य. तीत्युपसङ्ख्यानमारब्धम् । 'श्रावयति श्लोकं देवदत्तम्' इति तु शब्द. कर्मत्वात्सिद्धम् । शब्दक्रियाणामिति व्याख्याने तु शृणोतेरुपसङ्ख्येयं स्यात् । व्हयतिक्रन्दत्योश्च प्रतिषेध्यं स्यात् । व्हाययति क्रन्दयति वा देवदत्तेन । दृशेस्तूभयथाप्युपसङ्ख्येयं स्यात् । शब्दायतेश्चोभयथा प्रति. षेध्यम् । अकर्मकत्वादपि ह्यत्र प्रसङ्गः । शब्दलक्षणस्य कर्मणोन्तर्भावात् कर्मान्तरायोगाच्च । शब्दाययति देवदत्तेन । अकर्मकग्रहणेन तु येषां कालादिभिन्नं कर्म न सम्भवति ते गृह्यन्ते, न त्वविवक्षितकर्माणोऽपि । तेन 'मासमासयति देवदत्तम्' इत्यादी कर्मत्वं सिद्धम् । 'देवः दत्तेन पाचयति' इत्यादौ च न भवति । गत्यकर्मकेति सूत्रेऽप्येवम् । अत एवाविवक्षितकर्मकेभ्यः पचिददातिप्रभृतिभ्यः कर्तरि को न । अ. न्यथा 'पक्ववान् 'दत्तवान्' इत्यर्थे 'पक्वः' 'दत्तः' इति स्यात् । "ल: कर्मणि" (अष्टासू०३-४-६९) इति सूत्रे तु अविवक्षितकर्मणामसम्भव. कर्मणां वा ग्रहणम् । अत एवाविवक्षितकर्मणां न भावे लादय इतीह सूत्रे वदतो "णेरणौ" (अष्टा सू०१-३-६७) इत्यत्र तु 'नेह पच्यते' इति भावे लकार इति अवतो हरदत्तस्य मतभेदपरत्वान्न पूर्वापरविरोध इति दिक् ।
हकोरन्यतरस्याम् (अष्टासु०१-४-५३) । हाच का ऐति विग्रहः । हुश्च क्रुश्चेति वा । अनयोरणौ कर्ता गौ वा कर्म स्यात् । नवेतिवि. भाषासूत्र उभयत्रविभाषास्विदं वार्तिककृता पठितम् । तथाहि, 'अभ्य. वहारयति माणवकमोदनं माणवकेन वा' इत्यत्र प्रत्यवसानार्थत्वात्प्राते 'विकुर्वते छात्राः, विकारयति छात्रान् छात्रैर्वा' इत्यत्राकर्मकत्वात्प्राप्ते इतरत्र स्वप्राप्त विभाषेयम् ।
Page #148
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे निपातसज्ञाप्रकरणम् । १३९ अभिवादिदृशोरात्मनेपदे वेति वक्तव्यम् ॥ अभिवादयतेरप्राप्त वि. भाषा। दृशेस्तु बुद्ध्याद्यर्थत्वादुपसङ्ख्यानाद्वा प्राप्ते । अभिवादयति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्त देवदत्तेन वा । "णिचश्च" (अष्टा०९०१-३-७४) इत्यात्मनेपदम् । परस्मैपदे तु 'अभिवादयति गुरुं देवदत्तेन' । दर्शयते राजानं भृत्यान् भृत्यैर्वा । कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात् "णेरणौ" (अष्टा०स०१-३-६७) इत्यात्मनेपदमन्यत्र तु "णिचश्च" (अष्टा सु०१-३-७४) इतीति प्राञ्चः । वस्तुतस्तु "णिचश्च" इत्येव युक्तम् । “णेरणौ" इत्यस्य तु नायं विषयः, णिज्वाच्यप्रयुक्तिभे. दादिति तत्रैवोपपादितम् ।
स्वतन्त्रः कर्ता (अष्टासु०१-४-५४) । क्रियायां स्वातन्त्र्येण विव. क्षितोऽर्थः कर्ता स्यात् । धातूपात्तव्यापाराश्रयत्वं स्वातन्त्र्यम् । आह च
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते । इति । __ कर्मकर्तर्यप्यस्तीदम् । फलव्यापारयोर्वैयधिकरण्यमात्रस्य पचावी. सर्गिकस्य परं त्यागः । विशकलितशक्तिपक्षे विशिष्टशक्तिपक्षे चेदं तुल्यम् । निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितमिति पक्षे तु प्रधान. भूतधात्वर्थ एवेह क्रिया, धातुत्वं तु भूतपूर्वभावनार्थत्वात् । एतेन का. रकाणां क्रियान्वयनियमोऽपि द्वेधा व्याख्यातः । देवदत्तः पचति । स्था. ली पचति । अनन्यलभ्यस्य शब्दार्थत्वादाश्रयो लकारार्थः । देवदत्तेन पच्यते । देवदत्तरूपो य आश्रयस्तद्विशिष्टो विक्लित्त्यनुकूलव्यापार इत्यर्थः । वैशिष्टयं चाधेयतारूपं संसर्गमर्यादया भासते ।
तत्प्रयोजकोहेतुश्च (अष्टा०सू०१-४-५५) । तस्य कर्तुः प्रयोजको हेतुसज्ज्ञः स्याच्चाकर्तृसज्ञः । संज्ञासमावेशार्थश्चकारः। कुर्वन्तं प्रेर. यति कारयति हरिः । हेतुत्वात्तद्यापारे "हेतुमति च" (अष्टासु०३-१२६) इति णिच् । कर्तृत्वाकर्तरि लकारः ।
॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य
चतुर्थे पादे तृतीयमान्हिकम् ॥
प्राग्रीश्वरानिपाताः (अष्टा०सु०१-४-५६) । “अधिरीश्वरे' (अष्टा० सू०१-४-९७) इत्यतः प्राक् प्राङ् निपाता इत्यधिक्रियते, तन्त्राद्याश्र. यणात् । तेन पूर्व निपातसमाः सन्तः पश्चात्यादिसञ्ज्ञा इत्यर्थात्संज्ञा. समावेशः सिध्यति । अन्यथा गत्युपसर्गकर्मप्रववनीयसझानां निपा. तसायाश्च पर्यायः स्यात् । तन्त्रादौ प्रमाणं तु प्राग्ग्रहण सामर्यमेव ।
Page #149
--------------------------------------------------------------------------
________________
१४० शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिकेअन्यथा रीश्वरादिति पञ्चम्यैव दिक्शब्दापाकिं तेन ? न च परश ब्दाक्षेपप्रसङ्गः । “चादयोऽसत्त्वे" (अष्टा०सू१-४-५७) "प्रादयः" (अष्टा० सु०१-४-५८) इत्येतयोर्विधेययो भेनानन्वयापत्तेः । रेफविशष्टग्रहणं किम् ? "ईश्वरे तोसुन्कसुनौ" (अष्टा सू०३-४-२३) इत्यस्य व्याप्तिन्या. येनावधित्वं मा भूत् । वस्तुतस्तु मास्तु रेफः प्रत्यासत्याऽभिमतसिद्धेः अव्ययीभावस्याव्ययसज्ञारम्भाञ्च । न चासो समासेऽप्यव्ययीभाव एवे. ति नियमार्थ स्यादिति वाच्यम्, गौरवग्रस्तं व्याप्तिन्यायमाश्रित्य निः यमार्थत्ववर्णनापेक्षया प्रत्यासत्तेर्विध्यर्थतायाश्च न्याय्यत्वात् । अत एव "नलोक" (अष्टा०स०२-३-६९) इति सूत्रे अव्ययात्पृथक् लोकादीनां ग्रहणमप्युपपद्यते इति दिक् ।
चादयोऽसत्त्वे (अष्टा सू०१-४-५७) । चादयो निपातसज्ञाः स्युः न तु द्रव्ये । निपातत्वादव्ययत्वम् । च वा इत्यादि
वस्तपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥ लिङ्गसंख्यान्वयि द्रव्यमिति वा । असत्त्वे किम् ? पशुना यजेत, पशु. शब्दश्वादिः । 'चः समुच्चये' इत्यपि प्रत्युदाहरणम् । न चात्र "प्रकृति. बदनुकरणम्" (प०भा०३६) इत्यतिदेशात् निपातत्वं दुर्वारमिति वाच्यम्, अतिदेशस्यानित्यतायाः ऋलसूत्रे एवोपपादितत्वात् । प्रसज्यप्रतिषेधः किम् ? वातीति वाः, विप्रातीति विप्रः । इह किया. विशिष्टद्रव्यवाचकतया क्रियायाश्चासत्त्वरूपत्वान्निपातता स्यात् । ततश्च वेप्रशब्दस्याप्यव्ययसमा स्यात् . "प्रयोजनं सर्वनामाव्ययसना. याम्" (म०भा०) इत्युकत्वात् ।
अथ चादयः-ववाह अह एव एवं नूनं शश्वत् युगपत् भूयस कृपत् प्रश्नवितर्कप्रशंसास्वयम् । एवं सुपदपि । कुविदिति भूयोऽर्थे योगप्रशंसास्तिभावेषु च । नेदिति शङ्कायान् । “नेजिमायन्तो नरकं पताम" | "नेदेवलापुन जन्नदेवाः" इत्यादौ तु न इदिति पदद्वयं पठ्यते । तस्मान्निपातसमुदायोऽयं बोध्यः "निपातैर्यद्यदि'' (अष्टा०सु. ८-१-३०) इति निघातनिषेधः । प्रतिषेधविचारसमुच्चयेवयमिति तु शाकटायनः । चेत् । चण् । अयं चेदर्थे णित् , संमुखयादौ त्वननुब.
धः । इदं च "निपातैर्यद्यदि" (अष्टा०सू०८-१-३०) इत्यत्र स्फुटीम विष्यति । कच्चित् । यत्र । नह निश्चितनिषेधे । हन्त हर्षेऽनुकम्पाय च । माकिः माकीम् एतौ निधे । माकिर्नेशन्माकी रिषन्माकी संशा रिके वटेत् किस्सम्भावितनिषेधेन किरिन्द्रत्वदुत्तरः । नकिरवायथा.
Page #150
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे निपातसञ्ज्ञाप्रकरणम् ।
१४१
त्वंहिकंनुकम् | सुकंआकी नकी नकिः । माकीं माकिः । आकृतमिति वेदनिघण्टुः | आमिश्राणि नवोत्तराणीति तद्याख्यायां यारुकः । माङ् । "माङि लुङ्” (अष्टा०सु०३ -३ - १७५) इतिविशेषणार्थो ङकारः । म भवतु मा भविष्यतीत्यत्र निरनुबन्धो माशब्दः । नञ् । ञकारो “नलोपो नञः” (अष्टा०सु०६-३-७३) इति विशेषणार्थः । नस्येत्युक्ते तु वा 'पाम नपुत्रः' इत्यत्रापि स्यात् । न च सिद्धान्तेऽपि स्त्रैणपुत्रेऽतिप्रसङ्गं वारयितुम् "अलुगुत्तरपदे" (अष्टा०सू०६-३ - १ ) इत्युत्तरपदाक्षिप्तेन पूर्वपदेन नञोऽवश्यं विशेषणीयत्वात्तेनैव पामनपुत्रस्यापि सिद्धेः किं अकारेणेति वाच्यम्, "नैकधागमिकर्मीकृत नै कनीवृता" इत्यादौ निषेधार्थेन नशब्देन 'सह सुपा" ( अष्टा०सु०२-१-४) इति समासेऽतिव्याप्तिं वारयितुं ञित्वस्याप्यावश्यकत्वात् । नञ । पूर्वपदस्य विशेषणेऽपि अनन्यार्थञित्वस्य निपातस्यैव ग्रहणं न तु वृद्ध्या चरितार्थत्रकारस्य तद्धितस्यापीति तु प्राचां ग्रन्थस्योक्तिसम्भवो बोध्यः । यावत् । तावत् । त्वै वे एतौ वितर्के । श्रौ. षट् । वौषट् । स्वाहा । वषट् । स्वधा । ॐ । तथा । हिरुक् । खलु । किल | अथ । सुष्ठु | आदहेति हि सोपक्रमकुत्सनेषु । 'आदहस्व धाप्रन्' इत्यत्र तु पदकारा आदिति पृथक् पठन्ति । उपसर्गविभक्तिस्वर प्रतिरूपकाश्च ।
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥
1
|
" अच उपसर्गात्तः” (अष्टा०सु०७-४-४७) इति घोरतत्वं न भवति, उपसर्गप्रतिरूपकत्वेप्यनुपसर्गत्वात् । विभक्तिप्रतिरूपको यथा-अहम् शुभम् । अहंयुः, शुभंयुः - "अहंशुभमोर्युस्” (अष्टा०सू०५-२-४०) चिरेण । अन्तरेण | चिराय | अचिरात् । अकस्मात् । चिरस्य मम । ममत्वं गतराज्यस्य । वेलायां मात्रायामित्यादि । एतेन "गेये केन विनीतौ वाम्" इति व्याख्यातम् । वामित्यस्याव्ययस्य युवामित्यर्थात् । आह आसेत्या. दीनि तु तिङन्तप्रतिरूपकाणि । स्वरास्तु सम्बोधन भर्त्सना नुकम्पापादपूरणप्रतिषेधेषु यथासम्भवं बोध्याः । अ अपेहि । आ एवं मन्यसे । इ इन्द्रं पश्य । ई ईशः । ऊ ऊपरे बीजं वपति । ए इतो भव । ओश्रावय । ऋ ऋ लऐ औ एते मन्त्रस्तोमाः । पश्विति सम्यगर्थे । लोधं नयन्ति पशु मन्यमानाः । शुकमिति शीघ्रत्वे । यथा कथाचेत्यनादरे । पाट् प्याट् अङ्ग है हे भो अये इत्यादयः सम्बोधने । घेति हिंसाप्रातिलोम्यपादपूरणेषु । विषु इति नानार्थे । एकपदे इत्यकस्मादर्थे । निहन्त्यरीनेकपदे । पुत इति कुत्सायाम् । कुत्सितमवयवञ्छादयति इति पुच्छः । डः ।
Page #151
--------------------------------------------------------------------------
________________
१४२ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिके-- पुलिति लान्तमिति शाकटायनः । कुत्सितं कसति गच्छतीति पुलक सः। अस्मीत्यहमर्थे । त्वामस्मि वच्मि विदुषां समवायोत्र तिष्ठति । आत इति इतोऽपीत्यर्थे । इत्यादि । आकृतिगणश्चायम्।।
प्रादयः (अष्टा सू०१-४-५८) । एते निपातसंज्ञाः स्युन तु सत्त्वे । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप एते प्रादयः । तत्र निस् दुस् इमौ सान्तौ । “निसस्तपतावनालेवने" (अष्टा०सू०८-३-१०२) इतिनिशा. दिति "उपसर्गस्यायतौ" (अष्टा०सू०८-२-१९) इति सूत्रे वृत्तिः। "निरः कुषः" (अष्टा सू०७-२-४६) "सुदुरोरधिकरणे" इत्याद्यनुरोधाद्रेफा. न्तावपीति तत्रैव सूत्रे हरदत्तः । अद्रव्ये किम् ? वि पक्षी । पराः सेनाः। ___ उपसर्गाः क्रियायोगे (अष्टा सु०१-४-५९) । प्रादयः क्रियायोगे उप. सर्गसंज्ञाः स्युः।
गतिश्च (अष्टा०स०१-४-६०)। प्रादयो गतिसंशाः स्युः क्रियायोगे। पुल्लिङ्गोऽयं गतिशब्दः, “गतिरनन्तरः" (अष्टा सू०६-२-४९) इति लि. ङ्गात् । अव्युत्पन्नश्चायं क्तिजन्तो वा । "न क्तिचि दीर्घश्च" (अष्टा०सू० ६-४-३९) इति तु न प्रवर्तते, अत एव निर्देशात् । उपसर्गसंज्ञया सह समावेशार्थश्चकारः । अन्यथा पर्यायः स्यात् । तेन 'प्रणेयम्' इत्यादौ णत्वं कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति । निपातसंज्ञायास्तु समावेशः प्राग्ग्रहणेन साधित एव । इह यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युप. सर्गसंज्ञाः, योगग्रहणसामर्थ्यात् । तेन प्रवृद्धं कृतं प्रकृतमित्यत्र “गतिरनन्तरः" (अष्टा०सू०६-२-४९) इति स्वरो न, कर्मणि कान्तं प्रत्यगतित्वात् । कृार्थविशेषकत्वे तु स्यादेव । तथा प्रवृद्धो भावःप्रभावः' इत्यत्र "श्रिणीभुवोनुपसर्गे" (अष्टा सू०३-३-२४) इति घञ् सिद्धः। एवं 'प्रणा. ययति' 'अभिपाचयति' इत्यादौ प्रकृत्यर्थगतप्रकर्षाभिमुख्यद्योतकतायां णत्वषत्वे स्तः । ण्यर्थविशेषकत्वे तु नेति बोध्यम् । निपातसंज्ञा तु क्रिया योगं विनाऽप्यस्ति । एतदर्थमेव हि प्रादय इति योगो विभक्तः । तेन 'प्रगत आचार्यः प्राचार्यः' इत्यत्राव्ययपूर्वपदप्रकृतिस्वरः सिध्यति । ___ उपसर्गसंज्ञायां मरुच्छब्दस्योपसङ्ख्यानम् । मरुत्तः । उपसर्गसंज्ञाविधानसामादजन्तत्वाभावेपि "अच उपसर्गात्तः" (अष्टासु०७-४४७) इति तत्वं प्रवर्तते इत्याहुः । एवञ्च मरुन्न यतीत्यत्र णत्वमपि प्राप्नो. ति। तस्मात्तत्व एव संज्ञा वकन्या। अत एव किविधिरङ च न भवति । निपातसंज्ञा तु नास्येष्टा। तेन "तृतीयाकर्मणि" (अष्टा०सु०६-२-४८) इति पूर्वपदप्रकृतिस्वरे कृते मरुत्तशब्दो मध्योदातः। निपातये त्वायुदात्तः
Page #152
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गतिसज्ञाप्रकरणम् ।
१४३
स्यात्। न च "उपसर्गाश्चाभिवर्जम्” (फि०सू०८१) इति फिट्सूत्रादोषता. दवस्थ्यं शङ्कयम् "निपाता आधुदात्ताः” (फिसू०८०) इत्येव सिद्धेऽभेः प्रतिषेधमात्रार्थ तत्सूत्रारम्भादिति हरदत्तादयः । अत एव नाभिरित्येव मुन्यताम् । मास्तु वा तदपि, एवादिषु अभेः सुपठत्वादित्यवोचाम । एवञ्च "तपर्वमरुभ्याम्" इति मरुतशब्दव्युत्पादने उपायान्तरं बोध्यम् । तत्र च तपः पित्वमेव सम्यक् । तन्निति नित्वपाठस्तु काचित्कः प्रामादिकः । अन्यथा मरुत्तशब्दस्यायुदात्ततापत्तौ प्रकृतसूत्रस्थकैयटादिवि. रोधापत्तेः । मत्वर्थीयप्रकरणे तनो नित्वं मरुत्तशब्दस्यायुदात्ततां चाव. लम्ब्य प्रवृत्तो हरदत्तग्रन्थस्तु चिन्त्यः । “पर्वतश्चिन्महि वृद्धो विभाषा" इत्यादौ पठ्यमानं पर्वतशब्दस्यायुदात्तत्वं तु द्वेधापि सिध्यति । “नब्वि षयस्यानिसन्तस्य" (फि०सू०२६) इति पर्वतशब्दस्यायुदात्तत्वात् ।
श्रच्छब्दस्याड्विधावुपसङ्ख्यानम् ॥ श्रद्धा। भिदादिपाठात्प्रज्ञाश्रद्धतिीनपातनाद्वा सिद्धम् । __ अन्तःशब्दस्याङ्किविधिणत्वेषूपसङ्ख्यानम् ॥ एतच "अन्तरपरिग्रहे" (अष्टा०९०१-४-६५) इत्यत्र भाष्ये स्थितम् । अन्तर्धा । अन्तर्द्धिः । अन्तहण्यात् । "हन्तेरत्पूर्वस्य' (अष्टा सु०८-४-२२) इति णत्वम् । एव. श् “अन्तरदेशे' (अष्टा सू०८-४-२४) इति न कर्तव्यम् । देशे तु क्षुभ्ना. दित्वाण्णत्वाभावः । अयनं चेत्यपि न कर्तव्यं "कृत्यचः' (अष्टासु०८४-२९) इति सिद्धेः । देशे तु क्षुम्नादिना बोध्येति कैयटः। देशे निषे. धार्थ सूत्रद्वयमिति तु हरदत्तः । पक्षद्वयेऽपि 'अन्तर्णयति' 'अन्तर्भवाणि' इत्यादी यथायथं णत्वं बोध्यम् ।
सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेषु ॥ सुलभं । दुर्लभम् । "उपसर्गात्खल्योः " (अष्टा सू०७-१-६०) इति नुम् । न एतच्च प्रयो. जनमापाततः "नसुदुभ्यो केवलाभ्याम्" (अष्टासू०७-१--६८) इति सू. त्रस्यावश्यारभ्यत्वात् । अन्यथा 'अतिसुलभम्' इत्यत्र नुम् न स्यात् । तत्व-सुदत्तम् । “अच उपसर्गात्" (अष्टा०स०७-४-४७) इति तत्वं मा भूत् । षत्वं-दुःस्थितिः। प्रक्रियाजालदुःस्थम् । सुसिक्तम् । सुस्तु तम्। "सुःपूजायाम् (अष्टा०म०१-४-९४) इति तु कर्तव्यमेव पूजायाभिति विशेषणार्थम। तेन'सुषिक्तं किं तवा' इत्यादौ षत्वं भवत्येव । कथं तर्हि
फलवद्भावनोदभूतकथम्भावतिरोहिताः ।।
नैवाङ्गानां कथं भावाः प्रादुण्यन्ति कथं च न ॥ इति ? सत्यम् , नेदमुपसर्गत्वप्रयुक्तं किन्तु "उपसर्गप्रादुर्ध्याम्' (अष्टा० सू०८-३-८७) इत्यत्र प्रादुसः पृथग्ग्रहणप्रयुक्तम् । एतेन 'प्रादुष्यन्ति'
Page #153
--------------------------------------------------------------------------
________________
१४४ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्यान्हिकेइति पठित्वा प्र आङ् दुस् इत्युपसर्गत्रिकपूर्वस्य स्यतेः "उपसर्गात्सुनो. ति" (अष्टा०स०८-३-६५) इत्यादिना षत्वमिति व्याचक्षाणाः परास्ताः, दुर उपसर्गतायाःषत्वविधौ निषेधात्, स्यतेरर्थस्य प्रकृतासम्बन्धाच्च । णत्वम् । दुर्नीतम् । दुर्नयः। एतेन "दुरः परस्य णत्वं न" इति कोचिदिति पठित्वा सिद्धान्ते णत्वमिति भ्राम्यन्तः परास्ताः।
गतिसंज्ञायां कारिकाशब्दस्योपसङ्ख्यानम् ॥ कारिकाकृत्य । कारि• काकृतम् । यत्कारिकाकरोति । “तिङि चोदात्तवति (अष्टा सू०८-१-७१) इति गतेनिघातः। निपातत्वादव्ययत्वे सति विभक्तेलुक् । कारिका क्रिया । मर्यादास्थितिरित्यर्थः । यत्न इत्यपरे । “धात्वर्थनिर्देशे" इति ण्वुल् । यस्तु कर्तरि ण्वुलन्तः कारिका दासीति, यश्च श्लोकवाची, त. योर्नेह ग्रहणम् , क्रियायोगइति कारिकाशब्दस्य विशेषणात् । क्रिया वृत्तेरेव ग्रहणात् ।
पुनश्चनसौ छन्दसि गतिसंज्ञाविति वक्तव्यम् ॥ पुनराधेयम् । गति. त्वात्समासः । कृदुत्तरपदप्रकृतिस्वरेण “यतोऽनावः" (अष्टा सू०६-१२१३) इति धेशब्द उदात्तः । पुनरुत्स्यूतं वासः । इहापि गतित्वात्स मासः । स्वरस्तु प्रवृद्धादेराकृतिगणत्वादन्तोदात्तत्वम् । काठके. हान्तोदात्तः पठ्यते । शेषनिघातेन पुनःशब्दोऽनुदात्तः । “गति. र्गतौ" (अष्टा०सू०८-१-७०) इति निघावं वदन् वृत्तिकार स्तु परत्वात्तस्य न्याय्यतां मन्यते । चनाहितः ॥ "चायरने हस्वश्च" (उ०सु०६३९) इत्यसुन्नन्तत्वान्निपातत्वाद्वाऽऽद्युदात्तस्य चनःशब्द. स्य "गतिरनन्तरः" (अष्टा०स०६-२-४९) इति प्रकृतिस्वरः।
ऊर्यादिविडाचश्च(अष्टा०सू०१-४-६१) । एते गतिसंज्ञाः स्युः क्रि. यायोगे । कृभ्वस्तियोगे विडाचौ विहितौ। तत्साहचर्याद्रपादयोऽपि तद्योगे एवं प्रयुज्यन्ते नान्यत्र, अनभिधानाच । तत्राप्याविःप्रादुःशब्दो मुक्त्वाऽन्येषां करोतिनैव योग इति माधवादयः । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति तथापीह सामर्थ्यात् विडाजन्तग्रह. णम् । न हि प्रत्ययमात्रस्य क्रियायोगः संभवति, स्वार्थिकत्वेनानर्थः कत्वात् च्वेरश्रावित्वाञ्च । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ।
इहेदमवधेयम् । श्रौषडादानां स्वाहान्तानां चादिवपि पाठादकि पायोगेऽपि निपातत्वम् । आविःशब्दस्य साक्षात्प्रभृतिषु पाठात्कृञो यो. गे विकल्पः । भ्वस्तियोगे त्वनेन नित्यमिति । कथं तर्हि
वारुणीमदविशंकमथाविश्वक्ष्युषोभवदसाविव । इति माघः ?
Page #154
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गतिसज्ञाप्रकरणम् । १४५ अभवद्युगमद्विलोलोजिव्हायुगलीटोभयस्टवभागमाविः । इति च ? निरङ्कुशाः कवय इति हरदत्तः । वस्तुतस्तु नेह दोषले. शमपि पश्यामः । तथाहि, गतित्वाद्धातोः प्राक् प्रयोगः प्राप्नोतीति त्व. दायर्वपक्षसर्वस्वम् । तच भाग्यवार्तिकयोरेव निराकृतप्रायम् । "ते प्राग्धातोः" (अष्टा सू०१-४-८०) इति सूत्रं हि द्वेधा व्याख्यातं-प्रयोगनियमार्थ संज्ञानियमार्थ चेति । तत्रान्त्यपक्षे प्राक् चाप्राक् च प्रयोकन्याः, प्राक्तु प्रयुज्यमानाः संज्ञां लभन्ते इति स्थितम् । इममेव च पक्षमाश्रित्य "अनुकरणं च" (अष्टा सू०१-४-६२) इति सुत्रे ऽनितिप. रमिति प्रत्याख्यातम् । एवमेव "छन्दसि परेऽपि' (अष्टा सु०१-४-८१) "व्यवहिताश्च" (अष्टा सू०१-४-८६) इति सूत्रद्वयमपि प्रत्याख्यातम् । अत एव "ते प्राग्" (अष्टा०स०१-४-८०) इति सूत्रे 'सुकटं कराणि वीणानि' इति भाष्यं "कर्तृकर्मणोश्च भूकृो' (अष्टा सु०३.३.१२७) इति सूत्रे 'स्वायम्भवम्' इति भाग्यवृत्तिग्रन्थौ, व्यर्थयोः किम् ? स्वास्येन भूयत इति वृत्तिग्रन्थश्च सङ्गच्छते । एतेन वृत्तेः प्रामादिकतां वदन् 'पा. व्येन सुभूयते' इति पाठः कर्तव्य इति शिक्षयन् हरदत्तोऽप्यपास्त: “प. क्षान्तरैरपि परिहारा भवन्ति" इति न्यायेन संशानियमपक्षे सर्वस्य सा. मञ्जस्यात् । एतेन
पुरोरामस्य जुहवाञ्चकार ज्वलने वपुः । इति भट्टिः। "तस्य स्थित्वा कथमपि पुरः' इति कालिदासश्च स. मर्थितः। न च "पुरोऽव्ययम्' (अष्टा०सू०-१-४-६७) इत्यस्य कृऊमात्रवि. षयत्वमिति भ्रमितव्यम् , कृओऽनधिकारात् 'तुरासाहं पुरोधाय' इत्या. दिप्रयोगाच्चेति दिक् ।
जरी ऊरी उररी एते त्रयोङ्गीकारे विस्तारे च । विताली भूसी पतो विस्तारे । शकला संसकला ध्वंसकला भंसकला पते चत्वारो हिंसा याम । शकला कृतेत्यादि । हिंसित्वेत्यर्थः । गुलुगुधा पोडार्थे । गुः लुगुधाकृत्य । पाडयित्वेत्यर्थः । सजूः सहार्थे । फलफली चिक्ली आपली एते विकारे । अलोष्टी केवली सेवाली शेवाली वर्षाली मसमसा भस्मसा एते हिंसायाम् । वषट् वौषट् स्वाहा स्व. धा पापी करुणाविलागे । पापीकृत्य । करुणं विलप्येत्यर्थः । प्रादुः प्राकट्ये । श्रत् शीघ्रार्थे । श्रत्कृत्य | आविः प्राकट्ये । आविष्कृत्य । गणरत्ने त्वन्येऽपि सङ्ग्रहीताः । तथाहि, पापाली सङ्कला केवासी एते हिंसायाम् । वार्दाली यादीली आलम्बी एते प्राकाश्ये हिंसायां च । इत्यूर्यादयः। शब्द. द्वितीय. 10. -
Page #155
--------------------------------------------------------------------------
________________
१४६ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिके____ अनुकरणञ्चानिति परम् (अष्टा०सू०१-४-६२) । गतिः स्याक्रियायोगे । खाटकृत्य । अनितिपरं किम् ? खाडिति कृत्वा निरष्ठीवत् । सति हि गतित्वे प्रयोगनियमपक्षे धातोः प्राक् प्रयोगः स्यात् । अनुकरणत्व. जात्याक्रान्तस्येतिशब्दे परेऽयं निषेधः । तेन 'श्रौषड्वौषडितिकृत्वा निरष्ठीवत्' इत्यत्र श्रौषट्शब्दस्यापि निषेधः। संज्ञानियमपक्षे तु आन. तिपरग्रहणं न कर्तव्यमिति, परस्परसंज्ञाप्राप्तेरेवाभावात् ।
आदरानादरयोः सदसती (अष्टासु०१-४-६३)। क्रमाद् गतिसंशे स्तः। सत्कृत्य । असत्कृत्य । प्रीतिपूर्विका प्रत्युत्थानादिविषया स्वरा ऽऽदरः । अवज्ञया प्रत्युत्थानादावुपेक्षा त्वनादरः । एतयोः किम् ? स स्कृत्वा । असत्कृत्वा । शोभनमशोभनं च कृत्वेत्यर्थः ।
भूषणेऽलम् (अष्टा सू०१-४-६४) । गतिसंङ्गं स्यात् । अलंकृत्य । भूषणे किम् ? अलंकृत्वौदनं गतः। पर्याप्तमित्यर्थः । "अनुकरणम्" (अष्टा०सू०१-४.६२)इत्यादयस्त्रयो योगाःस्वभावात्कृविषया इति माधवः।
अन्तरपरिग्रहे (अष्टा सू०१-४-६५)। स्पष्टम् । अन्तर्हत्य । मध्ये हत्त्वेत्यर्थः । अपरिग्रहे किम् ? अन्तहत्वा मूषिका श्येनो गतः। परिगृह्य गत इत्यर्थः।
अत्रेदमवधेयम् । हत्वागमनं द्विधा । हतं त्यक्त्वा परिगृह्य चेति । आद्यमुदाहरणम् । द्वितीयं प्रत्युदाहरणम् । अपरिग्रहे इति च प्रयोगोपा. धिन तु वाच्यकोटिनिविष्टमिति । ___ कणेमनसी श्रद्धाप्रतीघाते (अष्टा०सू०१-४-६६)। गती स्तः । कणे हत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातो. भिलाषातिशये वर्तते । मनःशब्दोऽप्येवम् । अतिशयेनाभिलप्या तन्नि कृत्तिपर्यन्तं पिबतीत्यर्थः। ततश्च श्रद्धाया अपगमात्तत्प्रतीघातो धातुग तिसमुदायगम्यः । श्रद्धाप्रतीघाते किम ? कणेहत्वा गतः। मनोहत्वा । सूक्ष्मतण्डुलावयवः कणस्तस्मिन् हत्वेत्यर्थः । मनःशब्दस्तु चेतसि ।
पुरोऽव्ययम् (अष्टा सू०१-४-६७) । "पूर्वाधरावराणाम" इति व्युत्पादितोऽसिप्रत्ययान्तोऽव्ययं तथाभूतः पुरःशब्दो गतिसंज्ञः स्यात । पुरस्कृत्य । “नमस्पुरसोः" (अष्टा सु०८-३-४०) इति सत्वम् । अव्ययं किम् ? पूः पुरौ पुरः कृत्वा ।
अस्तश्च (अष्टा०सू०१-४-६८) । अस्तमिति मान्तमव्ययं गतिसंवं स्यात् । अस्तङ्गत्य । अव्ययमित्येव । अस्तं काण्डम् । क्षिप्तमित्यर्थः ।
अच्छगत्यर्थवदेषु (अष्टा००१-४-६९) । अव्ययमित्येव । अच्छ. गत्य । अच्छोद्य । अभिगत्य । अभिमुखमुक्त्वा चेत्यर्थः । अव्ययं किम् ?
Page #156
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गतिसज्ञाप्रकरणम् ।
१४७
जलमच्छं गच्छति ।
भदोऽनुपदेशे (अष्टा०सू०१-४-७०)। अदःशब्दस्त्यदादिः सोऽनुप. देशे गतिः स्यात्। अदाकृत्य । अदः कृतम् । यदा स्वयमेवेत्थं पर्यालोच. यति तदेदमुदाहरणम् । अनुपदेशे किम् ? परं प्रति कथने माभूत् । अदः कृत्वा गतः।
तिरोन्तौ (अष्टा०सू०१-४-७१)। तिरोभूय । अन्तौ किम् ? तिरोभूत्वा स्थितः । पार्वतो भूत्वेत्यर्थः ।
विभाषा कृषि (अष्टा०सू०१-४-७२) । प्राप्तविभाषेयम् "तिरोन्तौं " (अष्टा०स०१-४-७१) इत्यनुवृत्तेः । तिरःकृत्य । तिरस्कृत्य । "तिरसो. ऽन्यतरस्याम्" (अष्टा०म०८-३-४२) इति वा सत्वम् । प्रत्युदाहरणे तु न सत्वम् , तद्विधौ गतिग्रहणानुवृत्तेः। तिरः कृत्वा काष्ठम् । केचि. विहापि सत्वमिच्छन्तः पराभव तिरस्कारशब्दप्रयोगं चानुरुन्धानाः सत्वविधौ गतिग्रहणं निवर्तयन्तीति माधवः । • उपाजेऽवाजे (अष्टा०सू०१-४-७३) । एतौ कृषि वा गतिसंज्ञौ स्तः। विभक्तिप्रतिरूपको निपाताविमौ दुर्बलस्य सामर्थ्याधाने वर्तते । उपा. जेकृत्य । उपाजेकृत्वा। अन्वाजेकृत्य । अन्वाजेकृत्वा । उपष्टभ्येत्यर्थः । ___ साक्षात्प्रभृतीनि च (अष्टा०सू०१-४-७४)। एतानि कृषि वा गति. संज्ञानि स्युः। व्यर्थ इति वक्तव्यम् ॥ साक्षात्कृत्य । साक्षात्कृत्वा । असाक्षाद्भूतं साक्षास्क्रियते चेत्तदाऽयं प्रयोगः, न तु साक्षाभूतस्यैब रूपान्तरापादाने । व्यन्तेषु तु पूर्वविप्रतिषेधाद् "ऊर्यादिच्चि" (अष्टा० स०१-५-६१) इति नित्यैव संज्ञा । तेन 'लवणीकृत्य' इत्यत्र मान्तत्वं न भवति । तद्विकल्पसन्नियोगेनेह गणे निपात्यते । यद्वा, लवणशब्दस्य लवणमिति मान्त आदेशः। तथाच मास्तु पूर्वविप्रतिषेधः। शब्द्यं हि नः साध्यम्-लवणंकृत्य लवणंकृत्वा लवणीकृत्येति । तत्र व्यन्ता.
च्यन्तयोः पाक्षिके लवणमादेशे समं रूपम् । परेणापि विकल्पेन मुके तुच्यन्तस्य नित्या संज्ञेति न कश्चिद्दोषः । इहाग्नौ वशेप्रभृतयो विभक्तिप्रतिरूपका निपाताः। प्रादुराविःशब्दयोमर्यादित्वात्प्राप्ते विभा. षा । साक्षात् मिथ्या चिन्तति मनोव्यापारे । चिन्ताकृत्य ! भद्रा आ. लोचनाप्रशंसामङ्गलेष्वयम् ।रोचनेतीतिश्रद्धोत्पादे प्रशंसायर्या च । अमेति रहःसाहित्ययोः । आस्था श्रद्धा प्राजयोवी जो जरणक्रियायाम् । प्राज. रुहा बोजरुहेति रुहिक्रियायाम् । लवणम् । उष्णम् । शीतम् । उद. कम् । आर्द्रम् । लवणादीनां पञ्चानां गतिसंज्ञासन्नियोगेन मान्तत्वं निपात्यते मान्तादेशो वेत्युक्तम् । अग्नौ वशे विकम्पने विकसने प्रह.
Page #157
--------------------------------------------------------------------------
________________
-
शब्दकौस्तुभप्रथमाध्याय चतुर्थपादे चतुर्थान्दिके
सने सन्तपने । प्रादुस् नमस् आविस् । आकृतिगणोऽयम् ।
अनत्याधान उरसिमनसी (अष्टा०सु०१-४-७५ ) । एतौ निपातौ कृञि वा गतिसञ्ज्ञौ स्तः । उरसिकृत्य । उरसिकृत्वा | अभ्युपगम्येत्यर्थः । मनसिकृत्य | मनसिकृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषः । चत्र न । उरसिकृत्वा पाणि शेते ।
मध्ये पदे निवचने च (अष्टा०सु०१-४-७६) । एते त्रयः कृषि गति सना वा स्युरनत्याधाने । मध्येकृत्य । मध्येकृत्वा । पदेकृत्य । पदेकृ त्वा । पदन्तावेतौ निपातौ । निवचनं वचनाभावः । अस्याविशेषेण एदन्तता निपात्यते न तु सञ्ज्ञासन्नियोगेन व्याख्यानात् । निवचनेकृत्य | निवचने कृत्वा । वाचं नियम्येत्यर्थः । अनत्याधाने किम् ? हस्तिनः पदे कृत्वा शिरः शेते ।
नित्यं हस्ते पाणावुपयमने (अष्टा०सू०१-४-७७) । एतौ निपातौ कृत्रि नित्यं गतिसब्झौ स्त उपयमने । दारकर्मणीत्येके । स्वीकारमात्र इत्यन्ये । हस्तेकृत्य पाणौकृत्य कन्यां महास्त्राणि वा । उपयमने किम् १ हस्तेकृत्वा सुवर्णे गतो भृत्यः ।
प्राध्वम्बन्धने (अष्टा०सु०१-४-७८ ) । प्राध्वमिति चादिषु पाठान्मान्तमव्ययमानुकूल्ये वर्तते । तत्कृञि नित्यं गतिसञ्ज्ञं स्याद्बन्धन हेतुकं चेदानुकूल्यम् । प्राध्वं कृत्य । बन्धने किम् ? प्राध्यंकृत्वा प्रार्थनादिनानुफूलं कृत्वेत्यर्थः ।
जीविकोपनिषदावोपम्ये ( अष्टा०सु०१-४-७९ ) । कृत्रि नित्यं गतिसयौ स्तः । जीवयतीति जीविका जीवनोपायः । जीविकामित्र कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । गतिसमासस्य नित्यत्वेऽपि स्वार्थमात्रनिष्ठत्वादगतिना विग्रहः । अत एव तंत्र वशब्दप्रयोगः । औपम्ये किम् ? जीविकां कृत्वा ।
ते प्राग्धातोः (अष्टा०सू०१-४-८० ) । ते गतिसञ्या धातोः प्रागेव प्रयोज्याः ।
छन्दसि परेपि (अष्टा०सू०१-४-८१) ।
व्यवहिताश्च (अष्टा०स्०१-४-८२) । स्पष्टम् । हरिभ्यां याह्योक आ । 'आमन्दैरिन्द्र हरिभिर्याहि । इह सम्वानियमपक्षोऽपि माध्ये स्थितः, ते इत्यनेन प्रादीनुपनिषत्पर्यन्तात् स्वरूपेण परामृश्य धातोः प्राक् प्रयुक्तानामेषां पूर्वसूत्रैकवाक्यतया सम्झाविधानात् । अस्मिन पक्षे "छन्दसि परेऽपि" "व्यवहिताश्च" इति सूत्रद्वयम् अनितिपरग्रहणं च च कर्त्तव्यमिति स्थितम् । सुकटङ्कराणीति माध्यं च सङ्गच्छते । प्रयोग
Page #158
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कर्मप्रवचनीय सञ्ज्ञाप्रकरणम् । १४९
नियमपक्षे तु "कृत्यल्युट :" (अष्टा०सू०३-३-११३) इति बहुलग्रहणेन समर्थनीयं स्यात् । यत्त खलः खित्करणसामर्थ्यादनव्ययस्य प्राक् प्रयोगे निर्णीते सोः परिशेषाद्व्यवधानं सिध्यतीति । तश्चिन्त्यम्, सामर्थ्याद्य वहिते मुमः सम्भवात् कृग्रहणे गति पूर्वस्यापि ग्रहणाच्च ईषच्छब्दस्या गतिसञ्ज्ञकतया 'ईषदाढ्यम्भवः' इत्यत्र खलः खित्वस्योपक्षीणत्वाश्चेति दिक् । धातोः किम् ? प्रकर्तुमैच्छत् प्राचिकीर्षदित्यत्र सनः प्राक् प्रयो गो मा भूत् ।
2
कर्मप्रवचनीयाः (अष्ट( ०सू०१-४-८३) । रीश्वरात्प्रागिदमधिक्रिय ते । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः बाहुलकात्कर्तर्यनयिर् स च भूते । तेन सम्प्रतिक्रियां न द्योतयन्तीति लभ्यते । आहु चक्रियाया द्योतको नायं सम्बन्धस्य न वाचकः । नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ॥ इति । तथाहि, शाकल्यस्य संहितामनुप्रावर्षदित्यत्रानुना न क्रियाविशेषो द्योत्यते । अनुभूयते सुखमित्यादौ यथा । नापि षष्ठ्येव सम्बन्ध उच्यते, द्वितीययैव तस्योक्तत्वात् । नापि प्रादेशं विपरिलिखति विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभ तिप्रसङ्गात् । किन्तु संहितासम्बन्धिवर्षणमिति द्वितीयावगतः सम्बन्धो लक्ष्यलक्षणभावरूप एवेत्यवगमात्सम्बन्ध एवानुना विशेषऽवस्थाप्यते । क्वचित क्रियागतविशेषद्योतकेऽपीयं सञ्ज्ञा वचनात्प्रवर्तते । "सुः पूजायाम्” (अष्टा०सू०१ -४ -९४) " अतिरतिक्रमेण च" (अष्टा०सू०१-४९५) इति यथा ।
अनुर्लक्षणे (अष्टा०सू०१-४-८४) । लक्षणे द्योत्येऽनुः कर्मप्रवचनीयस• ऋञ्ज्ञः स्यात् । "लक्षणेत्थम्भूत" (अष्टा०सू०१-४-९०) इत्यादिना सिद्धे तौ तृतीयां बाधितुमिदं सूत्रम् । तथाहि, लक्षणे कर्मप्रवचनीय सञ्ज्ञा. या अवकाशः - यो न हेतुः, 'वृक्षमनुविद्योतते विद्युत्' इति । हेतुवृतीयाया अवकाशः - 'धनेन कुलम्' इति । 'संहितामनुप्रावर्षत्' इत्यत्र तु हेतुभूतसंहितोपलक्षितं वर्षणमित्यर्थाद्धेतुभूते लक्षणे परत्वातृतीया स्यात् । पुनः सञ्ज्ञाविधानसामर्थ्यात्तुं द्वितीयैव भवति । आह च हेतुहेतुमतोर्योगपरिच्छेदे ऽनुना कृते ।
-
आरम्भाद्वाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥ इति ।
न च "वृतीयायें" (अष्टा०सू०१-४-८५) इति सूत्रेण गतार्थता श ह्णः । तस्य पुरस्तादपचादन्यायेन “सहयुके प्रधाने” (अटा०सू०२-३१९) इत्येतन्मात्रबाधकत्वात् ।
Page #159
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिके
तृतीयार्थे (अंष्टा०सु०१-४-१५) । अस्मिन् द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह सम्बद्धेत्यर्थः । " षिञ् बन्धने" ( स्वा०ड०१२४८) अस्मात्कर्तरि कः ।
हीने (अष्टा०सु०१-४-८६) । हीने द्योत्येऽनुः प्राग्वत् । अनु हरि सुराः । हरिप्रतियोगि कापकर्षरूपसम्बन्धवन्त इत्यर्थः । उत्कृष्टादेव द्वितीया न त्वपकृष्टात्, शक्तिस्वभावात् ।
१५०
-
उपोऽधिके च (अष्टा०सु०१-४-८७) । अधिके होने च द्योत्ये उपः प्राक्संशः । उपखार्या द्रोणः । खारीतोऽधिको द्रोणोऽस्ति । उभयमस्तीति फलितोऽर्थः । "यस्मादधिकम्" (अष्टा०सु०२-३-९) इति सप्तमी । हीने - उपहार सुराः ।
अपपरी वर्जने (अष्टा०सू०१-४-८८) । एतौ वर्जने द्योत्ये प्राग्वत् । अपविष्णोः परिविष्णोः संसारः । “पञ्चम्यपापरिभिः " ( अष्टा०सु० २-३ - १०) इति पञ्चमी । "परेर्वर्जने" (अष्टा०सू०८-१-५) इति द्विर्वच नम् । तद्धि पञ्चमीसहितेन कर्मप्रवचनीयेन द्योतितेऽपि वर्जने भव. त्येव, उभयोरपि विधानसामर्थ्यात् । वर्जने किम् ? परिषिञ्चति । सर्वत इत्यर्थः । अत्रोपसर्गत्वात्पत्वम् ।
आङ् मर्यादावचने (अष्टा०सु०१-४-८९) । आङ् प्राग्वत् मर्यादाशब्दो यस्मिन्सूत्रे उच्यते तत्रत्यश्चेत् । "आङ्मर्यादाभिविध्योः " (अष्टा० सू०२-१-१३) इत्यत्रोपात्तो व्यर्थ हत्यर्थः । आमुक्तेः संसारः । आबालेभ्यो हरिभक्तिः ।
·
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनत्रः (अष्टा०सू०१-४-९० ) एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे - वृक्षं प्रति परि अनु वा विद्योतते विद्युत् । कञ्चित्प्रकारं प्राप्त इत्थंभूतस्तदाख्याने यथा - साधुर्देवदत्तो मातरं प्रति पर्यनु वा । भागे - यदत्र माम्प्रति स्यात्, परिस्यात, अनुस्यात् । योऽत्र मम भागः स दीयतामित्यर्थः । स्वस्वामिभावो द्वितीयाऽर्थः । वीप्सा व्याप्तुमिच्छा साकल्यप्रतिपि पादयिषेति यावत् । भूतंभूतं प्रति पर्यनु वा प्रभुः । सकलभूतानामि त्यर्थः । न च "इत्थंभूताख्याने" (अष्टा०स०१ - ४ - ९) इत्येव सिद्धम् । इदं तर्ह्यदाहरणं-वृक्षवृक्षं प्रतिसिञ्चति, परिसिञ्चति, अनुसिञ्चति । इह वीप्सा द्विर्वचनेनैव द्योत्यते । परिशब्दस्तु क्रिययैव सम्बध्यते । न चैवन्तस्य कर्मप्रवचनीयत्वं न स्यादिति वाच्यं वीप्साया विषयत्वानपायात् । अत एव वीप्सायां विषयभूतायामिति वृत्तिग्रन्थमवतारयन्हरदत्त आह-पते च लक्षणादयो यथा विभक्तिसमीपादयोऽययार्थाः,
Page #160
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे कर्मप्रवचनीयसम्शाप्रकरणम्। १५१ नैवं प्रत्यादीनामर्थाः । किन्तर्हि संज्ञायां प्रत्यादीनां विषयत्वेन निर्दिष्टा इत्याहेति । द्वितीया तु कर्मणि । कर्मप्रवचनीयसंज्ञा तूपसर्गत्वनिवृ. त्यर्था । तेन "उपसर्गात्सुनोति" (अष्टा० सू०८-३-६५) इति षत्वं न । परिशब्दयोगे पञ्चमी तु न भवति “पञ्चम्यपाङ्" (अष्टा०स०२-३-१०) इत्यत्र वर्जनार्थेनापेत्यनेन साहचर्यात् ।
अभिरभागे (अष्टा सू०१-४-९१)। भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । वृक्षमभिविद्योतते । साधुर्मातरमभि । वृक्षमभिसिञ्चति । अभागे किम् ? यदत्र ममाभिध्यात्तद्दीयताम् ।
प्रतिः प्रतिनिधिप्रतिदानयोः (अष्टा०सू०१-४-९२) । उक्तसंशः स्यात् । अभिमन्युरर्जुनात् प्रति । तस्य प्रतिनिधिरित्यर्थः । तिलेभ्यः प्रतियच्छति माषान् । "प्रतिनिधिप्रतिदाने च यस्मात" (अष्टा०म०२३-११) इति पञ्चमी। ___ अधिपरी अनर्थको (अष्टा०स०१-४-९३)। उक्तसंझौ स्तः । कुतो. ऽध्यागच्छति । कुतः पर्यागच्छति । इहाधिकार्थविरहादनर्थकत्वमधिपर्योः, धात्वर्थमात्रानुवर्तित्त्वात्तु प्राप्ता गतिसंशा। तद्वाधः संशाफलम्। तेन "गतिर्गतो" (अष्टा०सू८-१-७०) इति निघातो न भवति ।
सुः पूजायाम् (अष्टा०सू०१-४-९४)। सुसिक्तम् । सुस्तुतम् । अनु. पसर्गत्वान्न षः। पूजायां किम् ? सुषिक्तं किन्तवात्र । क्षेपोऽयं, न पूजा। कथं तर्हि सुष्टुतिरिति ? अतिशयमानं विवक्षितं न तु पूजेत्याहुः । पठन्ति च
प्रशंसानुमते पूजा भृशकृछ्रसुखेषु सुः । इति । अतिरतिक्रमणे च (अष्टा०स०१-४-९५) । अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंशः स्यात् । अतिक्रमणमुचितादधिकस्यानुष्ठा. नम् । अतिसिक्तम् । अतिस्तुतम् । बहुतरं समीचीनं वा सिक्तं स्तु. तश्चेत्यर्थः। __ अपिः पदार्थसम्भावनान्ववसर्गगहासमुच्चयेषु (अष्टा०सू०१-४-९६)। एषु द्योत्येवपिरुक्तसंज्ञः । सर्पिषोऽपि स्यात् । प्रार्थनायां लिङ्। तस्या एव विषयभूते भवने कर्तृदोर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्या दित्यनेन सम्बध्यते । अनुपसर्गत्वान्न षः । सर्पिष इति षष्ठी तु अपिश ब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । ग्यमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । कर्मप्रवचनीययुक्ते द्वितीया तु नेह प्रवर्तते, सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । सम्भावनं नाम शक्त्युत्कर्षमाविष्क मत्युकिः । अपिसिओन्मूलसहस्रम् । अपिस्तुया.
Page #161
--------------------------------------------------------------------------
________________
१५२
शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिके
द्विष्णुम् । अन्ववसर्गः कामचारानुशा । अपिसिञ्च । अपिस्तुहि । गयाम्- धिग्देवदत्तमपिस्तुयादृषलम् । समुश्च ये अपिसिश्च । अपिस्तु हि । सिश्च च स्तुहि चेत्यर्थः । यथायथम " उपसर्गप्रादुर्भ्याम्" (अष्टा० सु०८-३-८७) इति "उपसर्गात्सुनोति" (अष्टा०सू०८-३-६५) इति च प्राप्तं षत्वं कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधितत्वान्न भवति ।
अधिरीश्वरे (अष्टा०सु०१-४-९७ ) | स्वस्वामिभावे द्योत्येऽधिः कर्मप्रवचनीयः स्यात् । इह स्वात्स्वामिनो वा पर्यायेण कर्मप्रवचनीय विभक्तिर्न तु "हीने" (अष्टा०सु०१-४-८६) "उपोऽधिके च" (अष्टा०सू० १-४-८७) इत्यत्रेवान्यतरस्मादेव । अधिभुवि रामः । अधिरामे भूः । एतश्च संज्ञासूत्रं नारम्भणीयम् । उत्तरार्थत्वे तु योगो न विभजनीय इति “यस्मादधिकम्” (अष्टा०सू०२-३-९) इत्यत्र वक्ष्यामः ।
विभाषा कृषि (अष्टा०सू०१-४-९८) । अधिः करोतो प्राक्संज्ञो वा स्यात् । ईश्वर इत्यनुवर्तते । प्राप्तविभाषेयम् । यदत्र मामधिकरिष्यति । विनियोश्यते इत्यर्थः । इद्द विनियोक्तुरीश्वरत्वं गम्यते । कर्मत्वाद् द्वितीया । इह "तिङि चोदात्तवति' (अष्टा०सू०८-१-७१ ) इति निघातो न, गतिसंज्ञाया बाधितत्वात् । किञ्च 'मामधिकृत्वा' इत्यत्र प्रादिसमासो न, कर्मप्रवचनीयानां प्रतिषेध इत्युक्तेः । पक्षे 'अधिकृत्य' इति बोध्यम् ।
लः परस्मैपदम् (अष्टा०सू०१ - ४ - ९९ ) । लकारस्यादेशाः परस्मैपद संज्ञाः स्युः । पचन्तं पश्य ।
तङानावात्मनेपदम् (अष्टा०सू०१-४-१००) । तङ्प्रत्याहारो लादे शावानौ च तत्संज्ञाः स्युः । पूर्वसंज्ञापवादः । आस्ते । आसीनः । चक्रा· णः । शानच्कानचोरेवेह ग्रहणं लादेशत्वात्ः, न तु शानन्चानशोः । तेन पूयजो: शानन् यजेरकर्तृगेपि फले भवति 'रसमानसारसेन' इत्यादौ परस्मैपदिभ्योऽपि चानश् भवति |
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (अष्टा०सू०१-४-१०१) । कृतद्वद्वानामेकशेषात् प्रथमेत्यादयः षट् संज्ञाः तिङः षट् त्रिकाः क्रमात्प्रथ. मादिसंज्ञः स्युः । शतृक्कस्वोः सावकाशाऽपि परस्मैपदसंज्ञा प्रथमादि • संज्ञाभिर्न बाध्यते "सिचिवृद्धिः परस्मैपदेषु” (अष्टा०सु०७-२-१) इति लिङ्गात् । तथा परस्मैपदे लब्धावकाशाऽपि प्रथमादिसंज्ञा तवात्मनेपदसंज्ञया न बाध्यते कृतद्वन्द्वानामेकशेषेण तङ्क्षु प्रतिपदविधेरुक्तत्वात् । न चैवमपि परस्मैपदात्मनेपदसंज्ञाभ्यां पुरुषसंज्ञायाः पर्यायः स्यादिति वाच्यम्, "णलुत्तमोवा' (अष्टा०सू०७ - १ - २१) इत्यस्य सा मान्यापेक्षज्ञापकत्वात् । इह सूत्रत्रयेऽपि महासंज्ञाकरणं पूर्वाचार्यानु
Page #162
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे पुरुषनियमप्रकरणम् ।
१५३
लेधात् । इह त्रीणित्रीणीत्येकं पदम् । द्वे वेति हरदत्तः । तत्र सत्यामप्यवान्तरपदसंज्ञायां महापदसंज्ञामाश्रित्य "संहितैकपदे नि त्या" इत्यस्य प्रवृत्तेः । अन्यथा समासादावपि पृथक् छेदापत्तेः द्विरुकमध्ये पदान्तरप्रयोगापत्तेश्च । अत एव 'ताता पिण्डानाम्' इत्यादौ वेदेवग्रहः क्रियते । यथा च द्विरुक्ते महापदसंज्ञाऽवान्तरसंज्ञा च तथा "नित्यवीप्सयोः " (अष्टा०सू०८-१-४) इत्यत्र वक्ष्यामः ।
तान्येकवचन द्विवचन बहुवचनान्येकशः (अष्टा०सू०१-४-१०२ ) । तानि लब्धपुरुषसंज्ञानि त्रीणि त्रीणि एकशः क्रमेण एकवचनादिसंज्ञानि स्युः । तानीत्युक्तिः समावेशार्था । अन्यथा पुरुषवचनसंज्ञयोः पर्यायः स्यात् । ततश्च “आडुत्तमस्य" (अष्टा०सू० ३-४-९२ ) इत्यादिकार्ये पक्षे न प्रवर्तेत । एकश इति प्रथमान्ताद्वीप्सायां शस् ।
सुपः (अष्टा०सू०१-४- १०३) । सुपस्त्रीणि त्रीणि क्रमादेकश उक्त संज्ञानि स्युः । इहान्वर्थतामाश्रित्य "ह्येकयोर्द्विवचनैकवचने" (अष्टा० सू०१-४-२२) “बहुषु बहुवचनम्" (अष्टा०सू०१-४-२३) इति शक्यं त्यक्तुम, एकवचनस्यात्सर्गिकत्वेऽपि उपसर्जन कर्मप्रवचनीयादिसंज्ञावद्यथासम्भवमन्वर्थतायाः सुवचत्वात् ।
विभक्तिश्च (अष्टा०सू०१-४-१०४) । सुप्तिङौ विभक्तिसंज्ञौ स्तः । चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः । तिङां विभक्तिसंज्ञायाः प्रयो जनं "न विभक्तौ तुस्माः" (अष्टा०सू०१-३-४) इति, सुपां तु त्यदाद्य त्वादिकमपि ।
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (अष्टा०सू०१४-१०५) । लकारेण समानाधिकरणे युष्मदि प्रयुक्तेऽप्रयुक्तेऽपि मध्यमः स्यात् । त्वं पचसि दृश्यसे च । समानाधिकरणे किम् ? त्वां पश्यति । त्वया दृश्यते । इह युष्मदि मध्यमोऽस्मद्युतम इत्येवास्तु युष्मद्यम्मदि च यो लकार इत्यर्थे सर्वसामञ्जम्यात् । यथा तु न कृतमित्येव । अत्वं त्वं भवति त्वद्भवतीत्यत्र तु न, मध्यमधिकृनेरकर्तृत्वात । प्रकृतिरेव हि विकाररूपापन्तौ कर्त्री । तथा च मन्त्रः "यदग्भेस्यामहं त्वं त्वंबाधःस्या अहम्" इति । अहं त्वं स्याम्, त्वं वा अहं स्या इति प्रकृत्याश्रय एवेह पुरुषः ।
स्यादेतत् । 'भवान् करोति' इत्यत्रापि स्थानिन्यपीति मध्यमः स्यात् । अत्राहुः । अलिङ्गः सम्बोधनैकविषयश्च युष्मदर्थः । सलिङ्गः सम्बोध्यासम्बोध्यसाधारणश्च भवदर्थ इति । न च युष्मदः सम्बोधनैकविषयत्वे ततः सम्बोधन एव प्रथमा स्यात् । ततश्च आमन्त्रिताद्युदासत्वं पदा
Page #163
--------------------------------------------------------------------------
________________
१५४ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिकेत्परत्वेन निघातश्च स्यादिति वाच्यम् , सम्बोधनम्य प्रातिपदिकार्थ एवान्तर्भावात् । “सम्बोधने च" (अष्टा सु०२-३-४७) इति सूत्रं हि सम्बोधनाधिक्यार्थमिति वक्ष्यते । यत्तु केचिदिष्टापत्तिं कुर्वाणाः पठन्ति
सम्बोधनार्थः सर्वत्र मध्यमे कैश्चिदिप्यते । तथा सम्बोधने सर्व प्रथमां युष्मदो विदुः॥ युष्मदर्थस्य सिद्धत्वानियता चायुदात्तता।
युग्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ इति ॥ तन्न, उक्तन्यायविरोधात् लक्ष्यविरोधाच्च । दृश्यते हि पादादाव. प्यन्तोदात्तत्वं पदात्परत्वेऽप्यनिघातश्च । तद्यथा-युवं ह गर्भञ्जगती. षु धत्थः । यूयं यातस्वस्तिभिः । ह ये देवा यूयमिदापयः स्थ इति ।
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच (अष्टा०सू०१-४-१०६)। मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात् परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् । द्वयोर्बहुषु च मन्तृषु एकवचनमेव स्यादिति फलिनोऽर्थः । एकवचे. त्यन्वाचये चकारः। तेनैकवद्भावाभावेऽपि प्रधानशिष्टौ मध्यमोत्तमो स्त एव । सत्यप्योदने परिहासशीला शालकादिः प्रतारयन्प्रयुड़ेएहि मन्ये ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिः । एतम एत वा मन्ये ओदनं भोक्ष्येथे भोयध्वे । ओदनं भोक्ष्ये भोक्ष्यावह इत्यादि, मन्यसे मन्येथे इत्यादिरर्थः । युष्मद्युपपदे इत्याद्यनुवर्तते । तेनेह न-एतु भवा. न्मन्यते ओदन भोक्ष्ये इति । श्यना निर्देशान्नेह-एहि मनुषे रथेन या. स्यामिति । प्रहासे किम् ? यधार्थकथने मा भूत-एहि मन्यसे ओदनं मोक्ष्य इति भुक्तः सोतिथिभिः । ___ अस्मद्युत्तमः (अष्टा०सू०१-४-१०७) । लकारसमानाधिकरणेऽस्म. दि स्थिते स्थानिन्यप्युत्तमः स्यात् । अहं पश्यामि दृश्ये वा । युष्मद. स्मद्भ्यां सामानाधिकरण्ये तु परत्वादुत्तम एव । अहं च त्वं च वृत्रह. स्वयुज्यावसनिभ्या।
शेष प्रथमः (अष्टान्सू०१-४-१०८)। मध्यमोत्तमविषयादन्यत्र प्रथ. मपुरुषः स्यात् । पचति, पचतः, पचन्ति।
परः सन्त्रिकर्षः संहिता (अष्टा०सू०१-४-१०९)। अतिशयितः स. निधिर्वर्णानां यः स संहितासंशः स्यात् । संशाप्रदेशाः “संहितायाम्। (अष्टा सू०६-१-७२) इत्यादयः ।
विरामोऽवसानम् (अष्टा सू०१-४-११०)। वर्णानामभावोऽवसा. नसंज्ञः स्यात् । संज्ञाप्रदेशा "वावसाने" (अष्टा सु०८-४-५६) इत्याद.
Page #164
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे परिभाषाप्रकरणम्। १५५ यः । अभावस्यापि बुद्धिकृतं पौर्वापर्यमस्त्येव । यथोच्चरितप्रध्वंसिनां निस्यविभूनां वा वर्णानाम् । यद्वा, विरम्यतेऽनेनेति करणे घञ्, चरमव. र्णश्च संशी । अस्मिन्पक्षे "खरवसानयोः" इत्यकापि सप्तमी विषयभेदा. द्भिद्यते । खरि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति । अत्र वार्तिकम्-संहितावसानयोर्लोकविदितत्वात्सिद्धमिति । तथा च सूत्रद्वयं माऽस्वित्यर्थः। ॥ इति श्रीपदवाक्यप्रमाणपारावारपारीणस्य लक्ष्मीधरसूरेः सूनुना भट्टोजीभट्टेन कृते शब्दकौस्तुभे प्रथमस्या. ध्यायस्य चतुर्थे पादे चतुर्थमान्हिकम् ।।
॥ पादश्चाध्यायश्च समाप्तः ॥
॥ अथ द्वितीयाध्याय आरभ्यते । समर्थः पदविधिः (अष्टा०९०२-१-१) । पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः । परिभाषेयम् । समर्थशब्दस्य तदाश्रिते लक्ष णा । सामर्थ्य चैहैकार्थीभावः । प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृ. हीतस्य विशिष्टकार्थत्वमिति यावत । राजपुरुषः । पुत्रीयति । कुम्भकारः । औपगवः । इह "गुणः कृतात्मसंस्कार" इति न्यायन महाविभाषायाः सामर्थ्यविशेषणता । विकल्पनैकार्थीभूतं षष्ठयन्तं समस्यते इत्याद्यर्थात् । विशेषणबलादेव च व्यपेक्षापक्षोऽपि सम्मतः । वृत्ति. स्तु समासादिनियता । अत एव 'ऋद्धस्य' इति विशेषणं तत्र नान्वेति, शक्यैकदेशत्वात् । न हि श्वशुरशब्दजन्यप्रतीतो पितृविशेषणत्वेनोप. स्थितायां भार्यायां सुशीलाया इत्यादिविशेषणमन्वेति । न चैवं 'देव. दत्तस्य गुरुकुलम्' इत्यादावनन्वयापत्तिः, तत्रापि कुलेनैव देवदत्त. शब्दोत्तरषष्ठ्यर्थस्यान्वयात् । सम्बन्धस्तु उपस्थितगुरुद्वारक एव षष्ठ्यों न तु तदितरः । उक्तञ्च
समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वतासह ॥ इति । यद्वा, ससम्बन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः 'चैत्रस्य नप्ता' इत्यादौ तथा दर्शनात्, श्वशुरशब्दोपस्थितायां भार्यायां तत्पतेर्विशेषणत्वाच्च । तदंशे उत्थिताकासत्वात । उक्तञ्च
सम्बन्धिशब्द: सापेक्षो नित्यं सर्वः समस्यते । स्वार्थवत्सा व्यपक्षाऽस्य वृत्तावपि न हीयते ॥ इति । तस्मात्समाससुब्धानुकृत्तद्धितविशेषणे । न विशेषणसम्बन्धः सापेक्षे तु भवेदयम् ॥
Page #165
--------------------------------------------------------------------------
________________
१५६ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे प्रथमान्हिके
स्यादेतत् , पाक्ये क्लुप्तयाऽवयवशक्त्योपपत्तौ माऽस्तु · शक्त्य न्तरम् । न च विशेषणसम्बन्धापत्तिः 'सविशेषणानां वृत्तिन, वृत्तस्य पा विशषणयोगो न' इति निषधस्य सम्भवादिति चेत् ? सत्यम् ।
बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्रौरवं तस्मादेकार्थीभाव आस्थितः ॥ चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् ।
कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः ॥ तथाहि, 'धवखदिरौं' इति वृत्त्यैव क्रोडीकृतार्थत्वासकारो न प्रयुज्यते । तथा चित्रग्वादौ यत्पदम् । त्वया तु वचनं कर्त्तव्यम् । निरू. ढलक्षणा तु शक्तितो नातीष भिद्यते, नैयायिकैश्चकारार्थे तदनभ्युपगमाञ्च । अकथितसूत्रे व्युत्पादितरीत्या नामार्थयोरभेदः "प्रत्ययार्थः प्रधानम्" इत्यादिव्युत्पत्तित्यागश्च, 'प्राप्तोदकः' इत्यादौ उदककर्तृकप्रा. प्तिकर्मेत्याद्याभ्युपगमात् । एकार्थीभाव तु लाघवमिति । यद्यपि सि. खान्ते पदं वाक्यं वा शक्तं तथापि प्रक्रियादशायां लाघवादेकार्थाभाव इत्याशयः । यैव हम्माकं प्रक्रिया सा परैः पारमार्थिकतया गृह्यते इति युक्तस्तान् प्रति गौरवोपन्यास इति दिक् । ___ कचिनु सापेक्षत्वेऽपि भाष्यप्रामाण्याद् वृत्तिः । तद्यथा-किमोदनः शालीनाम् । केषां शालीनामोदन इत्यर्थः । सक्त्वाढ कमापणीयानाम् । आपणीयानां सक्तूनामाढकमित्यर्थः । कुतो भवान्पाटलिपुत्रकः । द्वे पाटलिपुत्रे, तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः । "रोपधेतोः प्रा. चाम" (अष्टा०सू०४-२-१२३) इति वुन् । तथा नसमासा अपि केचित्सा. धव:-अश्राद्धभोजी ब्राह्मण इति यथा । केचित्तु न साधवः-अकिञ्चित्कु. णिमिति यथा । किञ्चिदप्यकुर्वाणमित्यर्थः ।
अत्रेदमवधेयम् । वाक्ये त्रेधा सामर्थ्यम्-भेदः संसर्गों भेदसंसर्गों चेति । आधे ऽतद्यावृत्तिमात्रस्य शाब्दत्वम् । संसर्गस्वार्थः । द्वितीये विपरीतम । तृतीये. तूभयं शाब्दम् । अलौकिके प्रक्रियावाक्ये तु प्रय. ममुक्तत्रितयान्यतमावगमेऽपि वृत्तिः कल्प्यते । परिनिष्ठिते विशेषणस. म्बन्धाद्यभाषदर्शनात । यथा शत्रादी द्वितीयान्तादिसामानाधिकरण्य दृष्टया लकारे सत्कल्पनेति । अत एव चित्रत्वादेरन्यपदार्थपरतादर्शना. दलौकिके प्रक्रियावाक्येऽपि तत्कल्पना, “अन्यपदार्थ" इत्यादिसौत्रानु. वादेनैव देवताविप्रहवत्तन्सिद्धति दिद। ॥ इति श्रीशन्दकौस्तुमे द्वितीयाध्यायस्य प्रथमे पादे प्रथममान्हिकम् ॥
Page #166
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे परिभाषाप्रकरणम्।
१५७
सुषामन्त्रिते पराङ्गवत्स्वरे (अष्टा०म०२-१-२)। सुबन्तमामन्त्रिते परे पराङ्गवत्स्यात्स्वर कर्तव्ये । तीनमित्तग्रहणं कर्तव्यम् । तस्यामन्त्रितार्थस्य यनिमित्तं तत्प्रतिपादकं यत्तदव पराङ्गवत्स्यान्नान्यदित्यर्थः । यत्ते दिवो दुहितमंर्तभोजनम् । इह दिवःशब्दम्य पराङ्गवद्भावादाष्टांमको निघातः । तन्निमित्तग्रहणानेह-एतेनाग्ने ब्रह्मणा वावृधस्व । अयमग्ने जरिता । अनेन मित्रावरुणावृतावृधावृतस्पृशाक्रतुंबृहन्तमाशाथे इति ।
स्यादेतत्, ऋनशब्दस्तावद् घृतादित्वादन्तोदात्तः । तस्य तनिमित्तग्रहणात्पराङ्गवद्भावो मा भूत् । किन्तु मित्रावरुणावित्यस्यापि न स्यात् । क्रतम्य वर्द्धयितारावित्यर्थे ऽस्तीविनण्यथाद्वधेः विपि "अ. न्येषामाप दृश्यते” (अष्टा०सु०६-३-१३७) इति पूर्वपदस्य दोघे सति हि अनावृधाविति व्युत्पादितम । न च तत्र मित्रावरुणो निमित्तम् । न चमा भूत्परागवद्भाव इति वाच्यम, ऋतावृधावित्यस्य निघाताना. पत्तेः। द्वितीयपादादि त्वेनापादादाविति निषेधात्। अत एव हि "इमं में गङ्गे" इत्यत्र पूर्वपूर्वीमन्त्रितम्याविद्यमानवद्भावात्सर्वेषां मेशब्दा. त्परतामुपजीव्य क्रियमाणोऽपि निघानो 'गङ्गे' इत्यादित्रयस्यैव क्रियते न तु शुतुद्रीत्यम्यापि । अत्राहुर्वेदभाष्यकाराः तन्निमित्तग्रहणं मास्तु, सूत्रेणैव सफलेष्टसिद्धेरिति । युक्तं चैतत् । तथााहे, "व्यपेक्षां सामर्थ्य मेके" इति समर्थसूत्रस्थभाग्यरीत्येह सामर्थ्यमुपस्थितम् । एकार्थीमा. वपक्षे तु सामर्थ्यस्येहानुवृत्तिः । शब्दाधिकारश्च बोध्यः । एतदर्थ एव चास्मिन्प्रदेशे एतत्सूत्रारम्भः । तथाच "ऋतेन मित्रावरुणौ" इत्येतयोः 'मानशा' इत्यर्थकनाशाथे इत्याख्यातेनान्वयात्परस्परमसामर्थेन परा. अवदावाभावान्न पाष्ठ आधुदात्तः, किन्त्वाष्टमिको निघातः। मित्रावरुजावित्यस्य तु पराङ्गवद्भावाढतावृधाविति न पादादिरतो निहन्यते एव । न च सर्पिःकालकादिसिद्धये "सुसोःसामर्थ्य" (अष्टा सू०८३-४४) इत्यत्र पठिनं "समानाधिकरणमसमर्थवद्भवति" इत्येतदिह प्रवर्धते 'सर्पिपीयते' इत्यादिसिद्धये अधात्वभिहितमिति विशेषित. त्वात् । इह च धात्वमिहितत्वात् । नन्वेवं शुतुद्रिपदमपि निहन्येत पूर्वस्य सरस्वतिपदस्य परागवद्भावेनापादादिस्वादिति चेत् ? न, स. चतेत्यनेन सर्वेषामन्ववेऽपि परस्परमसामर्थ्यात् । उक्तं हि
सम्बोधनपदं यश तक्रियाया विशेषणम् । इति । न च गङ्ग इत्यादीनामेकवचनान्तानां सचतेति बहुवचनान्तेन ‘सामानाधिकरण्याभावात्कथमेकवाक्यता ? तथा च कथं निघातोऽपि ? 'तत्र वार्लिककृता समानवाक्याधिकारस्य कृतत्वादिति वाच्यम् "युग्म.
Page #167
--------------------------------------------------------------------------
________________
१५८ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिकेछुपपदे" (अष्टा सु०१-४-१०५) इति त्रिसूत्र्यां भाज्यवार्तिकयोरेव वच. नभेदेऽपि सामानाधिकरण्यस्य समर्थितत्वात् प्रत्येकपर्यवसन्नैकत्वप्रका. रकबोधविशेष्येष्वपि मिलितेषु संख्यान्तरान्वये बाधकानिरुक्तेश्च, अहं च त्वं च वृत्रहन्त्संयुज्यावसनिभ्य आ, समौ हि शिष्टैरानातौ वयं न्तावामयः सचेति वेदलोकयोः प्रचुरप्रयोगाच्च । एतेन "चन्द्रे कलङ्कः सुजने दरिद्रता" इत्पत्र "यशो विधातुः कथयन्ति खण्डितम्" इत्यस्यान्वयाय पते इत्यध्याहरन्तः प्रत्युक्ताः । एवञ्च सत्यध्याहृतेन एतच्छब्देनापि समं कलङ्कादेरनन्वयापत्तेः. 'गङ्गे' इत्यादौ निघाताना. पत्तश्चति दिक। नन्वेवमपि मित्रावरुणावित्यस्य कथं पराङ्गवद्भावः "आमन्त्रितं पूर्वमविद्यमानवत्" (अष्टा०सू०८-१-७२) इत्यविद्यमानव. द्भावादिति चेत् ? मैवम, परस्य हि कार्ये कर्तव्येऽसावतिदेशो न तु स्वस्य कार्यऽपि. पूर्वग्रहणवैयापत्तेः । न च पराङ्गवद्भावः परस्य कार्य किन्तु स्वस्य । अत एव 'वायो याहि' 'अग्ने नय' 'इन्द्र देह्यधिर. थम्' इत्यादौ आमन्त्रितायुदात्तत्वं भवत्येव । “
तिङतिङः" (अष्टा० सु०८-१-२८) इति निघातः परं न भवति । अभ्युपेत्यापि ब्रमः, प्रकृते मित्रावरुणावित्यामन्त्रितं सामान्यवचनं तद्विशेषणतया विशेषवचनमः तावृधाविति । अतो "नामन्त्रिते समानाधिकरणे सामान्यवचनम्" (अष्टा सू०८-१-७३) इति अविद्यमानवद्भावो निषिध्यते इति । नन्वेव. मपि मित्रावरुणपदस्य पराङ्गवद्भावात्पादादित्वेनापादादाविति पर्युदासः स्यादिति चेत् ? न, ह्ययं कार्यस्यातिदेशः किन्तु तादात्म्यस्य तस्मिश्चातिदिष्टे विशिष्टमामन्त्रितमिति बुद्ध्या यद्यत्कर्तुं शक्यं तक्रियते। किञ्च कार्यातिदेशेऽप्यशास्त्रीयस्य दौर्लभ्यं किमुत तादात्म्यातिदेशे । सुबिति किम् ? पीड्येपीड्यमाना। नन्विह एकार्थीभावविरहात् समर्थपरिभा. षानुपस्थितावपि समर्थग्रहणानुवृत्या पराङ्गवद्भावो न भविष्यति । एवञ्चादुपदेशात्परत्वेनानुदात्तस्येटा उदात्तेनैकादेशे पीड्य इत्यन्तोदात्तं सिद्धम् । मैवम् , सामर्थ्य स्वेहापि सत्त्वात् । पीड्यमानसम्बोध्यका पीडेति हि वाक्यार्थः । आह च
सम्बोधनपदं यच्च तन्क्रियाया विशेषणम् ।
वजानि देवदत्तेति निघातोऽत्र तथा सति ॥ इति । समानवाक्ये निघातयुष्मदस्मदादेशाः । “आख्यातं सविशेषणं पाक्यम्" इति वार्तिककारवचनादिति भावः । अङ्गग्रहणं किम् ? उभ. योः पृथगाादात्तता मा भूत् । वद्रहणं किम् ? स्वाश्रयमपि यथा स्यात् । आम कुण्डेनाटन् । “आम एकान्तरमामन्त्रितमनान्तिके" (अष्टान्सू०८-१.
Page #168
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे समाससज्ञाप्रकरणम्।
१५९
५५) इत्येकान्तरता भवति । स्वर इति किम ? 'कूपे सिञ्चन्' 'वर्म नमन्' षत्वणत्वे प्रति पराङ्गवद्भावो न भवति । समानाधिकरणस्योपसंख्या. नमननन्तरत्वात् । तीक्ष्णया सूच्या सीव्यन् । न च परस्य पराङ्गवद्भावे कृते पूर्वस्यापि सूत्रेणैव सिद्धमिति वाच्यम् , स्वरे इत्यवधारणात् । परानवद्भावे कर्तव्ये तस्य दुर्लभत्वात् । वस्तुतस्तु स्वरे इति न कर्त. व्यम् । 'कूपे सिञ्चन्' इत्यत्र स्वाश्रयपदादि सत्वात् "सात्पदाद्योः" (अष्टा०स०८-३-११) इति निषेधसम्भवात् । णत्वं तु पूर्वपदात्संज्ञाया. मेवेति नियमान भविष्यति । समासाभावेऽपि पूर्व पदमिति यौगिका. र्थमात्रस्य लक्ष्यानुरोधेन ग्रहीतुं शक्यत्वादिति भाष्यम् । यद्वा, आम. त्रिते इत्यस्योपस्थितत्वादामन्त्रितत्वयुक्तकार्य प्रत्येव सन्निधानात् पराङ्गवद्भावः । तथाच पराङ्गवद्भावे सामानाधिकरण्यस्योपसंख्यानं, स्वरग्रहणं चेत्युभयमपि न कर्तव्यमिति स्थितम ।
परमपि छन्दसि पूर्वस्याङ्गवद्भवतीति वक्तव्यम् । आते पितमरुतां सुम्नमेतु । प्रतित्वा दुहिनर्दिवः । वृणीव दुहितावः।
अव्ययप्रतिषेधश्च । उच्चैरधीयान । अव्ययीभावस्य तु नायं निषेध इत्युक्तम् ।
प्राकडारात्समासः (अष्टान्सू०२-१-३)। "कडाराः कर्मधारये" (अष्टासु०२-२-३८) इत्यतः प्राक् समास इत्यधिक्रियते प्राग्ग्रहणं चा. वर्तते । तेन पूर्व समाससंशा ततः संबान्तरमपीति लभ्यते । तेनाव्ययी. भावादिसंशाभिः समावेशः सिध्यति । अन्यथा पर्यायः स्यात् ।
सह सुपा (अष्टासु०२-१-४)। इह सहेति योगो विभज्यते । सुबन्तं समर्थन सह समस्यते । कतिपयतिङन्तमात्रविषयोऽयं योगः, मुपसुपति पुनरारम्भात् । अतोऽतिप्रसङ्गो नोद्भावनीयः । यो जात एव पर्यभूषत् । यः शम्बरं अन्वविन्दत् । योगविभागसिद्धस्यासार्वत्रिका स्वान्नेह-सम्प्रयच्छवृष्ण्या इन्द्राय भागम् । अत एव "नित्यं क्रीडा" (अष्टा०सू०२-२-१७) इत्यधिकारे "उदात्तवता गतिमता च तिङा गतेः समासः' (काभ्वा०) इति वार्तिककृता यदुक्तं तदिहैव योग विभज्य साधितं भाष्ये । एवम् "इवेन समासः' (कावा०) इत्यपि सुप्सुपेत्य. नेन सिद्धमित्युक्तम् । युक्तं चैतत् । अन्यथा वार्तिकरीत्या नित्यसमासतापत्तौ 'य आनयत्' 'आयोनयत् सम्प्रयच्छ' इत्यादरसङ्गतत्वापः 'जीमूतस्येव' इत्यादौ तैत्तिरीयाणां पदद्वयत्वेन पाठासङ्गतिप्रसङ्गाच्च । अत एव 'उद्वाहुरिव' इत्यादौ व्यस्तव्यवहितप्रयोगोऽपि सङ्गच्छते, यथोत्तरं मुनीनां प्रामाण्यात् । तिङसमासस्तु छन्दस्येन । अत एव
Page #169
--------------------------------------------------------------------------
________________
१६० शब्दकोस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके"कर्मणा यमभिप्रैति" (अष्टा०स०१-४-३२) इत्यत्रैकपा नेति हरदत्तः । एतदपि असार्वत्रिकत्वादेव सिद्धम् । युक्तं चदम, छाम्दमत्वनैव तत्र सुब्लुको वक्तव्यत्वात् । अन्यथा “एकवचनमुत्सर्गतः करिष्यते" इति भाग्यात्समासादुत्पन्नस्य सोः पर्यभूगदित्यादौ हल्ङयादिलोपसम्भवे. ऽपि यत्प्रकरोतीत्यादौ श्रवणापत्तेः । न च नपुंसकताभ्युपगमेन निर्वाहः 'यत्प्रकुरुते' इत्यादौ हस्वापत्तेः, 'प्रकुरिन्' इत्यत्र नलोपापत्तेश्च । तस्मात्काव्यादौ प्रभवतीत्यादिप्रयोगेषपसर्गः पृथक् पदमेव । 'वागर्थाः विव' इत्यादाविवशब्दस्तु समस्तः पृथग्वा । 'उद्वाहुरिव वामनः' 'कचाचितौ विश्वगिवागजौ गजौ' (कि०स०१श्लो०३६) इत्यादौ पृथगे. वति तत्त्वम् । यत्तु कश्चिदिवेन समासश्छान्दस इत्याह । तनिर्मूलम् , तैत्तिरीयपृथक्पाठविरुद्धं च । इवसमासे समासगां श्रौतीमुपमामुदाह. रतामलङ्कारिकाणां प्रतिकूलं च । किञ्चहरीतकी भुश्व राजन्मातव हितकारिणीम् ।
अद्वैतमण्यनुभवामि करस्य बिल्व.
तुल्यं शरीरमहिनिलयनीव वीक्ष। इत्यादयः समस्तप्रयोगाः 'नास्ति प्रथमान्तेनैव' इत्यन्यपदार्थसू. प्रस्थभाष्यसम्मताः । अत एव अग्निरिव राजो वायुरिव पाश इत्यादि परिशिष्टोदाहरणमपि सङ्गच्छते । इत्यास्तां तावत् ।।
इदं त्ववशिष्यते-तिङ्समासे कृतं परमपि "तिङतिङ" (अष्टा० सू०८-१-२८) इति निघातं बाधित्व. सतिशिष्टत्वात्समासान्तादात्तता प्राप्नोति । न चेष्टापत्तिः, 'पर्यभूषत्' 'तदेवानुप्राविशत्' इत्यादी क्वापि अन्तोदात्तपाठदर्शनात् ।।
अत्रे तत्त्वम् । "तिङिबोदात्तवति" (अष्टा०स०८-१-७१) इति गतेनिघातविधानं सापकं तिङ्समासेऽन्नादाताभावस्यति । भाष्यमते तु "गतिकारकोपपदात्कृत्' (अष्टा०सू०६-२-१३९) इति सूत्रे कृद्रहण. स्य प्रत्याख्यातत्वान्न कश्चिहोष इति । ___ इहेदमवधेयम् । सहेति तिङ्समासे सुम्सुपति विहिते च 'वाग
विव' 'पूर्व भूतो भूतपूर्वः' इत्यादौ अव्ययीभावादिविशेषसंशाः सन्त्येव न, तत्तदधिकारेवस्यापाठात् । एवं 'विस्पष्टण्टु:'. 'काकताली. यः' इत्यादावपि, तत्रापि सुप्सुपेत्यस्य प्रवृत्तेः । “विस्पष्टादीनि गुणव चनेषु" (अष्टा सु०६-२-२४) "समासातद्विषयात्" (अष्टा सु०५-३१०६) इत्यादयः स्वरछप्रत्ययार्थमारम्बमाणा अपि वृद्धकुमारीवरन्यायेन समाससाधका इत्यस्मिन्नपि पक्षे विशेषसंशाविरहस्तुल्य एव । समास
Page #170
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽव्ययीभाषसमासप्रकरणम् ।
१६१
श्चतुर्द्धति तु प्रायोवादमात्रम् । अत एव पठन्ति
कः समास इति प्रश्ने विस्पष्टपटुगोचरे ।
समासमात्रं ये बयुर्विस्पष्टपटवो हि ते ॥ इह विस्पष्टमिति पाटवस्य विशेषणम् । एकदेशान्वयस्थाप्यत्र स्वी. कारः । एवं "पूर्वपदार्थप्रधानोऽव्ययीभावः' इत्यादि पूर्वाचार्यपरिभाषितम् । यद्यपीह तदीयमहासंशाव्यवहारसामर्थ्यात्स्वीक्रियते, तथापि तत्सर्वमौत्सर्गिकमेव, अर्द्धपिप्पल्यादेस्तत्पुरुषस्य पूर्वपदार्थप्राधान्यात् 'उन्मत्तगङ्गम्' इत्यव्ययीभावेऽन्यपदार्थप्राधान्याचेति दिक् । ___ यद्यपि जहत्स्वार्थायां वृत्ती वर्तिपदयोरानर्थक्यम् । अजहत्स्वा.
यां तूभयोरपि विशिष्टार्थता, तथापि एकार्थीभावात्पूर्वस्यामवस्थायां पौ पृथक् पदार्थो तयोवृत्तौ प्राधान्याप्राधान्याभ्यां प्रवेशमाश्रित्योकाना. मौत्सर्गिकव्यवहाराणां निर्वाहो बोध्यः । षोढा चायं समासः । तथाहि,
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा ।
सुबन्तेनेति च प्रोक्तः समासः षड्विधो बुधैः ।। सुपा सुपा-राजपुरुषः । तिङा-पर्यभूषत् । नाम्ना-कुम्भकारः । धातुना-कटकः । अजनम् । तिङान्तिका-पिबतखादता । तिड सुपाजहिजोडः। इह समासे पूर्वपदोत्तरपदपुरस्कारेणायं विभागः। तेन मध्यमानामव्यवस्थितत्वेऽप्यदोषः । एहि रे याहि रे इत्यस्य सुबन्त. पूर्वोत्तरपदत्वात । सर्वेवमीषु पूर्वपदस्य पदत्वमव्यभिचारि । अत पव समासग्रहणं नियमार्थमित्ययं प्रन्यो यत्र पूर्वो भागः पदं तद्विषयकः । तेन 'बहुपटवः' इत्यत्र टकाराकारस्योदात्तता सिध्यतीत्यर्थवस्त्रे व्युत्पादितम् ।
इवेन समासो विभक्त्यलोपः ॥ पूर्वपदप्रकृतिस्वरत्वं च ॥ इह उक्त योगाभ्यां सिद्धं समासमनूध विभकिलोपाभावस्वरौ विधीयते । तिङ. न्तापेक्षया इवशब्दस्य परनिपातस्तु राजदन्तादेराकृतिगणत्वात् । वासयसीव वेधसः । जीमूतस्येव भवति । येषां विशिष्य लक्षणं नास्ति ते समासाः "सह" "सुपा" इत्याभ्यां सिध्यन्तीति स्थितम् ।
अव्ययीभावः (अष्टासु०२-१-५)। अधिकारोऽयम् ।
अव्ययं विभक्तिसमीपसमृद्धिव्यूद्धधर्थाभावात्ययासम्प्रतिशब्दप्रादु. भर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु (अष्टा० सु०२-१-६)। अव्ययमिति योगो विभज्यते इति “गम्मीराज्य" (अष्टा सु०४-३-५८) "अव्ययीभावाच" (अष्टा सु०४-३-५९)इति सत्रे न्यासकारः । तेन 'दिशोमध्यमपदिशम्'इति सिद्धम् शरदादित्वाच ।
शब्द. द्वितीय. 11.
Page #171
--------------------------------------------------------------------------
________________
१६२
शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके
क्लीबाव्ययंत्वपदिशं दिशोमध्ये विदिक स्त्रियाम् । (अ.को.३.१.५) इत्यमरः।
वस्तुतस्तु योगविभागं विनापीष्टसिद्धिरिति सूत्रशेष वक्ष्यामः । विभक्तिरिह कारकशक्तिः, विभज्यतेऽनया प्रातिपदिकार्य इति व्युत्पत्तेः । वचनशब्दः कर्मसाधनः । स च प्रत्येकं विभक्त्यादिभिः सामानाधिकरण्येन सम्बध्यते । पूर्वनिपाताभावः सौत्रः । एवर्थेषु घोतकतया वर्तमानं सुबन्तमव्ययं सुबन्तेन सह एकार्थभूतं सत् समा. ससंशं प्राक्स्यात्ततोऽव्ययीभावसंशमित्यर्थः । यद्यपि सुप्सुपेत्येव समासः सिद्धस्तथापि तस्यासार्वत्रिकता पुनः समासविधिभि प्यते । अत एव महाविभाषातः प्रापाठेऽपि अव्ययीभाववन्न तस्य नित्यस मासता । तथाच स्वपदविग्रह एव तत्र भवति । तथाच "भूतपूर्व च रट्" (अष्टा०सू.५-३-५३)इति सूत्रे वृत्ति:-"पूर्व भूतो भूतपूर्वः। सुपसुपति समासः" इति । तथा शाकलसुत्रे-"सिन्नित्यसमासयोः शाकलप्रति. षेध इति नित्यग्रहणेन नार्थः । इदमपि सिद्धं भवति । वाप्यामश्वो वा. प्यश्वः नद्यामातिनद्यातिः" इति भाग्यं कैयटो व्याख्यत् । सुप्सुपेति समासः । संज्ञायामिति हि समासस्य नित्यत्वात्सिद्धः प्रतिषेध इति । तथा "अनुदासं पदमेकवर्जम्" (अष्टा सु०६-१-१५८)इति सूत्रे "असिद्धः वदत्र" (अष्टा सू०६-४-२२)इति च सूत्रे कैयटेन स्वपदविग्रहो दर्शितः । ननूक्तरीत्या संशायामितिवत्पङ्कजादिष्वपि अविग्रहत्वं स्यादिति चेत् ? सत्यम् , यौगिकार्थमात्रेण साम्यमाश्रित्य विग्रहकथनेऽपि पनत्वस्य समासैकगम्यतया वस्तुतस्तस्येष्टत्वात्। एतेन कृष्णसर्पलोहितशाल्या. दयो व्याख्याताः।।
प्रकृतमनुसरामः, विभक्तो-हरी इत्यधिहरि। येन सुबन्तेन समा. सस्तघटकीभूतैव विभक्तिगृह्यते सन्निधानात् । तदर्थद्योतकश्चेह अधिः शब्दः । न चैवमलौकिके सप्तम्येव दुर्लभा, निपातेनाधिकरणस्याभि. हितत्वात् , तिकृतद्धितसमासैरिति परिगणनस्य प्रत्याख्यास्यमानत्वादिति वाच्यम्, अर्थेन चतुर्थीसमासस्थले यथा वचनसामर्थ्यांदुक्कार्थस्यापि प्रयोगः तथेह वचनसामर्थ्यादभिहितेऽपि सप्तमीत्यभ्युपग. मात् , अब्भक्षन्यायेन वचनग्रहणसामर्थ्येन च विभक्त्यर्थमात्रवृत्तेर. व्ययस्य प्रहणान्नेह । 'गृहस्योपरि' 'प्रामस्य पुरः' । उपर्यादयो हिदि. ग्देशकालेष्वपि वर्तन्ते, न तु विभक्त्यर्थमा। अत एव "क्रमादमुं नारद इत्यबोधि सः" इत्यादौ नातिप्रसङ्गः, इतिशब्दस्य सर्वनामवत् प्रकृतपरामर्शकत्वेन कर्मत्वमात्रानभिधायकत्वात् । एवश्व विभक्ति शब्दः सप्तम्यां पर्यवस्यति । अत एव परिशिष्टे "अधिकरणे" इत्येव सुत्रितम् ।
Page #172
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽव्ययीभावसमासप्रकरणम् । १६३ पाणिनिस्तु मात्रालाघवमभिप्रेत्य विभक्तिशब्दं प्रायुक्त । निपातेना. भिहितत्वात प्रथमान्तेनैवायं समासः षष्ठ्यन्तेन वेत्यपि मतद्वयं परि. शिष्टे स्थितम् । तदपि विभक्तिग्रहणे ऽधिकरणग्रहणे चाविशिष्टम् ।
समीपे-कृष्णस्य समीपमुपकृष्णम् । अव्ययीभाव इत्यन्वर्थसज्ञा. श्रयणादसत्त्वरूपाव्ययार्थप्राधान्यएवायं समासः। समीपवर्तिप्राधान्ये तु बहुव्रीहिं वक्ष्यति "संख्ययाऽव्ययासन्न" (अष्टा०सू०२-२-२५) इति । उपदशा इति यथा । ननु 'समया प्राम' 'निकषा लङ्काम' 'आराद्वनात्' इत्यादावतिप्रसङ्ग इति चेत् ? अत्राह रक्षितः-"अभितः परितः सम. यानिकषान्यारादिति द्वितीयापञ्चम्योर्विधानसामर्थ्यान्नाव्ययीभावः" इति । यत्तूक्तं दुर्घटवृत्तौ-'चित्रस्य ग्रामं समया' इत्यादौ सापेक्षत्वाद. समासे चारितााद्विभक्तिविधानस्य सामर्थ्य नास्ति इति । तन्न, समासस्य नित्यतया "वृत्तस्य विशेषणयोगो न" इत्यस्यैव प्रवृत्यापत्तेः। अन्यथा स्थूलस्य कुम्भस्य कार इत्याद्याप स्यात । ___ समृद्धौ तु-मद्राणां समृद्धिः सुमद्रम् । उत्तरपदार्थप्राधान्ये तु "कु. गति" (अष्टा०स०२-२-१८) इति तत्पुरुषः । समृद्धा मद्राः सुमद्रा इति यथा।
न्यूद्धौ-दुर्यवनम् । न चार्थाभावेनेह सिद्धिः । येन समस्यते तदीया. भावे हि समासः । इह तु यवनानां नाभावः, किं तु तदीयाया वृद्धः। ____ अर्थाभावे-निर्मक्षिकम् । अविघ्नम् । संसर्गाभावेऽयं समासः, न त्व. न्योन्याभावेऽपि, अर्थग्रहणसामर्थ्येन समस्यमानपदजन्यप्रतीतिविशे. ध्यविरोधिन एवाभावस्य ग्रहणात् । अन्योन्याभावस्य प्रतियोगिताव. च्छेदकेनैव सह विरोधात् । तस्य च प्रकारत्वेऽप्यविशेष्यत्वात् । ये तु वदन्ति-'घटः पटो न' इत्यत्रापि पटत्वात्यन्ताभाव एवार्थः आकृत्य. धिकरणन्यायेन जातेः पदार्थत्वादिति, तेषामपि मतेऽर्थग्रहणसामर्थ्यादेवाक्षिप्तधर्म्यभावेऽयं समासो न तु धर्माभाव इति फलं तुल्यमेव । एष एवात्रत्यहरदत्तग्रनास्याप्याशयः। एतेन 'भूतले घटो न' इत्यत्र घटाभावं व्याचक्षाणाः परास्ताः । नित्यसमासप्रसक्त्याऽसाधुतापत्तेः का. रकविभक्तरयोगाश्च । अत एव सिद्धान्ते क्रियाध्याहारेण कारकविशि. ष्टकियाप्रतीतौ तस्या एव निषेधः शाब्दः, भूतलाधारकघटाद्यभाव एवार्थः । गौरवं च प्रामाणिकं व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावश्चायम् । अत एव 'शशशृङ्गं नास्ति' इत्यत्रापि शब्दसाधु. ताऽर्थसाधुता चेप्यत एव । शशशृङ्गास्तित्वच शब्दबलात्प्रततिं निषिध्यते ।
Page #173
--------------------------------------------------------------------------
________________
१६४ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके
अत्यन्तासत्यपि शानमर्थे शब्दः करोतिहि । इत्यभ्युपगमात् । अयोग्यतानिश्चयस्तु न प्रतिबन्धकः । अन्यथा ध्युत्थम्प्रति शब्दो मूक एव स्यात्प्रतिवादिनः शब्दाद्वाक्यार्थाप्रतात। तत्खण्डनकथाप्युच्छिद्येत । आहार्यः शान्दो बोध इति वास्तु । एतेन
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥
(मगी०अ०१श्लो०२३) इत्यादि व्याख्यातम् । अन्यथा आत्मकर्मकच्छेददाहलेदशोषाप्रसि. धापार्थतापत्तेरिति दिक् ।
अत्ययः-हिमस्यात्ययः अतिहिमम् । अत्ययो ध्वंसः । ध्वंसत्वं चामावस्वव्याप्यमखण्डमेवेत्यर्थाभावात्पृथगुपादानम् । 'सम्प्रति इत्यव्ययमधिकरणशक्तिप्रधानम् । तथाचोकममरणएतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा।
(अ०को०३-४-२३) इति । न जातु अधिकरणकारकाक्षिप्ता युज्यते, इत्येषा क्रिया निषि. ध्यते । निद्रा इदानीं न युज्यते इत्यतिनिद्रम । वृत्तौ तु अतितैसकमा.
छादनमित्युदाहृतम् । तिसृका नाम ग्रामः । तिसृभवि संशायां कन्यु: पसंख्यानम् । तत्र भवं तैसकमाच्छादनम् । तच विशिष्टकाले उपभो ग्यम् । उणे शीते वा । तथाच नेदानीमुपभोगार्थे तैसकमाच्छादन मित्यर्थः । इह वृत्तावुपभोगक्रिया अन्तर्भूता 'दध्युपसित ओदनो दध्यो दनः' इत्यत्रोपसेको यथा । आच्छादनापेक्षस्यापि तैसृकशब्दस्य गमक. त्वात्समास इति हरदत्तः ।
शब्दप्रादुर्भाव-इतिहरि । इतिशब्दः स्वरूपपरः । तस्य प्रकाश इति षष्ठ्यन्तेन विग्रहः । __ पश्चादर्थ-अनुरथ्यम् । रथानां पश्चादित्यर्थः । व्यृद्धिशब्दस्याल्पा उतरस्यापूर्वनिपातेनास्यानित्यत्वज्ञापनादिह वाक्यस्य साधुतेत्याहुः । समीपादिवृत्तिभिरतद्धितान्तैः साहचर्यात्तथाविधस्यैवेह ग्रहणम् "ततः पश्चात्स्य ते ध्वंस्यते च” इति भाग्याच्च । “अनेकमन्यपदार्थे" (अष्टान्सू०२-२-२४) इति सूत्रे 'सर्वपश्चात्' इति भाष्यप्रयोगाच्चेति तु तत्त्वम् ।
योग्यतावीप्सापदार्थानतिवृत्तिसारश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमित्यर्थः । वीप्सायां प्रत्यर्थम् । अर्थमर्थ प्रतीत्यर्थः । इह बाक्यमपि साधु । न ात्राव्ययं वीप्सावृत्ति, किंतु कर्मप्रवचनीयत्वा.
Page #174
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽव्ययीभावसमासप्रकरणम् । १६५ सम्बन्धमवच्छिनात्त । वीप्सा तु द्विवंचनेन प्रोक्ता । यता, प्रतिशब्द. स्य वीप्साथै कर्मप्रवचनीयसंझाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भ वाक्यमपि भविष्यति । यथाशक्ति । शक्तिमनतिक्रम्येत्यर्थः । हरेः सा. दृश्यं सहरि ।
अनुपूर्वस्याभाव आनुपूर्व्यम् । ब्राह्मणादित्वात् ज्या । व्यञः षिक. रणात् स्त्रियामपि प्रयुज्यते । अनुज्येष्ठं ज्येष्ठानुपूर्येणेत्यर्थः।
योगपधे-सचक्रम् । सहशब्दस्य समासः । “अव्ययीभावे चाकाले" (अष्टा सू०६-३-८१) इति सभावः । एवमग्रेऽपि ।
सादृश्ये-सदृशः सख्या ससखि । वृत्तौ तु 'सकिखी इत्युदाहृतम् । अपचितपरिमाणा शृगाली किखी । यथार्थत्वेनैव सिद्ध पुनः सादृश्य. प्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । 'सशः सख्या ससखी'इत्यत्र हि सादृश्यवतः प्राधान्यम् । तेनाव्ययार्थप्राधान्याभावात् 'समृद्धा मद्राः सुमद्राः' इत्यत्रेवाव्ययीभावो न स्यात् ।
सम्पत्तिरनुरूप आत्मभावः । सब्रह्मगगोणां तेषामनुरूपो ब्रह्मभाव इत्यर्थः ।
साकल्ये-सतृणमभ्यवहरति । न किञ्चित्परित्यजतीत्यर्थः । न त्वत्र तृणभक्षणे तात्पर्यम्।
अन्तवचने-सान्यधीते । अग्न्यादयः शब्दास्तदर्थे ग्रन्थे वर्तन्ते तदानी परिगृहीतस्य प्रदेशस्याग्न्यादिरन्तो न तु ततः परेणाध्ययनं नास्तीति । अतः साकल्यात्पृथगन्तग्रहणम् । अग्नेरन्तत्वमिति षष्ठ्य. न्तेनास्वपदविग्रहः । इह वचनशब्दोऽतिरिच्यते । तेन द्वन्द्वसाकल्या. स्पृथगन्तग्रहणमाश्रित्य योगविभागफलीभूतम् 'अपदिशम्'इत्यादि सु. साधमिति तु निष्कर्षः।
यथाऽसादृश्ये (अष्टा सु०२-१-७)। पूर्वेण सिद्धे साठश्यनिरासा. 'म । यथेत्येतदसादृश्ये एव समस्यते न तु सारश्ये इत्यर्थः । तेनेह ..। यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तत्र सादृश्य इति वा यथार्थ इति वा पूर्वेण प्राप्त निषिध्यते ।
यावदवधारणे (अष्टा०स०२-१-८) । इयता परिच्छेदे वर्तमान यावदित्येदव्ययं सुपा सह समस्यते सोऽव्ययीभावः । यावदमत्रं ब्राह्म णानामन्त्रयस्व । यावदित्यव्ययस्य नित्यसमासेऽपि तद्धितान्तेनान. व्ययेन स्वपदविग्रहः । यावन्त्यमत्राणीति । अवधारणे किम् ? यावह तावद्भुक्तम् । कियद् भुक्तमिति नावधारयामीत्यर्थः ।
सु प्रतिना मात्रार्थे (अष्टा०पू०२-१-९) । मात्रा बिन्दुः स्तोकमि
Page #175
--------------------------------------------------------------------------
________________
१६६ शब्द कौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके
त्यल्पपर्यायाः । मात्रार्थे वर्त्तमानेन प्रतिना सह सुबन्तं समस्यते सोऽव्ययीभावः । शाकस्य लेशः शाकप्रति । सूपप्रति । मात्रार्थे किम् ? वृक्षं प्रति विद्योतते विद्युत् । सुप्ग्रहणमव्ययाधिकारनिवृत्यर्थम् । अन्यथा हि 'दोषामन्यमहः ' 'दिवामन्या रात्रिः' इति वृत्तिविषये सत्त्वप्रधानता दर्शनात्तादृशाव्ययान्येव मात्रार्थे प्रतिना समस्येरन्निति भावः ।
अक्षशलाका संख्याः परिणा (अष्टा०सु०२ - १ - १० ) । एताः परिणा समस्यन्ते सोऽव्ययीभावः । द्यूतकारव्यवहारे चायं समास इष्यते । पश्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति । तत्र यदि सर्वे उत्तानाः पतन्त्यवाञ्चो वा तदा पातयिता जयत्यन्यथा तु जीयते । तत्र पराजय एवायं समासः । अक्षेण विपरीतं वृत्तं अक्षपरि । शलाका परि । एकपरि । द्विपरि । त्रिपरि । परमेण चतुः परि । पञ्चसु त्वेकरूपेषु जय एव भविष्यति । अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत् ॥ किं तव व्यवहारे स्यादेकत्वेऽनशलाकयोः ॥ परमेणेत्यादेर्वृत्तिग्रन्थस्यायमर्थः । परमेण अतिशयेनान्यतः परं पञ्चपरीति न भवतीति यावत् । अस्योपपादनाय श्लोकः - पञ्चस्विति । एकरूपेष्विति । “पुमान् स्त्रिया” (अष्टा०सू०१-२-६७ ) इत्येकशेषः । तृती· यान्ता इति । कर्तृत्वादिति भावः । पूर्व परिभाषितस्य यथा एकरूपं वर्त्तनं सम्प्रति यदि तन्नेत्यर्थः । विपरीतवर्तने परिणा द्योत्ये समास इति यावत् । एकत्वे इति । अन्यथा 'राजपुरुषः ' इत्यादाविवाभेदेकत्वमवगम्येत न तु शुद्धमेकत्वम् । प्रकरणादिना द्वित्वाद्यवगमे च प्रसज्येत । भवद्भिरामवसर प्रदानाय वचांसि नः ।
इत्यादाविवेति भावः ।
विभाषा (अष्टा०सु०२-१-११) । अधिकारोऽयम् ।
I
अपपरिबहिरञ्चवः पञ्चम्या (अष्टा०सु०२-१-१२) । एते पञ्चम्या वा समस्यन्ते सोऽव्ययीभावः । अपहरि संसारः, अपहरेः । परिहरि, परिहरेः । बहिर्ग्रामम्, बहिर्ग्रामात् । प्राग्ग्रामम् । प्राग्ग्रामात् । इहापपरी परस्परसाहचर्याद्वर्जनार्थौ । तौ च कर्मप्रवचनीयौ " अपपरी वर्जने" (अष्टा सु०१–४–८८) इति । तद्योगे पञ्चम्यैव भाग्यम् – “पञ्चम्यपापरि• भिः” (अष्टा०सु०२-३ - १० ) इति । अञ्चतिरप्यपपरिसाहचर्यादव्ययमेव गृह्यते तद्योगेऽप्यञ्चूत्तरपदलक्षणया पञ्चम्या भाव्यम् । इत्थंस्थिते पञ्चम्येति ज्ञापनार्थ बहिर्योगे षष्ठ्यर्थे पञ्चमी भवतीत्यस्य ।
-
आङ् मर्यादाभिविध्योः (अप्रा०सु०२-१-१३) । एतयोराड़ पञ्चम्य
Page #176
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽव्ययीभावसमासप्रकरणम्।
न्तेन : समस्यते सोऽव्ययीभावः । आमुक्ति आमुक्ती संसारः । आ. बालं हरिभक्ति, आबालेभ्यः । इह मर्यादाभिविध्योरिति शक्यमकर्तुम् । कर्मप्रवचनीयनैव ह्याङा योगे पञ्चमी विहिता । कर्मप्रवचनीयता च एतयोरेवार्थयोः "आङ् मर्यादावचने" (अष्टा०सू०१-४-८९) इति । तत्र हि वचनग्रहणं मर्यादोक्तिमात्रे यथा स्यादित्येवमर्थम् । अस्तु वा तत्रैः वाभिविधिग्रहणम् ।
लक्षणेनाभिप्रती आभिमुख्ये (अष्टा०स०२-१-१४) । अभिमुख्यद्यो. तकावभिप्रती चिन्हवाचिना सह वा प्राग्वत् । अभ्यग्नि शलभाः पत. न्ति । प्रत्यग्नि । अग्निमभि । अग्नि प्रतीति विग्रहः । “अभिरभागे' (अष्टासु०१-४-९१) "लक्षणेत्थंभूत" (अष्टा०सू०१-४-९२) इति चा. भिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया । इहाभिप्रती लक्ष्यलक्षणभावमा. भिमुख्यं चेत्युभयं द्योतयतः । लक्षणेन किम् ? घुघ्नं प्रतिगतः । त्रुध्नादागतस्तमेव प्रतिनिवृत्त इत्यर्थः । अत्र खुनः कर्मीभूतो न तु लक्षणम् । अभिप्रती किम् ? येनाग्निस्तेन गतः। येन देशेनाग्निर्गत. स्तेन गत इति प्रतीतेर्भवति गमनस्याग्निर्लक्षणम् । आभिमुख्यमप्य स्तीति येनतेनशब्दयोरग्निशब्देन सह समासः स्यात् । आभिमुख्य इति किम् ? अभ्यङ्काः गावः प्रत्यङ्काः । अभिनवः प्रतिनवश्चाङ्क आसा. मिति बहुव्रीहिः । अङ्कोऽत्र भवति गवां लक्षणम् । आभिमुख्यं तु ना. स्ति । नन्वव्ययार्थप्राधान्येऽव्ययीभाव इत्युत्सर्ग इत्युक्तम् । तत्कथमिह प्रसङ्गः ? सत्यम् , इह प्रकरणे बहुव्रीहिविषयेऽप्यव्ययीभावो भवतीति ज्ञापनार्थमिदम् । तेन “संख्या वंश्येन" (अष्टा सू०२-१-१९) 'द्विमुनिव्याकरणम्' इत्यादि सिद्धम् । ___ अनुर्यत्समया (अष्टा सू०२-१-१५)। यं पदार्थ समया तेन लक्ष. णभूतेनानुः समस्यते सोऽव्ययीभावः । सूत्रे तु यदिति समान्ये नपुंस. कम् । अनुवनमशनिर्गतः । वनस्यानु । वनस्य समीपं गत इत्यर्थः । अ. नुरिति किम् ? वनं समया । यत्समयेति किम् ? वृक्षमनु विद्योतते विद्यत । “अव्ययं विभक्ति" (अष्टा०म०२-१-६) इत्येव सिद्धे बि. भाषार्थ सुत्रम् ।
यस्य चायामः (अष्टा०स०२-१-१६) । यस्यायामोऽनुना द्योत्यस्तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । आयामो दैर्घ्यम् । अनु. गङ्गं वाराणसी। गङ्गाया अनु । इहायामो लक्षणत्त्वंचानुना द्योत्यते । लक्ष्यं तु समासार्थः। अत एव वाराणस्या सामानाधिकरण्यम्, गङ्गाया यद्दर्य तदुपलक्षितेत्यर्थात् । गङ्गा च दैर्घ्यद्वारोपलक्षणम् । तेन गङ्गा
Page #177
--------------------------------------------------------------------------
________________
१६८ शब्दकौस्तुभद्वितीयध्यायप्रथमपादे द्वितीयाम्हिकेदैय॑सहशदैयोपलक्षिता काशी उदीर्यतीति फलितोऽर्थः ।
तिष्ठद्गुप्रभृतीनि च (अष्टा सु०२-१-१७)। एतानि निपात्यन्ते । तिष्ठन्ति गावो यमिन् कालविशेषे स तिष्ठद्गु दोहनकालः । चकार. पवकारार्थे । तेनैषां वृत्यन्तरं न भवति । 'परमतिष्ठद्गु' इत्यादि न भवतीत्यर्थः । कथं तर्हि
आतिष्ठद्गु जपन् सन्ध्यां पश्चिमामायतीगवम। इति भट्टिरिति चेत् ? अव्ययीभावधिलक्षणं समासान्तरं व्यावय॑ते । "आक् मर्यादाभिविध्योः" (अष्टा सू०२-१-१३) इतीहाव्ययीभावस्तु भवत्येवेति जयमाला। इदं च 'आयतीगवम्' इत्येतदनुरोधेनावश्यं वाच्यम् । 'अतिष्ठद्गु' इत्यत्र तु पृथक्पदत्वं पञ्चम्याश्च लुगित्यपि सुव. चम्। “नाव्ययीभावादतः" (अष्टा सू०२-४-८३) इति निषेधादम्त्वपः चम्या इत्युक्तेश्चायतीगवादिति केचित्पेठुः। खलेप्वादीनि प्रथमान्ता. नि । प्रातिपदिकार्थमात्र एषां प्रयोगो नान्यत्रेत्यर्थः । तिष्ठद्गु । वहद्गु । शत्रादेशो निपातनात् । “गोस्त्रियोः" (अष्टासु०१-२-४८) इति हस्वः। आयतीगवम् । इह शत्रादेशः पुंवद्रावाभावः समासान्तश्च निपात्यते । खलेयवम् । खलेबुसम् । सप्तम्या अलुक् । लूनं यवम् । लूनमानयवम् । लूयमानबुसम् । संहियमाणबुसम् । एते कालशब्दाः । समभूमि । सम. पदाति । समत्वं भूमेरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः । समम्भूमि समम्पदातीति पाठान्तरम् । तत्र पूर्वपदस्य मुमागमः । सम्भूमि सम्प. दातीत्यपरः पाठः। तत्र समस्यान्तलोपः । संशब्देन वा समासः । सुषमम् । विषमम् । दुःषमम् । निःषमम् । अपसमम् । इह समस्य शो. भनत्वं विगतत्वं निर्गतत्वमपगतत्वं चेति विग्रहः । आयतीसमा । आय. तीसमम् । शत्रादेशः पूर्ववत । पुंवद्भावाभावश्च । समा संवत्सरः । एवं पापसमम् । पुण्यसमम् । प्राहम् । प्रमृगम्। प्रस्थम् । प्रदक्षिणम् । एषु चतुर्पु प्रगतत्वमन्ह इत्यादिविग्रहः । सङ्गतत्वं प्रति गतस्य सम्प्रति, विपरीतमसम्प्रति। "इच् कर्मव्यतिहारे" (अष्टा सू०५-४-१२७) । दण्डादण्डि । अयमेव द्विदण्डादिष्वपि विधीयते इति तत्राप्यव्ययी. भावत्वं बोध्यम्।
पारेमध्ये षष्ठ्या वा (अष्टा सू०२-१-१८)। पारमध्यशन्दी पख्य. न्तेन सह वा समस्येते सोऽव्ययीभावः । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । महाविभाषया ोकार्थीभावस्य पाक्षिकतामात्रं लभ्यते । सति त्वेकार्थीभावेऽव्ययीभावस्तत्पुरुषं बाधेत । अतः पाक्षिकं तत्पुरुषं लन्धुमिह पुनर्वाग्रहणम 'व्यपेक्षां सामर्थ्यमेके' इति पक्षे तु
Page #178
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । वत्रोत्सर्गापघादं महाविभाषया विकरूप्यते तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तते इति ज्ञापनायेदम् । एवम् "उदश्वितोऽन्यतरस्याम्" (अष्टा० सू०४-२-१९) इत्यपि । तेन पूर्व कार्यस्येत्येकदेशिसमासेन युक्ते षष्ठी. समासो न भवति । दक्षस्यापत्यं दाक्षिरितीना युक्तेऽण् न भवति किं तूभयत्र वाक्यमेव । एकारान्तत्वनिपातनं तु यत्र सप्तम्यर्थो न सम्भ. पति तदर्थम् । पारेगङ्गात् मध्येगङ्गादानयेति यथा । सप्तम्यर्थसम्भवे तु "तत्पुरुषे कृति बहुलम्" (अष्टा सू०६-३-१४) इति बहुलग्रहणाद. लुक्यपि सिद्धम्।
संख्या वश्येन (अष्टा०सू०२-१-१९)। वंशो द्विधा-विद्यया जन्म. नाच । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते सोऽव्य. यीभावः। द्वौ मुनी पाणिनिकात्यायनी वश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि। जन्मना यथा-एकविंशति भारद्वाजम् । कथं तर्हि त्रिमनि व्याकरणमिति सामानाधिकरण्यमिति चेत् ? विद्यया सह तद्वतामभे. दोपचारादिति वृत्तिकाराः । “लक्षणेनाभिप्रती" (अष्टा०सू०२-१-१४) इति सूत्रे आभिमुख्यग्रहणादेव तत्सिद्धमिति तु प्रागेवोक्तम् ।
नदीभिश्च (अष्टा०सू०२-१-२०) । नदीभिः संख्या प्राग्वत् । समाहारे चायमिष्यते । सप्तगङ्गम् । द्वियमुनम् । स्वरूपस्य सज्ञा । नद्याश्च नेह ग्रहणम्, बहुवचननिर्देशात् । ___ अन्यपदार्थे च सज्ञायाम् (अष्टा०स०२-१-२१) । अन्यपदार्थ वि. धमान सुबन्तं नदीभिः सह नित्यं समस्यते सज्ञायां सोऽव्ययीभावः । विभाषाधिकारेऽपि वाक्येन सज्ञानवगमादिह नित्यसमासतेति वृत्तिः । शाकलसूत्रे कैयटस्वरसोऽप्येवम् । न चैवं न्यायसाम्यावहुवीहेरपि नित्यतापत्तिः, 'चित्रा यष्टीःप्रवेशय' इत्यत्र वाक्येऽपि यष्टिधरप्रतीतेरिति दिक् । उन्मत्तगङ्गं नाम देशः। लोहितगङ्गम् । तूष्णींगङ्गम् । शनैर्गङ्गम् । अन्यपदार्थे किम ? कृष्णवेणी । सञ्चायां किम् ? शीघ्रगङ्गो देशः।
तत्पुरुषः (अष्टा००२-१-२२) । अधिकारोऽयः प्राग्बहुवीहेः। द्विगुश्च । (अष्टा सू०२-१-२३)। द्विगुरपि तत्पुरुषसञ्जः स्यात् । संख्यापूर्वो द्विगुश्चेति चकारपाठमात्रेण सज्ञासमावेशसिद्धरिदं सुत्रं व्यर्थम् । द्विगोस्तत्पुरुषत्वे टजचौ प्रयोजनम् । पञ्चराजम् । “राजाहःसत्रिभ्यः" (अष्टा०सू०५-४-९१) इति टच् । उत्तरपदस्यानकारान्तत्वात् स्त्रीत्वाभावः । समासार्थोत्तरपदान्ताः समासान्ता इति पक्षे तु पात्रादि. त्वं बोध्यम । वृत्तौ तु 'पञ्चराजी' इति काचित्कोऽपपाठः । यहः । “अह. टखोरेष" (अष्टा०स०६-४-१४५) इति टिलोपः। “रात्राहाहाः पुंसि"
Page #179
--------------------------------------------------------------------------
________________
१७०
शब्द कौस्तुभद्वितीयाध्याय प्रथमपादे द्वितीयान्हिके
( अष्टा०सू०२-४-२९) पञ्चगवम् | "गोरतद्धितलुकि' (मष्टा०सु०५-४९२) इति टच् । प्राग्वत् स्त्रीत्वाभावः । अङ्गुलम् । “तत्पुरुषस्याङ्गुलेः . संख्याव्ययादेः " (अष्टा०सू०५-४-८६ ) इत्यच् ।
द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (अष्टा०सू०२-१-२४) । द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते स तत्पुरुषः 1 कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः । कूपपतितः । अत एव निपातनादिट् । अन्यथा " तनिपति" (का०वा० ) इति विकल्पतेर् कत्वाद् "यस्य विभाषा" (अष्टा०सू०७-२- १५ ) इति निषेधः स्यात् । यद्वा कृतीप्रभृतीनां "सेसिचि" (अष्टा०सु०७ - २-५७) इत्यादिनेवि कल्पान्निष्ठायामनिट्कत्वे सिद्धे इदित्करणं " यस्य विभाषा" (अष्टा० सू०७-२-१५) इत्यस्यानित्यतां ज्ञापयति । अत एव 'धावितमिभराजधिया' इत्यादि सिध्यति । ग्रामगतः । तुहिनात्यस्तः । सुखप्राप्तः । सुखा पन्नः । इह श्रितादिषु गत्यर्थत्वात्कर्त्तरि कः । अत्यासो व्यतिक्रमो गतिविशेष एव । प्राप्तिरपीह गतिरेव न तु फलम् । एवमापत्तिरपि । यद्वा, श्रितइत्यादावादिकर्मणि तः ।
स्यादेतत् । कर्मणि कान्तेन सह तृतीयार्थे बहुव्रीहिणाऽपि कृष्णश्रितादिरूपसिद्धौ किमनेन सूत्रेण ? कृष्णकर्मकश्रयणकर्तेति बोधस्योभ यत्राविशेषात् । ननु " कर्मणि क्तः" इति पक्षे प्रत्ययार्थः कर्म श्रयणं प्रति विशेष्यं स्यादिति चेत् ? न, विशेषणविशेष्यभावव्यत्यासेनैव बहुव्रीहिस्थले एकार्थीभावो ऽवश्याभ्युपेय इत्यकथितसूत्र एवोकत्वात्, पतं त्सुत्रे भाष्ये तथैवोक्तत्वाच्च । न च स्वरे भेदः । तत्पुरुषेऽपि हि श्रितपतितगतेभ्यः पूर्वपदं प्रकृतिस्वरं भवति । "अहीने द्वितीया" (अष्टा०सू० ६-२-४७) इति वचनात् । अतीतादिभिस्तु स्वरसिद्धये विधीयतां तत्पुरुषः । तथाहि . तैस्तत्पुरुषे थाथादिस्वरेण भाव्यम्, न त्वहीनस्व. रेण; अतीतात्यस्तयोरहीन इति निषेधात् । प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात् । बहुव्रीहौ तु पूर्वपदप्रकृतिस्वरेण भाव्यमिति । तस्माच्छ्रितपतितगतैः समासो न विधेयः । एवञ्च "अहीने द्वितीया " (अष्टा०सू०७-२-४७) इति सूत्रमपि मास्त्विति महदेव लाघवम् । नन्वेवं जात्यादिभ्यः परेषु श्रितादिषु स्वरे दोषः स्यादेव "जातिकाल सुखादिभ्योनाच्छादनात् कोकृतमितप्रतिपन्नाः" (अष्टा०सू०६-२-१७) इत्यः न्तोदात्तप्रसङ्गात् । तत्पुरुषारम्भपक्षे हि बहुव्रीहेरन्तोदात्तता तत्पुरुषस्य पूर्वपदप्रकृतिस्वरश्चेति द्वैस्वर्ये सिद्धति । प्रत्याख्यानपक्षे त्वन्तोदात एवेति वैषम्यादिति चेत् ? न, बहुव्रीहावेव द्वैस्वर्यस्य सुसाधत्वात् ।
Page #180
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१७१
तथाहिं, "वा जाते" (अष्टा०सू०६-२-१७१) इत्यत्र वाजातश्रितपतित. गतेष्विति वक्तव्यम् । न चैवं लाघवे विशेषो नेति वाच्यम् "अहीने द्वि. तीया" (अष्टाम०७-२-४७) इत्यस्यानारम्भेण लाघवस्य स्पष्टत्वात ।
एतावांस्तु विशेषः-तवं समासद्वये द्वैस्वयं मम तु बहुव्रीहिणैव द्वैस्वर्यमिति । अत्राहुः । बहुव्रीहिणा 'कृष्णश्रितः' इत्यादि न सिध्यति "निष्ठा" (अष्टा सू०२-२-३६) इति पूर्वनिपातप्रसङ्गात् । जातिकाल. सुखादिभ्यो हि निष्ठायाः परनिपात उपसंख्यातो न तु जात्यादिभ्यो. ऽन्यत्रापि । किञ्च जात्यादावपि रूपं भिद्यत् , पूर्वपदप्रकृतिस्वरपक्षे. ऽपि पाक्षिकशैषिककप्प्रसङ्गात् । त्वया बहुव्रीहावेव द्वैस्वर्यस्य सूत्रि. तत्वात् । सिद्धान्ते तु तत्पुरुषे "अहीने द्वितीया" (अष्टा०सू०-७-२-४७) इति स्वरोऽस्ति न तु कप् । बहुव्रीह। तु कबस्ति न तु पूर्वपदस्वरः। तथा चोक्तस्वरकपौ न क्वापि समाविशतः। तस्माद्यथान्यासमेवा. स्तु । गौरवं च प्रामाणिकमिति स्थितम् ।
गमिगाम्यादीनामुपसंख्यानम् । ग्रामं गमी ग्रामगमी । “गमेरिनिः" (उ०सू०४-५४) इत्यौणादिक इनिः । स च भविष्यत्काले "भविष्यति गम्यादयः" (अष्टा०सू०३-३-३) इत्युक्तेः। यस्तु "आङि च णित" (उ० सू०४-५५) इतीनिः, सोऽपि गम्यादिपाठाद्भविष्यति । णित्त्वाद्वृद्धिः। आगामी । बाहुलकात्केवलादपि । तेन गामीति माधवः । ग्राम गामी प्रामगामी । “अकेनोभविष्यदाधमर्ययोः" (अष्टा सू०-२-३-७०) इति कृद्योगलक्षणषष्ठीनिषेधात् कर्मणि द्वितीया । केचिनु आवश्यके णिनिः। अभविष्यदर्थत्वेऽपि “गत्यर्थकर्मणि" (अष्टा सू०२-३-१२) इत्यत्र द्वितीयाग्रहणमपवादविषयापि विधानार्थमिति कृत्प्रयोगेऽपि द्वितीयैवेत्याहुः । तनु भाष्यविरुद्धम् , भाष्ये गत्यर्थसूत्रस्य प्रत्याख्याततया कृद्योगे षष्ठया एव स्वीकारात् । एतेन
तथाविदूराद्रिरदरताङ्गमी
यथा स गाभी तव कोलशैलताम् । ' इति श्रीहर्षप्रयोगो व्याख्यातः । अन्नं बुभुक्षुरनबुभुक्षुरित्यादि ।
स्वयं क्तेन (अष्टा०सू०२-१-२५)। स्वयमित्येतत्सुबन्तं तान्तप्रकृति. केन सुबन्तेन समस्यते स तत्पुरुषः। ऐकपद्यं समासप्रयोजनम् । तेन. "आमएकान्तरम्' (अष्टा०सू०८-१-५५) इति निघातनिषेधः स्वायंक. तिरिति तद्धितश्च सिध्यति । द्वितीयाग्रहणं तूत्तरार्थतयाऽनुवृत्तमपि नेह सम्बध्यते, स्वयमित्यस्यात्मनेत्यर्थकस्य कत्रर्थकतया द्वितीयान्त. स्वानुपपत्तेः।
Page #181
--------------------------------------------------------------------------
________________
१७२ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके
खट्वा क्षेपे (अष्टा०सू०२-१-२६) । खट्वाप्रकृतिकं द्वितीयान्तं का. न्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम्। खट्वारूढो जाल्मः। “जाल्मोऽसमीक्ष्यकारी स्यात्" (अ०को०३-१-१७) इत्यमरः । वेदं व्रतानि च समाप्य समावृतेन हि खट्वाऽऽरोढव्या । ब्रह्मचर्य एव भूमिशयना)ऽपि यः खट्वामारोहति स जाल्मरुढश्वायम् । तेन खट्वामारोहतु मावा नि. षिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ उच्यते । अत एव विभाषाधिका. रेऽपि नित्यसमासोऽयम् । न हि वाक्येन निन्दा गम्यते इति वृत्तिकृतः।
सामि (अष्टा सू०२-१-२७)। सामीत्येतदव्ययमर्द्धशब्दपर्यायः । तस्यासत्ववाचित्वाद् द्वितीयया नास्ति सम्बन्धः। तत्सुबन्तं कान्तेन वा समस्यते स तत्पुरुषः । सामिकृतम् ।
कालाः (अष्टा सू०२-२-२८)। कालवाचिनो द्वितीयान्ताः क्तेन सह प्राग्वत् । अनत्यन्तसंयोगार्थ वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । "माङ् माने" (दि०आ०११४२) आदिकर्मणि । कर्तरि क्तः । मासं परि. 'च्छेतुमारब्धवानित्यर्थः । इह प्रतिपच्चन्द्रेण नास्त्यत्यन्तसंयोगः।
अत्यन्तसंयोगे च (अष्टा०स०२-१-२९)। अकान्तार्थ वचनम् । कालवाचिनः शब्दाः द्वितीयान्ताः अत्यन्तसंयोगे सुपा संह प्राग्वत् । मुहूर्त सुखं मुहूर्तसुखम् । मुहूर्तव्यापीत्यर्थः । "कालाधनोरत्यन्तसंयो. गे" (अष्टा०सु०२-३-५) इति द्वितीया।
तृतीया तत्कृतार्थेन गुणवचनेन (अष्टा सु०२-१-३०)। तत्कृतेति पृथक् लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेन अर्थ: शब्देन च सह समस्यते स तत्पुरुषः । तच्छब्देन तृतीयान्त. परामर्शिना तदर्थो लक्ष्यते । तदर्थकृतत्वं च गुणवचनस्यार्थद्वारकं वि. शेषणम् । तथाच तृतीयान्तार्यकृतो यो गुणस्तद्ववचनंति फलितोऽर्थः । शङ्कलया खण्डः । शङ्कलाखण्डः । किरिणा काणः किरिकाणः । "ख. डि भेदने" (चु०3०१५८१) "कण निमीलने" (चु उ०१७१५) आभ्यां घत्रि व्युत्पादितावेतो क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मतुः ब्लोपादभेदोपचाराद्वा तद्वति द्रव्ये वर्त्तते इति गुणवचनौ भवतः । धान्येनार्थो धान्यार्थः । अयंते इत्यर्थः, प्रयोजनम् । अर्थन वा अर्थः, प्रार्थना । अभिलाषः । सर्वत्र करणे तृतीयायाः समासः । तत् छतेनेति किम् ? अरुणा काणः। किञ्च यत्र शङ्कलाखण्डादौ पूर्वोत्तरपदार्थयोः क्रियाकारकभावः सम्बन्धस्तत्र चरितार्थ वचनम् । यथा 'वा भुते पटुः' इत्यादौ न भवति, असामर्थ्यात् । तथेहापि न स्यात्-'दक्षा पटुः' 'कुङ्कमेन लोहितं मुखम्' इति । इह हि गम्यमानया करोतिक्रि.
Page #182
--------------------------------------------------------------------------
________________
विधिशेषप्रकरण तत्पुरुषप्रकरणम् ।
१७३
यया करणस्य सम्बन्धः । तस्माद्यत्रोत्तरपदे क्रिया न गम्यते तत्रापि तत्कृतत्वे सति यथा स्यात् भोजनादिद्वारके सामर्थ्यं मा भूदिति तः त्कृतग्रहणम् | गुणवचनेनेति किम् ? गोभिर्वपावान् । गोसम्बन्धिदध्यादिभोजनाद्देवदत्तस्य वपावत्वं पविरत्वमित्यस्ति तत्कृतत्वं न त्वसौ गुणवचनः । वचनग्रहणं किम् ? यावता अर्थेन समास सम्भवा तद्वाची ग्रहीष्यते । अत्राहुः, गुणमुक्तवान् गुणवचनः । "कृत्यल्युटो बहुलम्” (अष्टा०स्तू०३-३-११३) इति भूते कर्तरि ल्युट् । गुणमुकवता सम्प्रति गुणोपसर्जनद्रव्यवाच्चिनेत्यर्थः । तेन 'घृतेन पाटवम्' इति गु 'णमात्रनिष्ठेन न भवतीति । गुणश्चात्र 'सत्वे निविशतेऽवैति" इति व क्ष्यमाणो गृह्यते ।
पूर्वसदृशसमोनार्थ कलह निपुणमिश्र श्लक्ष्णैः (अष्टा०सू०२-१-३१) । एतैः सह तृतीयान्तं प्राग्वत् । अस्मादेव वचनात्पूर्वादियोगे तृतीया हेतौ वा द्रष्टव्या । मासेन पूर्वः मासपूर्वः । मात्रा सदृशः मातृसदृशः । मातृसमः । इह समसदृशाभ्यां योगे “तुल्यार्थैः” (अष्टा०सू०२-३-६२) इति तृतीया ।
स्यादेतत् । तुल्यार्थयोगे पक्षे षष्ठयप्यस्ति । ततः षष्ठीसमासेनैव सिद्धे किमिह सदृशग्रहणेन । न च तत्पुरुषे तुल्यार्थतृतीया" (अष्टा० सू०६-२-२ ) इति पूर्वपदप्रकृतिस्वरार्थे तत् "सदृशप्रतिरूपयोः सादृश्ये” (अष्टा०सू०६-२-११) इति, तत् सिद्धेः । न च तत्र सदृशग्रहणमेव मास्त्विति वाच्यम्, षष्ठीसमासपक्षे अन्तोदात्तत्वं वारयितुं तस्वीकारावश्यम्भावात् । न चानभिधानात्पष्ठीसमास एव मास्त्विति वाच्यम्, दास्याः सदृश इति रूपासिद्धिप्रसङ्गात् । इह हि "बष्ठया आक्रोशे" (अष्टा०सु०६-३ - २१) इत्यलुक्समासः स्वीकृतो भाष्ये । नन्वे मपि तु तृतीयान्तेन समासार्थ प्रकृते सदृशग्रहणमस्तु - विद्यया है. तुना सहशो विद्यासदृश इति । नह्यत्र “तुल्यार्थैः' (अष्टा०सू०२-३-६२) इति षष्ठी लभ्यते, प्रतियोगिन्येव तद्विधानादिति चेत् ? न, तत्कृतत्वापूर्वेणैव सिद्धेः । यो हि विद्यया सदृशः तस्य विद्याकृतं सादृश्यमस्तीति । सत्यम्, प्रत्याख्यातमेवेदं षष्ठे वार्तिककृता । ऊनार्थे - माषोनं कार्षापणम् । माषविकलम् । पूर्वसूत्रे अर्थशब्देन समासस्य साधितत्वा दिह अर्थग्रहणमभिधेय निर्देशार्थम् । तच्च ऊनशब्देनैव सम्बध्यते न तु पूर्वादिभिः । अत एव समसदृशौ पृथगुपान्तौ । वाक्कलहः । आचार निपुणः । गुडमिश्रः । आचारश्लक्ष्णः ।
मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । गुडसंमिश्रा धानाः । "मि
·
Page #183
--------------------------------------------------------------------------
________________
१७४ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिकेभं चानुपसर्गमसन्धौ" (अष्टा०सू०६-२-१९४) इत्यत्र अनुपसर्गग्रहणाज शापकादेतत् सिद्धम् ।
अवरस्योपसंख्यानम् । मासेनावरो मासावरः ।
कर्तृकरणे कृता बहुलम् (अष्टा०सू०२-१-३२)। कर्तरि करणे च तृतीया कृदन्तेन सह बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नर्भिः नो नखभिन्नः । कृद्रहणे गतिपूर्वस्यापि ग्रहणान्नखनिभिन्नः । कर्तृकरणे किम् ? भिक्षाभिरुषितः । हेतावियं तृतीया । बहुलग्रहणाच्छतृशानक्त वतुप्रभृतिभिर्न । हस्तेन-कुर्वन् , भुञ्जानः, कृतवान्वा । कचिद्विभक्त्य न्तरमपि समस्यते बहुलग्रहणादेव । पादहारकः । ह्रियते इति हारकः । बाहुलकात्कर्मणि ण्वुल् । पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः । गलेचोपकः "चुप मन्दायां गतौ” (भ्वा०प०४०३) हेतुमण्णिजन्ताकर्तरि ण्वुल । गलेचोपकः । “अमूर्धमस्तकात" (अष्टा सू०६-३-१८) इत्यलुक् । कृतेति किम् ? काष्ठः पचतितराम् ।
कृत्यैरधिकार्थवचने (अष्टा०सू०२-१-३३)। स्तुतिनिन्दाफलकमा थवादवचनमधिकार्थवचनम । तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । पूर्वसुत्रस्यैव प्रपञ्चोऽयम् । काकपेया नदी । शक्याथै कृत्यः । पूर्णतोयत्वात्तटस्थैरपि पातुं शक्येति स्तुतिः । काकैरप्येषा पातुं शक्या । अल्पतोयत्वादिति निन्दा वा।
अनेन व्यञ्जनम् (अष्टा सु०२-१-३४) । संस्कारद्रव्यं संस्कार्यण सह प्राग्वत् । दध्ना उपसिक्त ओदनो दध्योदनः । इह वृत्तावुपसेक. क्रियाऽन्तर्भवति स्वभावात् । अतो नासामर्थ्यम् । न च कारकाणां परस्परमसम्बन्धेऽपि वचनसामथ्यादसमर्थसमास एवात्रास्तु इति वाच्यम् 'किन्दध्ना ? ओदनो भुज्यताम्' इत्यादावतिप्रसङ्गात् ।
भक्ष्येण मिश्रीकरणम् (अष्टा०स०२-१-३९)। खरविशदमभ्यवहार्य भक्ष्यम् । खरं कठिनम् । विशदं विभक्तावयवम् । यत्प्रत्ययान्तस्य एरज. न्तस्य च भक्षयतेस्तत्रैव प्रयोगात् । 'अब्भक्षः' इत्यादौ तु नोक्तप्रत्यया. न्तः किन्तु कर्मण्यणन्तः । तत्र गौण एवेत्यन्ये । भक्ष्येण सह मिश्रीकरणं प्राग्वत् । गुडेन मिश्रा धाना गुडधानाः । इह वृत्ती मिश्रणक्रियान्तर्भावो बोध्यः। __चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (अष्टा०स०२-१-३६) । चतु.
य॑न्तार्थाय यत्तद्वाचिना अर्थशब्दादिभिश्च चतुर्थ्यन्तं समस्यते स 'तत्पुरुषः । तदर्थेन प्रकृतिविकृतिभाव एव समास इप्यते बलिरक्षित. ग्रहणानापकात् । हितसुखग्रहणं तु न सापकम् । हितयोगे चतुर्थी
Page #184
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१७५
वक्तव्या। "चतुर्थी चाशिषि" (अष्टा०सू०२-३-७३) इति अतादर्थेऽपि चतुर्थीसम्भवात् । यूपाय दारु युपदारु । कुण्डलहिरण्यम् । नेह-रन्धः नाय स्थाली । कथं तर्हि अश्वघासः, हस्तिविधजिविधा ? अत्र विशेषः अत्र भाष्यम्-अश्वघासादयः षष्ठीसमासा इति ।
स्यादेतत् । चतुर्थीसमास एव तास्तु । न चैवं "चतुर्थी तदर्थ" (अष्टा सु०२-१-३६) इति पूर्वपदप्रकृतिस्वरप्रसङ्गः । प्रकृतिविकारभावे एतत्प्रवृत्तेः । अन्यथा 'गोरक्षितम्' इत्यत्र "चतुर्थीतदर्थ" (अष्टा सू० २-१-३६) इत्येव सिद्ध "क्तं च" (अष्टा०सु०६-२-४५) इति व्यर्थ स्यात् । न च हीनार्थ तत् 'गोहितम्' इत्यत्र तादाभावादिति वा. च्यम् हिते चेति वक्तव्ये "क्तेच" इति सामान्यवचनस्य ज्ञापकत्वात् । अत एव 'कुबरबलि' इत्यादौ प्रकृतिविकृतिभावाभावात् न पूर्वपदप्रकृ तिस्वरः किन्तु समासान्तोदात्तत्वमेवेति सिद्धान्तः । 'रन्धनाय स्थाली' इत्यादौ तु यदि षष्ठीसमास इष्टः तर्हि चतुर्थीसमास एवेष्यतां यथा गोग्रासः, लीलाम्बुजं, क्रीडासरः, वासभवनं, नाट्यशालेति ।
यदि तु रन्धनस्थाल्यादौ षष्ठीसमासस्यानभिधानं तर्हि चतुर्थीस. मासस्यापि तदस्तु । एवञ्च बलिरक्षितग्रहणमपि व्यर्थ, झाप्याभावात् । किञ्च यूपदार्वादावपि षष्ठीसमाससम्भवात्सूत्रमेवेदं मास्तु । “चतुर्थी तदर्थ" (अष्टा०सू०२-१-३६) इत्येतत्तु “षष्ठी तदर्थ' इति क्रियतां ज्ञाप. काश्च स्वरस्य व्यवस्था भविष्यति । ___ अत्राहुः । हितशब्देन तावत् षष्ठीसमासो न सम्भवति, तद्योग चतुर्थ्या नित्यत्वादिति चतुर्थीसमास एव वक्तव्यः। ततश्च क्तेचेत्य. प्रापि चतुर्थीग्रहणं कर्तव्यं 'गोहितम्' इत्याद्यर्थम् । एवञ्च 'गोरक्षितम्' इत्यत्र न स्यात् , चतुर्था असम्भवात् । षष्ठीतदर्थ इत्यस्य चाप्रसङ्गः, प्रकृतिविकृतिभावात् । अतो रक्षितेनापि चतुर्थीसमास एव विधयः । अर्थशब्देनापि योगे तादर्थ्यसम्बन्धस्य नियमेन प्रतीयमानत्वाश्चतुर्थ्या भवितव्यमिति तेनापि चतुर्थीसमास एव वक्तव्यः । तथा बलिसुख. ग्रहणमपि कर्तव्यम् । तादर्थ्यस्थ समासानियतप्रतीतिर्वथा स्यादित्ये. वमर्थम् । तस्मादारब्धव्यमेवेदं सूत्रम् । प्रकृतिविकारभाव एवेत्यस्य प्रयोजनं तु चिन्त्यमिति ।। __ . अत्रेदं वक्तव्यम् तादर्थ्यस्य भानं द्विधा-सम्बन्धत्वेन तद्याप्यता. दर्यत्वाख्यविशेषरूपेण चेति । तच्चाश्वानां घासोऽश्वेभ्यो घास इति वाक्ये तावद्वयवस्थितम् । तत्राये समासः, द्वितीये तु नेष्यतइति भाज्यवार्तिकादिप्रामाण्येन निर्णीयते । यथा 'न माषाणामनीयात्"
Page #185
--------------------------------------------------------------------------
________________
- १७६ शब्द कौस्तुभद्वितीयध्याय प्रथमपादे द्वितीयान्हिके-
इत्यादौ सम्बन्धसामान्ये षष्ठी । कर्मत्वरूपविशेषे तु द्वितीया यथा का 'प्रदीयतान्दाशरथाय मैथिली' इत्यत्र सम्बन्धिसामान्येऽण । अपत्यपतद्विशेषे तु इमेव । यथा वा "अभून्नृपों विबुधसखः" इत्यादौ भूतसामान्यविवक्षायां' लुङ् 1 अनद्यतनत्वविवक्षायां तु लडेवेति । अत एवं "आतोऽनुपसर्गे कः " (अष्टा०सू०३-२-३ ) इति सूत्रे जीवद्वंश्यत्वरूपविशेषाविवक्षायां "प्रोवाच भगवान्कात्यः" इति प्रयुक्तं भाष्ये । अत एत "कृतलब्ध क्रीतकुशलाः " (अष्टा०सू०४-३-३८) इत्यत्र जातलब्धाभ्यां कृतक्रीतयोर्न गतार्थता प्रकारभेदादिति चतुर्थे वृत्ति कारः । त्वयापि तत्र तथैवोपपादयिष्यते । तत्र भव इत्येव सिद्धे "प्रायभवः” (अष्टा०सू०४-३ - ३९ ) "सोऽस्य निवासः " (अष्टा०सु०४-३१९) इति सूत्रयोरप्येषैव गतिः । तथाच प्रयोजने स्पष्टे कथञ्चिन्त्यतां ब्रूषे । ननु 'अश्वघासः' इत्यादावपि प्रकरणाद्विशेषाध्यवसायो भवत्ये. वेति चेत् ? सत्यम्, न तु तत्र विशेषप्रकारको बोधः, लुप्तं स्मृतं बोधकमिति मते स्मृतषष्ठ्या सम्बन्धत्वप्रकारक बोधस्यैव जननात् । यः शिष्यते स लुप्यमानार्थाभिधायीति सिद्धान्तरीत्यापि चतुर्थीलोपाभावेन. विशेषप्रकारक बोधे असामर्थ्यात् । अतएवार्थप्रकरणाद्यभिक्षस्यापि दाशरथशब्दान्नापत्यश्वप्रकारिका धीः किन्तु सम्बन्धित्वप्रकारिकैवेत्या दिशाब्दन्यायविदां स्पष्टम् । अत एवाहु:- "मेद्यभेदकसम्बन्धोपाधिभेदनियन्त्रितम् । साधुत्वम्” इति । तस्मादश्वाश्वशब्दयोरिव स्वविषया दन्यत्रासाधुता कचित्साधुतया न विरुध्यते इत्यवधेयम् । एवं स्थिते बलिरक्षितादिग्रहणं ज्ञापकमित्यादि प्रागुक्तमेव सम्यक् । यत्तु तादर्थ्यस्य समासान्नियमेन प्रतीत्यर्थे बलि सुखग्रहणमित्युक्तम् । तदपि न, तत्रा? पि पाक्षिकषष्ठीसमासस्य दुर्वारतया नियतप्रतीततादर्थ्येन चतुर्थीविभक्तिराक्षिप्यते “तस्मै हितम्" (अष्टा०सू०२-१-५) इत्यतो वाऽनुवृत्य सिद्धेः, पूर्वपक्षावसरे त्वयैव तथोक्तत्वाच्चेति दिक् ।
अर्थेन नित्यसमासो विशेष्यलिङ्गता चैति वक्तव्यम् । द्विजायायं द्विजार्थः ः सूपः । द्विजार्था यवागूः । द्विजार्थ पयः । तत्र नित्यत्वं न्याय सि. द्धम् । चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्रहो न भविष्यति परवलिङ्गतां बाधितुं विशेष्यलिङ्गतामात्रं वाच्यम् ।
स्यादेतत् । "तदर्थं विकृतेः प्रकृतौ” (अष्टा०सु०५ - १ - १२) इत्यत्र तदर्थ समर्थमिति सूत्रं क्रियताम् । तादर्थ्येन चतुर्थीविभक्तिराक्षिप्यते । "तस्मै हितम्” (अष्टा०सू०२-१-५) इत्यतो वानुवर्तते । चतुर्थीसमर्थातदर्थेऽभिधेये सर्वप् स्यात् । "आदिर्जिडुडवः" (अष्टा०सू०१-३-५ ) "षः
Page #186
--------------------------------------------------------------------------
________________
विविशेषप्रकरणे तत्पुरुषप्रकरणम् ।
1
प्रत्ययस्य " ( अष्टा० सू०१-३-६) इति द्विषकारकनिर्देशात्सकारस्येत्सं• ज्ञा । "सिति च" (अष्टा०सू०१-४-१६) इति पदत्वम् । पित्वादनुदान्तः । राजार्थः । गवार्थः । एवं चार्थे इति पूर्वपदप्रकृतिस्वरो न विधेयः । प्र. त्ययत्वाश्च न तेन विग्रहः । तद्धितत्वादभिधेयलिङ्गता च सिद्धेति । मैवम, " षः प्रत्ययस्य (अष्टा०सू०१-३-६ ) इत्यत्र सकारप्रश्छेषे मा. नाभावात् । वुञ्छणादिसूत्रेण तृणादिभ्यः सप्रत्यये 'तृणसः' इत्यादावतिव्याप्तेश्च । किञ्च सपः प्रत्ययत्वं व्यर्थ स्वर्थमित्यत्रेयङुवङोः प्रसङ्गः । स्यादेतत् । ब्राह्मणोऽर्थः प्रयोजकोऽस्य स ब्राह्मणार्थ इति ब हुव्रीहिरस्तु । यो हि ब्राह्मणार्थ: सूपस्तस्य ब्राह्मणोऽर्थः प्रयोजक इति यावत् । एवञ्च चतुर्थ्यन्तेन विग्रहाभावः । पूर्वपदप्रकृतिस्वरत्वं विशे यलिङ्गता चेति सर्व सिध्यति । नैतत् । 'महदर्थम्' इत्यत्रात्वकपोः प्रसङ्गात् । स्यादेतत् । "चतुर्थीतदर्थ" इति योगो विभज्यते । तदः "अर्थः" इत्यनेनांशेन तदर्थवाचिन उत्तरपदस्यार्थादेशो विधीयते । स च वैकल्पिकः, महाविभाषाधिकारात् । तेन यूपार्थ दारु, यूपदारुइत्यु भयं भवति । न चार्थादेशेनोक्तार्थत्वाद। रुशब्दप्रयोगानुपपत्तिः, अर्थदेशस्य सकलशब्दसाधारणतया विशेषस्फुटीकरणार्थन्तत्सम्भवात् । ततो बलिरक्षितयोरपि विभाषार्थशब्द आदेशो भवति । कुबेरार्थो बलिः कुबेरबलिरित्यादि पूर्वेण सिद्धे शापनायेदं प्रकृतिविकृतिभावा• दन्यत्र नित्योऽर्थादेश इति । तेन 'रन्धनार्था स्थाली' इत्यादि भवति । न तु 'रन्धनस्थाली' इत्यादि । अश्वघासादयस्तु पूर्ववत् । तथाचार्थशब्दस्यादेशत्वात्तेन विग्रहो न भविष्यति । स्थानिलिङ्गं च भविष्यति, स्थान्यर्थाभिधानसमर्थस्यैवादेशत्वात्, स्थानिवद्भावाश्च । अर्थ इति पूर्वपदप्रकृतिस्वरस्तु विधेय एवेति । नैतदपि । 'उदकार्थो वीषध:' इत्यत्र वीवधशब्दस्यार्थादेशे कृते स्थानिवद्भावेन मन्थोदनादि सुत्रेणोदादेशप्रसङ्गात् ।
इयुवा सपि स्यातां बहुव्रीहौ कवाच्च हि । अर्थादेशे तूदभावो यथान्यासं वरं ततः ॥
१७७
पञ्चमी भयेन (अष्टा०सू०२-१-३७) । पञ्चम्यन्तं भयप्रकृतिकेन सु. बन्तेन सह प्राग्वत् । चौरभयम् । भयभीतभीतिभीभिरिति वाच्यम् । वृक· भीतः । नेह-वृकेभ्यस्त्रासः । पूर्वस्यैव बहुलग्रहणस्यायम्प्रपञ्चः । तेन ग्रामनिर्गतो धर्मजुगुप्सुरित्यादि सिद्धम् ।
अपेतापोढमुक्त पतितापत्रस्तैरल्पशः (अष्टा०सू०२-१-३८) । एतैः सह अल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । अल्पश इत्यत्र बव्हल्पार्थादि
शब्द. द्वितीय. 12.
Page #187
--------------------------------------------------------------------------
________________
१७८ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिकेति कर्मणि शस् । यद्यपि “बह्वल्पार्थान्मङ्गलामङ्गलवचनम्" (का०या०) इति वक्ष्यति, तथाप्यत एव निपातनाच्छसिश्याहुः। सुखापेतः । कल्पनापोढः। चक्रमुक्तः । स्वर्गपतितः। तरङ्गापत्रस्तः। अल्पशब्द इत्युक्ते. नेह-प्रासादात्पतितः । बहुलग्रहणस्यैवायं प्रपञ्चः ।
स्तोकान्तिकदृरार्थकृछ्राणि केन (अष्टान्सू०२-१-३९)। एतानि केन सह प्राग्वत् । स्तोकान्मुक्तः । अल्पान्मुक्तः। अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । कृच्छ्रान्मुक्तः । “पञ्चम्याः स्तोकादिभ्यः'' (अ. टा०स०६-३-२) इत्यलुक् । पराशतशब्दस्तु "नाज्झलो" (अष्टान्सू० १-१-५०) इत्यत्र व्युत्पादितः । एवं परःसहस्रोऽपि ।
सप्तमी शौण्डैः (अष्टा०सू०२-१-४०)। सप्तम्यन्तं शौण्डादिभिस्स. ह प्राग्वत् । अक्षशौण्डः । बहुपचननिर्देशादाद्यर्थावगतिः। ननु अर्थनिर्दे शार्थ बहुवचनम् । तेन समासार्थ वा बहुवचनं किन्न स्यादिति चेत् ?न, गणपाठवैयऱ्यांपत्तेः । स्यादेतत् । कारकाणां क्रिययैव सम्बन्ध इति तावरिस्थतम् । तदिह 'अक्षशौण्ड' इत्यादी सप्तम्यर्थः क्वान्वेतु, क्रियाया अश्रवणात ? सत्यम्, प्रसक्तिरूपा क्रिया वृत्ताविहान्तर्भवति तद्वारकमेघ च सामर्थ्य यथा दध्योदनगुडधानादिषु । अन्तःशब्दोऽत्र पठ्यते । तद्योगे अवयविन आधारत्वविषक्षायां सप्तमी । यथा वृक्षेशा. खेति । वनेऽन्तवनान्तः । अस्य वैकल्पिकत्वात्पक्षेऽव्ययीभावः । अन्तर्वणम् । "प्रनिरन्तः” (काभ्वा०) इति णत्वमिति हरदत्तः । अत्रेदं वक्त ध्यं, नायं विभक्त्यर्थे ऽव्ययीभावस्य विषयः, विभक्त्यर्थमात्रवृत्तेरव्यय. स्य स इत्युक्तत्वात् । अत्र मध्यस्यापि प्रतीतेः । कथमन्यथाऽवयवाव. यविभावमवोचः । किश्चाऽव्ययीभावस्य नित्यत्वाचदुपदर्शितो वने अन्तरिति विग्रहोऽपि न सङ्गच्छेत । तस्मादधिकरणत्वमात्रवृत्तिना अन्तःशब्दान्तरेणाव्यर्याभावो न तु मध्यवाचिनेत्यवधेयम् । अधिश ब्दोऽत्र पठ्यते । तस्याधिकरणप्राधान्येऽव्ययीभावः । 'अधिस्त्री इति । आधेयप्राधान्ये स्वनेन तत्पुरुषः "ब्राह्मणाधीनः" इति"अध्युत्तरपदात्खः"। ब्राह्मणेष्वधीति विग्रहः। शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणप्रधान एवायमिह पठ्यते । अघि, पटु, पण्डित, कुशल, चपल, निपुण । वृत् ।
सिद्धशुष्कपकबन्धश्च (अष्टा०सू०२-१-४१)। एतैःसप्तमी प्राग्वत् । साङ्काश्यसिद्धः। काम्पिल्यसिद्धः । सङ्काशेन निर्वृत्तं वनं साङ्काश्यम् । कम्पिलेन काम्पिल्यम् । चातुरर्थिकः सङ्काशादिभ्यो ण्यः । तत्र पसा सिद्ध इत्यर्थः । आतपशुष्कः । स्थालीपकः । चक्रवन्धः । “बन्धे च वि.
Page #188
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१७९
भाषा" (अष्टा०सू०६-३-१३) इत्युलुक् ।
ध्वाङ्गेण क्षेपे (अष्टा०सू०२-१-४२) । ध्वाङ्गवाचिना सह सप्त म्यन्तं प्राग्वन्निन्दायाम् | तीर्थे ध्वाङ्ग इव तीर्थध्वाङ्गः । तीर्थकाकः 1 यथा ध्वाङ्गास्तीर्थे चिरं नावतिष्ठन्ते तथान्योऽपि कार्येष्वनवस्थित एव मुच्यते । इवार्थस्य वृत्तावन्तर्भावान्न पृथक् प्रयोगः । क्षेपे किम् ? तीर्थे ध्वाङ्क्षा हस्तिष्ठति ।
कृत्यैर्ऋणे (अष्टा०सू०२ - १ - ४३) । सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । ऋणग्रहणमावश्य कोपलक्षणार्थम् । यत्प्रत्ययान्तेनैवे. भ्यते, अल्पश इत्यनुवृत्तेः । कृत्यैरिति बहुवचने तु प्रकृतिभेदामिप्र - यम् । मासे देयमृणम् । पूर्वाह्णे गेयं साम । " तत्पुरुषे कृति" (अष्टा० सू०६-३-१४ ) इत्यलुक् ।
संज्ञायाम् (अष्टा०सू०२-१-४४ ) | सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम् । नित्यसमासोऽयम्, वाक्येन संज्ञानवगमात् । अरण्येतिलकाः । अरण्ये. माषाः । वनेकसेरुकाः । “द्दलदन्तात्सप्तम्याः " (अष्टा०सू०६-३-९) इत्यलुक् ।
केनाहोरात्रावयवाः । (अष्टा०सू०२-१-४५) । अन्हो रात्रेश्वावयवाः - सप्तम्यन्ताः कान्तेन सह प्राग्वत् । पूर्वाह्नकृतम् । अपराह्नकृतम् । पूर्वरा त्रकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् ? अन्हि दृष्टम् । कथं तर्हि "रात्रिवृत्तमनुयोक्तुमुद्यता" इति ? "कर्तृकरणे कृता बहुलम्” . (अष्टा०सू०२-१-३८) इति भविष्यति ।
तत्र (अष्टा०सू०२-१-४६) । तत्रेत्येतत्सप्तम्यन्तं कान्तेन सह प्राग्वत् । तत्रभुक्तम् । तत्रकृतम् । यद्यपि अभिहितः सोऽर्थोऽन्तर्भूत इति तंत्रशब्दा स्प्रथमैव युक्ता, तथापि 'तत्रभवान्' इत्यादौ विभक्त्यन्तरेऽपि दर्शनादधिकरणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति वृत्तिकृतो मन्यन्ते । वस्तुतस्तु "स्वयं केन" (अष्टा०सू०२-१-२५) इत्यत्र द्वितीयाधिकार वेहापि सप्तम्यधिकारो बाध्यते, पूर्वपदप्रकृतिस्वरस्याव्ययत्वेनापि सिद्धेः, सप्तम्या अपि लुका विभक्तयन्तरसाधारण्यानुद्धाराश्चेति दिक् ।
क्षेपे (अष्टा०सू०२-१-४७) । सप्तम्यन्तं कान्तेन प्राग्वत् निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् । यथा तप्ते प्रदेशे नकुला चिरम• वतिष्ठन्ते एवं कार्याण्यारभ्य यश्चापलेन न चिरं तिष्ठति स एवमुच्यते । "कृङ्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" (प०भा०२८) इति नकुलस्थितशब्देन समासः । उदकेविशीर्णम् । प्रवाहेसूत्रितम् । भ· स्मनिहुतम् । निष्फलमित्यर्थः । तत्पुरुषे कृति बहुलम्" (अष्टा०सू६-३१४) इत्यलुक् ।
Page #189
--------------------------------------------------------------------------
________________
शब्दकौस्तुभद्वितीयाध्याय प्रथमपादे द्वितीयान्हिके
पात्रे समितादयश्च (अष्टा०सू०२-१-४८ ) । एते निपात्यन्ते क्षेपे । येचात्र कान्तास्तेषां पूर्वेण सिद्धे पुनः पाठो युक्तारोहा। दित्वसिद्ध्यर्थः । युक्तारोह्यादिषु हि पात्रेसमितादयश्चेति पठ्यते । पात्रेसमिताः । भोज नसमय एव सङ्गता इत्यर्थः । पात्रेबहुलाः । भोजने एव सङ्घीभवन्ति म कार्ये इत्यर्थः । उदुम्बरमशकः । योऽल्पे तृप्तः नास्मात्परमस्तीति मन्यते अदृष्टविस्तारत्वात् स एवमुच्यते । उदुम्बरकृमिः । कूपकच्छपः । कूपमण्डूकः । कुम्भमण्डूकः । उदपानमण्डूकः। नगरकाकः । मातरिपुरुषः । पिण्डीशुरः । पिण्डीओदनपिण्डः । तत्रैव शूरो नान्यत्रेत्यर्थः । गेहेशूरः । गेहेनदीं । गेद्देछेडी । गेद्देविजिती । गेहेव्याडः । गेहेधृष्टः । गर्भेतृप्तः । आख निकबकः । आखनिको जलस्रोतः खातं तस्मिन् बक इव यत्किञ्चिदात्मीये आखनिके लमते तद्भक्षयति तथाऽन्येपीत्यर्थः । गोष्ठेशूरः । गोष्ठेविजिती । गोठेछेडी । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भः । कर्णेटिरिटेरा | कर्णेचुरुचुरा । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेन 'परमाः पात्रे समिताः' इति वाक्यमेव भवति न तु " सन्महत्" (अष्ठा० सू०२-१-६१) इत्यादिना समासान्तरम् ।
I
I
६८०
पूर्वकालैक सर्वजरत्पुराणनव केवलास्समानाधिकरणेन (अष्टा०सू०२१-४२) । एते सप्त सुबन्ताः समानाधिकरणेन सुपा सह समस्यते स तत्पुरुषः । पूर्वकालइत्यर्थनिर्देशः । अन्येषां षण्णां स्वरूपग्रहणम् । पूर्वकालोऽपरकालेन समस्यते, पूर्वत्वस्य ससम्बन्धित्वात् । "विशेषणं विशेष्येव” (अष्टा०सु०२-१-५७) इति सिद्धे पूर्वकालादीनां पूर्वनिपात नियमार्थे वचनम् । एकशब्दस्य तु "दिक्संख्ये संज्ञायाम्" (अष्टा०सू० २-१-५०) इति नियमात्प्राप्त्यर्थमेव । पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । अत्र क्रियाशब्दत्वात्पाचकपाठकवत्पर्यायः प्राप्तः । एकशाही | शाटशब्दाखातिलक्षणो ङीष् । सर्वयाज्ञिकाः। जरतार्किकाः । पुराणमीमां सकाः।नषपाठकाः । केवलत्रैयाकरणाः । समानाधिकरणे किम् ? एकस्याः शौक्ल्यम् । षष्ठीसमासस्त्विह न भवति "गुणेन न" इति निषेधात् ।
दिक्संख्ये संज्ञायाम् (अष्टा०सु०२-१-५० ) । समानाधिकरणेनेत्या पादपरिसमाप्तेरनुवर्त्तते । “विशेषणं विशेष्येण” (अष्टा०सू०२-१-५७) इति सिद्धे नियमार्थमिदम् । दिक्संख्यसंज्ञायामेव समानाधिकरणेन स. मस्येते नान्यत्र । पूर्वेषुकामशमी । पञ्चानः । सप्तर्षयः । नेह – उत्तरा वृक्षा५ पञ्च ब्राह्मणाः । पूर्वसूत्रमित्यादौ त्वदिग्वाचित्वात्समासः । इति श्रीशब्दकौस्तुमे द्वितीयस्याध्यायस्य प्रथमे पादे द्वितीयमान्दिकम् ।
I
Page #190
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । तद्धितार्थोत्तरपदसमाहारे च (अष्टा सू०२-१-११) । तद्धितार्थे वि. षये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये समानाधिकरणेन सह समस्येते स तत्पुरुषः । पूर्वस्यां शालायां भवः पौवंशालः । स मासे कृते "दिक्पूर्वपदादसंज्ञायां अः" (अष्टा०सू०४-२-१०७) एवम्आपरशालः । __ उत्तरपदे-पूर्वशालाप्रियः। इह त्रिपदे बहुव्रीही कृते प्रियशने उत्तरपदे पूर्वयोस्तत्पुरुषे सति समासान्तोदात्तत्वं लकाराकारस्य मक ति । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्यायुदा. त्तत्वं स्यात् । दिक्षु समाहारो नास्ति, अनमिधानात् । संख्यायास्त. द्धितार्थ पाण्मातुरः । पाश्चनापितिः । अनपत्य इत्युकत्वान्न लुक् । पश्चकपालः। "संस्कृतम्भक्षाः” (अष्टासु०४-२-१६) इत्यण् । “द्वि. गोलुंगनपत्ये" (अष्टा सू०४-१-८८) इति लुक् । पञ्चगवधनः । अत्रा. पित्रिपदे बहुवीही धनशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषे “गोरताद्ध. तलुकि" (अष्टा०सु०५-४-९८) इति टच । ननु पाक्षिकं पञ्च गोधन इति दुर्वारम् । महाविभाषाधिकारेण तत्पुरुषस्य वैकल्पिकत्वात् । अत एव नित्यत्वमुपसंख्यातं वार्तिककृता "द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' (का०वा०) इति । अत एव वाक्च दृषच्च प्रिये अस्य वाग्दृषदप्रियः, छत्रोपानहप्रिय इति त्रिपदे बहुव्रीही पूर्वयोनित्यं द्वन्द्वः । तेन समासान्तोऽपि नित्यमेव । स्यादेतत् । समुदायस्यैकार्थी भावे सति अवयवयोरावश्यक इत्युपसंख्या व्यर्थमिति चेन् ? मैवम, त्रयाणां समासे कृतेऽन्यपदार्थापसंक्रमेण परस्परसम्बन्धाभावात सति तूपसंख्याने वचनसामर्थ्यादद्वन्द्वतत्पुरुषयोः प्रवृत्तेः । न चैवं त्रिपदे ब. हुव्रीहौ 'चित्राजरद्गुः' इत्यत्रापि तत्पुरुषे चित्राशब्दस्य पुंवद्भावापत्तिः। उपसंख्यानस्य "तद्धितार्थोत्तरपद" (अष्टा सु०२-१-५१) इति सूत्रोक्ततत्पुरुषमात्रविषयत्वात्तस्यैवोत्तरपदे प्रतिपदाकत्वात् । अत एव 'सादिरेतरशाम्यम्' इत्यत्र पुंवद्भावसिद्धये कर्मधारयोत्तरपदो बहुव्रीहिर्न तु त्रिपदे इति समर्थसुत्र शेष कैयटः। यत्त पूर्वतन्त्रे वाधलक्षणे पृष्टस्य युगपद्विधेरेकाहवद्विसामत्वमित्यधिकरणे पृष्ठयः षडहो वृहद्रयन्तरसामाकार्य इत्युदाहृत्य द्वन्द्वं कृत्वा बहुव्रीहिः कार्य इति कात्यायनव. चनमुपष्टम्भकमाश्रित्य पूर्वपक्षितं, यच्च कात्यायनवचनं समासान्तवि. शेषमात्रविषयमित्याश्रित्य नेह द्वन्द्व इति सिद्धान्तितं, तदुमयं चि. न्त्यम, उत्तरपदे इत्युकेद्वन्द्वं छत्त्यस्यासहतेः। स्वर विशेषस्य स्प. टतया समासान्तपर्यन्तमाग्रहे बीजाभावाोति विक् ।
Page #191
--------------------------------------------------------------------------
________________
५८२
शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिके
समाहारे-पञ्चमूली । पंचकुमारी । इह पञ्चानां मूलानां कुमारीणां च समाहार इति विग्रहः । न तु पञ्चमूलाः समाहृता इत्यादि । भाव. साधनो हि समाहारशब्दो न तु कर्मसाधनः। तथा सति 'पञ्चकुमारी' इत्यत्र कुमार्यर्थस्य प्राधान्यात्समासशास्त्रे च अप्रथमानिर्दिष्टत्वादेक. विभक्तित्वाभावाच्चोपसर्जनस्वाभावेन "गोस्त्रियोः (अष्टा सू०१-२-४८) इति इस्वो न स्यात् । अथात्र नपुंसकहस्वत्वं ब्रूयाः, एवमपि पश्चख. ट्वी' न सिध्येत् । वा टावन्त इति स्त्रीलिङ्गत्वपक्षे हीदं रूपम् । तत्र च हस्वाभावात् "द्विगारतः" इति ङीप् न स्यात् सिद्धान्ते तु समासाथै समाहारे नानाविभक्तिभिर्युज्यमानेऽपि कुमारीशब्दस्य नित्यषष्ठ्यैव योग इत्येकविभक्तिकत्वात्सिद्धमुपसर्जनत्वम् । न च "एकविभकावष. प्ठ्यन्तवचनम्' (का. वा०) इति वार्तिकेन अर्धपिप्पल्यादाविव उपस. जनत्वनिषेधः शङ्कयः, तस्यैकदेशिसमासमात्रविषयकत्वात् । अत्र चैत त्सूत्रीयभाष्यमेव प्रमाणम् । यद्वा, "विभाषा छन्दास" (अष्टा०सू०१-२३६) इति सुत्राद्विभाषाग्रहणानुवृत्त्या व्यवस्थितविभाषाश्रयणाच्च "ए. कविभक्तिच" (अष्टासु०१-२-४४) इत्युपसर्जनता एकदेशिसमासे न भवति । पञ्चखट्वादौ तु स्यादेव । स्पष्टं चैतन्न्यासग्रन्थे । तस्माद्भाव. साधन एवेह समाहार इति स्थितम् । "द्विगुरेकवचनम्" (अष्टा०४०२४-१६) इति तु “स नपुंसकम्" (अष्टासु०२-४-१७) इति वक्ष्यामी. स्यारभ्यते । __स्यादेतत् । समाहारः समूह इति पर्यायो । समूहश्च तद्धितार्थः, "तस्य समूहः, (अष्टा००४-२-३७) इति सूत्रात । तथाच तद्धितार्थ. इत्येव सिद्धे कि समाहारग्रहणेन ? न चैवं तद्धितश्रवणं स्यादिति वा. च्यम् “द्विगोलुंग्" (अष्टा सू०४-१-८८) इति लुक्सम्भवात् । नन्वेवं लुक्छतानि स्युः । तद्यथा-'पञ्चपूली' इत्यत्र "अपरिमाणबिस्त" (अष्टा० सु०४-१-२२) इति ङीप्रतिषेधः स्यात् । पञ्चगवम् । “गोरतद्धितलु. कि" (आष्ट०सु०५-४-९२) इति टच न स्यादिति चेत् ? भैवर , न त. द्धितलुक्यतद्धितलुकीत्येतत्स्थाने समाहारशब्दपाठेन सर्वसामञ्जस्मात् । तथाहि, अपरिमाणविस्तादिभ्यः समाहारं नियमार्थमिदम्-एभ्यः समाहार एवेति । पञ्चानामश्वानां समाहारः पञ्चाश्वी । नेह-पञ्चभिः रश्वः क्रीता पश्चाश्वा । तथा- 'गो:" गोन्तात्तत्पुरुषाच् स्यात् । पुङ्गवः । ततः-समाहार । गोरित्यनुवर्तते । सजातीयापेक्षा नियमः। गोन्ताद् द्विगोस्समाहार एव टच् स्यात् । पञ्चगवम् । नद-पञ्चभिर्गों. भिः क्रीतः पश्चगुः ।
Page #192
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे
१८३
तत्पुरुषप्रकरणम् ।
तदेतत्सकलमभिसन्धायोक्कं वार्तिककृता -- समाहारसमूहयोरविशेषात्समाहारग्रहणानर्थक्यं तद्धितार्थेन कृतत्वादिति । समाहारसमूहयोरिति शब्दपरो निर्देशः । अतो नैकशेषः । अविशेषादिति । अर्थाविशेषादित्यर्थः ।
अत्र भाष्यकाराः । एवं सति 'पञ्चकुमारी' 'दशकुमारी' इत्यत्र "लु. क्तद्धितलुकि " (अष्टा०सू०१-२-४९) इति स्त्रीप्रत्ययस्य लुक् स्यात् । तस्मात्तद्वितनिवृत्त्यर्थं समाहारग्रहणम् । पृथक्समाहारग्रहणाद्धि समासस्यैव समाहारो वाच्यो न तु तद्धितस्येति व्याख्यानात्तद्धितो नोत्प द्यते इति सिद्धमिष्टम् । अत एव च ज्ञापकात्तद्धितार्थे विषये इति व्याख्यातं न तु वाच्येइति । अत एव 'पाञ्चनापितिः' इत्यादौ तद्धित उत्प द्यते । समासेनैव तदर्थस्योक्तौ तु तद्धितो नोत्पद्येत । अत एव द्विगोलुग्वचनमपि सङ्गच्छते इति दिक् ।
I
ननु पञ्च गावोऽस्य सन्ति पञ्चगुः पुरुष इत्यत्र मत्वर्थस्य तद्धितार्थत्वादयं समासः प्राप्नोति न तु बहुव्रीहिः, अशेषत्वात् । तस्य तु चित्रग्वादिरवकाशः, यत्र दिक्संख्ये न स्तः । सति चास्मिन्समासे' मतुपः श्रवणं स्यात् । न च द्विगोरिति लुक्, अप्राग्दीव्यतीयत्वात् ।
अत्रोच्यते । परत्वाद्बहुव्रीहिः । त्रिकतः शेषस्य भाष्यसम्मतत्वात । वार्तिककृता तु वचनमेवारब्धम् - मत्वर्थे प्रतिषेधः ।
संख्यापूर्वी द्विगु: (अष्टा०सू०२-१-५२) । " तद्धितार्थ" (अष्टा०सु० २-१-५१) इत्यत्रोक्तः संख्यापूर्वः समासो द्विगुसंज्ञः स्यात् । पञ्चकपालः । "संस्कृतम्भक्षाः" (अष्टा०सु०४-२ - १६) इत्यनेनोत्पन्नस्याणो “द्वि. गोर्लुगनपत्ये " (अष्टा०सु०४ - १-८८) इति लुक् । पञ्चनावप्रियः । "नावो द्विगोः” (अष्टा०स् ५ - ४ - ९९ ) इति समासान्तष्टच् । पञ्चमूली । "द्विगो: " (अष्टा०सु०४-१-२१) इति ङीप् । अनन्तरस्येति न्यायात्पूर्वसूत्रविषय एवेयं संज्ञा । एतदर्थमेव तत्र योगविभागः । अन्यथा “दिक्संख्ये संज्ञा तद्धितार्थोत्तरपदसमाहारेषु" इत्येव ब्रूयात् । तेन 'सप्तर्षयः' इत्यत्र "इग न्तकाल" (अष्टा०सू०६ - २ - २९) इति पूर्वपदप्रकृतिस्वरो न भवति । समासान्तोदात्त एव हि पठ्यते - "सप्तऋषयस्तपस्तेपे निषेदुः" इति यथा । कथन्तर्हि 'एकापूपी' इतिः ? अत्राहुः । नायं "पूर्वकालेक" (अष्टा० सु०२-१-४९) इति समासः किन्तु पूर्वसूत्रेण समाहारे । तथाहि एकमध्यपूपं कश्चित्कृपणो दददनेकं मन्यते । तथा दाने श्रद्धातिशयादपूपमहत्त्वाद्वाऽनेकस्मिन्निव यः संभ्रमस्तमेकस्मिन्नपि करोति । अनेन प्रतिग्रहीता कृपणो व्याख्यातः । तत्रारोपितबहुत्वाश्रयः समाहारः । तत्र
Page #193
--------------------------------------------------------------------------
________________
१८४ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिकेसमासे कृते द्विगुत्वे सति “अकारान्तोत्तरपदो द्विगुः स्त्रियाम्" (का वा०) इति स्त्रीत्वे "द्विगोः" (अष्टा सू०४-१-२१) इति डीए सिध्यति।
कुत्सितानि कुत्सनैः (अष्टा०स०२-१-५३) । "कुत्स अवक्षेपणे" (चु००१६८७) । मत्यादिक्षत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने कः । बहुवचननिर्देश उभयत्रापि स्वरूपग्रहणनिरासार्थः । कुत्स्यमान. वाचीनि कुत्सनैः सह प्राग्वत् । शब्दप्रवृत्तिनिमित्त कुत्सायामेवायमिः प्यते, सनिधानात् । विशेष्यस्य पूर्वनिपातार्थोऽयमारम्भः । वैयाकरणः खसुचिः । “सूचयतेरिच" इतीकारः । यः पृष्टः सन् प्रश्नं विस्मारयितुं सू. चयति निरीक्षते कथयति वा अहो निर्मलं गगनमिति, स एवमुख्य ते । अत्र व्याकरणस्य वेदाङ्गत्वात्तदध्ययनं स्वरूपेण यद्यपि प्रशस्तं तथापि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते । यानिककितवः । किन्तवास्तीति पृच्छन् धनमात्रोद्देशेन जात्यादिनिरपेक्षो ते प्रवर्तमानः कितवः । तथाच श्रुतिः "सभामेति कितवः पृच्छमानो जेप्यामि' इत्यादि । इह तु कितव इव कितवः, यो याशिको दक्षिणामात्रतत्परः सन्नयाज्यमपि याजयति स एवमुच्यते । मीमांसकदुर्दुरूढः । “दुल उत्क्षेपे" (चु०उ०१६००)। दुर्वः । औणादिकः कूढः प्रत्ययः। "बहुल. मन्यत्रापि" इति णिलुक् । रलयोरेकविषयत्वस्मरणाद् दुर्दुरूढः । प्रवृ. त्तिनिमित्तकुत्सायां किम् ? वैयाकरणो दरिद्रः।
पापाणके कुत्सितैः (अष्टा सु०२-१-५४) । एते सुबन्ते कुत्सितैः सह प्राग्वत् । पापाणकशब्दो कुत्सनाभिधायिनौ । तयोः पूर्वसूत्रेण समासे परनिपातः स्यात् । तस्मात्पूर्वनिपातार्थमिदम् । पापनापितः । पापकु. लालः । अणकनापितः। अणककुलालः । __ उपमानानि सामान्यवचनैः (अष्टा०सू०२-१-५५)। उपमानोपमेय. साधारणधर्मवचनैः सहोपमानानि प्राग्वत् । घनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकम् । अत एव सामानाधिकरण्यात् 'मृगीव चपला मृगचपला' इत्यादौ पुंवद्भावः । सादृश्यं चोत्तरपदोपस्थितश्यामत्व. चापलादिद्वारकमेव गृह्यते, तथैव व्युत्पत्तेः, श्रुतं विहायाश्रुतकल्पने गौरवापत्तेश्च । अत एव हि व्यस्तेऽपि 'वागर्थावित्र' इत्यादिस्थले स. म्पर्कप्रभृतिसन्निहितद्वारकमेव सादृश्यं प्रतीयते । पूर्वनिपातनियमार्थ चेदं सूत्रम् । "विशेषणं विशेष्येण' (अष्टा सू०२-१-५७) इति समासे हि पूर्वनिपातः पर्यायेणोभयोः स्यात्पाचकपाठकादिवत् । “तत्पुरुषे त्. ल्यार्थ" (अष्टा सु०६-२-२) इति सूत्रे प्रतिपदोकस्यास्यैवोपमानग्रहणेन प्रहणार्यमपीदं मूत्रम् । अत एष मयूरव्यंसकादित्वात्समासे उपमान.
Page #194
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१८५
स्वरो न प्रवर्तते इति सिद्धान्तः । उपमीयतेऽनेनेत्युपमानम् । उपपूर्वकाम्माङः करणे ल्युट् । प्रादिसमासः । उपपूर्वकश्च माङ् सादृश्यहेतुके परिच्छेदे रूढः । येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानम् । त नैरिव गवय इति । इह हि गौः करणं पुरुषः परिच्छेत्ता । स
सादृश्येन गवयं परिच्छिनति । घनश्यामादौ तु घनादयः शब्दा यद्यपि घनादिसदृशे उपमेये संक्रान्तास्तथापि भूतपूर्वगत्या उपमानवा चिता द्रष्टव्या । इदमेव दर्शयितुं लौकिके विग्रहवाक्ये इवशब्दः प्रयुज्यते न त्वसौ प्रक्रियोपयोगीत्यवधेयम् । सामान्यवचनत्वमपि तद्विशि. टोपमेयपरत्वमेव बोध्यम् ।
उपमितं व्याघ्रादिभिः सामान्य (प्रयोगे (अष्टा०सु०२ - १ - ५६ ) | उपमेयं व्याघ्रादिभिः सह प्राग्वत् साधारणधर्मप्रयोगेऽसति । विशेष्यस्य पूर्वनिपातार्थोऽयमारम्भः । पुरुषो व्याघ्र इव पुरुषव्याघ्रः । व्याघ्रादिराकृतिगणः । सामान्याप्रयोगे किम् ? पुरुषोऽयं व्याघ्र इव शूरः । कथं तर्हि "भाष्याब्धिः क्वातिगम्भीरः" इति कैयटः ? अत्राहुः - नेह गाम्भीर्य साधारणधर्मत्वेन विवक्षितं किन्तु विततदुरवगाहत्वादि । तस्य चाप्र योगो ऽस्त्येवेति निर्बाधः समास इति ।
विशेषेणं विशेष्येण बहुलम् (अष्टा०सू०२-१-५७) । भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात्क्वचिन्नित्यसमासः । कृष्णसर्पः । लोहितशालिः । क्वचिश्न, रामो जामदग्न्यः । व्यासः पाराशर्यः । विशेषणविशेष्ययोः ससम्बन्धिकतयाऽन्यतरोपादानमात्रेणेतराक्षेपसम्भवे उभयोपादानं स्पष्टार्थे "कुत्सितानि कुत्सनैः” (अष्टा०सू०२ - १ - ५३ ) इत्यादाविवेति कैयटमतम् । हरदत्तस्स्वाह—विशेष्येणेत्युक्त्या विशेषणं लब्धम् । तस्य पुनर्विशेषणत्वोक्तिर्विशेष्यते इति व्युत्पत्त्या विशेष्यत्वलाभार्थ, तथाच समस्य मानपदद्वयजन्यबोधप्रकारयोः परस्परव्यभिचारित्वे समासोऽयं यथा नीलोत्पलादौ । तक्षकः सर्प इत्यादौ तु न भवति । नहि तक्षकत्वं सर्पत्वव्यभिचारीति । अत्रेदं वक्तव्यम् -' शब्द शास्त्र सहकारपादपाद्' इति प्रयुञ्जनेन प्रकृतसूत्र एव शिंशपावृक्ष इति समासो भवत्येवेति वदता त्वयाऽपि शिंशपावृक्षादिभ्यस्तक्षकः सर्प इत्यादौ विशेषो वक्तव्यः । ननूक्त एवासौ, "लुब्योगाप्रख्यानात्” (अष्टा०सू०१-२-५४) इनिमूत्रस्वरसेन शिशपादिशब्दानां फलेऽपि मुख्यतया शिंशपात्वस्य वृक्षत्वव्यभिचारादित्युपपादितत्वादिति चेत् न, "तक्षको नागवर्धक्योः ( अ० को ०३ - ३ - ४ ) इति नानार्थ कोशानुरोधेन तक्षकशब्दस्यापि वर्ध
Page #195
--------------------------------------------------------------------------
________________
१८६
शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिके
कौ रूढतया तक्षकत्वस्य सर्पत्वव्यभिचार इत्यविशेषात् । तक्षकत्वं सर्पत्वव्याप्यं भिन्न मे । तच्च न व्यभिचारीति चेत् ? तत्कि शिंशपा. त्वं वृक्षत्वफलत्वयोाप्यं नानति न पर्यालोचयेः। किश्च 'रामो जामः दग्न्यः' 'अर्जुनः कार्तवीर्यः' इत्यादि प्रकृतसूत्र एव वृत्तौ प्रत्युदाहृतम् । तत्र यदि रामत्वमजुनत्वं च दाशरथिधनञ्जयादिव्यावृत्तं भिन्नमेव तञ्च व्याप्यमित्याशयस्तर्हि समं शिशपात्वे । अथ शिंशपात्वं फलवृक्षयो। रेकं तर्हि नानार्थोच्छेदः तक्षकरामाणुनादावतिप्रसङ्गश्च । उभयसाधारणजाति साधकं नास्तीत्यादि तु तुल्यमेध । तस्मादिह कैयरमतमेव प्रा. माणिकमित्यवधेयम् । अत एव 'कैलासाद्रिः' 'मन्दराद्रिः' 'भावपदार्थः' 'तर्कविद्या' 'व्याकरणशास्त्रम्' इत्यादयः प्रयोगास्सङ्गच्छन्ते।
इदं त्ववधेयम् । विशेषणविशेष्यभावे कामचारात्पाचकपाठकादा. विव नीलोत्पलादावस्यव्यवस्थितः पूर्वनिपातः प्राप्तः। तत्रायं सिद्धा. न्तः । उपसर्जनमिति तावदन्वर्थसं त्युक्तम् 'अप्रधानमुपसर्जनम्' इति । तदिह जातिगुणशब्दयोः सन्निपाते गुण एव विशेषणं तस्य द्रव्यावच्छे. दद्वारैव क्रियानिर्वर्तकत्वात् । श्रोतव्यवहारोऽप्येवम् । "श्वेतं छागमा. लभेत" इति हि चोदनायां श्वेतच्छागालाभे कृष्णच्छाग आलभ्यते न तु श्वेतमपि पश्वन्तरम् । क्रियाजात्योरप्युपनिपाते एवमेव । तेन 'नी. लोत्पलं' 'पाचकब्राह्मणः' इति व्यवस्थित एव प्रयोगः। यत्र तु गुणशब्दयोः क्रियाशद्वयोः गुणक्रियाशब्दयोर्वोपनिपातस्तत्रानियम एव । 'खञ्जकुब्जः, कुब्जखञ्जः'। 'पाचकपाठकः, पाठकपाचकः'। 'खञ्जपाचकः, पाचकखञ्जः' इति । 'शिंशपावृक्षः' इत्यत्र तु शिंशपात्वस्य व्याप्यत्वात् वृक्षत्वस्य च व्यापकत्वात् विशेषणविशेष्यभावव्यवस्था स्पष्टैवेति दिक् ।
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (अष्टा०सु०२-१५८)।एते सुबन्ताः समानाधिकरणेन सुपा सह प्राग्वत् । पूर्वेणैव सिद्ध पूर्वनिपातनियमार्थमिदम् । गुणक्रियाशब्दैः सह समासे पूर्वादीनामेव पूर्व निपातो यथा स्यात् । पूर्ववैयाकरणः । अपराध्यापकः । इत्यादि । अप. रश्चासावर्द्धश्च पश्चार्द्धः । “पश्चात्" ( अष्टा०सू०५-३-३२ ) इति सूत्रे पठिप्यमाणेन "अर्द्धच" (का०वा०) इति वार्तिकेनापरस्य पश्चभावः।
__ पश्चार्द्धन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् ।
इति कालिदासः । अथ कथं "दृतं सराजन्यकमेकवीरः" इति ? इह हि "पूर्वकालैक" (अष्टा०सू०२-१-४९) इति बाधित्वा परत्वादनेन समासे 'वीरैकः' इति स्यात् । सत्यम् , पूर्वविप्रतिषेधोऽत्र वक्तव्य इति दुर्घटवृत्तिकारादयः । न त्वत्रोपष्टम्भकं मुनित्रयवचः पश्यामः । बहुल.
Page #196
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१८७
ग्रहणं वा शरणीकर्त्तव्यम् ।
श्रेण्यादयः कृतादिभिः (अष्टा०सू०२ - १ - ५९ ) । अर्थः प्राग्वत् । श्र ण्यादिषु व्यर्थवचनम् । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । एकेन शिल्पेन पण्येन वा ये जीवन्ति तेषां समूहः श्रेणि । श्रेण्यादयः पठ्यन्ते । कृतादिराकृतिगणः । यन्तानां तु "कुगति” (अष्टा०सु०२-२-१८) इति नित्यं समासः परत्वात् । श्रेणि, एक, पूग, मुकुन्द, राशि, विषय, निचय, निधन, इन्द्र, देव, मुण्ड, भूत, श्रवण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुण, कृपण, इति श्रेण्यादिः ।
केन न विशिष्टेनानञ् (अष्टा०सु०२-१-६०) । नञ्मात्राधिकेन का न्तेनानञ् क्तान्तं समस्यते स तत्पुरुषः । कृतं च तदकृतं च कृताकृतम् । एकमेव वस्तु एकदेशकरणात्कृतमेकदेशान्तरस्याकरणाच्चाकृतमित्युच्यते । पीतापीतम् । उदितानुदितम् । नुडिडाधिक्येऽपीष्यते । अशितानशितम् । क्लिष्टाक्लिशितम् । नुडिग्रहणमर्थाभेदकस्य विकारस्याप्युपलक्षणम् । “शाच्छोरन्यतरस्याम्" (अष्टा०सू०७-४-४१) छाताच्छितम् । पूर्वनिपातनियमार्थं सूत्रारम्भः ।
कृतापकृतादीनामुपसंख्यानम् (का०वा० ) । कृतापकृतम् । भुक्तविभुक्तम् । पीतविपीतम् । गतप्रत्यागतम् । भावेक्तः । तत् क्षणभुवा प्रत्यागमनेन सहचरितं गमनं गतप्रत्यागतम् । यातं च तदनुयातं च तदानीमेव पुनर्गमनात् यातानुयातम् । क्रयाक्रयिका । "अल्पे" (अष्टा०सू०५३- ८५) इति कप्रत्ययः । तदन्तश्च स्वभावात्स्त्रियाम् । “अन्येषामपि दृश्यते" (अष्टा०सू०६-३ - १३७) इति दीर्घः । महान् क्रयः क्रयशब्देनोच्यते, गोबलीवर्द्दन्यायात् । एवं पुटापुटिका, फलाफलिका, मानोन्मानिकेति ।
समानाधिकरणाधिकारे शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (का०वा० ) । शाकप्रियः पार्थिवः शाकपार्थिवः । पृथिव्या ईश्वरः । “तस्येश्वरः " ( अष्टा०सू०५-४-४२ ) इत्यञ् । लक्षणया सिद्धे उत्तरपदलोपो नोपसंख्येय इत्याहुः ।
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (अष्टा०सू०२ - १-६१ ) । एते पूज्यमानैः सह प्राग्वत् । गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् । सत्पाठकः । महावैयाकरणः । इत्यादि । पूज्य · मानैः किम् ? उत्कृष्टो गौः । कर्दमादुद्धृत इत्यर्थः । 'महाजनः' 'महो दधिः' 'महापापम्' इत्यादौ तु पूजाभावेऽपि "विशेषणं विशेष्येण "
Page #197
--------------------------------------------------------------------------
________________
१८८
शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिके
(अष्टा०सू०२-१-५७) इति समासः ।
वृन्दारकनागकुञ्जरैः पूज्यमानम् (अष्टा०स०२-१-६२)। एतैः समा. नाधिकरणः पूज्यमानं प्राग्वत् । व्याघ्रादेराकृतिगणत्वादेव सिद्ध पूज्य. मानमेवेति नियमार्थ वचनम् । गोवृन्दारकः । गोनागः। गोकुञ्जरः । नेह-माणवकोऽयं नागः यस्मान्मूर्ख इति । केचित्तु सामान्यप्रयोगे विध्यर्थमिदमित्याहुः । ___कतरकतमौ जातिपरिप्रश्ने (अष्टा०स०२-१-६३) । एतौ समर्थन सह प्राग्वत् । कतरकठः । कतमकलापः। "गोत्रं च चरणैः सह" (भा०श्लोवा०) कतमशब्दसाहचर्यात्कतरशब्दस्यापि तथाविधस्यैव ग्रहणे सिद्धे जातिपरिप्रश्नग्रहणं ज्ञापकं कतमशब्दोऽप्यन्यत्र साधुरिति । तथा च चिरन्तनवृत्तिषु प्रत्युदाहृतं कतरो भवतोदेवदत्तः । कतमो भवतां देवदत्त इति ।
किं क्षेप (अष्टा सू०२-१-६४)। एतत्समानाधिकरणेन सह प्राग्वत् । किंराजा, यो न रक्षति । किंसखा, यो द्रुह्यति । किङ्गौः, यो न वहति । "किमः क्षेपे" (अष्टा०स०५-४-७०) इति समासान्तप्रतिषेधः । क्षेप किम् ? को राजा पाटलिपुत्रे ।
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रिया. ध्यापकधूतैर्जातिः (अष्टा०सू०२-१-६५)। नपुंसकं पोटा इति हरदत्तः । अमरस्तु-"पोटा स्त्रीपुंसलक्षणा" (अ०को०२-६-१५) इति नपुंस कपर्यायेभ्यः पृथगवाह । स्तनश्मप्रवादियुक्ता स्त्री पोटेति तद्वयाख्या. तारः। उभयथापि शास्त्रीयस्त्रीत्वविशिष्टे पोटाशब्दो वर्तत । यथा शास्त्रीयपुंस्त्वविशिष्टे दारशब्दः । गृष्टिरेकवारप्रसुता । धेनुः प्रत्यग्र. प्रसवा। वशा वन्ध्या। वेहद् गर्भघातिनी । वष्कयणी तरुणवत्सा। पोटादिभिः सह जातिः प्राग्वत् । इभपोटा । इभयुवतिः । अग्नि स्तोकः। उदश्वित्कतिपयम् । गोगृष्टिः । गोधेनुः । गोवशा। गोवे. हत । गोबष्कयणी | कठप्रवक्ता। कठश्रोत्रियः । कठाध्यापकः । क ठधूतः । जातिः किम् ? देवदत्तः प्रवक्ता । 'कठधूर्तः' इत्यत्र यः कठः स धर्त इत्यर्थो न तु कठत्वं कुत्स्यते । अतः "कुत्सितानि कुत्सनैः" (अष्टा सू०२-१-५३) इत्यनेन गतार्थता न शङ्कया, प्रवृत्तिनिमित्त कुत्सायां तत्प्रवृत्तेः। कथं तर्हि "जनयति कुमुदभ्रान्ति धर्तबको बा. लमत्स्यानाम्" इति । बकधूर्त इति हि युकम् ! सत्यम् , प्रमाद एवाय. मिति प्रामाणिकाः।
प्रशंसावचनैश्च (अष्टा०स०२-१-६६) । प्रशस्तपाचिभिः समानाधि.
Page #198
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१८९
करणैः सह जातिः प्राग्वत् ।
"मतल्लिका मचर्चिका प्रकाण्डमुद्घतल्लजौ।
प्रशस्तवाचकान्यमूनि" ( अ०को०१-४-२७ ) इत्यमरः । नियः तलिङ्गा एते न तु विशेष्यनिघ्नाः । गोमतल्लिका । गोमचर्चिका । गोप्र. काण्डम् । गवोद्घः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । जातेः पूर्वनि. पातार्थ सूत्रम् । प्रशंसावचनपोटायुवतीत्येकयोगसम्भवे योगविभाग. स्य प्रयोजनं चिन्त्यम् । जातिः किम् ? कुमारी मतल्लिका । प्रशंसयेति वक्तव्ये वचनग्रहणं कढिशब्दपरिग्रहार्थम् । तेन ये यौगिकाः प्रशस्तशो. भनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वादयः, ये च जातिश. ब्दाः सन्तः परत्र प्रयोगात्प्रशंसां गमयन्ति, सिंहो माणवक इति, ते सर्वे व्युदस्ताः।
युवाखलतिपलितवलिनजरतीभिः (अष्टासु०२-१-६७) । जरद्भिरिति पाठान्तरम् । तत्राद्यपाठे युवशब्देन जरत्याः सामानाधिकरण्यासम्भवा. चदन्यथानुपपत्त्या "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि" (प०भा०७३) इति परिभाषा ज्ञाप्यते । तथाच युवयुवतिशब्दयोर्द्वयोरपि खलत्यादि. भिश्चतुर्भिरुभयलिङ्गैः समानाधिकरणैः सह समासे अष्टौ उदाहरणानि पर्यवस्यन्ति । तथाहि, युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । “कृदिकारादक्तिनः" (का०वा०) "सर्वतोऽक्तिन्नादित्येके" (का०वा०) इति ङीष् । युवपलितः। युवपलिता । युववलिनः । युवा घलिना । वलिशब्दः पामादिः । युवजरन् ।युषजरती इति । जीयतरतुन् । "उगितश्च" (अष्टा०सू०४-१-३) इति ङीप् । युवत्यामेव जरतीधर्मोप. लम्भन तद्रपारोपात्सामानाधिकरण्यम् । यत्त एवं सति पुंस्येव स्त्रीत्वा. रोपेण जरतीसामानाधिकरण्यं सम्भवतीति परिभाषाज्ञापनं कथमिति हरदत्तेनोक्तं, तत्रेदमुत्तरम् । आरोपं विनोपपत्तौ किं तेन ? नहि एकम. गत्या आरोपितमिति सर्वमेवारोपणीयम्, लक्ष्यानुरोधेन परिभाषाशा. पनस्यैवौचित्यात् । “कुमारः श्रमणादिभिः” (अष्टा सू०२-१-७०) इति पा ज्ञापकमस्तु, श्रमणादिषु स्त्रीलिङ्गानामेव वहूनां पाठात् । अश्वा दिभ्यः फविधी "पुंसि जाते" (गसू०) इति गणसूत्रे पुंसीत्युक्ति - पिकेति तु तत्वम् । युक्शब्दस्य पूर्वनिपातनियमार्थ वचनम् । अनियमो हि प्रसक्तः, गुणशब्दत्वात् ।
कृत्यतुल्याख्या अजात्या ( अष्टा०५०२-१-६८) । कृत्यप्रत्ययान्ता. स्तुल्यपर्यायाश्चाजातिवचनेन सह प्राग्वत् । भोज्योष्णम् । भोज्यलव. णम् । तुल्यश्वेतः । सरशश्वेतः । पूर्वनिपातनियमार्थ वचनम। अजा.
Page #199
--------------------------------------------------------------------------
________________
१५:०
शब्द कौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिके
त्येति किम् ? भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणमित्यपि न भ. वति । 'तुल्यमहान्' इत्यादौ तु परत्वादनेन " सन्महत्" (अष्टा०सू०२१-६१ ) इति बाध्यते । तस्य तु अकृत्यतुल्याख्या अवकाशः । कथं तर्हि "तस्य सत्कृत्यशालिनः" इति भट्टिः ? " सन्महत्" (अष्टा०सु०२-१६१) इत्यस्मात्परत्वादनेन समासे 'कृत्य सत्' इति स्यात् । सत्यम्, सतां कृत्यमिति षष्ठीसमासो बोध्यः । एवं 'परमपूज्यः' इत्यत्र ।
वर्णो वर्णेन (अष्टा०सू०२ - १-६९ ) । समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः । सारङ्गश्चित्रः । स चाकृष्णोऽपि सम्भवति । अतः कृष्णो विशेषणम् । न चासम्भवः, नानारूपसमाहारश्चित्रामित्यभ्युपगमात् । चित्रत्वं रूपत्वव्याप्यं नीलत्वादिविरुद्धं जात्यन्तरमेवेति पक्षे तु कृष्णावयवके कृष्णशब्दस्य लक्षणा बोध्या ।
स्यादेतत् । " तृतीया तत्कृता" (अष्टा०सू०२-१-३०) इतीह सिद्धम्, सारङ्गत्वस्य कृष्णादिकृतत्वात् । एवञ्च "वर्णो वर्णेषु " . ( अष्टा०सु०६२ - ३ ) इति पूर्वपदप्रकृतिस्वरोऽपि न विधेयः "तत्पुरुषे तुल्यार्थतृती या" (अष्टा०सु०६-२-२) इत्येव गतार्थत्वात् । मैवम, 'कृष्णशुक्लः' 'हरितशुक्ल' इत्याद्यर्थे समासस्यावश्यविधेयत्वात् । न हीह तत्कृतत्वमस्ति । तथा स्वरसूत्रमप्युभाभ्यां वक्तव्यम् । इह मा भूत् कृष्णैतः, लोहितैतः, इति । तथा चानेत इति निषेधार्थे विध्यर्थे वेति परं संशयः । तत्र कृष्णशुक्लादौ विध्यर्थमेवेति स्थितम् । प्रतिपदोकस्य समासस्य ग्रहणसम्भवात्स्वरसूत्रे " वर्णोनेत" इत्येवास्तु वर्णेष्विति न कर्तव्यमि ति तु तत्त्वम् । वस्तुतस्तु "वर्णो वर्णेषु" (अष्टा०सु०६ - २ - २) इति यथान्यासमस्तु । प्रकृतसूत्रमेव तु न कर्तव्यं “विशेषणं विशेष्येण' (अष्टा० सू०२-१-५७) इत्येव समासस्य सिद्धत्वादिति ध्येयम् ।
मत्वर्थीयचिकीर्षायां न कर्मधारय इति वक्तव्यम् || वीरपुरुषवान् ग्राम इति मा भूत् । तथाच प्रथमत एव मत्वर्थाविवक्षया बहुव्रीहिरेव भवति । न्यायसिद्धं चेदमिति भाष्यम् । बहुवीहिमात्रेण लभ्येऽर्थे मतु· बादेगौरवपराहतत्वात् । कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् ग्रामः इत्यादि तु भवत्येव कर्मधारयं विना जातिविशेषस्याप्रतीतेः । सर्वशब्दस्य त्वकारान्तैः कर्मधारय इष्यते । तस्माच्च ठनं बाधित्वेनिरेवेति वक्तव्यम् । सर्वधनी । सर्वबीजी । सर्वकेशी ।
1
9
कुमारः श्रमणादिभिः (अष्टा०सु०२-१-७० ) । पूर्वनिपातनियमार्थे सूत्रम् । येऽत्र स्त्रीलिङ्गाः पठ्यन्ते - श्रमण, प्रव्रजिता, कुलटा इत्येवमा दयस्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते । ये तु पुंल्लिङ्गा अध्या
I
Page #200
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१९१
पकादयस्तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । कुमारी श्रमणा कुमारभ्रमणा । श्रमणा । प्रव्रजिता । कुलटा । गर्भिणी । तापसी | दासी । बन्धकी । अध्यापक । अभिरूपक । पण्डित । पटु । मृदु | कुशल | चपल । निपुण ।
1
चतुष्पादो गर्भिण्या (अष्टा०सू०२-१-७१) । जातिरिति मण्डूकप्लु. त्यानुवर्तते चतुष्पाजातिवाचिनः सुबन्ता गर्भिणीशब्देन सह प्राग्वत् । गोगर्भिणी | अजगर्भिणी । जातिः किम् ? कालाक्षी गर्भिणी । चतुष्पाकिम् ? ब्राह्मणी गर्भिणी । गर्भिणीशब्दस्य परनिपातार्थे वचनम् । प्रत्युदाहरणे तु "विशेषणम्" (अष्टा०सु०२-१-५७) इति समासे पूर्वनिपातो बोध्यः ।
मयूरव्यंसकादयश्च (अष्टा०सु०२-१-७२) । एते समुदाया निपात्यन्ते 1 चकारोऽवधारणार्थः समासान्तरं व्यावर्तयति । व्यंसको धूर्तः । मयूर श्वासौ व्यंसकश्चेति विग्रहः । व्यंसकशब्दस्य गुणवचनत्वात्पूर्वनिपाते प्राप्ते वचनम् । एवं छात्रव्यंसकादीनां यवनमुण्डपर्यन्तानाम् ।
अन्ये त्वाहुः - मयूर इव व्यंसकः । छात्र इव व्यंसकः । कम्बोज इव मुण्डः । यवन इव मुण्डः । उपमानसमासोऽयम् । तत्र --" उपमानानि सामान्यवचनैः” ( अष्टा०सू०२-१-५५ ) इत्येव सिद्धे पुनर्विधानं " स्पुरुषे तुल्यार्थतृतीया" (अष्टा०सु०६-२-२ ) इति पूर्वपदप्रकृतिस्वरो मा भूदिति । स ह्युपमानसंशब्दनेन विहिते समासे विधीयते । मयूर - व्यंसकः । छात्रव्यंसकः । कम्बोजमुण्डः । यवनमुण्डः । पादगृह्य, हस्तगृह्य, लाङ्गूलगृह्य, पुनर्दाय, एते चत्वारश्च छन्दसि । यत्प्राक्षिणाः पितरं पादगृह्य | अग्निर्होता हस्तगृह्या निनाय । पुनर्दाय ब्रह्मजायाम् । पुनश्च नसौ छन्दसोति गतिसंज्ञा तु वार्तिककारोक्ता न तु मुत्रारूढेति गणकारेणेदं पठितम् ।
पीडादयोऽन्यपदार्थे (ग०सु० ) । एहीडेति यस्मिन्कर्मणि तदेहीडम् । एवम् एहियवम् । एहि वाणिजेति यस्यां क्रियायां सा एहिवा. णिजा । एवम् अपेहिवाणिजा । प्रेहिवाणिजा । एहि स्वागतमिति यस्यां क्रियायां सा एहिस्वागता । "ऊह वितर्के (स्वा०आ०६४१) लोण्मध्य मैक वचनम् । प्रोहकरटमिति यस्यां सा प्रोहकरटा । निपातनात्परस्मैपदम् । प्रोहकटा | प्रोहकर्दमा । उद्धरचूडा । आहरवसना । आहरवनिता । कृन्तविचक्षणा । "कृती छेदने" (तु०प०१४३५) लोट् । सेर्हिः । मुचादित्वान्नुम् | कृन्त विचक्षण इति यस्यां क्रियायां सेत्यर्थः । गणरत्ने तु कृन्धि विचक्षणेति पाठः । तत्र "कृती वेष्टने ” (रु०प०१४४७ ) इति
Page #201
--------------------------------------------------------------------------
________________
शब्दकौस्तुभद्वितीयाध्याय प्रथमपादे तृतीयान्हिके
रुधादिर्बोध्यः । उद्धरकोष्ठात् उत्सृज देहीति यस्यां क्रियायां सा उद्धरो त्सृजा । “आख्यातमाख्यातेन" (ग०सू०) इति सिद्धे असातस्यार्थे वचनम् । एवम् उद्धमविधमा । उत्पख निपचा । उत्पतनिपता । इद्दैषां समासानामन्यपदार्थे स्त्रीलिङ्गत्वाद्दाप् । एवमग्रेऽपि उदक् च अवाक् च उच्चावचम् | उच्चैश्च नीचैश्चोच्चनीचम । आचितं चोपचितं च आचोपचम् | आचपचम् | निश्चितं व प्रचितं च निश्वप्रचम् । एते सर्वे निपात्यन्ते । न विद्यते किञ्चन यस्यासावकिञ्चनः । सकिञ्चनः । स्नात्वाकालकः । इह समासान्तोदात्तत्वं ल्यबभावश्च निपात्यते । समानकर्तृकत्त्रं तु अन्तभूतक्रियापेक्षं बोध्यम्, स्नात्वाकालकः संपन्न इत्यर्थावगमात् । पीत्वा स्थिरकः । भुक्त्वा सुहितः । प्रोष्य पायान् उत्पत्य या कला उत्पतनं कृत्वा या पाण्डुर्भवति सोच्यते हस्तिज्वरः पाकलः । तद्विशेषस्तु फूटपाकल: "कलभं कठोर व कूटपाकलः" इति भवभूतिप्रयोगात् हस्ति शास्त्र तथादर्शनाच्चेत्यन्ये । निपत्यरोहिणी । निषद्यश्यामा | अपे हिप्रणमा |
जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तीरं चाभिदधाति (का०वा० ) । जहीति लोण्मध्य मैकवचनान्तम् । तत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्ताभिधीयते । जहिजो मित्याभीक्ष्ण्यन य आह स जहिजोडः । जहिस्तम्बः । उज्जहिस्तम्बः ।
आख्यातमाख्यातेन क्रियासातत्ये (ग०सू० ) । अश्नीतपिबतेत्येवं यत्र सततमभिधीयते सा ऽश्नीतपिबता । एवं पचतभृज्जता । खादतमोदता । खादतवसता । आहरनिचया । आहरनिष्कषा । उत्पचनिपचा । भिन्धिलवणा । भिन्धि लवणमिति यस्यामभिधीयते सा क्रिया तथा । एवं पचलवणा । आकृतिगणोऽयम् । तेनान्येपि ज्ञेयाः । तत्र केचि गणरत्नकृता संगृहीताः । तद्यथा-नास्ति कुतोपि भयं यस्य सः अकुतो• भयः । कान्दिशं गच्छामीति य आह स कान्दिशीकः । गणपाठसामयदीकण द्वीतीयाया अलुक्च । "कान्दिशीको भयदुतः " (अ०को० ३-१-४२) इत्यमरः । अहो पुरुषोऽहमिति यो मन्यते तस्य भाव आहोपुरुषिका । मनोज्ञादित्वाद्वुञ् । अहं शक्तोऽहं शक्त इति यस्यां साहमहमि का । या इच्छा अभिप्राय इति यदृच्छा । एहिरेपाहिरा | एहि रे पाहि रे इति यस्यां सा तथेत्यर्थः । गणपाठादात्वम् ।
पहिरां पाहिरे नीता येन निश्चप्रचा अपि ।
१९२
तत्कर्म दग्धुं सेवेथा गोविन्द मकुतोभयम् ॥
उन्मृद्धि अवमृड्ढीति यस्यां सा उन्मृजावमृजा । अंत एव निपा
Page #202
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
तनादनयोरिहैव साधुत्वम् । अन्य द्रव्यं द्रव्यान्तरम् । अन्तरशब्दो भि. भवाची । भिन्नश्चाभेदेन सम्बन्धेन पूर्वपदार्थे विशेषणम् । पूर्वपदजन्य. बोधप्रकाराश्रयप्रतियोगित्वं भेदे व्युत्पत्तिसिम् । अवश्यकार्यम् । तदेव तन्मात्रम् । "मात्र कात्स्न्ये ऽवधारणे"(अ०को०३-३-१७७) इत्यादि।
॥ इति श्रीशद्धकौस्तुभे द्वितीयाध्यायस्य प्रथमे पादे
तृतीयमाह्निकम् ॥ पादश्वायं समाप्तः ॥
पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे (अष्टा सू०२-३-१) । अव. यविना सह पूर्वादयः समस्यन्ते स तत्पुरुषः, एकत्वसंख्याविशिष्टश्चे. दवयवी भवति । पूर्व कायस्येति पूर्वकायः। अपरकायः, इत्यादि । षष्ठीसमासापवादोऽयम् । तथाच 'कायपूर्वः' इति प्रयोगोऽनेन व्याव. त्यते । 'पूर्वकायः' इति प्रयोगस्तु पूर्वश्चासौ कायश्चेति कर्मधारयेणापि सिद्धः । समुदायेषु हि वृत्ताः शब्दा अवयवेऽपि वर्तन्ते इति न्यायात, ऊर्ध्वकाय इतिवत् । ननु षष्ठीसमासव्यावृत्तयेऽपि सुत्रं न कार्य, षष्ठ्या एवेह दुर्लभत्वात् । पञ्चम्या होह भाव्यम् , दिशि दृष्टः शब्दो दिक शब्द इति व्याख्यानेन सम्प्रत्यदिग्वृत्तिनाऽपि योगे पञ्चमीस्वीकारात् ? सत्यम् । अवयववृत्तिभिर्योगे षष्ठ्येवेष्यते "तस्य परमादंडितम्" (अष्टा सू०८-१-२) इति लिङ्गात् । एकदेशिशब्दोऽयमवयवे रूढः । अत एव ततो मत्वर्थीयः कृष्णसर्पवान्वल्मीकः' इति यथा। यद्यपीह “एक. गोपूर्वात्" (अष्टा०सू०५-२-११८) इति ठञ् प्राप्तस्तथाप्यत एव निर्देशा. दिनिर्बोद्धव्यः । एकदेशवाचिनि तु एकदेशीयशब्द एव, बहुव्रीहिल. भ्येऽथै मतुबादयो नेत्युक्तत्वात् । एकदेशिना किम् ? पूर्व नाभेः काय. स्य । नामेः पूर्वो भागः स कायस्य सम्बन्धीत्यर्थः । नाभेरिति दिग्यो. गलक्षणपञ्चमी । अत्र पूर्वस्य भागस्य नाभिरवधिर्न त्वेकदेशी, अतो न नाभ्या समास: । कायेन तु स्यादेव पूर्वकायो नाभेगिति, पूर्वशब्दस्य नित्यसापेक्षत्वात् । एकाधिकरणे किम् ? पूर्व छात्राणामामन्त्रयस्व नेयं निर्धारणे षष्ठी, किन्तु समुदायसमुदायिसम्बन्धे । बहुवचनं तूभृता. वयवभेदसमुदायविवक्षया यथा 'छात्राणां पञ्चमः' इति । ततश्च छात्रा. णामेकदेशित्वमस्त्येव, किन्त्वेकत्वसंख्यावैशिष्ट्यं नास्तीति समासाभावः । कथन्तर्हि 'मध्याह्नः' 'सायाह्नः' इति ? अत्राहुः-सर्वस्यैकदेशवा. चिनोऽहा समासः, 'संख्याविसाय' (अष्टा०सू०६-३-११०) इति ज्ञाप. कात् । नान्यथा सायपूर्वत्वमद्रस्योपपद्यते । केचित्तु नेदं विशेषापेक्षं शब्द. द्वितीय. 13.
Page #203
--------------------------------------------------------------------------
________________
१९४
शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिके
ज्ञापकमति, किन्तु सामान्यापेक्षम् । सर्व एकदेशवाची कालेन समस्यते इति ज्ञाप्यशरीरम् । तेन 'मध्यरात्रः' 'उपारताः पश्चिमरात्र. गोचराः' इत्यादि सिद्धम् । न चोकायवसामानाधिकरण्येन सायाहमध्यरात्रादेर्निर्वाहः शङ्ख्यः, "अहःसवैकदेश" (अष्टा०सू०५-४-८७) इत्यादिना विहितस्याचः "अहोऽह्न एतेभ्यः" (अष्टासु-५-४-८८) इत्यहादेशस्य चैकदेशिसमासं विनाऽनुपपत्तेः। कथन्तर्हि 'दिनमध्यः' 'रात्रिमध्यः' इति ज्ञापकसिद्धं न सर्वत्रेत्यदोषः। ___ अर्ध नपुंसकम् (अष्टा०सू०२-२-२)। नित्यक्लीयोऽर्धशब्द पकद्रव्ये विद्यमानेनावयविवाचिना सह प्राग्वत् ।
भित्तं शकलखण्डे वा पुस्योऽध समेऽशके । (अको०१-३-१६) इत्यमरः । इह काकाक्षिन्यायेन वापुंसीति पूर्वोत्तराभ्यां सम्बध्यते । तत्र शकलखण्डे इति नपुंसकत्वस्य रूपभेदानिर्णये पुंस्त्वविकल्पाद. स्त्रियामिति फलितम् । न च स्त्रीलिङ्गरूपमेव किन्न स्यादिति वाच्यम, भिन्नलिङ्गानां न द्वन्द्व इति तेन परिभाषितत्वात् । शकलश्चास्त्रीति निर्दे शेनैव निर्णयात् । 'अर्धः' इत्यत्र तु रूपभेदात्पुंस्त्वावगतो सत्यां वापुं. सीति तद्विकल्पनाविशेषास्त्रीनपुंसके लभ्यते । तथा चार्धशब्दस्त्रि. ग्विति फलितोऽर्थः। समेऽशके तु अर्ध नित्यनपुंसकमित्यर्थः । अर्ध पिप्पल्याः अर्धपिप्पली । “एकविभक्तावषष्ठ्यन्तवचनम्" (का०वा०) इति पिप्पलीशब्दस्यानुपसर्जनत्वान्न हस्वः । एकाधिकरणे किम् ? अर्ध पिप्पलीनाम् । कथं तर्धपिप्पल इति १ अर्धानि पिप्पलीनामिति विग्रहे मा भूत् । खण्डसमुच्चये तु भविष्यति, अर्धपिप्पली च अर्धपिपली चेत्यादि विग्रहात । एकदेशिनेति किम् ? अर्ध पशोर्देवदत्तस्य । देवदत्तोऽत्र स्वामी न त्ववयवीति न तेन समासः । पशुना तु स्यादेवअर्धपशुर्देवदत्तस्येति । देवदत्तस्वामिकं पशोरर्धमित्यर्थः । नपुंसक किम् ? प्रामार्धः । नगराधः । अर्धमिति निर्देशादेव सिद्धे नपुंसकग्रहणं स्त्रे लिगनिर्देशो न विवक्षित इति ज्ञापयितुम्। तेन "तस्येदम्" (अष्टा० सू०४-३-१२०) इति लिङ्गत्रयेऽपि भवति । एतत्सूत्रं "परवल्लिङ्गम्" (अष्टा० २-४-२६) इत्यत्र भाज्ये प्रत्याख्यातम् । तथाहि, 'अर्धपिप्पली' इति कर्मधारयेण सिद्धम् , समुदाये दृष्टाः शब्दा अवयंवेऽपि वर्तन्ते इति न्यायात् । समप्रविभागादन्यत्र हि तवाप्येषैव गतिः । अर्धाहारः, अर्ध. हारः, अर्धजरतीयम् , अर्धवैशसम् , अर्धोक्तम् , अर्धविलोकितम् , इत्यादिदर्शनात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम, षष्ठीसमासस्यापीष्टत्वादिति । तथाच कालिदासः प्रायुत
Page #204
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१९५
" प्रेम्णा शरीरार्धहरां हरस्य " इति ।
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (अष्टा०सू०२-२-३) । एतानि एकदेशिना सह वा प्राग्वत्स्युरेकं चेंद्र द्रव्यम् । द्वितीयं भिक्षायाः द्वितीयभिक्षा, भिक्षाद्वितीयम् । तृतीयभिक्षा | 'भिक्षातृतीयम्' इत्यादि । एकदेशिना किम् ? द्वितीयं भिक्षाया भिक्षुकस्य । एकाधिकरणे किम् ? द्वितीयं भिक्षाणाम् ।
स्यादेतत् पूर्वसूत्रवदिदमपि प्रत्याख्यातम् । तथाहि, समुदायशब्दस्यावयवे वृत्तौ कर्मधारयेण 'द्वितीयभिक्षा' इत्यादि सिद्धम् । 'भिक्षाद्वितीयम्' इत्यादि तु षष्ठीसमासेन सिद्धम् । मैवम्, “पूरण" (अष्टा०सु०२-२-१९) इतिषष्ठीसमासनिषेधात् । सिद्धान्ते त्वस्मिन् सूत्रे ऽन्यतरस्यांग्रहणसामर्थ्यात्वक्षे षष्ठीसमासो लभ्यते, वाक्यस्य म. हाविभाषयैव सिद्धेः । नन्वेतत्सूत्रं विनापि " पूरणाद्भागे" (अष्टा०स्० ५-३-४८) इति स्वार्थेऽनुप्रत्ययं कृत्वा तदन्तेन षष्ठीसमासं करि व्यामइति चेत् ? न, तत्रापि प्रतिषेधसाम्यात् । " पूरण" (अष्टा०सु० २-२-११) इत्यत्र हि अर्थग्रहणं न तु पूरणाधिकार विहित प्रत्ययग्रहणम्, अर्थशब्दस्य प्रत्येकमभिसम्बन्धात् । स्वार्थिकाश्च प्रकृत्यर्थेना'र्थवन्त इति अन्नन्तस्यापि पूरणार्थतास्त्येवेति भाष्ये स्थितम् । अत एव “तान्युञ्च्छषष्ठाङ्कित सैकतानि” ( २०व०५ - ८ ) इत्यत्र समासः प्रा. मादिक इत्याहुः । वस्तुतस्तु "परवल्लिङ्गम्" (अष्टा०स्०२-४-२६) इतिसूत्रे तत्पुरुषग्रहणं "द्विगुप्राप्त" इत्यादि वार्त्तिकं " पूर्वापर" (अष्टा० सू०३-१-५८) इत्यादित्रिसूत्री च भाष्ये प्रत्याख्याता । तथाच भिक्षा. द्वितीयादिसिद्धये संज्ञाप्रमाणत्वादिनिर्देशानां सामान्यापेक्षज्ञापकताश्रयणीया " पूरण' (अष्टा०सु०२-२-११) इत्यादिनिषेधो ऽनित्य इति । एवञ्चोञ्छषष्ठेत्यपि साध्विति दिक् । तुरीयस्यापीष्यते इति वृत्तिकाराः । एतच्च भाष्यादौ नास्ति ।
प्राप्तापन्ने च द्वितीयया (अष्टा०सु०२-२-४) । एतौ द्वितीयान्तेन सह प्राग्वत् । पक्षे " द्वितीयाश्रित" (अष्टा०सु०२-२-२४) इतिसमासः । प्रातो जीविकां प्राप्तजीविकः । जीविकाप्राप्त इति वा । आपन्नजीविकः । जीविकापन्नः । यद्यपि प्राप्ता जीविका येनेति कृत्वा कर्मणि कान्तेन बहुव्रीहौ 'प्राप्तजीविकः' इत्यादि सिध्यति, तथापि समासान्तोदात्तार्थे वचनं 'प्राप्तसुखः' इत्याद्यर्थञ्च । इह हि बहुव्रीहौ "जातिकालसुखादिभ्यः " ( का० वा० ) इति निष्ठायाः परनिपातः स्यात् । लिङ्गविशिष्टपरिभाषया प्राप्तशब्दस्याप्ययं समासः । प्राप्ता जीविका प्राप्तजीविकेति ।
Page #205
--------------------------------------------------------------------------
________________
E
शब्दकौस्तुभद्वितीयाध्याय द्वितीयपादे प्रथमान्हिके
ननु " एकविभक्ति" (अष्टा०सू०१ -२-२४) इत्युपसर्जनतया जीविकाशउदस्य ह्रस्वो ऽस्तु नाम, प्राप्ताशब्दस्य तु कुतः सः ? अत्र भाष्यम्, "अ. स" इति पूर्वपदस्याकारोऽपि सुत्रेऽस्मिन् विधयते, चकारेण समुच्चयार्थेन। कारप्रश्लेषस्यानुमानादिति । प्राप्तापने समस्येते, अ च, अत्यं व भवति प्राप्तापन्नयोः । सौत्रत्वाच्च प्रकृतिभावो नेति भाव इति प्राञ्चः । वस्तुतस्तु द्वितीयेत्यस्यानन्तरमकारप्रश्लेषो बोध्यः । एवं हि प्रकृतिभावप्रसङ्ग एव नास्तीति बोध्यम् ।
कालाः परिमाणिना (अष्टा०सु०२ - २ - ५ ) | परिमीयते परिच्छिद्यते येन तत्परिमाणं तद्वान्परिमाणी । परिच्छेद्यवाचिना सुबन्तेन सह का लाः समस्यन्ते स तत्पुरुषः । मासो जातस्य यस्य स मासजातः । ननु जातो देवदत्तः तस्य च दिष्ट्यादि परिच्छेदकं न तु कालः, तस्य क्रियामात्रपरिच्छेदकत्वादिति चेत् ? सत्यम्, साक्षात्क्रियां परिच्छिन्दन्नपि कालस्तदुद्वारा देवदन्दं परिच्छिनत्ति । यस्य हि जननादूर्ध्वं मासो गतः स मासजात इति व्यवहियते । तत्र व्यवहारकालजननक्षणयोरन्तरालभावी मासो जननद्वारा जातमपि परिच्छिनत्येव । विग्रहे षष्ठीनिर्हि ष्टस्यापि वृत्तौ प्राधान्यमिह बोध्यम् । 'दण्डी चित्रगुः' इत्यादाविव वि शेषणविशेष्यभावव्यत्यासेनैव एकार्थीभावाभ्युपगमात् । तथाच हरिणाकचिद् गुणप्रधानत्वमर्थानामविवक्षितम् ।
इत्युपक्रम्य
आख्यातं तद्धितार्थस्य यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावस्य तत्र दृष्टो विपयर्यः ॥
·
इति वदता आक्षिकवैयाकरणाद्युदाहरणानि स्पष्टीकृतानि । तथाच 'मासजातः' इत्यस्य मासप्राग्भाविजननाश्रय इत्यर्थः । अत एव मास जातो दृश्यतामित्यादिक्रियायोगो जातस्यैव भवति न तु अर्धपिप्पल्यादाविव पूर्वपदार्थस्य । यहजातः । द्वयोरहोः समाहारः । " राजाहः सखिभ्यष्टच्” (अष्टा०सू०५-४-९१) । " न संख्यादेः समाहारे" (अष्टा सू०५-४-८९) इत्यह्नादेशप्रतिषेधः । कथन्तर्हि 'यह्नजातः' इति ? उच्यते, नायं समाहारे द्विगुः किन्तुत्तरपदे द्वे अहनी जातस्य यस्येति त्रिपदतत्पुरुषाभ्युपगमात् । ननु सुप्सुपेत्येकत्वस्य विवक्षितत्वात्कथमेतदिति चेत् ? वचनादित्यवेहि । उक्तं हि वार्त्तिककृता-" उत्तरपदेन परिमाणिना द्विगोः समासवचनम्” इति । अस्यार्थः - परिमाणिवचनेनोतरपदेन द्विगोः सिद्धये समासो वक्तव्यः । अर्थाद् द्वयोर्युगपदिति गम्यने । तथाच वचनाद्वहूनामप्ययं तत्पुरुषो भने । एवं दो मामी
Page #206
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । जातस्य पूर्वयोस्तत्पुरुषे सति “कालान्ते द्विगौ" (अष्टान्सू०५-१-८६) इति पूर्वपदप्रकृतिस्वरो भवति । द्वयोर्मासयोः समाहारो द्विमासम् । पात्रादिः । द्विमासं जातस्येति तु विगृह्म समासे क्रियमाणे सतिशिष्टत्वा. समासान्तोदात्तत्वं स्यात् ।।
स्यादेतत् । यावद्वचनं वाचनिकांमति परिमाणिमात्रेण त्रिपदत. त्पुरुषः, अन्यत्र तु द्विपद एवेति स्थितम् । तथाच "कथं त्रिलोकनाथेन सतां मखद्विषः” इति कालिदासः । "नवरसरुचिरम्" इति च काव्यप्रकाशकारः ? इह हि त्रिलोकनवरसशब्दयोन तावद् "विशे. षणं विशेष्येण" ( अष्टा सु०२-१-८७ ) इति समासः । "दिक्संख्ये संज्ञायाम्" (अष्टा०सू०२-१-५०) इति नियमात् । नापि समाहारे द्वि गुः "द्विगोः" (अष्टान्सू०४-१-२१) इति ङीपप्रसङ्गात् । न च पात्रादित्वं कल्प्यम 'त्रिलोकी' इति प्रयोगस्यासाधुतापत्तेः । तथा च परिशेषात्रि. पदत्वपक्ष एवावशिष्यते । द्विमासजातः । त्रिपदे तत्पुरुषे जातशब्दे उत्तरपदे परतः स चोक्तरीत्या दुष्ट एवेति । अत्रोच्यते, लोकशब्दो ऽत्र समुदायपरः । तथा च व्यवयवो लोक इति मध्यमपदलोपी तत्पुरुषः । इदश्च, "द्विगोलंगनपत्ये" (अष्टा सु०४-१-८८) इत्यत्र भाज्ये एव स्पष्टम् । त्रयाणां लोकनाथ इति वा। नवरसा चासौ रुचिरेति बावी. हिगर्भः कर्मधारयोऽपि सुवचः। __ प्रकृतमनुसरामः । 'राजपुरुषः' इत्यादौ यद्यप्यभेदैकत्वसंख्या मा. सते तथापि मासजाते न तथा किन्तु शूर्पण क्रीतः शौर्पिक इत्यत्र शूर्पस्येव मासस्य मुख्यमेवैकत्वम् । अक्तपरिमाणस्य वाचके तथैव व्यु त्पत्तेरिति ध्येयम् ।
नञ् (अष्टा०स०२-२-६) । नञ् सुपा सह प्राग्वत् । अब्राह्मणः । अंवृषलः । उत्तरपदार्थप्रधानोऽयम् । तथाहि आरोपितत्वं नाघोत्यते । तच्चोत्तरपदप्रवृत्तिनिष्ठम् । तथा चारोपितं यद ब्राह्मणत्वं विशिष्टे समासः शकः । विशेषणविशेष्ययोः संसर्गस्त्वारोप एच । तेन ब्राह्मणाभिन्नत्वबोध आर्थः । अत एवानुपसर्जनस्वादतस्मिनित्यादिसर्वनाम: कार्यनिर्वाहः।
स्यादेतत् । विघ्नानामभावोऽपिघ्नमित्यत्रापि परत्वात्तत्पुरुषः स्यात् । अव्ययीमावस्तु 'निर्मक्षिकम्' इत्यादी सावकाशः । मैवम्, उच. रपदार्थप्राधान्य एषास्य प्रवृतेः । उक्तं हि प्राक् "अव्ययीभाषादिमहा. संहाव्यवहारेण पूर्वाचार्योकार्थनियमोऽप्युत्सर्गतः स्वीक्रियते" इति । नन्वेषम 'अनुपलब्धिः' इत्यादी का गतिः। भणु । "रक्षोहांगमलब
Page #207
--------------------------------------------------------------------------
________________
१९८ शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिकेसन्देहाः" इति भाग्यप्रयोगात्पक्षे तत्पुरुषोऽपीप्यते । अत एव भूवादि. सुत्रे "अथासंहितया' इति "विरामोऽवसानम्" (अष्टान्सू०१-४-११०) इति सुत्रे तु 'अदुतायामसंहितम्" इति द्विधापि भाग्यवार्तिकयोः प्रयु. कम् । यद्वा, अनुपलब्ध्यसन्देहादावपि लाक्षणिक आर्थो वा तदभाषबोधः।
स्यादेतत. अन्यपदार्थप्राधान्येऽयं समासः । भावप्रधानो ात्र निर्देशः । न ब्राह्मणत्वं यस्मिन्नित्यर्यादुन्मत्तगङ्गादावव्ययीभाव इवेह तत्पुरुषो बहुव्रीहेर्बाधक इति । फलन्तु 'अकर्ता' 'अभोक्ता' इत्यादी "नवृतश्च" (अष्टा सू०५-४-१५३) इति कबभावः स्यात् । मैवम् , 'मतस्मिन्" इत्यादौ सर्वनामकार्यगणकार्ययोरसिद्धिप्रसङ्गात् । 'अव. र्षा हेमन्तः' इत्यत्र हेमन्तस्येव तद्विशेषणस्याप्येकवचनापत्तेश्च । 'अ. धनो ब्राह्मणः' इत्यादावपि न्यायसाम्याचत्पुरुषपरवल्लिङ्गतापते. स्वेति दिक्। मतान्तरन्तु
तप:श्रुतञ्च योनिश्चेत्येतद् ब्राह्मणकारणम् ।
तपाश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ॥ इत्यादिवचनप्रामाण्यात्सर्वे समुदायशब्दाः तत्तद्यक्तिभिरिव त. दीयगुणसमुदायेनाप्युपहितायाः सत्ताया जातित्वात् । तथाच 'अ. पूर्णो ब्राह्मणोऽब्राह्मणः' इति सर्वथाप्युत्तरपदार्थप्राधान्यं निर्बाधम् । अत्र च लिगम्-"एतत्तदोः' (अष्टा०सू०६-२-१०२) इति सूत्रेऽनसमा. सग्रहणम् । एवञ्च "अनेकमन्यपदार्थ" (अष्टा०सू०२-२-४) इत्यादावे. कवचनं सिद्धम् । माघश्च-"सेव्यतेऽनेकया सन्नतापाङ्गया" इति । कथन्तर्हि "पतन्त्यनेके जलधेरिवोर्मयः" इति ? अत्राहुः। अध्यारोपि. तैकत्वानां प्रकृत्यर्थतया तत्र वास्तवबहुत्वाभिप्राय बहुवचनं न विरुध्यते इति। अनेक श्व. नेरुश्चेवेकरी षो वा । यतु
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नार्थाः षट् प्रकीर्तिताः ।। यथा-अब्राह्मणः, अ पं. अनश्वः, अनुदरा कन्या, अपचसि, अधर्मः, इति । तत्तु यथायथमा कार्थमभिप्रेत्येति बोध्यम् । निरूढल. क्षणायाः शक्तिसमकक्ष्यतया । रान्ते त्वतिरिक्तशक्तरुक्कतया वृत्ति. विशेषे तदर्थान्तर्भाव इति वा कथञ्चित्रेयम् । इह न ब्राह्मणस्य भाव इति युगपदेव भावनारोपितत्वेन च सम्बन्धे विवक्षिते समास एव
Page #208
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । प्रथमं न तु परावपि त्वतलौ, प्रकृत्यर्थस्य सापेक्षत्वेनासामर्थ्यात् । नञ्. समासस्तु प्रधानस्य सापेक्षत्वानिर्बाधः। ततश्च सतिशिष्टः प्रत्ययस्वरो लित्स्वरश्च भवति न तु "तत्पुरुषे तुल्यार्थ" (अष्टा सू०६-२-२)इत्ययम् ।
ईषद कता (अष्टा सू०२-२-७) । स्पष्टोऽर्थः । ईषत्पिङ्गलः । ननु 'ईष. द्भतम्" 'ईषदुनतम्' इत्यादावव्याप्तिः । ईषद्ाादावतिव्याप्तिश्च । सत्यम् । अत एव वार्तिककृतोक्तम्-"ईषद् गुणवचनेन" इति । अकृते. त्यपनीय तत्स्थाने गुणवचनेनेति प्रणीयमित्यर्थः। अतो नाव्याप्त्यति. व्याप्ती । यद्यपि गर्गापत्यत्वे उत्कर्षापकर्षों न स्तस्तथापि तदेकार्थसम. वायिनां क्रियागुणानां तौ बोध्यौ । तथाच प्रयुज्यते-'गार्यतरः' 'गार्य: कल्प' इत्यादि ।
षष्ठी (अष्टा सू०२-२-८)।'षष्ठ्यन्तं समर्थन सुबन्तेन सह प्राग्वत । राजपुरुषः । कृयोगा च षष्ठी समस्यत इति वाच्यम् (काभ्वा०)। इध्मव्रश्चनः। प्रतिपदविधाना चेति निषेधस्यायमपवादः। वस्तुतस्तु स निषेधोऽयं तदपवादश्चेत्युभयमपि न वक्तव्यमिति वक्ष्यते । __ याजकादिभिश्च (अष्टा सु०२-२-९)। एभिः षष्ठी समस्यते । "तृज. काभ्यां कर्तरि" (अष्टासु०२-२-१५) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । याजक, पूजक, परिचारक, परिवेषक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होत, पोत, भर्तृ, रथगणक, पत्ति, गणक । वृत् ।
गुणात्तरेण तरलोपश्चेति वक्तव्यम् (काण्वा०)। इदञ्च वार्तिकं भाष्ये "सर्व गुणकात्स्न्ये " (अष्टा०स०६-२-९३) इति सूत्रे पठितम् । तरबन्तं यद् गुणवाचि तेन समास इत्यर्थः । "न निर्धारणे" (अष्टा०सू० २-२-१०) इति निषेधस्यायमपवाद इति वृत्तिकाराः । “पूरणगुण" (अष्टा०सू०२-२-१९) इति गुणनिषेधस्येति भाज्यकाराः। सर्वेषां श्वेत. तरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ।
न निर्धारणे (अष्टा०सू०२-२-१०) निर्धारणे याषष्ठी सान समस्यते । नृणां द्विजः श्रेष्ठः । अत्र द्विजशब्देन समासप्रसङ्गः। तदपेक्षा हि षष्ठी। कथं 'पुरुषोत्तमः' इति ? अत्र समाधानं "द्विवचनविभज्यं" (अष्टा०म०५-३५७) इति सूत्रे स्थित्वा कैयट आह यस्मानिर्धार्यते यश्चैकदेशो निर्धाः र्यते यश्च निर्धारणहेतुरेतत्रितयसन्निधाने निर्धारणं भवतीति तत्रैवायं निषेधो न तु त्रितयसन्निधानाभावेऽपीति । यद्वा, पुरुषेषत्तम इति नि.
र्धारणसप्तम्यां "संज्ञायाम्" (अष्टान्सू०२-१-४४) इति समासः । यत्त्वेवं सति "न निर्धारणे" (अष्टा०सू०२-२-१०) इति सूत्रं व्यर्थ स्यादिति । तन्न, स्वरे भेदात् । सप्तमीसमासे हि "तत्पुरुष तुल्यार्थ" (अष्टा०१०
Page #209
--------------------------------------------------------------------------
________________
२०० शब्द कौस्तुभद्वितीयाध्याय द्वितीयपादे प्रथमान्हिके-
६-२-२) इति पूर्वपदप्रकृतिस्वरः षष्ठीसमासे त्वन्तोदात्तत्वं स्यात् ।
1
प्रतिपदविधाना च षष्ठी न समस्यते इति वाच्यम् (का०वा० ) । सर्पिषो ज्ञानम् । “ज्ञोविदर्थस्य" (अष्टा०सू०२ - ३ - ५१ ) इति षष्ठी । सा च प्रतिपदविधाना “षष्ठी शेषे" (अष्टा०सू०२-३-५०) इति विहायान्यस्याः सर्वस्या अपि तथात्वात् । न चैवमनेनैव गतार्थत्वात् "न निर्धारणे” (अष्टा०सु०२-२-१०) इति व्यर्थमिति शङ्क्यम् । "यतश्च निर्धारणम्” (अष्टा०सु०२-३- ४१) इति सूत्रं हि षष्ठीं न विधत्ते किन्तु सप्तमीमेव । षष्ठी तु तया मा बाधीति प्रतिप्रसूयते इत्यन्यदेतत् । एवं "स्वामी' श्वर” (अष्टा०सु०२-३-३९) इत्यादिष्वपि । तेन 'गृहस्वामी' 'सर्वेश्वरः ' इत्यादि सिद्धम् । वस्तुतस्तु "शोऽविदर्थस्य" (अष्टा०सू०२-३-५१) इत्यादिचतुर्दशसूत्रीमध्ये "दिवस्तदर्थस्य" (अष्टा०स्०२-३-५८) इत्यादिषट्सूत्र विहायावशिष्टायामष्टसूत्र्यां शेष इति वर्त्तते । तथाच 'न माषाणामश्नीयात' इत्यादाविव “षष्ठी शेषे" (अष्टा०सु०२-३-५०) इत्येव सिद्धे नियमार्थे प्रकरणम् - षष्ठी भवत्येव श्रूयत एव, न तु लुप्यते । तथाच लुक्प्रयोजिका समाससंज्ञैव न भवतीति फलितोऽर्थः । तस्मात् "प्रतिपदविधाना न” इति वचनं न कर्तव्यम् । एवं स्थिते "कृद्योगा च " (का०वा० ) इत्यपि मास्तु । कर्तृकर्मणोः कृति" (अष्टा०सु०२ - ३ - ६५) इत्यत्र हि शेषे इति निवृत्तम् । तथाच षष्ठीविध्यर्थमेव (१) तदिति कुतः समासनिवृत्तिप्रसङ्गः । आह च
साधनैर्यपदिष्टे च श्रूयमाणक्रिये पुनः
प्रोका प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ इति ।
कथन्तर्हि हरिस्मरणं- "विशेषस्मृतिहेतवः " " पदात् पदार्थस्म र. णम्" इत्यादीति चेत् ? कर्मणिषष्ठ्या समासस्यानिषेधादिति गृहाण | तथा चेह कारकषष्ठ्या समासात्कृदुत्तरपदप्रकृतिस्वरो भवति । शेष - षष्ठीसमासे त्वन्तोदात्तता स्यात् । एवञ्चान्तोदात्तनिवृत्तये प्रकरणं 'मातुःस्मृतम्' इत्यादौ समासाभावार्थे च । न हि तत्र कारकषष्ठी लभ्यते "न लोक" (अष्टा०सु०२-३-६९) इति प्रतिषेधादिति निष्कृष्टो ऽर्थः । आह च
निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते ।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ इति ।
पूरण गुणसुहितार्थ सद्व्ययतव्यसमानाधिकरणेन (अष्टा०सु०२-२११) । पूरणाद्यर्यैस्त्रिभिः सदादिभिश्च षष्ठी न समस्यते । पूरणे - सतां
(१) "कर्तृकर्मणोः " (अष्टा०सु०२ - ३ - ६५ ) इति सूत्रम् ।
Page #210
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । २०१ षष्ठः। अत्र पूरणार्थाः प्रत्यया एव गृह्यन्ते न तु पूरणोम्मनादिशब्दा अपि। तेन "कुम्भपूरणभव: पटुरुचैः" इत्यादि सिद्धम् । अत्र च शाप "लोपे चेत्पादपूरणम्' (अष्टा सू०६-१-१३४) इति सूत्रप्रयोगः । पूरणा धिकारस्तु न गृह्यते । भागेऽन्प्रत्यये सति तदन्तेनापि निषेधस्य "द्वि तीयतृतीय" (अष्टा०सू०२-२-३३) इति सूत्रे भाष्य एव स्पष्टत्वात् । अत. एव भिक्षाद्वितीयम्' इत्यादावन्यतरस्यांग्रहणसामर्थ्यात्समास इत्यु क्तम् । अत एव च "तान्युञ्छषष्ठाङ्कितसैकतानि" (र०वं०५-८) इति कालिदासस्य प्रमाद इत्याहुः । षष्ठ इत्याख्यातः षष्ठः, आख्यातण्य. न्ताद्--"एरच्" (अष्टासु०३-३-५६) इति वा समाधेयम् ।
गुणश्चेह "सत्त्वे निविशतेऽपैति" इति लक्षितो गृह्यते केवलगुणस्य गुणोपसर्जनद्रव्यस्य च प्रतिपादकः, व्याप्तिन्यायात् । काकस्य का.
ण्यम् । ब्राह्मणस्य शुक्लाः । यदा ऽर्थात्प्रकरणाद्वा दन्तादि विशेष्यं निर्वातं तदेदमुदाहरणम् । कथं तर्हि "गोसहस्त्रम्' इति । अत्राहुः । संख्यया नायं निषेधः "शतसहस्रान्ताच्च निष्कात" (अष्टान्सु०५-२ ११९) "कोशशतजनशतयोरुपसंख्यानम्” (कावा०) "खारीशत. मऽपि न ददाति" (भा०६०) इत्यादिमुनित्रयप्रयोगात्। अनित्यश्चायं गुणेन निषेधः । "संज्ञाप्रमाणत्वात्" "उत्तरपदार्थप्राधान्यम्" इत्यादि. निशात । सेन 'करणपाटवम्' 'अर्थगौरवम्' 'बुद्धिमान्द्यम्' इत्यादि सिद्धम् । 'चन्दनगन्धः' इत्यादौ तु नायं निषेधः "तत्स्थैश्च गुणैः" इति समासस्य प्रतिप्रसवात । गन्धत्वेन प्रतीयमानो हि गन्धो न कदापि गुणिसमानाधिकरणः । किन्तु स्वप्रधानः । यस्तु "वहति जलमयं पिनष्टि गन्धान्" इति प्रयुज्यते स चन्दनत्वादिजातिनिमित्तको न तु गुणशब्दः, मालतीकुसुमादिष्वदर्शनादिति । एवं घटरूपमित्यादि । सुरभिशुक्लादिशब्दास्तु न तत्स्थगुणप्रतिपादकाः, तेन रूपेण प्रतीय. मानस्य गुणिसामानाधिकरण्यदर्शनात् । एवं "शौक्ल्यम्' इत्यादाबपि बोध्यम् । शौक्ल्यसौरभादिशब्दैहि शुक्लत्वसुरभित्वादिप्रकारक एष गुणबोधः । तद्पापन्नस्य च द्रव्यसामानाधिकरण्यमस्त्येव 'शुक्ल' 'सुरभिः' इत्यादाविति दिक् ।
सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । करणस्यैव शेषत्व. विवक्षया षष्ठी । न च "न लोक' (अष्टा०सू०२-३-६९) इतिनिषेधः शड्यः, तस्य कृद्योगलक्षणषष्ठीविषयकत्वात् । इह सुहितार्थयोगे करणस्य शेषत्वविषष नियतेल्याहुरिति हरदत्तः । तत्राहुरित्यपरि. तोषोदावनम् । तदीजन्तु नियमे प्रमाणाभावः,
Page #211
--------------------------------------------------------------------------
________________
२०२
शब्दकौस्तुभद्वितीयाध्यायद्वित्तीयपादे प्रथमान्हिके
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचने ॥ इत्यादिप्रयोगाणां पाक्षिक्यापि शे(१)पत्वविवक्षया सिद्धत्वात् । अत एव करणत्वविवक्षया तृतीयां भट्टिः प्रायुत
फलैर्नानाविधैश्चित्रैः स्वादुशीतैश्च वारिभिः ।
तृप्तास्तां भ्राजथुमती प्रपच्छुः कस्य परियम् ॥ इति । नन्वेवं षष्ठीसमासे निषिद्धेऽपि तृतीयातत्पुरुषेण 'फलतृप्तः' इति स्यादेवेति चेत् ? इष्टापत्तेः । न चैवं निषेधवैयर्थ्यम् , स्वरे विशेषात् । तथाहि, षष्ठीसमासेऽन्तोदात्तत्वं स्यात् , तृतीयासमासे तु थाथादि. स्वरापवादः "तृतीया कर्मणि" (अष्टा०स०६-२-४८) इति पूर्वपदप्रकृ. तिस्वरः । तृपिश्च सकर्मकोऽप्यस्ति, "पितृनतासत्सममस्त बन्धून्" इति भट्टिप्रयोगात् । तेनास्मात्कर्मणि को नास्तीति न शङ्कनीयम् । 'फलतर्पणम्' इत्यादौ तु स्पष्ट एव स्वरे भेदः, कारकात्परत्वेन कृदुत्तरपदप्रकृतिस्वरात् ।
सत्--द्विजस्य कुर्वन् कुर्वाणो वा। किंकर इत्यर्थः । शेषे षष्ठी। चोरस्य द्विषन् । इह "द्विषः शतुर्वा वचनम्" इति पाक्षिकी कर्मणिषष्ठी।
अव्यय-ब्राह्मणस्य कृत्वा । तादर्थ्यरूपसम्बन्धस्य सामान्यरूपेण विवक्षायां षष्ठी । ब्राह्मणसम्बन्धिनी क्रियेत्यर्थः । 'पुरा सूर्यस्योदेतोः' इत्यप्यव्ययोदाहरणम् । इह कर्त्तरि षष्ठी "(२)अव्ययप्रतिषेधे तोसुन्क. सुनोरप्रतिषेधः" ( का० वा० ) इति वचनात् । अत्र सत्तव्याभ्यां साह. चर्यात्कृदव्ययेनैव समासो निषिध्यते । तेन तदुपरि' इत्यादि सिद्धमिति रक्षितः । तथा च भट्टिप्रभृतयः प्रयुञ्जते-यत्कृतेऽरीनिगृहीमः,
आदेयाः किंकृते भोगाः कुम्भकर्ण त्वया विना । भवत्कृते खञ्जनमञ्जुलाक्षीति, तत्पाणिमात्मोपरि पातुकन्तु, किमु तदन्तरुभौ भिषजौ दिवः, इत्यादि च । तथा "अनेकमन्यपदार्थ" (अ. टा०सू०२-२-२४) इति सूत्रे 'सर्वपश्चात्' इति भाष्यप्रयोगोऽपीहानुकू. लः । कैयटहरदत्तौ तु अव्ययप्रतिषेधे वृक्षस्योपरीत्युदाहरन्तौ (३)प्रकृ. दव्ययेनापि निषेधं मन्यते । तत्तु भट्टिश्रीहर्षादिप्रयोगाणां प्रतिकूलम् ।
(१) विशेष' आदशैं। (२) "न लोकाव्यय" (अष्टा०४०२-३-६९) इति सूत्रेणेत्यादिः । (३ 'कृदव्ययेनापि' आदर्श ।
Page #212
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
२०३
यद्वा, अस्मिन्पक्षे क(१)च्छब्दः सम्पदादितिवन्तः कार्यपरः । ततश्चतु: र्थी । आत्मन उपरि पातुक इति विग्रहः । तस्यां यन्मध्यं तत्रेत्यर्थे "स. तमी शौण्डैः" (अष्टा०सू०२-१-४) इति सूत्रोक्तरीत्या सप्तमीत. त्पुरुषोऽव्ययीभावो वेति दिक् ।
तव्य-ब्राह्मणस्य कर्तव्यम् । निरनुबन्धकस्य सूत्रे ग्रहणात्तव्यता स. मासो भवत्येव-स्वकर्तव्यम् । स्वरे भेदः । “गतिकारकोपपदात्" (अ. ष्टा०सू०६-२-१३९) इति कृदुत्तरपदप्रकृतिस्वरः । तत्र तव्यतस्तित्त्वे. नान्तस्वरितता । तव्यस्य त्वाद्युदात्तत्वान्मध्योदा(२)तं पदमिति ।
समानाधिकरणन-तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहु. लग्रहणान्नेत्युक्तम् ।
स्यादेतत, इह षष्ठीसमासः प्राप्नोत्येव न । बाह्यसम्बन्ध्यपेक्षा हीयं षष्ठी । तथा च कटोऽपि कर्म, भीष्मादयोऽपीति न्यायेन द्वयोरपि पं. ष्ठयन्तयोर्विषप्रभृतिनाऽन्वये सति पश्चात्प्रातिपदिकार्थमात्रयोः पाणि. कः सम्बन्धो वाच्यः । तथाच तक्षकस्येति सर्पस्यति च परस्परमस. मर्थ कथं समस्यताम् १ अत एव 'नीलोत्पलस्य' 'मेरुमहीभृतः' इत्या. दावपि प्रथमान्तयोर्विशेषणसमासे तत: षष्ठीति न्याय्यं न तु षष्ठयन्त. योर्विशेषणसमासः, उकरीत्याऽसामर्थ्यात् । किञ्च यथा 'चित्रगुः'इत्या. दो सम्बन्धस्याभिहितत्वात्प्रथमा तथेहापि षष्ठयन्तयोः समासे ततः प्रथमैव स्थान तु षष्ठी । उच्यते । कट एव कर्म भीष्मादयस्तु तत्ला. मानाधिकरण्यमात्रात्तद्विभक्तिं लभन्ते इति पक्षे इदं बोध्यम् । समाना. धिकरणेन निषेध एव चैतत्पक्षशापकः । अत एव विशेषणविभक्तिः सा धुत्वार्थत्युद्घोषोऽपि सङ्गच्छते । न चैवमपि समासात्षष्ठी न स्यादि. ति वाच्यम् , पश्च(३)कपक्षे द्वितीयादेरिवोपपत्तेः । सकलविभक्तिः साधारणेन कर्मधारयेणान्यतरस्य स्फुटमनभिधानात् । एषैव च वैय. धिकरण्यस्थले सर्वेषां गतिः। तथाहि, 'राज्ञः कुमार्या राजकुमार्याः' इति षष्ठ्यन्तस्य समासे पूर्वनिपातानियममाशङ्कयोपसर्जनसंज्ञाया अन्वर्थतामाश्रित्य समाहितमाकरे । न च तत्र त्वदुक्तस्यासाम. र्थ्यस्योक्तिसम्भवोऽपि, येन प्रथमान्तमेव समस्येत । तथाच राज्ञः. (१) उपरिनिर्दिष्टप्रयोगत्रये कृते इत्यत्रेति यावत् ।
(२) तव्यप्रत्ययान्तेन सह समासे तु कृदुत्तरपदप्रकृतिस्वरण मध्योदात्तं 'स्वकर्तव्यं स्यादित्यर्थः ।
(३) स्वार्थद्रव्यलिङ्गसङ्ख्याकारकाणि पश्च प्रातिपदिकस्यैवार्थों विभक्त्यादि तु तदनुवादमात्रकामिति पक्षे ।
Page #213
--------------------------------------------------------------------------
________________
२०४ शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिकेकुमारी, कुमार्यै, इत्यादय एव विग्रहा इति उपसर्जनसंज्ञाविधायकयोः सू(१)त्रयोः काशिकादौ स्पष्टम् । “अनेकमन्यपदार्थे" (अष्टा०सू०२-२-२४) इति सूत्रे "तत्पुरुषे तुल्यार्थ" (अष्टा०सू०६-२-२) इति सूत्रे च भाग्यकै. यटयोरपि स्पष्टमेवेदम् । तथाच प्रथमान्तेन विग्रह इति नियमाभावा. सर्वत्र त(२)त्पुरुषोऽपि द्वितीयादिविभक्तयः पञ्चकपक्षवदेवोपपादनीया इति तत्वम् । राजपुरुषादौ सङ्ख्याया इवोत्तरपदार्थप्रविष्टसम्बन्धस्या पि वृत्तावप्रवंशाच्च । प्रयोगार्ह विग्रहे परं समासोत्तरविभकिसजा. तीयायाः प्रयोगात् । पचन्तीति पाचका इतिवत् । वाक्यसंस्कारपक्षे अलौकिकेऽपि बहुवचनवत्षष्ठयादिकल्पनाया एव न्याय्यत्वादिति दिक्। ___ यत्तु वृत्तावुदाहृतं शुकस्य माराविकस्य, राज्ञः पाटलिपुत्रकस्ये. ति । तत्र मारावीत्याहति माराविकः । "तदाहेतिमाशब्दादिभ्य उपसं. ख्यानम्" (का० वा० ) इति ठक् । शब्दनक्रियायाः प्रतिषेधको मा. राविकः । माराविदस्येति वाले माराविशब्दं ददातीति स एवार्थः । एवं पाटलिपुत्रे भवः पाटलिपुत्रकः । इत्थं स्थिते यदीह समासोऽनिष्टः स्या. सदेदं समानाधिकरण इत्यस्योदाहरणं सङ्गच्छेत । समास इष्ट इति तु वदता तेनैव नेदमुदाह युक्तम् ।
यत्तु तत्रैव समर्थितम्-षष्ठीसमासे सति पूर्वनिपातानियम: स्यात् । विशेषणसमासे तु विशेषणस्यैव पूर्वनिपातः सिध्यतीति । तत्रेदं वक्त. व्यम् । विशेषणविशेष्यभावस्याव्यवस्थितत्वेनातिप्रसङ्गे प्राप्ते 'अप्रधा. नमुपसर्जनम् , आर्थ चाप्राधान्यम्' इत्यादिक्रमेण द्रव्यगुणादिशब्दे. षु व्यवस्थेष्यते । तच षष्ठीसमासेऽपि सुवचमिति किन्तनिषेधेनेति ! वस्तुतस्तु गोधेनोः भोज्योष्णस्य कुमारश्रमणाया गो गर्भिण्या इत्यादी. नीहोदाहार्याणि । पोटायुवतीत्यादीनां विभक्तयन्तरे विशेषणसमासं बाधित्वा चरितार्थानां परेण षष्ठीसमासेन बाधापत्तेः । तथाच विशे. षणस्यैवोपसर्जनतया पूर्वनिपातेऽप्यनिष्टं स्पष्टमेवेत्यवधेयम् ।
केन च पूजायाम् (अष्टासू०२-२-१२) । "मतिबुद्धि" (अष्टा०० ३-२-१८८) इति सूत्रेण विहितो यः कस्तदन्तेन षष्ठी न समस्यते । स हि पृजायां वर्तमानाद्विहित इत्येतावन्मात्रेण पूजाग्रहणं तस्योपल. क्षणं गृह व कातेन मातबुद्ध्यर्थाभ्यां कस्याप्ययं निषेधः। राज्ञां मतो बुद्धः पूजितो वा । “कस्य च वर्तमाने" (अष्टा०२०२-३-६७)इति
(१) "प्रथानिर्दिष्टं समास उपसर्जनम" (मष्टान्स०१-२-४३) "पक्रविभक्तिचापूर्वनिपाते" (अष्टा १०१-२-४७) इतिःसत्रयोरित्यर्थः
(२)'तत्पुरुषोपरि' आदर्श ।
Page #214
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
२०५
षष्ठी । कथन्तर्हि "कलहंसराममहितः कृतवान्" इति भट्टिः ? "मह पू· जायाम्” (स्वा०प०७३०) रामस्य महित इत्यर्थः तथा 'राजपूजितः ' इत्यादि । अत्राहुः । 'केन च पूजायाम्'' (अष्टा०सु०२-३-१२) इत्यादिषु कारकषष्ठया एव समासो निषिध्यते । यदा तु कर्त्रादेरेव शेषत्वविव क्षया षष्ठी तदा भवत्येव समासः । स्वरे च विशेषः - कारकषष्ठधा स मासे हि कृदुत्तरपदप्रकृतिस्वरः, शेषषष्ठ्या तु समासान्तोदात्तत्वमि ति । अनुन्यासकारस्त्वाह-यदा वर्तमाने कस्तदा षष्ठी समासनिषेधश्च । यदा तु भूते कस्तदा कर्तरि तृतीया । यथा " पूजितो यः सुरासुरैः" इति । तस्याः "कर्तृकरणे कृता बहुलम् " (अष्टा०सू०२ - १ - ३२) इति समासः । न च तक्रकौण्डिन्यन्यायाद्वर्त्तमाने क्त इह भूते के बा धते इति वाच्यम् (१) तेनेत्यधिकारे उपज्ञातइति निर्देशेनाबाधज्ञापनात् । न च ज्ञा(२)नार्थमात्रविषयकं ज्ञापकम्, उदाहृतप्रयोगानुरोधेन सामान्यविषयकत्वस्यैव न्याय्यत्वादिति ।
अधिकरणवाचिना च (अष्टा०सू०२-२-१३) केन षष्ठी न समस्यते इदमेषामासितं गतं भुक्तं वा । "कोऽधिकरणे च " (अष्टा०सू०३-४-७६) इति कः । " अधिकरणवाचिनश्च' (अष्टा०सू०२-३-६८) इति कर्तरि षष्ठी । "अधिकरणे च" इत्येव सिद्धे वाचिग्रहणं स्पष्टार्थम् । कथं तर्हि 'किवृत्तं ' 'यद्वृत्तम्' इति ? अत्राहुः - नायमधिकरणे कः, किन्तु भावे । किमो वृत्तं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः । यद्वा, कर्त्तरि कः । किमो वृत्तं निष्पन्नमिति च विग्रहः ।
कर्मणि च (अष्टा०सु०२-२-१४) । चकार इतिशब्दार्थः । कर्मणीतिशब्दमुच्चार्य विहिता परिशेषिता वा या षष्ठी सा न समस्यते । चि• त्रङ्गवान्दोहोऽगोपेन । यद्यनेन 'कर्मषष्ठीमात्रं न समस्यते' इत्यभिप्रेतं स्या चर्हि तृजकाभ्यां (३)निषेधं नारभेत । यत्र हि कर्तरि तृजकौ तत्र कर्मणिष भाव्यम् । 'शब्दानुशासनम्' इत्यादी यथा न समासनिषेधस्तथोक्तं पस्पशायाम् ।
( १ ) "तेनैकदिक्" (अष्टा०सू०४-३-११२) इति तृतीयाधिकारे "उपज्ञाते" (अष्टा०सु०४-३ - ११५) इति तृतीयान्ताद् उपज्ञातेऽर्थे शैषिकप्रत्ययविधायकंन निर्देशेनेत्यर्थः । अन्यथा भूते तस्य बाधे षष्ठया एव लाभादिति भावः ।
(२) ज्ञानार्थकधातुभ्य एव प्राप्तस्य भूते तस्य वर्तमानक्तेना बाध इति यावत्
·
( ३ ) "तुकाभ्यां कर्तरि" (अ०पू०२-२-१५) इति यावत्
Page #215
--------------------------------------------------------------------------
________________
२०६ शब्दकौस्तुभद्वितीयाध्यायाद्वतीयपादे प्रथमान्हिके
तृजकाभ्यां कर्तरि (अष्टा सू०२-२-१५) । कर्बर्थतजकाभ्यां षष्टया न समासः । कर्तरीत्यकस्यैव विशेषणं न तु तृचोपि, अव्यभिचारात् । अपां स्रष्टा । पुराम्भेत्ता । वज्रस्य भत्ती । यद्यपि भर्तृशब्दो याजका. दिषु पठितस्तथापि रूढेर्बलीयस्त्वात्पतिपर्यायस्य तत्र ग्रहणम् । यौगिः कस्य तु निषेध एव । ओदनस्य पाचकः । कर्तरि किम् ? इथूणां भक्ष. णमिनुभक्षिका । "पर्यायाहोत्पत्तिषु ण्वुच" (अष्टा०सु०३-३-१११) धात्वर्थनिर्देशे ण्वुल्वा(१) । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधा. तुश्च कलहः ? अत्र न्यासकार:-तृन्नन्तमेतत् । “न लोक" (अष्टा सू०. २-३-६९) इति षष्ठीनिषेधस्त्वनित्यः, व्यकाभ्यामिति वक्तव्ये तृचः सानुबन्धकस्योपादानाज्ज्ञापकात् । कैयटस्तु शेषषष्ठया समास इत्याह । "जनिकर्तुः प्रकृतिः" (अष्टा०सू०१-४-३०) "तत्प्रयोजको हेतुश्च"(अष्टा० सू०१-४-५४) इति ज्ञापकादनित्योऽयं प्रतिषेध इति तु बहवः। __कर्तरि च (अष्टा०४०२-२-१६) । कर्तृषष्टया अकेन न समासः । भवतः शायिका । “पर्यायाहर्ण" (अष्टासु०३-३-१११) इति ण्वुच । पूर्वत्र द्वन्द्वेन निर्दिष्टोऽपि तृव नेहानुवर्तते, तद्योगे कर्तुरभिहिततया कर्तृषष्ठया असम्भवात् ।
नित्यं क्रीडाजीविकयोः (अष्टा सू०२-२-१७) । पतयारर्थयोर. केन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभाञ्जिका । क्रीडाविशेषस्येयं संज्ञा । "संज्ञायाम्" (अष्टा००३-३-१०२) इति भावे ण्वुल् । पुष्पा. णामिति कर्मणिषष्ठी ! जीविकायाम्-दन्तलेखकः । तत्र क्रीडायां विकल्पे प्राप्ते जीविकायां 'करि च" (अष्टा००२-२-१६) इति निषेधे प्राप्ते वचनम् । जयादित्यस्तु “तृजकाभ्याम्"(अष्टा०पू०२-२-१५) इति सूत्रे कर्त रीत्येतदनुवृत्तायाःषष्ठया विशेषणम् । तृ(२)जुत्तरार्थ इत्युक्त्वा "कर्तरि च"(अष्टान्सू०२-२-२६) इति सूत्रे कर्तृग्रहणं तुजकयोर्विशेषणतया व्या. ख्याय "नित्यं क्रीडा" (अष्टा सु०२-२-१७) इति सूत्रे अकप्रत्ययमेवोदा. जहार । तत्रेदं वक्तव्यम्, प्रथमसूत्रे कर्तृग्रहणं तृजकयोरेव विशेषणं युक्तं, तयोः श्रुतत्वात् ; न तु षष्ठयाः । एवञ्च तृजुत्तरार्थ इत्यपि न क ल्प्यम् । अकस्यैव चोत्तरत्रानुवृत्तिन तु. तृचः, असम्भवात् । तथाच' सत्रदयस्य व्यत्यासेनार्थ उचित इति । वामनस्तु "अके जीविकार्थे"
(१ ) "धात्वर्धनिर्देशे ण्वुल्वक्तव्यः" ( कावा० ) हत्यमेनत्यर्थः ।
(२) 'तृत्प्रत्ययेन कर्तुरभिधाने तद्योगे कर्तृषष्ठया असम्भवात' इत्यादिः।
Page #216
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
(अष्टा०सु०६-२-७३) इति सूत्रे अके इति किम् ? रमणीयकर्तेति जीवि कायां तृचं प्रत्युदाजहार । तस्यायमाशयः - मा भूत्क्रीडायां तृच्, लक्षणाभावात । जीविकायान्तु "ण्वुल्तृचौ (अष्टा०सू०३-१-१३३) इति बुलि तृजपि सुलभ पवेति । एतन्मते "नित्यं क्रीडा" (अष्टा०सु०२-२१७) इत्यत्र तृजग्रहणासम्बन्धशङ्कावारणार्थे तृजुत्तरार्थ इत्यादि कुसृवृधादरणमित्याहुः ।
1
२०७
स्व.
कुगतिप्रादयः (अष्टा०सु०२-२-१८) । कुशब्दो गतिसंज्ञाः प्रादयश्च समर्थेन नित्यं समस्यन्ते । कुः पापार्थे । कुपुरुषः । नित्यसमासविषयस्याप्यस्य पूर्वपदप्रकृतिस्वरार्थमव्ययत्वमिष्यते । तथा च वार्त्तिकम् - " अव्यये नञ्कुनिपातानाम्" (का०वा० ) इति । तस्मादयं रादिषु बोद्धव्यः । स एव चेह गृह्यते, न तु पृथिववृत्तिः ग ( १ )त्यादि. साहचर्यात् । गतिः - ऊरीकृत्य । प्रादिग्रहणमगत्यर्थम् । तद्विषयविभा गार्थानि तु बहूनि वार्त्तिकानि । तथाहि दुर्निन्दायाम् - दुः पुरुषः । स्व. ती पूजायाम -सुपुरुषः, अतिपुरुषः । आङीषदर्थे - आपिङ्गलः । प्रायिकं चैतदुपाधिवचनम् । अन्यथा "ईषदर्थे च " ( अष्टा०सु०६-३-१०५) इति कोः कादेशविधानमनुपपन्नं स्यात् । कोष्णम् दुष्कृतम् । दुरत्र कृच्छ्रार्थे । अनभिधानात्तु भूते खल् न भवति । सुष्टुतम् । सुशद्वोऽतिशये, न तु पूजायाम् । अत एवोपसर्गनिबन्धनं षत्वम् । अतिस्तुतम् । "अतिरतिक्रमणे च" (अष्टा०सू०१-४-९५ ) इति क ( २ ) र्मप्रवचनीयत्वम् ।
प्रादयो गताद्यर्थे प्रथमया । वृत्तिविषये गताद्यर्थवृत्तयः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्ते इत्यर्थः । प्रगत आचार्यः प्रा. चार्यः । प्रान्तेवासी ।
अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अतिक्रान्ता मालामतिमालः । अवादयः कुष्टाद्यर्थे तृतीयया । अवकुष्टः कोकिलया अवकोकिलः । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या । परिग्लानोऽध्ययनाय पर्यध्ययनः । अलं कुमार्यै अलंकुमारि । नित्यसमासत्वेऽपि चतुर्थीविधानसामर्थ्यात्पक्षे वाक्यमिति रक्षितः । एतेन " एकविभक्ति चापूर्वनिपाते" (अष्टा०.
( १ ) अद्रव्यार्थ केत्यादिः ।
(२) 'कर्मप्रवचनीयत्वाभावः' इति पाठः । तत्वबोधिन्याम् "अति रतिक्रमणे च” (अष्टा०सू०१-४-९५ ) इति सूत्रे अन्ये तूदाहरन्ति - "ति सिक्तम् अतिस्तुतमिति" । इत्युक्तेः षत्वाभावाच्च कर्मप्रवचनीयसंज्ञा नि. ति चिन्त्यम् ।
Page #217
--------------------------------------------------------------------------
________________
२०८ शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिके-- सू०१-२-१४४) इति सूत्रे 'अलंकुमारिः' इति भाष्यं “पर्यादयोग्लानाद्यर्थ इति समासः" इति कैयटवचनं च व्याख्यातम् । तदेव भाज्यमनित्य. तायां ज्ञापकमिति वास्तु । वस्तुतस्तु नेहानेन समासः, अलमोऽप्रादित्वात् । प्रादिसमासस्य त्वयं प्रपञ्च इत्याकरः । किन्तु "द्विगुप्राप्तापना. लम्पूर्व (कावा०) इत्यनेन ज्ञाप्यमानो ऽलंपूर्वस्तत्पुरुषः पृथग्गतिग्रहणात्पर्याप्त्यर्थेनापि भवनभिधानानुरोधाच्चतुर्थ्यन्तनैव भवति । तस्य चानित्यसमासत्वं निर्बाधमवेत्यवधेयम् ।
निरादयः कान्ताद्यर्थे पञ्चम्या। निष्क्रान्तः कौशाम्ब्या निष्कौशा. म्बिः। प्रादिग्रहणस्य अगत्यर्थत्वादतिप्रसङ्गे प्राप्त कर्मप्रवचनीयानां प्रतिषेधो दक्तव्यः । वृक्षम्प्रति विद्योतते विद्युत् । कथन्तर्हि अधीत्येति ? इह हि "अधिपरी अनर्थको (अष्टा०सू०१-४-९३) इति कर्मप्रवचनीय. त्वम् । उच्यते, “अध्यापकधूतः" (अष्टा०स०ए०२-१-६५) इतिनिर्देशा. दनित्यः प्रतिषेधः । अत एव 'सुस्तुतम्' 'अतिस्तुतम्' इति षत्वाभावे ऽपि समास उदाहृतः । “स्वती पूजायाम" (कावा०) इति वचनाद्वा तत्सिद्धिः। __उपपदमतिङ् (अष्टा०सू०२-२-१९) । उपपदं सुबन्तं समर्थन नित्यं समस्यते । अतिङन्तश्च समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस कार इत्यलौकिकं प्रक्रियावाक्यम् । लडाद्याधिक्येऽप्य. दूरविप्रकर्षेण तूक्तं लौकिकं वाक्यं बोध्यम् । अतिङ किम् ? मा भवान् भूत्। "माङि लुङ्' (अष्टा०स०३-३-१७५)इति सप्तमीनिर्देशान्माकु. पपदम् । ननु सुपेत्यधिकारात्तिङन्तेन न भविष्यति ? सत्यम् , तन्निवृत्तिरनेन झाप्यते । तत्फलं त्वनुपदमेव स्फुटीकरिष्यामः । प्रथमान्तं तु सुप्ग्रहणमिहानुवर्तते एव । अत एव 'राजदर्शी' इत्यादौ पूर्वपदे नलोपादिपदकार्य सिध्यति । सुप्सुपेतीह नानुवर्तते इति भाष्यवृत्त्या. दिग्रन्थास्तु मिलितं नानुवर्तते इत्येवंपराः। अतिङिति नोपपदस्य विशेषणं किन्तु समासस्येति यद्यपीह भाये न स्पष्टं, तथापि "अनं. वक्लप्त्यमर्षयोः" (अष्टा सू०३-३-१४५) इति सूत्रे भाष्ये एव स्पष्टम् । तत्र हि किंवृत्तस्थानधिकारादकिंवृत्तग्रहणानर्थक्यमित्युक्त्वा उपप. दसञ्ज्ञार्थ तीत्याशङ्ख्यातिङिति समासप्रतिषेधात्मज्ञानर्थक्यमिति सिद्धान्तितम् । एवं पूर्वसुपि गतिग्रहणं पृथक्कृत्य तेनाप्यतिग्रहणं सम्बन्धनीयम् । गतिः समस्यते अतिङन्तश्च समासः स्यादिति । तेन 'प्रयवति' इत्यादौ तिङन्तेन समासो न । अतिहणाच्च सुपेति तृती.
निवत्तत । तथाच "गतिकारकांपपदानां कृद्भिः सह समासवचनं
Page #218
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
२०९
प्राक् सुबुत्पतेः" (१०भा०)इति प्राचां परिभाषा एकदेशानुमतिद्वारा सामान्यापेक्षमापकभूतेन अनिकाहणेन लभ्यते । गतीनां कारकाणामुप. पदानां च कृाद्भः सह यः समासः स उत्तरपदात्सुबुत्पत्तः प्रागेष कार्य इत्यर्थः । पूर्वपदन्तु सुबन्तमेवेत्युक्तम् ।
गतीनां तावत्-व्याजिघ्रनीति व्याघ्री। "आतश्वोपसमें" (अष्टा० सु०३-१-१३६) हात कः। "पाघ्रामा" (अष्टा०स०३-१-१३७) इति श. प्रत्ययस्तु न भवति "जिघ्रतेः संज्ञायां प्रतिषंधो वक्तव्यः" इत्युक्त। व्याङ घंशब्देन गतिसमासः । स च यदि घ्रशब्दस्य सुबन्ततामप्रेक्षेत तर्हि सुबुत्पत्तय संख्याकादियोगो षिवक्षीयः । सधागाइच प्रागेव लिन्नयोगः "स्वार्थमभिधाय" इत्यादिग्यायात्। ततश्च लिमनिमित्ता प्रत्ययो भवन् टाबेव स्यात् न तु ङीष, ब्रशब्दमात्रस्य अजातिमाथि स्वात। ततश्च व्याङाघ्राशब्देन समासः। ततो व्याघ्राशब्दस्य जातिया चित्वेऽप्यनकारान्तत्वान्जातिलक्षणो जीष् न स्यात् । सुखपत्तेः प्रागेष जायमानस्तु समासो लिङ्गयोगानपक्षवन अन्तरजवान्द्रवति । ततो जीए पूर्वपदस्य तु सुबन्तत्वात्पदकार्याणि म्युरेष । 'निगतः' इति करवं 'सम्यन्ता' इति परसवर्णविकल्प इत्यादि ।
कारकाणाम्--अश्वैः क्रीता। अल्पैरभैर्लिप्ता। "कर्तृकरणे कृता बहुलम्" (अष्टा०सू०२-१-३२) इति समासः। स यद्युत्तरपदस्य सुबन्त. स्थ स्यात्तर्हि पूर्ववट्टाए स्यात् । ततश्च "क्रीतात्करणपूर्वात्" (अष्टास्क ४-१-५०) "क्कादल्पाख्यायाम्' (अष्टा०९०४-१-५१) इति ष न स्यात अत इत्यधिकारात् । वचनसामर्थ्यात्स्यादिति चेतर्हि वाक्यावस्थायां स्यात् पूर्वशब्दस्य व्यवस्थावचनत्वसम्भवात् । अत इत्यधिकारोवा, व्यवच्छिद्येत । तथाच--
सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी। इति भट्टिप्रयोगो न सिध्येत् । सिद्धान्ते तु "कर्तृकरणे "कृता" (अष्टा०स०२-१-३२) इत्यत्र बहुलग्रहणात्क्वचित्सुबन्तन समासः । अतो न ङीष् । __उपपदानाम्-कच्छेन पिबतीति कच्छपी । व्याघ्रीवत् । सु(१)पाति योगविभागात्क इत्यादि । यत्त्वतिहणमुपपदविशेषणमिति । तत्र, तथा सति प्रथामान्तसुग्रहणस्प निवृत्यापत्त्या बहुविप्लवापत्तेः। एतेनातिङ किम् ? एधानाहारको व्रजतीति प्रत्युदाहरणमपि प्रत्युक्तम् । यदपि को
(१) "सुपि स्थः" (अष्टाःसू०३-२-४) इति सूत्रे । शब्द. द्वितीय. 14.
Page #219
--------------------------------------------------------------------------
________________
२१. शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिकेमु(१)यां "कुगति' (अष्टा०स०२-२-१८) इति सूत्रे उकम्--"अत्र सु. भुपेन्यननुवृत्तस्तिकाऽपि समासः, ऊरीकरोति" इत्यादि । तदप्य. सत्, तत्र शेषीकृतेनातिहणनेव विरोधात । तिङ्समासस्तु सहेति योगविभागबललभ्यो वार्तिकोकषिशेषविषयछान्दसति प्रामेव अपशितम्।
ममैषाव्यवेन (अष्टाम०२-२-२०) । अमैव तुल्यविधानं यदुपपदं वदेशाम्ययेन सह समस्यते । स्वादुकारं भुङ्गं सम्पन्नतारम् । लवणः कारम् । "स्वादुमि नमुल" (महामू०३-४-२३)। स्वादुमीपत एक निवासनारपूर्वपरस्प मानतत्वम् । स्वादुमीत्यर्थप्रहणम् । सम्पजरूषण शहाबपि स्वादुपर्यायौ । वेन धाक्येनामेव केवलो विधीयतेन तु प्रायः पान्तरसहितः, तस्मिन्, वाक्ये ससमीनिहेशवलेन यस्योपपदसंज्ञा तपः मैव स्वविधानमित्युष्यवे। सूत्रे - तुल्यविधानमित्यध्याहियते। नियमानभूतस्पेषकारो नियमस्वभावादेव लभ्यते न तु सूत्राकट.. मैव च यमुन्यविधानं यस्य प्रत्ययान्तरं प्रति उपपद त्वमेव नास्तीति मायान्तरेण स समासो नाशनीया। सूत्रस्य प्रयोजनम्तु “कालसः मयवेलासु तुमुन्" (अष्टा०सू०३-३-१६७) 'कालः समयो बेला वा मो क्तुम्' इत्यत्र समासनिवृत्तिः । अमैवेति किम् ? अप्रेभोजम, भप्रेभुक्त्वा, "विमाषा प्रथमपूर्वेषु" (अष्टान्सू०३-४-२४) इति परवाणमुलौ। ममा चान्येन च तुल्यविधानमेतम् । अव्ययेनेति किम् ? (२)म्भकारः । म मति खव्ययग्रहणे अमेव यत्तुल्यविधानं तदेव समस्येते। न च पूर्व। सुखस्यामवकाशत्वादव्ययविषय पव नियम इति वाच्यम् , तथासस्यमैन नियमापतेः । अमम्तनोपपदस्य यस्समासः सोऽवतुल्यविधानस्यति । तथा च 'अग्रेभोजम्' इत्यत्र मा भूत् । 'अग्रेभुक्त्वा कालो मोक्तुम्' इत्यत्र तु स्यादेव।
ततीवाप्रभृतीन्यन्यतरम्याम् (अष्टा०सू०२-२-२२)। "उपांशस्हती. पावाम्" (अष्टा०सू०३-४-४७) इत्यादीन्युपपदान्यमन्तेनासन सहा समस्यन्ते । उभयत्र विभाषेयम् । यदमैव तुल्यविधानं तस्य प्राप्ते, क्या "उपदंशस्तृतीयायाम" (अष्टासु०३-५-४७) इति। यत्पुनरमा चान्येन अतुल्यविधानं तस्याप्राप्त, यथा “अव्ययेऽयथाभिप्रेतास्याने कृत्रः क्त्वा. पमुली" (अष्टा०सू०३-४-५९ति । मूलकोपदंशम्भुक्त, मूलकेनो. पदंशम् । उच्चैःकारमाचष्टे । इह समासपक्षे कृदुत्तरपदप्रकृतिस्वरः
(१) प्रकियाकोमुद्याम् । (२) समासो न स्यादिति भावः।
Page #220
--------------------------------------------------------------------------
________________
विषिशेषप्रकरणे बहुव्रीहिप्रकरणम् ।
"प्रादिर्णमुल्यन्यतरस्याम्" (अष्टा०सू०६-१-१९४) इत्याचासत्वम् । असमासपक्षे तु उच्चरित्यन्तोदात्तम , स्वरादिषु तथापाठात । कार. मित्यायुदात्तम् । अमेत्ये(१)व । “पर्याप्तिवचनेष्वलमर्थेषु" (अष्टा सू०३४-६६) पर्याप्तो भोक्तुम् ।
क्त्वा च (अष्टा०सू०२-२-२२) । क्त्वाप्रत्ययेन सा सीयाप्रभृती. न्युपपदानि वा समस्यन्ते। "भव्ययेयथाभिप्रेतास्याने" (मासू--- ५९) इति क्त्वाप्रत्ययः । समासपझे ल्यप् । उच्चैःश्य । उच्च करवा । तृतीयाप्रभृतीनीत्येव । (२)लडूत्वा । बलुछत्वा ।
शेषो बहुवीहिः (मष्टान्सू०२-२-२३)। अधिकारोऽयम् शेषकिम् । उन्मत्तगङ्गम् । “प्राक्कडात्परकार्यम्" इति पा(३)डे परवानगीहिसंमत मा भूव । उपयुक्तादन्य शेषः । शिष असर्वोपयोग' (चु००१०१६) । कर्मणि घज्ञ । येषां पदानां यस्मिनऽव्ययीभावादिसंशा गोका स.. हुवीहिरित्यर्थः । एकसंहाधिकारे तु त्रिकतः शेषो प्रायः ।.-सपाह सप्तसु सुपां त्रिकंषु यस्य त्रिकस्य शुनिमाहिकया समासोनोग शेषः । प्रथमेति यावत् । ततश्च प्रथमान्तानां बाहिरिस्थस्समाना. धिकरणानां भवति । कण्ठेकाल इत्यादौ तु "सप्तमीविशेष" (अष्टा. ५०२-२-३५) इति शापकात्सिद्ध इति। । इति श्रीशन्धकौस्तुभे द्वितीयस्याध्यायस्य द्वितीये पादे प्रथममाणिमा
अनेकमन्यपदार्थ (अष्टा सू०२-२-२४) । अनेक सुबन्तमाया पदस्याथै वर्तमानं वा समस्यते स बहुव्रीहिः । पदेन प्रत्यर्थोक सर्जनः प्रत्ययार्थोऽभिधीयते इति स्थिते विकतः शेषस्योक्ततया भप्रथमाविभक्त्यर्थ बहुवीहिरिति फलितम् । त्रिकता शेषोहि प्रथा मा, तदन्यपदार्थश्च कर्मादिरिति । प्राप्तमुदकं वं प्राप्तोपको प्रामः । उदककर्तृकप्राप्तिकर्मीभूत इत्यर्थः । यद्यपि प्रत्ययार्थस्य कर्तुधात्वर्थ प्रति विशेष्यतोचिता तथापि व्यपेक्षावादिभिरमस्या समासे भिन्नैव व्युत्पत्तिः स्वीकरणीया । सिद्धान्ते तु एका भाषा
(१) एतदने 'नेह' इति शेषः।। (२) भत्रोभयत्रापि "अलंखल्वोः प्रतिषेधयोः प्राचां स्वाति स्वाप्रत्ययः । इदं पुत्रं च "उपदंशस्तृतीयायाम्" इत्यतः पूर्वमिडिन. तीयाप्रभूतित्वमिति बोध्यम्।
(३ ) "प्राकडारात्समासः" इति सूत्रे इत्यर्थः ।
Page #221
--------------------------------------------------------------------------
________________
२९९ शब्दकौस्तुमद्वितीयाध्यायद्वितीयपादे द्वितीयान्हिकेभ्युपगमात्सर्व सुस्थमित्युक्तम् । (१)ढरथोऽनड्वान् । उपहतपशू रु. द्रः। उद्धृतोदना स्थाली । चित्रगुः। वीरपुरुषको ग्रामः । प्रथमार्थे तु न भवति-वृष्ट देवे गतः। अनेकोक्तेबहूनामपि चित्राजरतीगुः । त. न्वीदीर्घाजङ्घः । इह प्रथमो न पुंवत् , उत्तरपदस्वाभावात् । द्वितीयो. ऽपि न, अ(२)पूर्वपदत्वात् । उत्तरपदे नित्यसमासस्य तु नायं विषय इत्युक्तम् । एतच्च केषाश्चिन्मतम् । परमार्थस्तु षाष्ठभाष्यादिपर्गलो. चनया नेह पूर्वपदमाक्षिप्यते। "आनङ् ऋतः" (अष्टा सु०६-३-२५) इत्यत्र यथा । इष्टसिद्धयनुरोधेन पूर्वपदं क्वचिदाक्षिप्यते न तु सर्वत्रति "ओजः सहोम्भः' (अष्टा सू०६-३-३) इति सुत्रे हरदत्सेनोक्तत्वाच्च । दोनोपान्त्यस्य पुंवदेव-चित्राजरद्गुरित्यादि । अत एव चित्राजरत्यो गावौ यस्येति विग्रहेऽप्येवमेव । अष्टसदृशप्रजामिति तु कर्मधारयो सरफ्दो द्वयोरेव बहु ३)वीहिः । अपि च परमस्वधर्मः। स्वशब्दस्य नि. रपेक्षपूर्वपदत्वाभावात्ततो धर्मशब्दः परो न तु केवलादिति नानिन् । कर्मधारयपूर्वपदे तु भवत्येवेति वक्ष्यते । किञ्च
सुसूक्ष्मजटकेशेन सुनताजिनवाससा।
समन्तशितिरन्ध्रण द्वयावृत्तौ न सिध्यति । अयं श्लोकः समर्थसूत्रे भाष्ये पठितः । सुष्टु सूक्ष्मा जटा: केशा पस्येति चतुर्णा बहुव्रीही "ज्यापोः संज्ञाछन्दसाबहुलम्" (अष्टा० सू०६-३--६३) इति बहुलवचनाद्धस्वत्वम । यद्वा जटावन्तो बटाः, अशआद्यच् , जटाः कृता जटा इति वा "तत्करोति" (ग सं०) इति ण्यन्तादेरच् । एवं सुष्टु नतम् अजिनं वास आच्छादनं यस्य तेन, समन्तानि शितीनि रन्ध्राणि यस्येति विग्रहः । द्वयोवृत्ती हिकेशंषासो रन्ध्रेभ्यः पूर्व (४) उदात्तः स्यात् । इष्यते तु सुसमन्तयोः प्रकृतिस्वर इति भा(५)वः । एवं 'नीलोज्वलवपुः' इहापि नीलशम्नस्य
(१) ऊढः रथो येन, उपहतः पशुः यस्मै, उद्धृतमोदनं यस्मात् , चित्रा गावो यस्य, वीराः पुरुषा यस्मिन्निति विग्रहाः।
(२) पूर्वपदत्वाभावादित्यर्थः । (३) सहशा प्रजा सहशप्रजा, अष्टा सहशप्रजा.यस्येति रूपः ।
(४) पूर्व त्रयाणां कर्नधारयेण पश्चादहुव्रीहौ समासे "बहुव्रीही प्रस्या पूर्वपदम" इति पूर्वपदस्य प्रकृतिस्वर "समासस्य" इति सूत्रे.
विशिष्टस्यैवान्तोदात्ततया केशवासोरन्ध्रेभ्यः पूर्व एवोदात्तः स्यात् । (५) सर्वेषां युगपदेकस्मिन्नेव बहुव्रीही समासे तु आद्ययोरुदाह. (णयोः सोरन्त्ये समन्तस्य पूर्वपरत्वेन तयोरेव स्वर इति भावः ।
Page #222
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे बहुव्रीहिप्रकरणम्। प्रकृतिस्वरः । न च 'चित्रगुः' इत्यत्र उत्तरपदस्थाप्युपसर्जनसंज्ञार्थम. नेकग्रहणमिति वाच्यम् , प्रथमानिहि रत्वं विनाऽपि “प.कविभक्ति" (अष्टा०स०१-२-४४) इत्यनेन तत्सिद्धेः, प्रधानस्यान्यपदार्थस्य नाना. विभक्तियोगेऽपि वर्तिपदयोर्नित्यं प्रथमान्तत्वात् । न चैवं 'राजकुमारी पश्य' इत्यादावण्यतिप्रसङ्गः, तत्र द्वितीयाद्यन्तेनापि कुमारीशदेन वि. ग्रहाभ्युपगमात् ।
अन्यग्रहण किम् ? बहुव्रीहितत्पुरुषयोर्विषयविभागो यथा विज्ञा. येत । स्वपदार्थे हि सावकाशं तत्पुरुषं परत्वादन्यपदार्थे बहुव्रीहिर्बाधते । असति त्वन्यग्रहणे 'कण्ठेकालः' इत्यादौ व्यधिकरणपदे बहूनां समुदाये च सावकाशं बहुव्रीहिं स्वपदार्थ इवान्यपदार्थेऽपि 'नीलोत्प. लं सरः' इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत । पदग्रहणं किम् ? ग्राहवती नदी । इह हि 'तत्र मा स्नासीत' इति वाक्याथों गम्यते । अर्थप्रहणं किम् ? यावता पदे पदान्तरस्थ वृत्त्यसम्मवादेव पदार्थे भ. विष्यति । सत्यम् । कृत्स्ने पदार्थे यथा स्यात् । अन्यथा 'चित्रगुः" इति षष्ठयर्थसम्बन्धमात्रपरं स्यात् । तथाच देवदत्तादिभिः सामानाधिक. रण्यं न स्यात् । ___समानाधिकरणानामेव बहुव्रीहिः, त्रिकतः शेषस्योकत्वात् । तेनेह न-पञ्चभिर्भुक्तमस्य । 'पञ्च भुकवन्तोऽस्य' इत्यादौ तु न भवत्यनभिधानात् । - अध्ययानां वाच्यः ॥ उच्चैर्मुखः। उच्चैःशब्दस्याधिकरणप्रधानत्वा. द्वैयधिकरण्याद्वचनमित्याहुः । त्रिकतः शेष इत्युक्तरीत्या प्रथमान्तस्या. पेक्षितत्वातस्य चेहापि सत्त्वाच्छक्यमकर्तुमिदं वचनम् । अत एव वा. क् च षच्च प्रिया यस्येति त्रिपदबहुधीही कृते अवान्तरद्वन्छो. ऽभ्युपगतः।
प्रादिभ्यो धातुजस्य बहुवहिर्वकव्यः, वा चोत्तरपदलोपः ॥ प्रपति. तपर्णः प्रपर्णः ।
नमोऽस्त्यर्थानां बहुवीहिर्वा चोत्तरपरलोपः ॥ अविद्यमानपुत्रःपुत्रः ।
मस्तिक्षीरादीनामुपसंस्थानमसुबन्तत्वात ॥ अव्ययत्वात्सिद्धम् । तथाहि । विभक्तिप्रतिरूपकत्वानिपातसंज्ञा, निपातोऽव्ययामेत्यय य. संक्षा । इह द्वा द्रोणी अर्द्धद्रोणश्च अर्द्धतृतीया द्रोणा इति व्यवाहियते तत्र अर्द्धः तृतीयो येषामिति बहुव्रीहिः। उदभूतावयवभेदः समुदाया समासार्थ इति बहुववनम । द्रोणशब्दश्च द्रोणयोरर्द्धद्रोणे च लक्षणया वर्तते इति सामानाधिकरण्यम् ।
Page #223
--------------------------------------------------------------------------
________________
२१ शब्दकौस्तुभडिलीवालावहितीसपा वितीयान्हिके. संयाऽव्ययसम्राधिकसंख्याः संस्पेये (अष्टा०सू०२-२-२५) । संस्पेयार्थया संख्यया अन्ययादयः समस्यन्ते, स बहुव्रीहिः । दशाना समीपे में वर्तन्ते ते उपदशाः । नव एकादश वेश्यर्थः । सामीप्यप्रा. धान्ये स्वव्ययीभाव इत्युक्तम् । उपविशाः । “बहुवीही संख्येये" (अष्टा० सू०५-४-७३) इति डन् । “ति(१)विंशतर्डिति'। आसन्नदशाः । अदर. दशाः । अधिकाशाः । द्वौ वा प्रयो वा वित्राः। वाऽर्थेऽयं समासः । ततश्च वैकल्पिको द्वौ त्रयश्चेति पञ्च अस्माच्छब्दादुपतिष्ठन्ते । अत एव बहुवचनम् । उक्तं च सैषा पञ्चाधिष्ठाना वागिति । कार्यान्वये हि विकल्पो न त्वेतच्छन्नजन्यबोधविषयत्वापीति भावः । त्रित्रिचतुराः। "च(२)तुरोऽचप्रकरणे त्र्युपाभ्यामुपसंख्यानम्" इत्यच् । द्विरावृत्ता वश दिवशाः । अत्र वृत्तौ द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्योच्यते । तनु द्वित्रा इत्यत्र पार्य, द्विदशा इत्यत्र सुजश्चान्यपदार्थ इति पूर्व पैव सिद्धम् । न च मत्वर्थे पूर्वयोगः अमत्वर्थार्थ चेदमिति वाच्यम् , प्राप्तोदकादिषु मत्वर्थ विनापि तत्स्वीकारात् । सत्यम् अन्यपदार्थप्रा. धान्ये पूर्वयोगः: इह तु वार्थसुजों न प्रधानम् ।
दिङ्नामान्यन्तराले (अष्टा सू०२-२-२६)। दिशो नामान्यन्तराले वाच्ये समस्यन्ते स बहुव्रीहिः । दक्षिणस्याः पूर्वस्याश्च दिशोरन्तरालं दक्षिणपूर्वा । "सर्वनाम्नो वृत्तिमा पुंवद्भावो वक्तव्यः" इति भाष्यम् । अत एव "ठक्छ सोच" (कावा०) इति वार्तिकस्योक्तिसम्भवः । यद्य. पि तत्र छसा साहचर्याद्भवतष्ठगेव गृह्यते इति "न कोपधायाः" (अष्टा० मु०६-३-३७) इति खुत्रे कैयटहरदत्ताभ्यामुक्तम् । युक्तं चैतत् । गन्ध्या चरति धावत्या चरतीति प्राग्वहतीये ठकि 'गान्त्रिकः 'धावन्तिकः' इति यथा स्यादुगान्तका वावकः' माभूदिति, तथापि भाज्यं दृष्ट्रा वार्ति. कहतोऽप्रवृत्तेः । अत एव हिं"एकतद्धिते च"(अष्टा सू०६-३-६२) इति सूत्रस्याप्युक्तिसम्भवो लभ्यते इति दिक् । भवन्मयः। सर्वकाम्यति । सर्वकमार्यः। सर्वप्रियः इत्यादिवृत्ती पूर्वभागतया प्रविष्टस्यैवा(३)यं | पुंषद्भावः, नत्वन्यस्थाः, "भसौ(४)पाद्वा" इति लिलाव । तेनाकचि एक. शेपवृत्तौ च न ।सर्षिका, सर्वाः।
(१) इत्यनेन विशन्दस्य लोपः' इत्यस्य शेषः। ' (२) "युपाभ्यां चतुरोऽजिप्यते" इति कौमुदीपाठः ।
(३) "सर्वनाम्नो वृतिमा' इति भाष्योक्तः।। . . (४)"भोपाजामाद्वा" इति सूत्रे 'एषा'' इत्यनयो:समासघ टकत्वेऽपि पूर्वमागत्वेन तदप्रविष्टतया तदकरणेन निर्देशात् ।
Page #224
--------------------------------------------------------------------------
________________
विषिशेषप्रकरणे बहुव्रीहिप्रकरणम्।
२१५ म चान्तरालस्यान्यपदार्थत्वात्पर्षेणैष सि(१)द्धमिति चेत ? न, अप्रथमार्थे तदित्युक्तत्वात् । वैयधिकरण्याच्च "विभाषा दिक्समासे" (अष्टा०स०१-१-२८) इस्यत्र प्रतिपदोकस्यास्यैव ग्रहणार्थमपीदम् । तेन या पूर्वा सोसरा यस्य मुग्धस्य तस्मै---'उत्तरपूर्वाय' इत्यत्र न वि(२)कल्पः ।
कबभावार्थ च । तथा हि, "शेषाद्विभाषा'' (अष्टा०सू०५-४-१५४) इत्यत्र तन्त्रावृत्त्याचाश्रयणेन एकः शेष उपयुक्तादन्यः, अपरः शेषा. घिकारः तेनोत्तरपूर्वादोन कप, इह शेषग्रहणाननुवृत्तः । द्वितीयशे. वग्रहणाचं प्रियपथा' प्रियधुरः' इत्यादौ न कस् । यत्तु "तत्रतेनेदम्" (अष्टा०सू०२-२-२७) इति सूत्रे कैयटेनोक्तं-"शेषाधिकार एव गृह्यते, न तूपयुक्तादन्यः" इति । तस तत्रत्यभाष्यस्योक्तिसम्भवमाप्रपरम् ।
नोमनाहणं रूढयर्थम् । इह मा भूत्-ऐन्याश्च कौबेर्याश्चान्त. रालमिति ।
तत्र सेनेदमिति सरूपे (अष्टा सू०२-२-२७) सप्तम्यन्ते ग्रहणविषये सरूपे परे तृतीयान्ते च प्रहरणविषये इदं युद्धमित्यर्थे समस्यते कर्मः व्यतिहारे स बहुव्रीहिः । इतिकरणालौकिकविवक्षानास्पर्यकात् ग्रहणप्र. हरणकर्मव्यतिहारयुद्धानि लभ्यन्ते । गृह्यतेऽस्मिन्निति ग्रहणं केशादि, प्रहरणं दण्डादि, कर्मव्यतिहारः परस्परग्रहणं परस्परप्रहरणं च । के. शेतु केशेषु गृहीत्या युद्धं प्रवृत्तं केशाकशि । मुष्टीमुष्टि । दण्डैश्च द. ण्डैश्च प्रहृत्य युद्धं प्रवृत्तं दण्डादण्डि । "इच् कर्मव्यतिहारे' (अष्टा. सू०५-४-१२७) इतीच्समासान्तः । तदन्तमव्ययं, तिष्ठद्गुप्रभृति. चिच्प्रत्ययस्य पाठन अव्ययीभावत्वात् । “अन्येषामपि दृश्यते" (मा०स०६-३-१३७) इति पूर्वपदस्य दीर्घः । अत एव 'मुष्टामुष्टि' पति प्रामादिकम् । न च सूइदं शब्दात् प्राक् आकार:प्रश्लिप्यतामिति वाच्यम् , भाज्यकैयाधसम्मतत्वात् 'अस्यसि' इत्यादापतिप्रसाच्च । परिशि तु "माच गुजिना" इति सत्रितम् । गुणोऽस्त्यस्येति गुणी मामीति व्याख्याय 'मुष्टामुष्टि इत्युदतं, तपाणिनीयम्।
सरूपग्रहणं किम् ? हलेव मुसलैश्च युद्धम् । इदमपि सूत्रे वैयधि. करण्याथै प्रथमाविभक्त्यर्थ एकशेषबाधनार्थ च । कबभावार्थ. चेति तु भाज्येऽभ्युच्चयमात्रं, शेषग्रहणस्य प्रागनुक्तपरतायाः पञ्चमे स्पष्टत्वात् ।
(१) अस्य 'समसनम्' इत्यादि । (२) सर्वनामसंज्ञाविकल्पः ।
Page #225
--------------------------------------------------------------------------
________________
२१६ शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे द्वितीयान्हिके
तेन सहेति तुल्ययोगे- (अष्टालसू०२-२-२८) । सहेत्येततुल्ययोगे धर्तमानं तृतीयान्तेन सह वा समम्यते स बहुबाहिः। सपुत्र आगनः । सह पुत्रः। "वोपसर्जनस्य' (अष्टा सू०६-३-८२) इति सभावः । नन्वत्र पिता प्रधानमन्यपदार्थः । सत्यम् । व्यधिकरणयोः प्रथमार्थं च यथा स्यात्, कप च मा भूदित्येवमयं वचनम् । तुल्ययोगति किम् ?
सहैव दशभिः प्रभारं वहति गर्दभी। विद्यमानतावाची सहशब्दः । दशसु पुत्रेषु विद्यमानेवित्यर्थः। तुल्ययोगवचनं प्रायिकम् , झापकात । यदयं "विभाषा साका" (अष्टाम:३-२-११४) “विभाषा सपूर्वस्य"(अष्टा०स०४-१-३४)इत्यादि निर्दिशति । तेन 'स(१)कर्मकः 'सलोमकः' इत्यादि सिद्धम् ।
वायें छन्दः । प्रागनुक्तसमासमने सुबन्तं चार्थ वर्तमानं वा सम. स्थते, स छन्दः । समुच्चयावाचयेतरेतरयोगसमाहाराश्चार्याः ।
परस्परनिरपेक्षस्यानेकस्य कस्मिन्प्रति सम्बन्धिन्यन्वयः समुच्चयः। पचा "महरहनयमानो गामश्वं पुरुष पशु वैवस्वतो न तृप्यति सुराया दव दुर्मदः" इति, अन नयतिक्रियायामकस्यां गवादीनां समुशयः । गम्यमानत्वानु चशब्दस्याप्रयोगः।।
यदा तु एकस्य प्राधान्यमितरस्यानुषङ्गिकता तदाऽन्वाचयः। यथा भिक्षामट, गां चामयेति । अत्र हि अदर्शनाद्दामनानयन्नपि भि. क्षामटत्येव । अनटस्तु भिक्षां न गामानयति । तथा अटन्नपि नान्विष्य गामानयति ।
मिलितानामन्वय इतरेतरयोगः। समूहः समाहारः। तत्र समुच्चयान्वाचययोर्न समासः, असामः ात् । एकार्थीभावे हि सति 'पुष्पवन्तौ पश्य' इत्यादाविव एकप. दोपाचौ मिलितावेव मन्वियातां, न तु प्रत्येकम् । ध(२)वखदिरौ पा(३)ग्हषदम् ।
शेषः किम् ? नीलोत्पलम् । इह हि एकस्मिन्र्धामणि अनेकधर्मस. मुच्चयाद् द्वन्द्वः स्यात् । न चेष्टापत्तिः, पटुश्चासौ खाश्चेत्यादावपि द्वन्द्व सति"द्वन्द्वे घि" अष्टा०म०२-२-३२) इत्यादिनियमापत्तेः ।"विशे.
(१) विद्यमानतावाची सहशब्दः । एवञ्चात्र कर्मादिसमानाधिः करणः सहशब्द इति तृतीयाया असम्भवेनानेन समासाप्राप्तौ "अनेक मन्यपदार्थे' इति समासः । अत एवात्र कप सिद्ध इति बोध्यम् ।
(२) इतरेतरयोगे समासः। (३) समूहः समासार्थः ।
Page #226
--------------------------------------------------------------------------
________________
बिधिशेषप्रकरणे द्वन्द्वप्रकरणम् ।
पणम्। (अष्टा०स०२-१-५७) इत्यादिना तत्पुरुषे तु काणखञ्जवनिया मः सिद्ध्यति । परं कार्यमिति पाठे चेदम् । एकसंचाधिकारे तु विशे. विहितत्वात्तत्पुरुषसंज्ञैव भवति । सामानाधिकरण्याभावे तु बन्द एव । यथा प्रमाणप्रमेयेत्यादौ, साधर्म्यवैधाभ्यामित्यत्र च । न छत्रा. भेदान्वयो विवक्षितः । यद्यपि सामान्यविशेषयोर्वाचनिको द्वन्द्वनिषेध. स्तथाप्यनित्यः स इति त्यदायेकशेषसूत्रे एवोपपादितम् । ___ अनेकं किम् ? होतृपोतृनेष्टोद्वातारः । न ह्यत्र द्वयोयोइन्वं कृत्वा पुनर्द्वन्द्वः कर्तुं शक्यः, होतृपोत्रोरप्यानडापत्तेः । 'वाक्वक्सग्दषदम्'इत्यादौ त्वगादेरपि टजापत्तेश्च । न चोत्तरपदे नित्यसमासोपसंख्या: नात्तथापि तदापत्तिः, सकृत्समुदाये प्रवृत्तस्य द्वन्दस्य एकाद्विवचनन्यायेनावयवे पुनरप्रवृत्तेः । उपसंख्यानस्यान्यापक्षयात् । न चैवं 'वा. त्वचनहषदः' 'होतापोतानेष्टोद्गातारः' इत्यादि न स्यादेवेति वाच्यम्, द्वयोद्वयोरेव सहविवक्षया द्वन्द्व समुदाययोः पुनः सहविवक्षायां तदुपः पत्तेः। पूर्वत्राप्यनेकग्रहणफलं दत्तमेव । तस्माद्यथायथं समासान्तपुंकर द्भावस्वराऽऽनङ प्रवृत्तिरप्रवृत्तिक्षानेकग्रहणफलं स्थितम् । __ अनेकस्य चाथै वृत्तिस्तु जहत्स्वार्थायां वृत्तौ मिलितस्यैव । पक्षा न्सरे तु प्रत्येकम् । तदेतदुच्यते "युगपदधिकरणवचने द्वन्द्वः' इति । अधिकरणं वर्तिपदार्थः, तस्य युगपदचन इत्यर्थः । अत एव आङ्गश्च वाङ्गश्च कालिनश्चेत्यत्र सहविवक्षायां तेनै(२)व बहुन्विति लुकि 'अङ्ग. वङ्गकलिङ्गाः' इति सिध्यतीति लुप्रकरणे भाष्ये एव स्पष्टम् । यत्त्विह सूत्र "सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा च"इति भाष्ये उक्तम् । तस्यायमाशयः-अस्तु जहत्स्वार्थता, तथापि धवौ च खदिरौ चेत्यादिविग्रहोऽसङ्गतः, प्रक्रियादशायामपि प्रथमप्रवृत्तस्यैकवचनस्य त्यागायोगात् । अन्यथा षष्ठीतत्पुरुषादेरपि प्रथमयैव राजा चासौ पुरु. षश्चेत्यादिविग्रहापत्तिः । “तत्पुरुष तुल्यार्थ' (अष्टा०सू०६-२-२) इत्या. दीनां निर्विषयतापत्तिश्च ।
स्यादेतत् । भूतपूर्वगत्या त(२)निर्वाहः, उत्तरपदार्थप्राधान्यादि. वत् । अलुक्समासे तु “षष्ठया आक्रोशे" (अष्टा सू०६-३-२१) इत्याच. नुवादसामर्थ्यादेव निमित्तापायन्यायो नाश्रयिष्यते । मैवम्, झापकस्य सामान्यविषयतायां लाघवेन द्वन्द्वावयवेष्वपि द्विवचनाधलाभात् निमिः
(१) "तद्राजस्य बहुषु तेनैवास्त्रियाम्" इत्यनेनेत्यर्थः । (२) "तत्पुरुषे' इत्यादीनां निर्वाहः ।
Page #227
--------------------------------------------------------------------------
________________
शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे द्वितीयान्हिके
सापायन्यायस्यानित्यत्वाच्च । न चैषं तद्रा (१) जलुगसिद्धिः । 'तेनैव ' इति सौत्रमंशं 'बहुवचने परे' इति व्याख्यां च प्रत्याख्याय बहुषु वर्तमानस्येत्यर्थस्य स्थापयिष्यमाणत्वात् । अत एव जहत्स्वार्थायामपि लुक् सिध्यति । सम्प्रति प्रतीयमानं यद्वद्दुत्वं तदाश्रयस्य तद्राजेन प्रा. गभिधानात् भूतपूर्वगतेश्च त्वयापि वाच्यत्वात् । न हि तद्धितवृत्तौ एकशेषवृत्तौ च तद्राजोऽर्थवान् । तद्राजा तद्राजद्वन्द्वे तु वैकल्पिको लु. गिति वक्ष्यते । एवं स्थिते द्वन्द्वैकशेषयोरलौकिकवाक्येऽपि द्विवचनादि दुर्लभम् । लौकिके विग्रहे तु दुरापास्तं तदिति दुःखेत्यनेनो कम। एतेन राजा चासौ पुरुषश्चेत्येव विगृह्णन्तो मीमांसकाः परास्ता इति दिक् ।
I
इह 'एकविंशतिः' 'द्वाविंशतिः' इत्यादौ "राजन्य बहुवचनद्वन्द्वन्ध कवृष्णिषु" (अष्टा०सु०६-२-३४) "संख्या" (अष्टा०सु०६-२-३५) इति पूर्वपदप्रकृतिस्वर इष्टस्तस्मात् द्वन्द्व एवायम् । स च समाहारे । नेतरेतरयोगे, अनभिधानात् । पुंस्त्वन्तु लोकात् । यदा स्वेकाधिका विंशतिरिति शाकपार्थिवादिसमासः क्रियते, तदा समासान्तोदात्तत्व मपीष्यते इति पाञ्चमिकभाष्ये "बहुव्रीहौ संख्येये डच्” (अष्टा०सु०५-४७३) इत्यत्र स्थितम् ॥
उपसर्जनं पूर्वम् (अष्टा०सु०२-२-३० ) ॥ समासे उपसर्जनं पूर्व प्रयोज्यम् । कृष्णश्रितः ।
राजदन्तादिषु परम् (अष्टा०सु०२ - २ - ३१) । पषु पूर्वप्रयोगा है परं स्यात् । दन्तानां राजा राजदन्तः । वनस्याग्रे अग्रेषणम् । "वनम्पुरगा" (अष्टा०सू०८-४-४) इत्यादिना णत्वम् । इहैव गणे निपातनादलुक्। एवञ्चालुगिव णत्वमप्यस्तु । तथा च तत्र सूत्रे अप्रेग्रहणं शक्यमकर्तुम् । आकृतिगणोऽयम् । धर्मादिष्वनियम इष्यते । अर्थधर्मी, ध. र्मार्थावित्यादि । गणमध्य एव जम्पतीदम्पतीजायापतीति पाठात् जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते ।
द्वन्द्वे घि (अष्टा०सू०२-२-३२ । द्वन्द्वे ध्यन्तं प्राक् स्यात् । हरिहरौ । अनेक प्राप्तावेकत्र नियमो ऽनियमः शेषे ( का=वा० ) । हरिगुरुहराः । ह· रिहरगुरवः । हरश्च हरिगुरु चेति विग्रहे तु हरस्य पूर्वनिपातः, अल्पा चूतरत्वात् । अजाद्यदन्तम् ( अष्टा०सु०२-२-३३) । इदं द्वन्द्वे पूर्व स्यात् । बहु· ध्वनियमः । अश्वरथेन्द्राः, इन्द्राश्वरथाः । ध्यन्तादजाद्यदन्तं विप्रति•
(१) 'अङ्गवङ्गकलिङ्गाः' इत्यत्र ।
२१८
Page #228
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे पूर्वनिपातप्रकरणम्। २१९ बेधेन (कावा०)। इन्द्रामी।
अल्पान्तरम् (अष्टा सु०२-२-३४) । अत एव निपातनात्स्वार्थे तरए कुत्वचुत्वयोरभावश्च । द्वन्द्वे अल्पाच् पूर्व स्यात् । धवखदिरौ । कथं तर्हि प्रासादे धनपतिरामकेशवानामिति । धनपतेश्च रामकेशवयोश्चेति विग्रहः । पूर्वाभ्यामल्पान्तरं विप्रतिषेधेन (भा०६०)। वागग्नी, वागि. न्द्रौ । एवमग्रेऽपि । कथं तर्हि "अधीतिबोधाचरणप्रचारणैः" (नैका०) इति । अधीत्या च बोधादिभिश्चति विग्रहे भविष्यति । यद्वा, अनि त्यमिदं प्रकरणं "लक्षणहेत्वोः क्रियायाः" (अष्टा०सु०३-२-१२६) "स. मुद्रामा घः" (अष्टा०४०४-४-१२८) इत्यादिनिर्देशात् । तेन "स सौ. ष्ठवौदार्यविशेषशालिनीम्" (कि०का०) "लोचनाधरकृताहुतरागा" इत्यादि सिद्धम् । ऋतुनक्षत्राणां समाक्षराणामानुपूर्येण निपातो वक. व्यः (का०वा०)। हेमन्तशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । समाक्ष. राणां किम् ? प्रमिवसन्तौ । लधक्षरं पूर्वम् (काल्वा०)। कुशकाशम्। अभ्यहितश्च । मातापितरौ । “वासुदेवार्जुनाभ्यां वुन्' (अष्टा०सू०४-३९८) इति निर्देशेनेदं शाप्यते इतिचतुर्थे भाष्यम् । वर्णानामानुपयेण (कावा०)। ब्राह्मणक्षत्रियविशुद्राः। भ्रातुश्च ज्यायसः (काल्वा०)। युधिष्ठिरार्जुनौ । संख्याया अल्पीयस्याः (काभ्वा०) । पतञ्च द्वन्द्वाद,
विषयकम् । द्वित्राः। द्वाविंशतिः। "येकयोः" (अष्टा०सू०१-४-२२) इति तु सौत्रो निर्देशः। ___ सप्तमीविशेषणे बहुव्राही (अष्टा०सू०२-२-३५)। सप्तम्यन्तं विशे. षणं च बहुव्रीही पूर्व प्रयोक्तव्यम् । कण्ठेकालः । यदा कण्ठे किञ्चिद. स्तीति निर्माते काल इति विशेषणं तदेदं बोध्यम् । अन्यदा तु सप्तमी. प्रहणं विनापि विशेषणत्वादेव सिद्धम् । सर्वनामसंख्ययोरुपसंख्या. नम् (काल्वा०)। सर्वश्वेतः। द्विशुक्लः । कथं तर्हि तः परो यस्मात्स तपर इति, कथं च जहत्स्वाति ? इह हि जहत् स्वं पदं यं स जहः स्था, सोऽर्थो यति बहुव्रीहिगर्भो बहुव्रीहिः । तथाच स्वपरशब्दयो सर्वनामत्वात्पूर्वनिपात: स्यात् । सत्यम् , सुत्रमाप्यादिप्रयोगाद्राजद. स्तत्वं बोध्यम्। मिथोऽनयोः समासे तु संख्यापूर्वे शब्दपरविप्रतिषेधात् । एतदर्थमेव हि संख्यासर्वनाम्नोरिति नोक्तम् । द्वयन्यः । यन्यः । वा(१) प्रियस्य पूर्वत्वम् (कावा०)। गुडप्रियः, प्रियगुडः । गड्वादेः परा सप्त. मीठा (कावा०) । गहुकण्ठः । कचिन-वहेगड्डः । आकृतिगणोऽयम् ।
(१) कौमुद्यां वा प्रियस्य' इत्येव पाठः ।
Page #229
--------------------------------------------------------------------------
________________
२२०
शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे प्रथमान्हिके
निष्ठा (अष्टा०सू०२-२-३६) । निष्ठान्तं बहुव्रीही पूर्व स्यात् । कृतकृ. स्वः । जातिकालसुखादिभ्यः परा निष्ठा बोध्या। "जातिकालसुखादि. भ्योऽनाच्छादनात" (अष्टा०सू०६-२-१७०) इति शापकात् । सारङ्गो जग्धोऽनया सारङ्गजग्धी। "क्कादल्पाख्यायाम्" (अष्टा०सू०४-१-५१) इत्यनुवर्तमाने “अस्वाहपूर्वपदाद्वा" (अष्टा०९०४-१-५३) इति ङोए । मासजाता । सुखजाता । कथं तर्हि कृतकटः, पीतोदकः ? गड्वादेरि. तिवत्प्राप्तबाधमात्रे तात्पर्यमिति वृत्तिकारः । कथं 'चारुस्मितम्' इति ? "नपुंसकेभावे क्तः" (अष्टा०सू०३-३-११४) इत्यस्य न पूर्वनिपातः, नि ष्ठाशब्दोपादानेन विहितस्यैवेह ग्रहणादित्याहुः।
वाहिताग्न्यादिषु (अष्टा०सु०२-२-३७)। एषु निष्ठान्तं वा पूर्व स्यात् । आहिताग्निः । अग्न्याहितः। आकृतिगणोऽयम् । प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ वक्तव्ये (कावा० । अस्युद्यतः । दण्डपाणिः । इहापि प्राप्तषाधमात्रं बोध्यम् । विवृतासिः ।
कडारा कर्मधारये (अष्टा०स०२-२-३८)। कडारादयः शब्दाः क. मंधारये पूर्व प्रयोज्याः । कडारजैमिनिः, जैमिनिकडारः । कडार, गधुल, काण, खञ्ज, कण्ड, खोड, खलति, गौर, वृक्ष, भिक्षुक, पिङ्ग, पिन लसनु, जठर, बधिर, मठर, कुञ्ज, बबर। कर्मधारये किम् ? फडारपु. रुपको ग्रामः। इति श्रीशब्दकौस्तुभे द्वितीयाध्यायस्य द्वितीये पादे द्वितीयमा.
म्हिकम् । पादश्चायं समाप्तः ।
अनभिहिते (अष्टा०सू०२-३-१)। अधिकारोऽयम् तिहत्तद्धितसमा. सरिति वक्तव्यम् (का०वा०)। तेन तिङाद्युक्त कर्मणि द्वितीया न । तिङ्सेव्यते हरिः । कृत-कृतः कटः । तद्धितं-शतेन क्रीतः-शत्पा, शतिकः। "शताच्च ठन्यतावशते" (अष्टासु०५-१-२१) समासः-प्राप्तमुद प्राप्तोदको ग्रामः । परिगणनं किम् ? कटं करोति भीममुहारम् । रह विशेष्यात्कटादुत्पन्नया द्वितीयया गतार्थत्वाद्विशेषणात् द्वितीया स्वात् । परिगणनसामान्तु भवति । ___ स्यादेतत् । कटोपि कर्म भीष्मादयोऽपीति पक्षे सर्वेग्यो द्वितीया उचितव । अरुकहायनीन्यायेन हि पाणिकः परस्परावच्छेदः । बस एवं हि 'सकल्ल्वो' इत्यादी कारकपूर्वत्वप्रयुक्तों यण सिध्यति । "प्ररण गुण" (अष्टा०सू०२-२-११) इत्यत्र समानाधिकरणग्रहणाबापकात् । अभेदान्वयस्थलं विशेष्यविभक्तिविशेषणादपि भवतीति पक्षेऽप्येवम् ।
Page #230
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
२२९
I
"
सकृल्ल्वाविति तु कारकेणाभेदेनान्वयवतो विशेषणस्यापि कारकत्वानपायात्समाधेयम् । तस्मान्नार्थः परिगणनेन । किञ्चानभिहिताधिकारेणापि नार्थः । नहि 'कटः कृतः' इत्यादावतिव्याप्तिः क्तप्रत्ययेनैव कर्मत्वस्योक्तत्वात् उक्तार्थानामप्रयोगात् । तद्यथा 'बहुपटुः' इत्यादौ बहुचो. कार्थत्वान्न कल्पबादयः । किं च 'कटं करोति' इत्यादी सावकाशा द्वि. तीपा 'कृतः कटः' इत्यादिषु प्रथमया बाधिष्यते, निरवकाशत्वात् । न च 'वृक्ष' 'प्लक्ष'' इत्यादिरवकाशः, तत्रापि प्रतीयमानास्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अथ नीलमिदं न तु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्य केऽप्यस्तिक्रियाया अनावश्यकत्वात् प्रथमायाअवकाशं ब्रूषे; तर्हि विप्रतिषेधात् प्रथमाऽस्तु । न च ततोऽपि परत्वात् षष्ठीप्रसङ्गः, अशेषत्वात् ।
उच्यते, परिगणनं तावत्प्रत्याख्यातमेव भाष्ये । सूत्रं तु 'कर्तव्यः कटः' हत्यादिसिद्धये । इह हि प्रथमां बाधित्वा "कर्तृकर्मणोः कृति (अष्टा०सू० २-३ - ६५) इति षष्ठी स्यात् । न च कृत्येनोक्तार्थत्वान्नेह षष्ठीति वाच्यः संख्या विभक्त्यर्थ इत्ति पक्षे सूत्रारम्भात् । कर्मणि यदेकत्वं तत्र कुद्योगे षष्ठधेकवचनमिति हि वाक्यार्थः । तथाच षष्ठीवाच्यस्य कर्मैक. स्वादेः त्येनानुकत्वाद् दुर्वारा पष्ठी । कारकं विभक्त्यर्थ इति पक्षे तु मास्तु सुत्रमिति स्थितम् ।
म्,
आरब्धे तु सूत्रे पर्युदासोऽयं, न तु प्रसज्यप्रतिषेधः, असमर्थसमासापः वाक्यभेदापत्तेश्च । 'प्रासादे आस्ते' इत्यत्र सदिक्रियाया आलि. कियायाश्चैकमधिकरणं प्रासादाख्यं तच्च सदेः परेण घञा अभिहितमिति सप्तमीनिषेधापतेश्च । पर्युदासे तु आसिक्रियानिरूपितमा धकरणशकिंमनभिहितामाश्रित्य सप्तमीविधिः प्रवर्त्तते । आसने आस्ते शयने शेते स्यादौ तु लटः प्रकृतिभ्यां क्रियोपस्थितौ तद्योग्यम् अनुद्भूतशक्तिकं वस्तुमा कृता उच्यते । तस्य च वर्त्तमानैककर्तृकतिकृत्युपस्था. व्यक्रिया निरूपितशक्त्युद्भवप्रतिपादनाय सप्तमीति दिक् ।
स्यादेतत् । यद्ययं पर्युदासस्तर्हि 'पकःवदनो भुज्यते' इति न सि. द्धयेत् । भुजिप्रत्ययेनाभिहितेप्योदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीयापत्तेः । भावे हि क्त्वति वक्ष्यते । प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनाभिधानमाश्रित्य प्रसज्यप्रतिषेधः सुवचः । किन्तु प्रागुकदोषा निस्तारः ।
अत्रोच्यते । प्रधाननिरूपितशक्त्यभिधाने प्रथमैव, अभिहिते नेति प्रसज्यप्रतिषेधात् । 'आसने आहते' 'शयने शेते' इत्यत्र तु न प्रधानशकेरभिधानं येन प्रथमा स्यात् । एतच्च "स्वादुमि णमुल् " (अष्टा०सु०
Page #231
--------------------------------------------------------------------------
________________
२२२
शब्दकौस्तुभ द्वितीयाध्यायतृतीयपादे प्रथमान्दिके
३-४-२६) इति सूत्रे कैयटादौ स्पष्टम् । हरिरव्याह-प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा, गुणे तदा तद्वदनुकापि प्रतीयते ॥ इति । पर्युदासेप्यनभिहितां प्रधानशक्तिमाश्रित्येव विधिः प्रवर्त्तते । एतं. न' पक्त्रं भुङ्क्ते' 'दत्तं गृह्णाति' इत्यादि पक्षद्वयेऽपि समर्थितं भवति । वस्तुतस्तु 'पक्त्वा भुज्यते' इत्यादौ ओदनस्य पचिभुजिभ्यां न युगपच्छान्दोऽन्वयबोधः । किन्त्वन्यतरेण शाब्दः, अपरेणार्थः । तत्र च प्रथ माद्वितीययोर्व्यवस्थैव । पक्त्वा भुज्यते ओदनः । अर्थादोदनमेव पक्त्वेति । न हीष्टकाः पक्त्वेत्यादि सम्भवति । न चोपस्थित परित्या गोऽनुपस्थित कल्पना च न्याय्या | मोदनं पकत्वेति प्रयोगे तु भुज्यते इत्यत्रार्थी ओदनस्य कर्मता । अत एव 'घटं कर्तुं शक्यते' इत्यपि भवत्येवेति पस्पशायां कैयटः । तस्मात्पर्युदासे एकवाक्यत्वं समाससौष्ठवं चेत्येव । गुणरूपन्तु पक्षद्वयेऽपि तुल्यमिति स्थितम् । पतेनविषवृक्षोऽपि संवर्ध्य स्वयं छे तुम साम्प्रतम् ।
इति व्याख्यातम् । साम्प्रतमिति निपातेनाभिहितत्वात् । युक्तमिति हि तदर्थः । परिगणनं तु प्रत्याख्यातमेव ।
इह हरदतेन भाट्टमते कारकविशिष्टा संख्या विभकवर्थ इत्युकं तनु कर्त्रधिकरणस्थयथाश्रुतमाध्यस्वरस मनुसृत्य कथन्नियम् । वस्तुतस्तु भाट्टमते प्रकृत्यर्थेन संख्या च करणत्वादिशकयो विशे प्याः। अत एवैकशक्तिकोडीकृतानेक विधिस्तत्रतत्र स्वीकृत इति दिक् ॥
कर्मणि द्वितीया (अष्ट । ०सु०२ -३ - २) | द्वितीयादयः शब्दाः सुपां त्रिकेषु वर्त्तन्ते "समं स्यादश्रुतत्वात्" (जै०सू०१०-३-१३-१३) इति न्यायात् पूर्वाचार्यव्यवहाराच्च । इह स्वादिसूत्रेणैकवाक्यतया विधिः, मित्रत्रायतया नियमो वा । सोऽपि प्रकृनरानर्थानपेक्ष्य प्रत्ययनियमो वाऽर्थनियमो वेति सर्वे पक्षाः साधवः । उकं च-
.
सुपां कर्मादयोऽप्यर्याः संख्या चैव तथा तिङाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु च ॥ इति । व्याख्यातं चेदं प्रथमे । इह च तिङामिति स्वरसात्सुष्वपि कर्माघेव वाच्यं न तु कर्मत्वम् । न च तिष्वपि कर्मत्वमेवार्थ इति वाच्यं, “तयोरेव" (अष्टा०सु०३-४-७०) इत्युत्तरसूत्रेऽपि तथात्वापची 'घटः कृतः' इत्यादावभेदान्वयानुपपचिप्रसङ्गात् । तथा च "लः कर्मणि"
Page #232
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम्। २२३ (अष्टा सू०३-४-६९) "कर्मणि द्वितीया' (अष्टा०४०२-३-२) इति सूत्रः स्वरसोऽपि सङ्गच्छते । घटमित्यत्र च घटः कर्मेत्यभेदान्वये आमयनादौ कर्मत्वेन संसर्गेण विशेषणतम् । तथाच प्रकारतया संसर्गविध. पा घेति विधा कर्मत्यादिभानमित्येकः पक्षः । "शक्तिः कारकम्" इति भाप्यस्वरसासैव वाच्येत्यपरः । अनन्यलभ्यस्य शब्दार्थतया आधा. र माधेयं वा द्वितीयाऽर्थः । 'ओदनं पचति' इत्यत्र हि ओदनरूपो य बाधारस्ताद्विशिष्टा विक्तित्तिर्भासते । वैशिष्ट्यं त्वाधेयता । ओदनाधेया वा विक्लित्तिरर्थः, आधेयरूपप्रत्ययार्थस्य प्रकृत्यर्थ प्रति विशेष्यत्वात्। बाधेयत्वमेघ व संसर्ग इति पक्षान्तरम् । आकृत्यधिकरणन्यायेनाधा. रत्वाधेयत्वे एवार्थ इति चापरम् । संसर्गा एवैते । तात्पर्यप्राहिका पक्ष परं विभक्तय इति मतान्तरम् । सर्वेप्यमी पक्षा हेलाराजीयादी तत्रता स्थिता भाष्यादिसम्मताश्चेति दिछ । ओदनं पचतीत्यादौ ।
उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु । द्वितीयानंडितान्तेषु ततोन्यत्रापि दृश्यते ॥ मस्यार्थ:--उमयशब्दसर्वशब्दयोस्तसिलन्तयोः प्रयोगे द्वितीया कार्या। उमशब्देन शुभयशब्दो लक्ष्यते, अन्यथा तसिलसम्भवात् । उभशब्दो हि द्विवचनटाविषय इत्युक्तम् । धिगित्यत्र सप्तम्या लुक, 'प्रतिवदनुकरणम्" (प०भा० ) इत्यतिदेशात् । न त्वविभक्तिकः।
वित्यवमाह' इत्यत्र यथा पदान्तत्वाभावात् "लोपः शाकल्यस्थ" (पा०स०८-३-१९) इत्यस्याप्रवृत्तिस्तथंह जश्त्वाप्रवृत्तिप्रसङ्गात् । न चा यं गान्त एवेति वाच्यम् , "कस्य चः" (पासू०५-३-७२) इत्यस्या. प्रवृत्ती 'धकित' इत्यस्यासिद्धिप्रसङ्गात् । आम्रडितान्तेष्विति । कृत. विर्षचनेवित्यर्थः । उभयतः कृष्णं गोपाः। सर्वतः कृष्णम्।धिक कृष्णा. भक्तम् । उपर्युपरि लोकं हरिः । अध्याध लोकम् । अधोधो लोकम् । ()कथं तर्हि
उपर्युपरि बुद्धीनां चरन्तीश्वरबुखयः? उच्यते, उपरिबुद्धीनां उत्तानबुद्धीनामुपरि चरन्तीत्यर्थः । एवं वा. प्ररितान्तत्वाभावान द्वितीया । यद्वा प्रतिपदोक्तस्य "उपर्यध्यधसः सामीप्ये" (पासू०८-१-७) इति कृतद्वित्वस्यात्र ग्रहणम् । तेन वाप्सा. द्विर्षचने सति नास्य प्रवृत्तिः । ततोऽन्यत्रापत्युिक्तम् , तान्परिगणयति वृत्तिकार:- अमितःपरितःसमयानिकषाहानियोगपीति । मभितः
(१) कथं बुद्धीनामिति षष्ठी उपपदविभक्तद्धितीयायाः षष्ठ्यपवा. दत्वादित्यर्थः।
Page #233
--------------------------------------------------------------------------
________________
२२४ शब्दकोस्तुभद्वितीयाध्यायतृतीयफादे प्रथमान्हिकेकृष्णम् । उभयत इत्यर्थः । परितः कृष्णम् । सर्पत इत्यर्थः । "पभिः भ्याचा (पा०सू०५-३-९) इति तसिल् । आभिमुख्यवृत्तिरपि विभक्तिः प्रतिरूपको निपातोऽभितःशब्दोऽस्ति सोऽपाह गृह्यते । समयानिकषा: शब्दौ समीपपर्यायो । प्रामं समया निकषा वा । हाशब्दः शोकवृत्तिः। हा कृष्णाभक्तम् , तस्य शोच्यते इत्यर्थः । षष्ट्यपवादो द्वितीया । स. म्बोधने स्वन्तरकत्वात्प्रथमेव । हा तातेति यथा । एतेन धिक्मति प्रयोगो व्याख्यातः। बुभुक्षितं न प्रतिभाति किंचित् । एष प्रतिमा का क्रियाविशेषकत्वादुपसर्गो न तु कर्मप्रवचनीयः । एवमन्येऽपि शि. प्रहणात्साधनाया: । तद्यथा, चैत्रं यावच्छीतमिति । परमपुरुशाराधन: मृते इति च । तथा च चान्द्रसुत्रम्--"ऋते द्वितीयाच" इति, चका. रात्पञ्चमी । सा चास्मन्छास्त्रे "अन्यारात्' (पा.सु०२-३-२९) इत्यः नेन विधास्यते ॥
तृतीया च होश्छन्दास (पासू०२-३-३) । जुहोतेः कर्मणि तृतीया स्याद् द्वितीया च छन्दसि । यवाग्वाग्निहोत्रं जुहोति । अग्निहोत्रश. ब्दोऽत्र हविषि वर्तते । “यस्याग्निहोत्रमधिश्रितम् अमेध्यमापद्यत" इत्यादिप्रयोगवर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । जुहोतिः प्रक्षेः पे। अस्मिन्नेव च प्रयोग यवागूशब्दात्तृतयिा, अग्निहोत्रशब्दापनि तीया । विरुद्धार्थकविभक्त्यनवरुद्धत्वान्नामार्थयोरभेदान्वयः। यवाग्वा. ख्यं हविरग्नी देवतोशेन त्यत्का प्रक्षिपतीत्यर्थः । एतत्सूत्रं माये :स्याख्यातम् । अग्निहोत्रशब्दो हि ज्योतिष्यपि वर्तते, अग्निहोत्रं प्रज्व. लितमिति दर्शनात् । हूयतेऽस्मिन्निति व्युत्पत्तेश्च । जुहोतिश्च प्रीणने । तद्यदा यवागूशब्दात्तृतीया तदा यवाग्वाग्निं प्रीणयतत्यिर्थः । यदा तु द्वितीया तदा यवाग्वाख्यमग्निहोत्रं हविर्द्रव्यं प्रक्षिपतीत्यर्थ इति ।
मीमांसकास्त्वाहुः-अग्निहोत्रशब्दः कर्मनामधेयम्, तत्प्रख्यं चा. ज्यशास्त्रमिति न्यायात् । दृश्यते च स एष यक्षः पञ्चविधोऽग्निहोत्रं द. शंपूर्णमासावित्यादि । एवं स्थिते भावार्थाधिकरणन्यायेन करणकोटि. निक्षिप्त होमे सामानाधिकरण्यापत्रस्थाग्निहोत्रस्य करणत्वातृतीयायां प्राप्तायां पक्षे द्वितीयार्थमिदं वचनमिति, तन्तु सूत्रसन्दर्भविरुद्धम् । कर्मणीति ह्यनुवर्तते ॥
अन्तरान्तरेण युक्त (पा०सू०२-३-४)। आभ्यां योगे द्वितीया स्या. त्। अन्तराशब्दः सप्तम्यन्तस्य मध्य इत्येतस्यायें वर्तते । अन्तरेणश. ब्दस्तु तत्र च विनार्थे च । अन्तरा त्वां मां च हरिः।
मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं स ।
Page #234
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभत्यर्थप्रकरणम्।
२१५ अन्तरेण हरि न सुखम् । ननु मध्यस्यावध्यपेक्षतया यथावधिभूः ताभ्यां गुप्मदस्मदर्याभ्यां चामरद्वयन च योगस्तथा आधयेनापि सह । तस्मादाधेयादपि द्वितीया स्यात् । मैवम , तत्रान्तरणतया प्रथमाया एवोपः । तस्माविशेषर्णायं षष्ठयपवादभूता द्वितीया म तु विशे. ज्यादपीति स्थितम् । ___ अथ राबन्तनान्तराशब्देन तृतीयान्तेमान्तरणेत्यनेन च यो कुतो नेति बेत ? प्रतिपदोकतया तयोरेबह प्रहणात परस्परसाहचर्याचा सपा था-गुरुभार्गवाधियुके प्रहयोरेव प्रतीतिर्नत्वाचार्यपरशुरामयोः। तेम किमनयोरन्तरेण गतेनेति सिद्धम् । किमानयोर्विशेषेण मातेनेत्यर्थः। युक्तः ग्रहणानेह-अन्तरा त्वां मां च कृष्णस्य मूर्तिः । इह कृष्णान द्वितीया । अन्तरेत्यनेनानन्वयात् । ___ कालावनारत्यन्तसंयोगे (पा० सू०२-३-५) । इह द्वितीया स्यात् । मासमास्ते । यद्यपीह कर्मत्वादेव सिद्धम् । कालभावाध्वगन्तव्याः पर्य. संक्षा अकर्मणामित्युक्तस्तथापि सकर्मकार्थ गुणद्रव्याभ्यां योगार्थ चेदम् । मासमधीते । मासं कल्याणी । मासं गुडधानाः कोशमधीते । कोशं कु. टिला नदी । कोशं पर्वत।। अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । "कृत्वोर्थप्रयोगे कालेधिकरणे" इति षष्ठी।
अपवर्ग तृतीया (पा० १०२-३-६)। अपवर्गः फलप्राप्तिस्तस्यां घो. त्यायां कालाध्यनोरत्यन्तसंयोगे तृतीया स्यात् । अहना कोशेन वाऽनु. पाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः।
सप्तमीपञ्चम्यौ कारकमध्ये (पा० सु० २-३-७)। शक्तिद्वयमध्ये को कालाध्वानी ताभ्यां सप्तमीपश्चम्यौ स्तः । अद्य भुक्त्वायं च महावा भोक्ता । कर्तृशक्त्योर्मध्येयं कालः । इहस्थोयं क्रोशे कोशाता लक्ष्य हि. ध्येत् । कर्तृकर्मणोर्मध्येयं देशः। कालाध्वम्यां विभक्त्योयथासंहभवति, अस्वरितत्वाव।।
कर्मप्रवचनीययुके द्वितीया (पा०२० २-३-4)। स्पोऽर्थः । हरि प्रति पर्यनु बा।
यस्मादधिकं यस्य चेश्वरषचनं तत्र ससमी (पार ०२-३-१)। कर्मप्रवचनीययुक्त इत्यनुवर्तते । यस्मादधिकं तदस्मिनधिकमिति निशादधिकशब्दयोगे पर्यायेण पञ्चमीसप्तम्यो स्तः। प्रकृतसुत्रार्थस्त यस्मादधिकं यस्य चेश्वरवचनं कर्मप्रवचनीययुक्त तत्र सप्तमी स्वात। उपपरार्द्ध हरेर्गुणाः, परा दधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिनीः पर्यायेण सप्तमी । तथाहि, ईश्वर इत्युच्यते येन तदीश्वरवचन ऐनक
: शब्द. द्वितीय. 15.
Page #235
--------------------------------------------------------------------------
________________
२६ शब्दकौस्तुभहितीयाध्यायतृतीयपादे प्रमान्हिकेर्यम् । अथवेश्वरशब्दो भाषप्रधानः। यस्य. स्वामिन ईश्वरत्वमुच्यते इत्यर्थः । अथवा यस्यति स्वं निहिंश्यत यस्य स्वस्य ईश्वर उच्यते ततः स्वादित्यर्थः । पर्यायण चेयं विभक्तिः शेषविषयकर्मप्रवचनीयविभक्त्या. रम्भात विशेषणांदघोरपत्रया सप्तम्या विष्ठस्यापि सम्बन्धस्याभिधा. नात् । प्रत्ययार्थस्य प्रकृत्यर्थ प्रति विशेष्यतया विशेषणादेव प्रत्ययौचि. त्यास विशज्यास्तु प्रथमेघ । अधिरामे भूः । "सप्तमी शौण्डः (पा० सू० .२-१-४०) इति समासपक्षे तु रामाधीनति भवति । "अषडक्ष" (पा०सु० ५-४-७) इत्यादिना खः। विभक्त्यर्थवृत्तित्व त्वव्ययीभावः। अधिरामम् । स्वाद्विमती अधिभुवि रामः । इह सत्रे यस्यचेश्वरवचनमित्यंशः प्रत्या स्थातो माये । तथाहि स्वामिन्याधारे मःस्थिता तस्यां च स्वामी तत्र यदा यदधिकरणत्वेन विवक्ष्यते तदा तत्र सप्तमी भविष्यति । एवं चा. घिरीश्वर इति संशास्त्रमपि न कर्तव्यम् । न चागत्युपसंगत्वबाधार्थ सत् । पेश्वयंविषयस्य अधेः क्रियायोगाभावेनैव तदप्राप्तः । उत्तरार्थः • मिति त्तहि योगविभागो न कार्यः।
पञ्चम्यपापरिभिः (पा० स०२-३-१०) एतैः कर्मप्रवचनीयैोंगे पशमी स्यात् । अविष्णोः परिविष्णोः संसारः । अपेन साहचर्यात्परे. पंजनार्यस्य ग्रहणम् । तेन लक्षणादिषु न भवति । वृक्षं परि विद्योतते विद्युत् । आइमर्यादावचने । आपाटलिपुत्रादृष्टो देवः ।
प्रतिनिधिप्रतिदाने च यस्मात् (पा० सु०२-३-११) । तत्र कर्मप्रवचनीययुक्त पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् । इह सूत्रे अनेनैव यस्मादिति पञ्चमी।
गत्यर्थकणि द्वितीयाचतुर्यों चेष्टायामनध्वनि (पा० सू०२-३-१२) अध्वमिन्ने गत्यर्थानां कर्मणि पते स्तश्चेष्टायां सत्याम् । प्रामं प्रामाव वा गच्छति । गत्यति किम् ? ओदनं पचति । कमेणीति किम ? अश्वेन बजति । चेष्टायां किम् मनसा हरि जति । अनध्वनीति किम? पन्या. नं गच्छति। आस्थितप्रतिषेधो वक्तव्यः (का०या०)।मास्थितः। सम्प्राप्तः। गन्त्रा अधिष्ठित इत्यर्थः । तेन यदा उत्पथात्पन्था एवाक्रमितुमिप्यते तंदा मवस्येव चतुर्थी । उत्पथेन पथेगच्छति । 'अजात्रयतिप्रामम'इत्यत्र तुन चतुर्थी, अगत्यर्थत्वात् । प्रतीयते छत्र गतिः, न त्वसौ नयतेरथः, 'प्रापणवाचित्वात । एवं श्रियं गच्छतीत्यत्रापि न. चतुर्थी, असम्प्राप्त. सामावात् । अनध्वनीति घपनीय असम्प्राप्त इति पूर्यते । द्वितीयाग्रह पमपवादविषयेऽपि यथा स्यात् , तेन कृयोगलक्षणा षष्ठी न भवति । अन्वया चतुर्थीत्येव अयादिति वदन वृत्तिकारो प्रामं गन्तति एजना
Page #236
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभसंपर्थप्रकरणम् ।
योगे उदाजहार । इदन्तु भाष्यविरुद्धम् । तथाहि, सन्दर्शनादिभिराप्य० मानत्वात्क्रियापि कृत्रिमं कर्मेति क्रिययाभिप्रेयमाणस्य सम्प्रदानत्वं सिद्धम | सन्दर्शनादीनां गमनस्य च भेदाविवक्षायां तु द्वितीयापि सिखे. ति सूत्रमिदं प्रत्याख्यातं भाष्ये । एवं हि वदता कृद्योगे षष्ठयेवेष्यते ! अत एव “अकेनोः” (पा० सू०२-३-७०) इति सुत्रे 'ग्रामं गामी' इत्युदाहृतं भाष्ये ।
૨૦
चतुर्थी सम्प्रदाने (पा०सु०२-३-१३) | स्पष्टम् । विप्राय गां ददाति । तादर्थ्ये उपसंज्ञधानम् (का०जा० ) । यूपाय दारु । इह दायशब्दात् "हेतौ " (पा०सू०२०३-२३) इति तृतीया तु न भवति। षष्ठीविषये हि सा । प्रातिपदि कार्थमात्रे प्रथमेव । ननूपसंख्यानस्यावश्यकत्वे पुत्रं व्यर्थमेवेति चेत् ? न, हरये रोचते इत्याद्यर्थं तस्याप्यावश्यकत्वात् । क्लपि सम्पद्यमाने च (का० वा० ) । विकारवाचकाच्चतुर्थीत्यर्थः । स हि सम्पद्यते प्रादुर्भवतिः । भक्तिर्ज्ञानाय कल्पते । प्रकृतिविकारयोर्भेदविवक्षायां चतुर्थी । अभेदवि वृक्षायान्तु प्रथमेव । भक्तिर्ज्ञानं कल्पते इति केचित् । अन्ये त्वमेवविध क्षायामपि चतुर्थीस्याद्दुः । जनिकर्तुरित्यपादानत्वविवक्षायान्तु पञ्चमी । भकेशन कल्पते इति । केचित्तु तत्रापि चतुर्थीमिच्छन्ति । उत्पातेम ज्ञापिते च (का० वा० ) । प्राणिनां शुभाशुभयोः सूचको भूतंधिकार उत्पातः । वाताय कपिला विद्युत् | हितयोग च (का० वा० ) । चतुर्थी: समासविधानाज्ज्ञाप्यते । ब्राह्मणाय हितम् ।
1
क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा०सु० २-३-१४) । उप• पदं कृत्रिमन्तश्च क्रियार्थक्रियारूपं तुमुन्ण्वुलोरेव सम्भवतीति विशेषणमहिम्ना विशेष्यन्तुमुन्ण्वुलन्तमेव लभ्यते । अप्रयुज्यमानस्य कर्मणि चतुर्थी स्यात् । फलम्पो याति, फलान्याद्दर्तुमित्यर्थः । स्थानिशदोऽप्रयुज्यमानपरतया वैयाकरणगृहे प्रसिद्धः ।
तुमर्थाश्च भाववचनात् (पा० सू० २-३-१५) । माषषचना खेति सूत्रे. ण ये विहितास्तदन्ताच्चतुर्थी स्यात् । यागाय याति । पाकाय पचनाय भक्तये | भाववचनेनैव तादर्श्वस्य द्योतितत्वाचादर्थे चतुर्थी न स्यादिति सूत्रारम्भः ।
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ( पा०सु० २-३-१६) । पि योगे चतुर्थी स्यात् | हरये नमः । उपपदविभक्तेः कारकविभक्तिर्बलीयसी, प्रधानभूतक्रिया सबन्धस्यान्तरङ्गत्वात् । नमस्करोति देवान् । कथन्तर्हि - "नमश्चकार देवेभ्यः” इति, "रावणाय नमस्कुर्याः" इति च भट्टिः ? अधु माधवः - साक्षात्प्रभृतिषु पाठाद्वैकल्पिकं नमःशब्दस्य गतिश्वम् । तत्र गति
Page #237
--------------------------------------------------------------------------
________________
२२८
शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे प्रथमान्हिके
संज्ञापक्षे उपसर्गवद्द्योतकतया कृञ एव प्रणतिरर्थः । तत्कर्मणि द्वितया नमस्यति देवानीतवत् । अगतित्वे तु करोतिक्रियाकर्मभावापनं विशेष्यभूतं प्रणाममाचष्ट इति देवादावकर्मणि नमः स्वस्तीति चतु वेति ।
अत्रेदं वक्तव्यम्-उक्तरीत्या चतुर्थीसमर्थनेऽपि नमसो गतिसंज्ञाभावान्नमस्पुरसोर्गत्योरिति सत्वं न स्यात् । तथा च प्रयोग निर्वाहस्तदवस्थः। तस्मात् क्रियार्थोपपदस्यचेति चतुर्थी बोध्या, देवान् प्रसादयितुमि स्यर्थात् । वर्धमानस्तु - "श्राद्धाय निगल्भत" इतिवत्क्रियाग्रहणं कर्तव्यमिति चतुर्थीत्याह । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलं मल्लो मल्लाय । अलमिति पर्याप्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक इत्यादि । कथन्तर्हि - "प्रभुर्बुभूषुर्भुवनत्रयस्य' (मा.का. १-४९) इति माघः । उच्यते, पर्याप्त्यर्थस्यैवालमो ग्रहणं, न तु 'अलं रोदनेन इत्यादौ वारणार्थस्यापीतिव्याख्यानान्तरं माध्ये स्थितम् । एवञ्च उपा. या भेदात्प्रस्वादियोगे षष्ठ्यपि साधुः । अत एत्र सूत्रकारो द्वेधा निरदिक्षत् । तस्मै प्रभवति सन्तापादिभ्यः (पा०सु०५ - १ - १०१) सएषांप्रामणीः (पा०सु०५-२-७८) इति च । तथाच भट्टिः- “नाप्रोथदस्य कश्चन पुत्रोधा न कश्चन" इति । प्रो पर्याप्तौ (स्वा० उ०८६७ ) इत्यस्य रूपम् ।'अलं रोदनेन'' इत्यत्र तु करणे तृतीया, रोदनेन न किंचित्साध्यमित्यर्थावगमात् । वत्र डिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्वित्रज्ञायामपि षष्ठीं बाधित्व चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् । अन्यथा स्वस्तियोगे चतुर्थ्या अवकाशः । स्वस्ति जाल्मायास्तीति । तत्वकथने कुरालार्यैराशिषीत्यस्या वकाशः स्वस्तिभिन्नाः कुशलार्थाः । उभयप्रसङ्गे परत्वात् पक्षे षष्ठी स्यात्
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु (पा० सू० २-३ - १७) । प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्थातिरस्कारे । न त्वां तृणं मन्ये तृणाय वो । मन्यतिग्रहणं किम् १ न त्वां तृणं चिन्तयामि । इयना निर्देशाश्नेह-न त्वां तृणं मन्वे । मनु अत्रबोधने (त०आ०१४७० ) । तनादेरुः । न च मन्येतियंका निर्देशः किं नस्यादिति वाच्यम्, अनभिहिते इत्यधिकारात् । न हि यका योगे अनभिहितं कर्म सम्भवति । इयन्नपि दैवादिकधातूप लक्षणमात्रं न तु स्वयं विवक्षितः । तेन—
1
I
तृणाय मत्वा रघुनन्दनोऽपि
बाणेन रक्षः प्रधनान्निरास्थत् ।
इति भट्टिप्रयोगः सङ्गच्छते । अनादरश्चात्र नादरामावमात्रमापे तु तिरस्कारः, कुत्लेति यावत् । अधर्मानृतादिवन्नञः प्रतिपक्षवाचि
Page #238
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभक्त्यथप्रकरणम् ।
२२६
स्वात् । स च द्वेधा-उत्कृष्टस्थापकृष्टेनोपमानात् । यथा तृणाय मत्वेति । तुणमिव मत्वेत्यर्थः । क्वचित्तु निषेधयोगेनोपमानायोग्यत्वप्रतीतेः । यथा-न त्वां तृणं मन्ये इति । तृणतुल्यमपि त्वां न मन्ये इत्यर्थः । इयांस्तु विशेषः अत्रात्यन्तमनादरः पूर्वत्र त्वनादरमात्रम् ! उभयत्रापि सुत्रेण सिद्धम् ।
वार्तिककारस्त्वाह-प्रकृप्य कुत्सितग्रहण कर्तव्यमिति । यद्वाचिन. श्चतुर्थी ततोऽपि यदि कुत्सा न तु साम्यमात्रं तदा चतुर्थीत्यर्थः । एवश्च प्रतिषेधयुक्तायामेव कुत्सायां चतुर्थीविधानात् प्रागुक्तभट्टि प्रयोगो विरुध्यते सूत्ररीत्या तु सः । तथा चापिशलिरपि मन्यक. मण्यनादर उपमाने विभाषा, प्राणिग्वित्यसूत्रयत् । अप्राणिवित्यपनीय अनावादिग्विति पाठ्यमिति भाष्यम्। नौकाकानशुकशृगालाः नावादयः। (कावा०) तेन न त्वां नावमन्नं वा मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र तु प्राणित्वेऽपि चतुर्थी भवत्येवेति दिक् । अनादरेति कर्मणो विशेषणम् । अनादरद्योतकं यत्कर्मेति । तेन तृणा. देरेव चतुर्थी न तु युष्मदा, व्यवस्थितविभाषाविज्ञानाद्वा । इति श्रीशब्दकौस्तुभे द्वितीयस्थाध्यायस्य तृतीयपादे प्रथममाह्निकम् ।
कर्तृकरणयोस्तृतीया (पा०सु०२-३-१८) । रामेण बाणेन हतो घाली । प्रकृत्यादिभ्य उपसङ्ख्यानम् (काभ्वा०) । प्रकृत्याभिरूपः । क्रियाया अश्रवणात कर्तृकरणयोरभावात् षष्ठीह प्राप्ता । ननु गम्य. मानकरोतिक्रियाकरणत्वात् सिद्धम्। करणान्तरव्युदासाय हि प्रकृतेरेव करणत्वं विवक्षितम् । स्वभावेनायमभिरूपः कृतो न त्वलङ्कारादिनेत्यर्थाः त् । इदन्तर्हि प्रायेण याक्षिकाः । प्रायशब्दो बव्हर्थः । बहवो याशिका इत्यर्थः । ननु याशिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यं करणम् । सङ्घी. भूय यज्ञमधीयते इत्यर्थात् । यत्रापि विशिष्टवेषं कश्चिद् दृष्ट्वा प्रायेणायं बाक्षिक इत्यध्यवस्यति । तत्रापि गम्यमानज्ञान क्रियां प्रति करणत्वात् सिद्धम् । आचारादिबाहुल्येन याशिकोऽयमिति जनशाप्यते इत्यर्थात । केचित्तु प्रायेणशम्दो विभक्तिप्रतिरूपको निरातो नूनमित्यर्थे वर्तते इत्याहुः । श्यते च प्रायेण सामग्यविधौ गुणानामिति । प्रायेण नि. कामति चक्रपाणाविति च । इदं तर्हि गोत्रेण गायः, प्रथमा षष्ठी वा प्राप्नोति । नन्विहापि मनेनाहं खाये इत्यारिलद्धम् । इदन्तर्हि समेन विषमेणैति, अत्र समविषमाभ्यां द्वितीया प्राप्ता । ननु पथोऽपि गम. करणत्वात् समेन पयेत्ययोऽस्तु इदं तर्हि द्विद्रोणे न धान्यं की.
Page #239
--------------------------------------------------------------------------
________________
२३०
शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे द्वितीयान्हिके
णाति । पञ्चकेन पशुन् गृण्हाति । द्वयोोणयोः समाहार इति द्विद्रोणं प..ादिः । द्रो द्रोणौ कृत्धेत्यर्थः । इह द्वितीया षष्ठी वा प्राप्ता । पञ्च परिमाणमस्य पश्चकः सकः। तत्र सङ्कसडिनोरभेदविवक्षायां पशुनि. त्यनेन सामानाधिकरण्यात् द्वितीया प्राप्ता । एतदपि प्रत्याख्यातं भाष्ये । विद्रोणाद्यर्थे मूल्ये द्विद्रोणादिशब्दः तस्य च क्रयं प्रति करणत्वम् । द्विद्रोणादीनां च यन्मूल्यं तेन द्विद्रोणायेव क्रियते इत्यर्थ भेदोऽपि नास्तीति ।
सहयुक्त प्रधाने (पा०सू०२-३-१९) । सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । पितुरत्र क्रियासम्बन्धः शाब्दः, पुत्रस्य तु आर्य इति तस्याप्राधान्यम् । सहे ऽप्रधाने इत्येव वाच्ये युक्त. प्रहणादर्यग्रहणम् । पुत्रेण सार्धम् । विनापि सहशब्देन तदर्थावगतो स्यादेव, तथा च सौत्रप्रयोगः । “वृद्धोयना" (पासू०१-२-६१) इति । प्रधानग्रहणं शक्यमकर्तुम् । न चैवं पितुरपि तृतीयापत्तिः । तत्र प्रातिपदिकमात्रापेक्षत्वादन्तरङ्गत्वेन प्रथमोपपतेः।। ___ येनाङ्गविकारः (पा००२-३-२०) । येन शरीरविकारो लक्ष्यते ततस्तुतीया स्यात् । अर्शआद्यजन्तः सुत्रे अङ्गशब्दः । तद्विकारलक्षक. श्व प्रकृत्यर्थभूतोऽवयव पन गृह्यते, सन्निधानात् । स चार्थाद्विकृत एव न विकतेनावयवन शरीरस्य विकारः सम्भवति । तदेतदभि. सन्धाय वृत्तावुकम्-येनाङ्गेन विकृतेनेत्यादि । अक्षणाकाणः। पादेन वक्षः। पाणिना कुणिः । सामान्योपक्रमे वाक्ये अक्षणेत्युके भवत्याकाला, नि. रूपयति वा काणो वेति । तत्र काण इत्यादिप्रयोगो न विरुध्यते । यद्यप्यत्येव काणं तथापि तद्योगाच्छरीरेऽपि व्यवहारो निरूढः । षष्ठ्यपवादो योगः। अक्षिसम्बन्धिकाणत्ववानित्यर्थात् ।
इत्यम्भूतलक्षणे (पा०स०२-३-२१)। कशिव प्रकारं प्राप्त हत्यम्भूः तस्तल्लक्षणे तृतीया स्यात् । जटाभिस्तापसः। जटाशाप्यतापसत्ववान् ।
संशोऽन्यतरस्यां कर्मणि (पा०९०२-३-२२) । सम्पूर्वस्य जानाते कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सजानीते । “सम्पति. भ्यामनाध्याने" (पा०१०१-३-४६) इति तत् । कृयोगे तु परत्वात्वष्ठी । पितुः सञ्चाता। यतु हरदत्तेनोकम, आध्याने परवावअधीमर्थ' (पा०४०२-३-५२) इति षष्ठी मातुः सबानातीति । तत्र, तत्र शेषाधि.. कारात् । कर्मत्वविवक्षायां तृतीयाद्वितीययोरवश्याभ्युपयत्वात् । मि. प्रविषयया षष्ट्या विप्रतिषेधस्यान्याव्यत्वाचेति दिक।
हेतौ (पा०स०२-३-२३)। हेत्वर्थे तृतीया स्यात् । धनेन कुलम् ।
Page #240
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
२३१
विद्यया यशः । हेतुरिह लौकिकः फलसाधनीभूतः, न तु तत्प्रयोजको हेतुश्चेति कृत्रिमः । तस्य चकारेण कर्तृसंज्ञाविधानात्क कर णयोरित्येव तृतीयायाः सिद्धत्वात् । न च लौकिकहेतोरपि करणत्वातुल्यो दोष इति वाच्यम, लौकिकस्य द्रव्यादिसाधारण्यात् निर्व्यापारसाधारत्याच्च । करणस्य तु क्रियामात्रविषयत्वात् व्यापारनियतत्वाच्च ।
आह च
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । इति । अनाश्रिते तु ध्यापारे निमित्तं हेतुरुच्यते । इति च । तथा फलमपीह हेतुशब्देन गृह्यते । अध्ययनेन वसति । इदञ्च "प्र. त्ययः” (पा०सु०३-१-१) इति सूत्रे कैराटे स्पष्टम् ।
अकर्तणे पञ्चमी (पा०सू०२-३-२४) | कर्तृवर्जितं पडणं हेतुभूतं ततः पञ्चमी स्यात् । तृतीयापवादः । शताद्वद्धः । अकर्तरीति किम् ? शतेन बन्धितः । शतमह उत्तमणांय धार्यमाणत्वाद्दणन्तत्प्रयोजको हेतुश्चेति चकारेण कर्तृसंशश्ञ्च । ननु पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणमित्युक्तम् । अयन्तु शास्त्रीयः । सत्यम्, शास्त्रीयस्यापि लौकिकत्वमस्त्येव । व्यापकं हि लौकिकं न तु विरुद्धम् । अथ वा इहार्थतया पूर्व सुत्रेऽपि सामान्यग्रहणमस्तु ।
विभाषा गुणेऽस्त्रियाम् ( पा०स०२ -३ - २५) । गुणहेतावस्त्रो लिङ्ग पञ्चमी वा स्यात् । जाड्या जाड्येन वा बद्धः । पाण्डित्यात्पाण्डित्येन · वा मुक्तः । गुणे इति किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । इइ सत्वे निविशतेऽपैतीति लक्षितो गुणो गृह्यते । तदनुरूपत्वादुदाहरणप्रत्युदाहरणयोः । इह "विभाषा" इति योगो विभज्यते । तेनागुजेsपि कचिद्भवति, एवं स्त्रियामपि । एतच्च "हेतमनुष्येभ्यः" (पा०स्० ४-३-८१) इतिसूत्रे - हरदत्तग्रन्थे स्पष्टम् । केचित्तु गुणशब्दोऽत्र परतन्त्रमात्रपरः । यस्य द्विगुणस्य मावादित्यत्र यथा । तेन वह्निमान्धूमादि • त्यादावपि पञ्चमी सिद्धेत्याहुः । कथन्तर्हि नास्तीह घटोनुपलब्धेरिति । मंत्राहुः, स्त्रियामपि कचिद्भवति विभाषागुणे इतियोगविभागात् । बाहुलकं प्रकृतस्तनुद्दष्टेरिति वार्त्तिकप्रयोगश्चेह शापक इति ।
षष्ठी हेतुप्रयोगे (पा०सु०२ - ३ - २६) । हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ।
सर्वनाम्नस्तृतीया च ( पा०सु०२-३-२७) । सर्वनाम्रो हेतुशब्दस्य च प्रयोग हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् (का०वा० ) किनि
Page #241
--------------------------------------------------------------------------
________________
२३२
शब्दकौस्तुभ्रद्वितीयाध्यायकृतीयपादे द्वितीयान्हिके
मितं वसति । केन निमित्तेन ! कस्मै निमित्तायेत्यादि । एवं किं का. रणम् । को हेतुः । किं प्रयोजनमित्यादि । असर्वनानोप्येतद्भवति, वृत्तिकारणेऽ ऽपि भाष्यकारेण "हेतौ" (पा०सू०२-३-२३) इत्यत्र पठितत्वात् । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये नस्तः । अमेन कार णेन वसति । अन्नाय कारणायेत्यादि । वात्तिके पर्यायोपादानं प्रपशा. र्थम, प्रयोजनादिशब्दानुरोधेनार्थपरत्वस्वीकारात् । ___ अपादाने पञ्चमी (पा०सू०२-३-२८ )। स्पष्टम् । प्रामादागच्छति । ल्य ब्लोपे कर्मण्यधिकरणे चोपसख्यानम् (का०वा०)। प्रासादात्प्रेक्षते । आसनास्प्रेक्षते, प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । गम्य. मानापि क्रिया कारकविभक्तिनिमित्तम्, प्रविश पिण्डीतिवत् । तेन कुतोमवान् , पाटलिपुत्रादित्यादि सिद्धम् । इह हि प्रत्यक्षादिसिद्धमा. गमनमुपजीव्यावधावेव प्रभोत्तरे प्रवर्तते । एतेन "प्रश्नाख्यानयोश्च" इति वार्तिकं प्रत्याख्यातम् , अपेक्षितक्रियाया दानवेनैव सिद्धत्वात् । अन्यथा कश्चन्द्र इत्यादावतिव्याप्तेश्च । यतश्चाध्वकालनिर्माणं तत्र पञ्च. मी। (कावा०) तधुक्तादध्वनः प्रथमासप्तम्यौ (काभ्वा०)। काला. त्सप्तमी च वक्तव्या (कावा०) । वनाद्रामो योजने योजनं वा। कार्ति क्या आग्रहायणी मासे । कृत्तिकाभिर्युक्ता पौर्णमासी कार्तिकी। पौर्ण. मास्यां "लुबविशेषे' (पासू०४-२-४) इति लुङ् न भवति, "सास्मिपौर्णमासीति (पासू०४-२-२१) इत्यधिकारे “विभाषाफाल्गुनीश्रवणा. कार्तिकीचैत्रीभ्यः" (पा०स०४-२-२३) इति निर्देशात् । अग्रे हायन. मस्या इति आग्रहायणी । प्रज्ञादेराकृतिगणत्वावं स्वार्थिकोऽण, आन. हायण्यश्वत्थादिनिपातनाण्णत्वम् । तथुक्कादिति । तेन पञ्चम्यन्तेन अर्थद्वारेण युक्तात्काले वर्तमानान्मासादिशब्दादित्यर्थः । अन्न भाज्ये कार्तिक्याः प्रभुतीति प्रयोगात्प्रभृतियोगे पञ्चमीति कैयटः । प्रभती. त्यर्थग्रहणम्, तत आरभ्येत्यर्थ इति कैयटात् । स्कन्धात्मभृत्येव सपल्ल. वानीति कुमारः। ___अन्यारादितरतैदिक्शब्दाञ्चूत्तरपदाजाहियुक्त (पासू०२-३२९) । एतैोगे पश्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणन्तु प्रपश्चार्थम् । न च इतरस्स्वन्यनीचयोः (अ०को०३-३-२००) इत्यमरो. केनीचार्थकस्यदं ग्रहणमिति वाच्यम,"अस्मात्तारोमन्दोवा इत्यादाविव "पञ्चमीविभक्ते" (पा०सू०२-३-४२) इत्यनेनैव सिद्धत्वात् । देवदत्चादः न्यो भिन्नो विलक्षणोऽर्थान्तरं वेत्यादि । न चैवं 'घटः पटोन'इत्यत्रातिप्र. सङ्गः, नञोऽप्यन्योन्याभावार्थकत्वात् । घटाद्भद इत्याद्यनुरोधेन धर्मि:
Page #242
--------------------------------------------------------------------------
________________
विविशेषप्रकरणे विभत्यर्थप्रकरणम् ।
२३३
पर्यन्तविवक्षाया अयोगादिति वाच्यम्, नत्रो द्योतकताया उक्तत्वात् । आश्चात इह "दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्" (पा०स्०२३-३४) इति प्राप्तः । "भाराद्दूरसमीपयोः " (अ०को०३-३-२५) "ऋते कृशानोनं हि मन्त्रपूतम्” । अत्र ऋतेयोगे पाक्षिकी द्वितीयापीत्युकं प्राक् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिनाऽपि योगे भवति । ग्रामात्पूर्वो देशः ! चैत्रात्पूर्वः फाल्गुनः । कथन्त र्हि पूर्व कायस्येति ? उच्यते, अवयववाचिभिर्योगे न भवति "तस्य परमाम्रेडितम् " ( पा०सु०-१-२) इति निर्देशात् । अञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि " षष्ठ्यतसर्थप्रत्ययेन” ( पा०सु०२-३-३०) इत्येतद्वाधनार्थ पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । न च तेन सभ्यूङ त्यादौ पञ्चम्यर्थे तत्किन्न स्यादिति वाच्यम्, दिक्शब्दसाहचर्येण प्रा. गादीनामेव ग्रहणात् । आच्-दक्षिणा ग्रामात् उत्तरा वा । आदिदक्षिणादि उसराहि प्रामात् । "दक्षिणादाच्" (पा०सु०५-३-३६) । "आ. हि चं दूरे (पा०सू०५-३-३७) “उत्तराञ्च” (पा०सु०५ -३ - ३८) इत्याजाही ।
षष्ठ्यतसर्थप्रत्ययेन (पा०सु०२ - ३ - ३० ) । एतद्योगे षष्ठी स्यात् । दक्षिणतो ग्रामस्य । उत्तरतः । "दक्षिणोत्तराभ्यामतसुच्" (पा०सु०५-३२८) । एवं पुरः पुरस्तादुपर्युपरिष्टात् ।
पनपा द्वितीया (पा०सु०२ - ३ - ३१) | एनबन्तेन योगे द्वितीया स्यात् । षष्ठ्यपीष्यते । सा तु 'एनपा' इति योगं विभज्य साधनीया | दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण । "एनबन्यतरस्यामदुरेपञ्चम्याः " (पा०सू०५ -३ - ३५) इत्येनप् । कथन्तर्हि -
तत्रागारं धनपतिगृहा दुसरेणास्मदीयम् ।
"स्त्र्यधिकारात्परेण वासरूपविधिर्नावश्यं भवतीत्यादि" । एनपि परशब्दात्पाक्षिकः । यदा तद्विधौ "उत्तराधरदक्षिणात्" (पा०स्०५-३३४) इति नानुवर्तते । सत्यम्, अत एव चिन्त्यमेवेदमिति हरदत्तः । उत्तरेणेति तृतीयैकवचनान्तं तोरणेनेत्यनेन समानाधिकरणमित्यन्ये | ॲपरे तु धनपतिगृहानिति शसन्तं पठन्ति ।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम् (पा०सु०२ - ३ - ३२) । अन्य तरस्यांग्रहणं समुच्चयार्थम्, निपातानामनेकार्थत्वात् । मण्डूकप्लुत्या पञ्चम्यनुवर्तते । एभिर्योगे तृतीयापञ्चम्यौ स्तः । वृत्तिकारस्त्वाह"पृथग्विनानानाभिः" इति योगविभागाद् द्वितीयापीष्यत इति । पृथग्रा मेण रामाद्रामं वा । एवं विना नाना । "हिरुङ् नाना च वर्जने " (अ०को ० ३-४-३) इत्यमरः । " नानानारीर्निष्फला लोकयात्रो" । इति प्रयोगः ।
Page #243
--------------------------------------------------------------------------
________________
शब्द कौस्तभ द्वितीयाध्यायतृतीयपादे द्वितीयान्हिके
करणे च स्तोकाल्पकृछ्रकतिपय स्यासत्त्ववचनस्य (पा०सू०२-३३३) । मद्रव्यार्थेभ्य एभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोक'द्वा मुक्तः । असत्त्वेति किम् ? स्तोकेन विषेण हतः ।
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा०सु०२-३-३४) । एतैर्योगे षष्ठी स्वात्पञ्चमी च । “पृथग्विना" (पा०सु०२ - ३ - ३२ ) इत्यत्र पञ्चमी समु चीयते इत्युक्तम् । इछ । प्येकप्रघट्टकत्वात्तथैवेति द्रष्टव्यम् । दूरमन्तिकं
वा ग्रामस्य ग्रामाद्वा ।
२३४
दूरान्तिकार्थेभ्यो द्वितीया च (पा०सु०२-३ - ३५) | एभ्यो द्वितीया स्याच्चकारात्पञ्चमीतृतीये । प्रातिपदिकार्थे विधिरयम् । ग्रामस्य दूरं दूराद् दूरेण वा । अन्तिकमन्तिकादन्तिकेन वा । उत्तरत्राप्येतदनुवृत्त्या तद्विषयेऽपि द्वितीयादयः स्युः । तथा चाधिकरणेऽपि प्रयुज्यतेदूरादावसथान्मूत्रमिति । आवसथस्य दूरे इत्यर्थः । असत्ववचनग्रहणमनुवर्तते । तेनेह न - दूरः पन्थाः । दूराय पथे देहि । दुरस्य पथः स्वमिति ।
1
सप्तम्यधिकरणे च (पा०सू०२-३-३६) । चकाराद् दूरान्तिकार्थे भ्यः । कटे आस्ते । दूरान्तिकार्थेभ्यः प्राग्विभक्तित्रयमुक्तम् । अनेन च सप्तमीति तेभ्यश्चतस्रो विभक्तयः फलिताः । कस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् (का०वा० ) । ६निति इन्नन्तः शब्दः । विषयो वृत्तिभूमि र्यस्य कान्तस्य तस्येत्यर्थः । अधीती व्याकरणे । अधीतमनेनेति विग्रहः । "श्राद्धमनेन भुक्तम्" (पा०सु०५ - २ - ८५) इत्यतो ऽनेनेति वर्त्त माने " इष्टादिभ्यश्च" (पा०सु०५-२-८८) इति सूत्रेण कर्त्तरीनिप्रत्ययः । ततस्तद्धितार्थेन सहैकार्थीभूतस्याधीतस्य निष्कृष्य व्याकरणादिना सम्बन्धाभावात् । कप्रत्ययेनानभिहितं व्याकरणम् । तत्र कृतपूर्वी कटमितिवद् द्वितीया प्राप्ता । गुणभूतयाऽपि हि अध्ययनकि यया कर्मणः सम्बन्धो न विरुद्धः, "सहाधीतवान् व्याकरणम्" इत्यादौ
यथा । आह च
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।
क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥ इति ।
न विविच्य ग्रहो यस्याः सा अविग्रहा, गुणीभूतेत्यर्थः । ननु कालकर्मणोऽपि सप्तमी प्राप्नोति "मासमधीवी व्याकरणे" इत्यादी । मैवम्, तस्य बहि त्वात् । न चैवं तत्र द्वितीयापि न स्यादिति वाच्यम्, तद्विधाने लक्ष्यानुरोधेन व्यक्तिपक्षस्याश्रयणात् । साध्वसाधुप्रयोगे च (का०वा० ) । साधुः कृष्णो मातरि । असाधुर्मातुले ! अत्र साधुत्वासाधु
Page #244
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभत्यर्थप्रकरणम् ।
२३५
त्वयोर्मात्रादिविषयत्वेऽपि क्रियाया अभावेनाधिकरणत्वाभावाद्वचनम् । 'साधुनिपुणाभ्याम्" ( पा०स्०२-३-४३) इत्येव सिद्धे अनचार्थमंत्र साधुग्रहणम् । तेन तत्वकथनेऽपि भवति । सूत्रे अर्वाग्रहणन्तु निपुणार्थम् । साधुग्रहणन्तु तत्र वार्त्तिकं दृष्ट्रा सूत्रस्याप्रवृत्तेरिति ध्येयम् । अर्हाणां कर्तृत्वे अनणामकर्तृत्वे तद्वैपरीत्ये च (का०वा० ) । सस्सु तरत्सु असन्त आसते इत्यादि । यद्यपीदं "यस्य च भावेन" (पा०सू०२-३-३७) इत्येव सिद्धम् । तथापि लक्ष्यलक्षणभावाविवक्षायामपि यथा स्यादिति वचनमित्याहुः । निमित्तात्कर्मयोगे (का०वा० ) । निमित्तमिह फलम् । तद्वाचिनः सप्तमी स्यात् । यदि तस्य कर्मणा सह योगो योगविशेषः संयोगसमवायात्मकः ।
चर्मणि द्वीपिनं हम्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्निपुष्कलको हतः ॥
चर्मफलकं द्वीपिकर्मकं हननमित्यर्थः । अत्र हेतुतृतीया प्राप्ता । तत्र हि फलमपि हेतुशब्देन गृह्यते । " अध्ययनेन वसति" इत्यादिसिद्धये इति “प्रत्ययः” (पा०सु०३-१-१) इति सूत्रे कैटे स्थितम् । अत्र द्वी· पिचर्मणोः समवायः सम्बन्धः । चमरशब्दाज्जातिलक्षणो ङीष् । पुष्कलकः शङ्कुः | ससीम्नि सीमज्ञानार्थ हतो निहतः निखात इत्यर्थः । निहन्यमानेन शङ्कुना सह सीम्नः संयोगः सम्बन्ध इति हरदत्तादयः । दुर्गवाक्यप्रबोधे तु कुलचन्द्रस्त्वाह-सीमा अण्डकोशः । पुष्कलको गन्धमृगः । उक्तं च मेदिनीकोशे
सीमा घाटस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम् । इति । अथ पुष्कलको गन्धमृगे क्षपणकीलयोः । इति च । कर्मयोगे किम् ? वेतनेन धान्यं लुनाति ।
यस्य च भावेन भावलक्षणम् (पा०सु०२-३-३७) । यस्य क्रिय या क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । निर्ज्ञातकाला किया। अनिशतिकालायाः क्रियायाः कालपरिच्छेदकत्वात् लक्षणमित्युच्यते । मोषु दुह्यमानासु गतः । एवं देशपरिच्छेदिकाऽपि सति गुणे द्रव्य. त्वमस्ति ।
षष्ठीचानादरे (पा०सु०२ - ३ - ३८ ) । अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । इह सुत्रे अनादरं इति पूर्वेण सत्सप्तमी । अनादरे सति यो भाव लक्षयतीति । तथाच तदाधिक्यं फलितम् । safa seat वा प्राबाजीत । रुदन्तं पुत्रादिकमनादृत्य सम्यस्तवा• नित्यर्थः ।
Page #245
--------------------------------------------------------------------------
________________
२३६ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे द्वितीयान्हिके___स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च (पासू०२-३-३९)। पतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकस. तम्यर्थ वचनम् । गवां गोषु वा स्वामी, ईश्वरो वेत्यादि । दायमादत्ते इति दायादः, सोपसर्गादप्यत एव निपातनात्कः । गवामित्येतनु यद्यपि समुदायस्य विशेषणम्, तथापि दीयते इति दाय इति व्युत्प. त्या अषयवार्थभूतमंशं स्पृशत्येव । तेन गेवात्मकस्यांशस्यादातेति फलितोऽर्थः । गवां प्रसूतः, गा एवानुभवितुं जात इत्यर्थः ।
आयुक्तकुशलाभ्यां चासेवायाम् (पासू२-३-४०) । आभ्यां योग षष्ठीसप्तम्यौ स्त आसेवायां गम्यमानायाम् । आसेवा तात्पर्यम् । आयुको व्यापारितः । कुशलो निपुणः । आयुक्तः कुशलो वा हरिभ. जनस्य हरिभजने वा । आसेवायां किम् ? आयुको गौः शकटे, ईष. धुक्त इत्यर्थः।
यतश्च निर्धारणम् (पा०सू०२-३-४१) । जातिगुणक्रियासम्बाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं, यतो निर्धारणं ततः 'षष्ठीसप्तम्यो स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । अमीषां छात्राणां देव. दत्तः पटुः ।
पञ्चमी विभक्के (पासू०२-३-४२)। विभागो विभकम् । निद्धार्यमा णस्य यत्र भेद एव न तु शब्दोपात्तसामान्यरूपाकान्तता, तत्र निर्दा रणाश्रयात्पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। न ह्यत्र गवां कृष्णा इत्यादिष्विव सामान्यविशेषभावः, किन्तु शब्दोपात्तध. र्मयोर्विरोध एव । इदश्च सूत्रं बुद्धिकल्पितमपायमाश्रित्यापादानप्रक. रणे प्रत्याख्यातम् । आह च
बुद्धया समीहितैकत्वात् पञ्चालान् कुरुभिर्यदा।
पुनर्विभजते धक्का तदापायः प्रतीयते ॥ इति । साधुनिपुणाभ्याम यां सप्तम्यप्रतेः (पा०९०२-१-४३) । आभ्यां योग सप्तमी स्यादर्चायां गम्यमानायां, न तु प्रतेः प्रयोगे । मातरि सा. धुनिपुणो वा । "पुण कर्मणि शुभे"(तु०५०१३३३) अस्मान्निपूर्वादिगुपध. लक्षणः कः। अर्च पूजायाम्"(भ्वा०प०२०४) अस्माद्भौवादिका“गुरोश्च हल" (पा०स०३-३-१०३) इत्यप्रत्ययः । चौरादिकातु "ण्यासश्रन्य" (पा०सू०३-३-१०७) इति युच् स्यात् । अर्चायां किम् ? निपुणो राहो भृत्यः । इह तस्वकथने तात्पर्यम् । साधुशब्दप्रयोगे स्वन यामपि सप्तमी भवत्येव । साध्वसाधुप्रयोगे च (कावा०) इति वार्तिकादिति
Page #246
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
૨૩૭
प्रागेवोक्तम् । अप्रत्यादिभिरिति वक्तव्यम् (का०वा० ) । नेह - साधुर्नि पुणो वा मातरम्प्रति पर्यनु वा ।
प्रसितोत्सुकाभ्यां तृतीया च ( पा०सु०२-३-४४ ) | अभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा । "तत्परे प्रसितासतौ" (अ०को०३-१-७) इत्यमरः । उत्सुक साहचर्यात्प्रसितोऽपि तत्पर एवेह गृह्यते । तेन प्रकर्षेण सितः शुक्ल इत्यर्थे न भवति ।
नक्षत्रे च लुपि ( पा०सु०२ - ३ - ४५ ) । नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानातृतीयाससम्यैौ स्तो. ऽधिकरणेऽर्थे ।
मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् ।
मूले श्रवणे इति वा । "नक्षत्रेण युक्तः कालः " ( पा०सु०४-२-३) इत्यणो "लुबविशेषे" (पा०सू०४-२-४) इति लुप् । अधिकरणे किम् ? पुष्यः । पुष्यं प्रतीक्षते । पुष्याय स्पृहयति ।
I
अत्र केचित्-सूत्रे पञ्चम्यर्थे सप्तम्यौ । लुबन्तानक्षत्रवाचिन इति व्याचख्युः । तेषां लुबन्तविशेषणान स्यात् । "उत्तराभ्यां फाल्गुनीभ्यां नोत्तराभ्यां गच्छेत्” इति यथेति हरदत्तः ।
इति श्रीशब्द कौस्तु मे द्वितीयस्याध्यायस्य तृतीयपादे द्वितीयमाह्निकम्
प्रातिपदिकार्थलिङ्ग परिमाणवचनमात्रे प्रथमा ( पा०सु०२-३-४६) । प्रातिपदिकार्थमात्रे लिङ्गमात्रादिषु च प्रथमा स्यात् । द्वन्द्वान्ते श्रुन स्वात्प्रत्येकं मात्रशब्दः सम्बध्यते । स चावधारणे । " मात्रं कात्यऽबंधारंणे” (म०कों०३-३-१८६) इत्यमरः । प्रातिपदिकार्थादीन्येव तम्मांत्र मित्यस्वपदविग्रहः । " मयूरव्यंसकादयश्च" (पा०सु०२-१-७२) इंति समासः । प्रातिपदिकार्थः सत्ता । उक्तं हि - " तस्यां सर्वे शब्दां व्यव स्थिताः" इति ।
तां प्रातिपदिकार्थं च धात्वर्थे च प्रचक्षते । इति च ।
1
उच्चैः । नीचैः । अत्र हि परिमाणविशेषोपहितं सत्तामात्रं प्रतीयते इत्याहुः । अन्ये तु नियतोपस्थितिकः प्रातिपदिकार्थ इत्याहुः । अस्मि पक्षे 'वृक्षः कुड्यं भित्तिः' इत्यादीनां नियतलिङ्गानां प्रातिपदिकार्थमात्रे प्रथमेत्येव सिद्धम | लिङ्गमात्रे इति तु तटस्तटीतटमित्याद्यर्थम् । न ात्र पुंस्वादि नियतोपस्थितिकम् । अतः लिङ्गमात्राधिक्येऽपि विधी. यते । परिमाणमात्रे द्रोणो व्रीहिः । इह हि द्रोणलक्षणं यत्परिमाणस्तपरिच्छन्न व्रीहिरित्यर्थः । प्रकृत्यर्थस्य द्रोणस्य प्रत्ययार्थे परिमाणे
Page #247
--------------------------------------------------------------------------
________________
२३८ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे तृतीयान्हिकेऽभेदेन संसर्गेण विशेषणता, प्रत्ययार्थश्च । व्रीहिषु परिच्छेद्यपरिच्छेदक भावेन संसर्गेण विशेषणमिति बोध्यम् । वचनमात्रे-एकः द्वौ बहवः । वचनं सङ्ख्या, तथैव प्राचां व्यवहारात् । तत्र प्रकृत्या उक्तायामपि सङ्ख्यायां यथा स्यादित्येतदर्थमिदं वचनम् । ____ इह सूत्रे 'अर्थलिङ्गयोः प्रथमा इत्येतावदेवावश्यकम्, इतरत्तु व्यर्थम् । तथाहि प्रातिपदिकग्रहणं तावद्यर्थम् । ब्याप् प्राति पदिकाद्धि स्वादयो विधीयन्ते । तत्रार्थे इत्यपेक्षायां यस्मा. स्वादिविधिस्वदर्थ इति लभ्यत एव । परिमाणमप्यनर्थकम्, 'गौर्वाहीकः' इत्यादाविव मुख्यार्थमात्रे प्रथमायां सत्यां पदान्तर. समभिव्याहारेण गौणार्थप्रतीत्युपपत्तेः, वाहीके गोत्वस्येव ब्रीह्यादौ द्रोणत्वादेरारोपसम्भवात् । एवं वचनग्रहणमपि व्यर्थम्, “न केवला प्रकृतिः प्रयोकव्या"इति "प्रत्ययः" (पासू०३-१-१) "परश्च"(पासू० ३-१-२) इति सत्रे वक्ष्यमाणतयाप्रत्ययस्यावश्यकत्वाताअनन्वितघच. नप्रयोगापेक्षया अनुवादकप्रयोगस्यैव न्याय्यत्वात् । मात्रग्रहणमपि ब्यर्थम्, "सम्बोधन च" (पासू०२-३-४७) इति शापकेन कर्माद्याधिक्ये प्रथमाया अप्रवृत्तेः। ननु 'वीरः पुरुषः' इत्यादी अभेदसंसर्गस्याधिकस्य भानात प्रथमा न स्यादिति चेत् ? न, संसर्गस्य वाक्यार्थत्वेन बहिरा. स्वात्प्रथमप्रवृत्तसंस्कारषाधानुपपत्तेः ।
वार्तिककारस्त्वाह--अभिहिते प्रथमेति । 'वृक्षस्तिष्ठति' 'कृतः कट:' 'शत्यः' 'प्राप्तोदको प्रामः' इत्यादौ तिङादिभिरभिहिते की. दो प्रथमा भवतीत्यर्थः। एवञ्च 'वीरः पुरुषः' इत्यादौ सत्य. प्याधिक्ये अभिहितत्वात् प्रथमा सिद्धेति । न च 'वृक्षा' 'प्लक्षः' इत्यादावव्याप्तिः, अस्तीत्यध्याहारात ।।
अत्र भाष्यम्-अभिहितेनाभिहितेतिप्रसङ्ग इति । तथाहि, 'प्रासाद आस्ते' इत्यत्र सदिक्रियायाश्चासिक्रियायाश्चैकमधिकरणं प्रासादात्यं तच्च सदेरुत्पमेन घनाभिहितम् । आसेलटा त्वनभिहितम् । तत्र सप्तमी बाधित्वा परत्वात्प्रथमा स्यात् । अतिङ्समानाधिकरणे प्रथमेत्युच्येत । तदपि न, 'देवदत्तः पचति'इत्यादिषु तिङ दौलभ्यापत्तेः। तथाहि, देवदत्तः पच लट् इति स्थिते यावतिको न कृतास्तावत्तिङसामानाधिकरण्याभावात प्रथमैवेति नियमो न प्रवर्तेत । तथा च देवदत्तशब्दादविशेषोत्पन्नाः सर्वे स्वादयः सन्त्ये. वेति शतृशानचौ स्याताम् । तन्निमित्तभूतस्याप्रथमान्तेन सामानाधि. करण्यस्य सत्वात् । तिविधेस्तु लिनादिपवकाशः। स एव प्रथमः
Page #248
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभच्यर्थप्रकरणम्। २३९ चति नियमस्यापि "विदो लटोवा" (पा०सू०३-४-८३) इत्यादेस्तु विदि. मात्रप्रयोगे चरितार्थता। यथा “वेत्थ वेद" इत्यादि । स्थानिन्यपि मध्यमोत्तमयोर्विधानादर्थात्प्रकरणाद्वा निर्मातस्य प्रयोगानावश्यकत्वा व । पाक्षिकश्चायं दोषः । शत्रादिविधौ हि 'अप्रयमा' इत्यादिः पर्युदासः प्रसज्यप्रतिषेधो वेति द्वैतम ,तत्र द्वितीये उक्तदोषस्थासङ्गतेः प्रथमाया अपि सत्वेन शत्रादिनिषेधसम्भवात् । __ यत्तु भाये पर्युदासपक्षे "विभक्तिनियमे दोषो न इत्युक्तमातचिन्त्यम्, तत्राहि द्वितीया कर्मण्येवेत्यादि वचनव्यक्त्याश्रयणात् । देवदत्ते द्वितीया मा भूत् , षष्ठी तु स्यादेव । सा हि शेष एवेति नियम्यते । यत्र च वि. भक्त्यन्तरस्य नियमो न प्रवृत्तः स शेषः । ततश्च तिङः सामानाधिका गण्यात् प्राक् शेषलक्षणषष्ठयां सत्यां दुर्वारौ शतृशानचाविति ।
सम्बोधने च (पा०सू०२-३-४७)। इह प्रथमा स्यात् । हे राम ।
सामन्त्रितम् (पासु०२-३-४८)। सम्बोधने या प्रथमा तदन्तं श ब्दरूपमामन्त्रितसंशं स्यात् । यद्यपि संझाविधौ प्रत्ययग्रहणे तदन्तम हणं दुर्लभं, तथापि महासंझाकरणालभ्यते आमन्त्रणमामन्त्रितम्। म भेदोपचाराचसाधने शब्दे वृत्तिः। विभक्त्यन्तेन चामन्यते न तु के वलया विभक्तोति । संक्षाप्रदेशाः, आमन्त्रितस्य चेत्यादयः । सेनि किम् ? प्रातिपदिकार्थसूत्रेणाऽपि या सम्बोधने प्रथमा तदन्तस्यापीयं संक्षा यथा स्यात् । हे पचन्, हे पचमान। इह हि शतृशानचोः सम्बो. धने विधानादभिहितः सोऽर्थोऽन्तर्भूत इति पूर्वेणैव प्रथमा। यदि तु विभक्तिरहितयोस्तयोः कांद्यभिधान एव सामर्थ्यम्।यथा द्विर्वचनरहि. तस्य लोटा, तेनेहापि "सम्बोधने च" (पासु०२-३-४७) इति पक्षः। तदा सेति मास्तु, 'अनन्तरस्य विधिर्वा" इति प्रवृत्तेऽपि रूपनिष्पत्तेः।
एकवचन सम्बुद्धिः (पासु०२-३-४९)। आमन्त्रितप्रथमाया यदेक. वचनं तत्संबुद्धिसंशं स्यात्। हेपटो। “सम्बुद्धौ च' (पासू०७-३-१०६) इति वर्तमाने "हस्वस्य गुणः' (पा०स०७-३-१०८) । सु सम्बुद्धिरिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते, येन तावन्मात्रस्य प्रत्ययस्य संक्षार्थम् । अन्यथा प्रक्रमाभेदाय तदन्तस्य स्यात् ।
षष्ठी शेषे (पा०स०२-३-५०)। कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभाषादिः शेषस्तत्र षष्ठी स्यात् । राक्षः पुरुषः । ननु प्रत्ययः नियमपक्षे शेष एवेत्यवधारणार्थमन्तु नाम शेषग्रहणम् । अर्थनियमपले तु षष्ठपाखान्यस्य च प्राप्तौ षष्ठयेवेति नियमसम्भवात्किन्तेनेति चेतन, उचरार्थमवश्यकर्तव्यस्य शेषप्रहणस्य स्पष्टार्थमिदेव ग्रहणम् । न चा.
Page #249
--------------------------------------------------------------------------
________________
२४० शब्दकौस्तुभद्वितीयाध्यायतृतीयपादें तृतीयान्हिकेप्रधानाये शेषग्रहणम । तेन द्वयोः पर्यायेण वा म स्वादिति पा. व्यम्, प्रत्ययार्थस्य प्राधान्येनाप्रधानादेव षष्ठया न्याय्यत्वातं । अप्र. कृत्यर्थ पुरुषं तु राज्ञः' इति षष्टवर्थस्य विशेषणत्वमुचितमेवेति दिक् ।
सोविदर्थस्य करणे (पासू०२-३-५१) । जानातरक्षानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । समासनिवृत्यर्थमिदं प्रकरणमिति "न निर्धारणे' (पा.सु०२-२-१४)इति सुत्रे "प्रतिपदविधानाच' (का०वा०) इति वार्तिकस्य प्रत्याख्यानावसरे एवोपपादितम् । सर्पिषो मानम् । वस्तुतः करणीभूतं यत्सर्पिस्तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः। ज्ञानपूर्विः कायां प्रवृत्तौ जानातेर्लक्षणा । ___ अधीगर्यदयेशां कर्मणि (पा०सू०२-३-५२) । एषां कर्मणि शेषे षष्ठी स्यात् । "इक् स्मरणे" (अ०प०१०४७) ककार इहैव विशेषणार्थः । अधिशब्दोच्चारणन्तु सामान्यपेक्षशापकं "इङिकावध्युपसर्ग न व्यभि. चरते" इति । अत एव स्मृत्यर्थदयेषामिति नोक्तम् । सुत्रमणपक्षेऽपि हि कित्वं कर्तव्यमेव "इण्वदिक" (कावा०) इत्यत्र विशेषणार्थम् । "ए:" इत्युक्त "कटीगतो"(भ्वा०प०३२०) इत्यत्र प्रश्लिष्टस्यायतेग्रहणा. पत्तेः । मातुः स्मरणम् । सर्पिषोदयनाशनं घेत्यादिवृत्यादिप्रन्थेविह रकरणे उदाहरणं प्रत्युदाहरणश्च । यद्यपि तिङन्तं दृश्यते, तथापि त. सर्वमुपलक्षणतयाऽभियुक्तैर्व्याख्यातमेव ।
कृञा प्रतियत्ने (पासू०२-३-५३) । करोतेः कर्मणि शेषे षष्ठी स्यात् गुणाधाने। एधो दकस्योपस्करणम् । एघाचोदकञ्चति विग्रहे "जातिरप्राणिनाम्" (पा०सू०२-४-६) इत्येकवद्भावः । "उपात्प्रतियन' (पासू०६-१-१३९) इत्यादिना सुट् ।
जार्थानां भाववचनानामज्वरेः (पा०सु०२-३-५४)। भावकर्तृका. पां वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात । चौरस्य रो. गस्य रुजा । रुजो भने (तु०प०१४१६)। मिदादिपाठात्प्रकृतसूत्रएवं नि. पातनावाङ् । रुजाशब्दो व्याधी रुढः । सुत्रं भाववचनानामिति कर्तः रिल्यूट । प्रकृत्यर्थस्तु न विवक्षितः । तर्हि भावो वक्ता सम्भवति । 8. स्मात् प्रत्ययस्य साधुत्वनिर्वाहाय वचिर्बोध्यः । अज्वरिसन्ताप्योरिति वाच्यम् (कावा०)। रोगस्य चौरज्वरः, चौरसन्तापोवा । रोगकर्तक. चौरसम्बन्धि ज्वरादिकमित्यर्थः । तपेहेतुमण्ण्यन्तावरच् । इह समासो भवत्येव । ___ आशिषि नाथः (पा०सु०२-३-५५) । आशीरर्थस्य नायतः शेष कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् ! मआशिषीति किम् ? माणवका
Page #250
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
જ્ય
नाथनम्, तत्सम्बम्धिनी याश्चेत्यर्थः । यद्यपि कर्मत्वविवक्षायां "कर्तृ कर्मणोः” (प्रा०सू०२-३-६५) इति यदा षष्ठी तथा समासो भवत्येव, तथापि तत्र कृदुत्तरपदप्रकृतिस्वरः । समासान्तोदात्तत्वं तु याश्चादावेव न स्वाशिषीति निष्कर्षः ।
जासिनिप्रहणनाटकाद्यपिषां हिंसायाम ( पा०सु०२-३-५६) । हिं सार्थानामेषां शेष कर्मणि षष्ठी स्यात् । जसु ताडने ( चु० १० १७१८ ) जसु हिंसायाम् (चु० उ० १६६८) इति च चुरादिः, तस्येदं ग्रहणं न तु देवादिकस्य जसुमोक्षणे (दि०५० १२११) इत्यस्य । जासीति निर्देशात् हिंसायामिति वचनाच्च । चैारस्य।ज्जासनम् । निप्राभ्यामुपसृष्टो हनो निप्रहणः । " हन्तेरत्पूर्वस्य (पा०सू०८-४२२) इति णत्वम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ च । चौरस्य निप्रहणनं प्रणिहननं निहननं प्रहणनं वा । प्रणीत्यत्र "नेर्गद” (पा०सू०८-४-१७) इति णत्वम् । नट अवस्यन्दने ( चु० उ०१५४५) चुरादिः । नट नृत्तौ ( भ्वा० प० ७८२ ) इत्यस्य तु घटादेरग्रहणम् दीर्घनिर्देशात् । चौरस्योनाटनम् । कथ हिंसायाम् (स्वा०प०८१) इति घटादौ पठ्यते तस्येह निपातनादृद्धिरिति वृत्तिकारः । अत एव "क्रथ हिंसायाम्” इति जादौ स्वरितेतं वदन्, देवस्तत्रैवानुदातेतं पठन्, शाकटायनश्च मतान्तरपरतया नीतो माधवादिभिः । चौरस्य क्राथनम् | मित्वन्तु "चिण्णमुलो: " ( पा० सू० ६-४-९३) इति दीर्घविकल्पार्थम् | अक्रथि अक्राथि । क्रथं क्रथम् । क्राथं क्राथम् । इह हि निपातनं बाधित्वा परत्वाद्दीर्घविकल्पः ।
"
यज्ञ न्यासकृतोकं क्रार्थाीति विकृतनिर्देशात् मित्वेऽपि वृद्धिर्यत्र तत्रैव षष्ठी । चङन्ते तु वृद्ध्यभावात चोरमचिकथदिति । तन्मन्दम्, समासनिवृत्तये प्रकरणमिदमिति सिद्धान्तात् तिङन्तानामनुदाहरणत्वात् चङन्तेऽपि शेषषष्ठ्या दुरपह्नवत्वादिति माधवः 1 न च काथेरेव शेषे पष्ठी न तु इस्वस्येति व्याख्यानात्प्रकरणं मित्वा प्रकृते तिङन्तमप्युदाहरणमस्थिति न्यासस्याशयो वाच्यः, एवमपि द्वितीयाया दुर्लभत्वात् प्रक्रमभेदे मानाभावाच्च । यद्यपि हरदते. नोकं घटादिपाठः घटादयः षितः " ( ग० ० ) इति आतिदेशि कषित्वे अङ् यथा स्यादित्येतदर्थ इति । तदपि मन्दम्, घटादयः . षितः" (ग०सु० ) इति हि मध्ये सूत्रितम् । तेन पूर्वेषामेव पित्यं न तु परेबामपि, परश्चायमिति दिक् । वृषलस्य पेषणम् । हिंसायां किम् ? धानापेषणम् । अन्तोदात्तः । शेष इत्यनुवृत्तेः कर्मत्वविवक्षायां द्वितीयैष । तथा च भट्टिः- “अग्रो द्विजान्देवयजी निहन्मः" इति । “निजज सोज्जा
66
शब्द. द्वितीय. 16.
"6
Page #251
--------------------------------------------------------------------------
________________
२४२ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे तृतीयान्हिकेसयितुं जगद्रूहाम् । (मा० का०१-३७) इति माघस्तु शेषत्वे बोध्यः ।
व्यवहपणोः समर्थयोः (पा०सू०२-३-५७)। शेषेकर्मणि षष्ठी स्यात् । घूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता बोध्या । शतस्य व्यवहर. णं पणनं वा । शतसम्बधी क्रयविक्रयरूपेण विनियोगो देवनं वेत्यर्थः। समर्थयोः किम् ? शलाकाव्यवहारः, गणनेत्यर्थः । ब्राह्मणपणनम् , स्तुतिरित्यर्थः । “आयादयआर्धधातुके वा"(पासू०३-१-३१) इति आ. यस्य विकल्पः।
दिवस्तदर्थस्य (पा०सू०२-३-५८)। इह शेषे इति न सम्बध्यते, उत्तरसूत्रद्वयारम्भात् । पूर्वसूत्रएव दिवेः पाठे तदर्थस्येति न कर्तव्यमि. ति । यद्यपि लाघवं तथापि योगविभाग उत्तरार्थः, शेषासम्बन्धार्थश्च । व्यवहपणिसमानार्थस्य दिवः कर्माण षष्ठी स्यात । इह त्रिसूत्र्यां तिङ न्तमप्युदाहरणम् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति।
विभाषोपसर्गे । (पासू०२-३-५९) । पूर्वयोगापवादः । शतस्य शतं. वा प्रतिदीव्यति।
द्वितीया ब्राह्मणे (पा०स०२-३-६०)। ब्राह्मणविषये प्रयोग दिवस्त दर्थस्य कर्मणि द्वितीया वा स्यात् । षष्ठयपवादः। गामस्य तदहा स भायां दीव्येयुः । सोपसर्गस्य छन्दसि व्यवस्थितषिभाषयापि सिद्ध नि रुपसर्गार्थ आरम्भः।
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने (पासू०२-३-६१) । इज्यतर्दैवादि कस्य गत्यर्थस्य लोपमध्यमपुरुषैकवचनं प्रेष्येति तत्साहचर्याद अविः रपि तथाभूतो गृह्यने । देवतासम्प्रदानं यस्यार्थस्य तत्र वर्तमानयोः प्रे. ज्यब्रहीत्येतयोः कर्मणोहविर्विशेषस्य वाचकाच्छब्दात् षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्यानुब्रूहि वा । प्रेष्यब्रुवोः किम् ? अग्नये छागं हविर्वपामंदो जुहुधि । हविषः किम् ? अग्नये गोमयानि प्रेष्य । देवतासम्प्रदाने किम् ? माणवकाय पुरोडाशान्प्रेण्य ! हविषा प्र. स्थितत्वेन विशेषण प्रतिषघा वक्तव्यः (का० वा०) । इन्द्राग्निभ्यां छागं हविर्वपाम्मेदः प्रस्थितं प्रेष्य इह सूत्रे शेषग्रहणं न सम्बध्यते , तिङ. न्तेन समासस्याप्रसक्तत्वात् । इदश्च भाषायामपि प्रवर्तते , उत्तरत्र छ. न्दोग्रहणात ।
चतुर्थ्यर्थे बहुलं छन्दसि (पासु०२-३-६२) । षष्ठी स्यात् । पुरुष मृगश्चन्द्रमसे गोधाकालकादाघाटस्ते वनस्पतानाम् , वनस्पतिभ्य इत्यर्थः । बहुलग्रहणाच्चन्द्रमसश्चतुर्थी । षष्ठयर्थ चतुर्यात्यपि वकव्य. म् (काभ्वा०)। या खर्वेण पिबति तस्यै खर्वः। व्यत्ययवचनात्सिद्धम् ।
Page #252
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभत्यर्थप्रकरणम् ।
२४३
यजेश्च करणे (पा०सु०२-३-६३) । इद्द छन्दसि बहुलं षष्ठी स्यात् । घृतस्य घृतेन वा यजते ।
कृत्वोर्थप्रयोगे काले ऽधिकरणे ( पा०सु०२ - ३-६४ ) । इह षट्या विच्छिनमपि शेषग्रहणमनुवर्त्तते, उत्तरसूत्रे कर्मग्रहणात् । "कर्त्तरि च' (पा०सू०२-२-१६) इति हि नोक्तम् । शेषसम्बद्धं कर्मग्रहणं मानु. वृतदिति प्राञ्चः । वस्तुतो व्याख्यानमेव शरणम्, सन्निहितस्याधि करणस्य निवृत्तये वा कर्मग्रहणसम्भवात् । पञ्चकृत्वोह्रो भोजनम् । द्विरन्हो भोजनम् । शेषे किम् ? अन्यथा विधिरेवायं स्यात् । तथाच द्वि. रहन्यधीत इति सप्तमी न स्यात् । षष्टया बाधात् ।
कर्तृकर्मणोः कृति (पा०सु०२ - ३ - ६५) । शेषे इति निवृत्तम् । कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । भवतः शायिका । अपां स्रष्टा । कर्तृकर्मणोः किम् ? शस्त्रेण भेत्ता ।
स्यादेतत्, इह कर्तृकर्मभ्यां क्रिया आक्षिप्यते । तद्वाचीह धातुरेव | धातोश्च द्वये प्रत्ययाः - कृतस्तिङश्च । तत्र तिङः प्रयोगे "नलोक" (पा० सु०२-३-६९) इति प्रनिषेधेन भाव्यम् । ततश्च परिशेषात् कृद्योगपव षष्ठी भविष्यति तत् किं कृग्रहणेन ? मैथम्, तद्धितान्तस्य वारणीय. त्यात्, यथा कृतपूर्वीकटमिति । ननु कृतः कटः पूर्वमनेनेत्यस्मिन्वि प्रहे कस्य कर्मणि विधानाचेनैव कर्मणो ऽभिहितत्वात् द्वितीयया न भाग्यम् । एवं तदपवादभूतया षष्ठद्यापि इद्दाप्यनमिहिताधिकारात् । किश्च कृतशब्दस्य कटसापेक्षतया समासो दुर्लभः । एवं तद्धितोऽपीति चेत् ? अत्रोकं हरिणा
9
विशेषकर्म सम्बन्धे निर्मुकेऽपि कृतादिभिः । विशेषनिरपेक्षोऽग्यः ः कृतशब्दः प्रवर्त्तते ॥ अकर्मकत्वे सत्येवं कान्ते भावाभिधायिनि । ततः क्रियावता कर्मा योगो भवति कर्मणाम् ॥ अविग्रहा गतादिस्था यथा प्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥ इति ॥ अस्यार्थः-कृतादिभिः शब्देः कटादिसमभिव्याहारात् विशिष्टकर्म सम्बन्धे निष्कृष्य भुकेऽपि अनुभूतेऽपि कृतः पूर्वे कटोऽनेनेत्यवस्थायामिति भावः, तस्यामवस्थायां वृत्तिविरहात् । कर्मसामान्यव चमरेन्य एव कृतशब्दः प्रवर्तते वृद्धिं लभते । अविवक्षितकर्मतायां नेह प च्यते इत्यादावपि कर्मसामान्ये प्रत्ययाभ्युपगमादिति भावः ।
अविवक्षित कर्मणां भावे प्रत्यय इति मतान्तरमाह- अकर्मकत्व-इति ।
Page #253
--------------------------------------------------------------------------
________________
२४४ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे तृतीयान्हिके
ननुकर्म सामान्ये भावे वातप्रत्यये कृते सापेक्षत्वाभावात् "सुप्सुपा" इति समासे कृते "पूर्वादिनिः"(पा०सू०५-२-८६)"सपूर्वाञ्च" (पा००५-२८७) इति कर्तरि इनिप्रत्ययोऽस्तु नाम । कटस्य तु प्रथमपक्षे केनाभि. धान दुर्वारम् । यथा शक्यच "क्षुदुपहन्तुम" इत्यत्र क्षुधः कृत्यप्रत्य. घेन । मैवम्, तद्धितार्थनेकार्थीभूतस्य कृतशब्दार्थस्य निष्कृष्य कटेन सम्बन्धाभावात् ।
तदेतदाह-ततः क्रियावतेति । नन्वेवं क्रिययापि योगाभावे कथं द्वितीयेत्याशङ्याह-अविग्रहेति । विशिष्य ग्रहो ग्रहणं तद्रहि ताप्राधान्येनागृह्यमाणापीत्यर्थः । अयं भावः-गुणभूतयापि क्रियया कारकाणां सम्बन्धो दृश्यते, यथा कटं कृतवानिति । कृतःश. ब्दश्चायं पूर्व कृतमनेनेत्यस्मिनर्थे व्युत्पादितः। पूर्व कृतवानित्यनेन समानार्थः सम्पद्यते । तत्र करोतिक्रियापेक्षमस्ति कटस्य कमत्वम् । अनमिहितञ्चनत । अतोऽसति कृद्रहणे षष्ठी स्यादेवेति स्थितम् ।
स्यादेतत् , ओदनः घच्यतेतमां, "गुरुर्धरित्री क्रियतेतरान्त्वया" (माको०) इत्यादावपि ओदने धरियादेः कर्मणः क्रिययैव योगाद् दि. तीवैव स्यात् । क्रियाविशेषणीभूतेन लकारार्थेन कर्मान्वयश्चेत् कार्थेनाप्यस्तु । क्रियायाः कारकेष्विव शक्तेरपि शक्तिमत्युत्थिताकासक. त्वाविशेषात् । किश्चास्तु नाम कथश्चित् क्तार्थपरित्यागेन वृत्तिः, राज पुरुषादौ सहयाविशेषस्य मासजातादौ गुणप्रधानभावादेश्च बहुश. स्त्यागदर्शनात् । तथापि कृब्रहणं व्यर्थमेव, "नलोक" (पासु०२-३६९), इति निष्ठायोगे निषेधसिद्धेः। निष्ठान्तधातूपातक्रियायोगे न भ. वतीति हि तदर्थः । 'ग्रामं गतवान्' इत्यादावपि कारकाणां क्रिययेवान्वयात् । न च 'पाचयति यज्ञदत्तो देवदत्तेन' इत्यत्र णिप्रकृत्य. में प्रति कर्तुः प्रयोज्याषष्ठी वारयितुं कृद्रहणम् । णित् तु न कृदिति बाच्यम, लयोगे नेत्येव निषेधसिद्धेः । लप्रकृत्या लान्तपदेन वा या क्रियोपाता तद्योगे नेत्यर्थात् । सा च क्रिया गुणभूता प्रधानभूता वे. स्यत्र नाग्रहः । गौणमुख्यन्यायतु नाश्रीयते, लक्ष्यानुरोधात स्वरितेना. धिकः कार इति व्याख्यानाच्च । अत एव तत्र तृतीया लभ्यते । 'मे. दिका देवदत्तस्य' 'यज्ञदत्तस्य काष्ठानाम्" इत्यत्रोभाभ्याम्बां प. ध्यप्यत एव । तस्माधर्य छद्रहणमिति ।
अत्राहु, कृत्येव यथा स्यात्तद्धिताधिक्ये मा भूदिति छद्रह णम् । व्याकरणं प्राक्षः । “प्रज्ञादिभ्यश्च" (पा०सु०५-४-३८) इति स्वार्थेऽण् । एवञ्च वदतां मते 'मोदनस्य पाचकः '
Page #254
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
इत्यत्रापि षष्ठी नेति लभ्यते । कृतपूर्वीतिवत्कर्तव्यपूर्वीत्यादेर. भ्युपगमे तु तव्यदाद्यन्तेन समासादिनौ कृते कुद्धहणण्यावर्त्यतापि सम्भवति । भाष्यं त्विहोदासीनमेवेत्यभियुक्त प्रयोगा अन्वेषणीयाः । " धन्तर्हि धयै रामोदमुत्तमम्" इति भट्टिः । उच्यते, अनित्येयं षष्ठी, तदर्हमिति निर्देशात् । द्विकर्मकेभ्यस्तु कर्तरि कृति कृते प्रधाने नियताषष्ठी, गुणे तुझ्यथा भवेदित्यकथित सूत्रे एवोक्तम् ।
उभयप्राप्तौ कर्मणि (पा०सु०२-३-६६ ) । उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन । अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम् (का०वा० ) । भेदिका बिभित्सा वा रुद्र स्य जगतः । कथन्तर्हि किना बाधा न भवतीति, “स्थागापापचोभावे” (पा०सु०३-३-९५ ) इति सूत्रे वृत्तिः । तथा सुटा सीयुटो बाधा न भवतीति, "सुतिथोः " (पा०पु०३-४-१०७ ) इत्यत्र वृत्तिः । अत्र रक्षितः-अप्रत्ययादित्यकारप्रत्ययस्येह ग्रहणम्, प्राथम्यात् । बाधाशब्दे तु "गुरोश्च हलः" (पा०सू०३-३-१०३) इत्यकार इत्याह करणत्वविव क्षायां तृतीयेति वा बोध्यम् । शेषे विभाषा (का०वा० ) । स्त्रीप्रत्ययवि पयमेवेदमित्येके । विचित्रा सूत्रस्य कृतिः पाणिनेः पाणिनिना वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणा चार्यस्य वा ।
कस्य च वर्तमाने (पा०सू०२-३-६७) । वर्तमानार्थकस्य योगे षष्ठी स्यात् । " नलोक" (पा०सु०२-३-६९) इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा । "मतिबुद्धिपूजार्थेभ्यश्च" (पा०सु०३-२-१८८) इति वर्तमाने कः । कथन्तर्हि नपुंसके भावे क्तस्य योगे षष्ठी, 'छात्र• स्य हसितम्' इति शेषविज्ञानात्सिद्धम् । कर्तृत्वविवक्षायां तृतीयैव, 'छात्रेण हसितम्' इति ।
२४५
•
अधिकरणवाचिनश्च ( पा०सू०२ - ३ - ६८ ) । कस्य योगे षष्ठी स्यात् । इदमेषां शयितम् । इह कर्तरि षष्ठी । सकर्मकेभ्यस्त्वधिकरणे के कृते कर्तृकर्मणोर्द्वयोरपि षष्ठी, अनभिहितत्वाविशेषात् । इदमेषां भुकमोदन. स्य । "उभयप्राप्तौ कर्मणि" इत्ययं तु नियमः "कर्तृकर्मणोः कृति" इत्यस्था एव प्राप्तेः । इह गत्यर्थेषु धातुष्वयं भवति । इदमेषां गतमित्यधिकरणे । इदमेते गता इति कर्तरि । इदमेभिर्गतमिति कर्मणि । इहैभिर्गतमिति नपुंसके भावे । कर्तृविवक्षाया इदमेषां गतमिति तत्रैव शेषविवक्षायाम् ।
नलोकाव्ययनिष्ठाखलर्थतृनाम् (पा०सू०२-३ - ६९ ) । जिघृक्षितरूपविनाशप्रसङ्गात् तृनामिति णत्वं न कृतम् । एषां प्रयोगे षष्ठी न स्यात्
Page #255
--------------------------------------------------------------------------
________________
शब्दकौस्तुभ द्वितीयाध्यायतृतीयपादे तृतीयान्दिके
"कर्तृकर्मणोः कृति" (पा०सु०२-३-६५) इति प्राप्ता प्रतिषिध्यते । ला देशा:- ओदनं पचन् पचमानः पेचानः पेचिवान् । कथन्तर्हि - "बम्रिर्वज्रं " "पपिः सोमं” “ददिर्गाः" इति । नहि किकिनी लकारौ नापि तदादेशौ । नैष दोषः, "किकिनौ लिट्च" (पा०सू००३-२-१७२) इत्यनेन लिटकार्यातिदेशः क्रियते, न तु लिट्संज्ञा । "विशेषातिदेशे च सामान्यमप्यतिदिश्यते" इति । उ--कटं चिकीर्षुः । कन्यामलङ्करिष्णुः । उक--वाराणसीमा. गामुकः । कमेर्भाषायामनिषेधः (का०वा० ) । लक्ष्म्याः कामुकः । अन्यये—कटं कृत्वा । तोसुन्कसुनोरप्रतिषेधः (का०वा० ) । पुरा सूर्यस्योदेतो. राधेयः । पुरा कूरस्य विसृपोविरप्शिन् । निष्ठा - ओदनं भुक्तवान् । देवदत्तेन कृतम् । खलर्थ-वया सुकरम् । ईषत्पानः सोमो भवता । तृन्निति प्रत्याहारः, “शतृशानची" इत्यारभ्य तृनो नकारात् । तेन शनिप्रभृतीनामपि ग्रहणम् । सोमं पवमानः । " पूयजेोः ज्ञानन्” ( पा०सु०३-२-१२८ ) । नटमान (नः । " ताच्छील्यादिषु चानशू” अधीयन् पारायणम् । "इङ्घार्योः" ( पा०सू०३-२-२३० ) इति शता । तृन्, पाता सुतमिन्द्रो अस्तु सोमम् । द्विषः श तुर्वा । मुरस्य मुरं वा द्विषन् । सर्वत्र कारकषष्ठ्याः प्रतिषेधः । शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । सत्यानुरक्ता नरकस्य जिष्णवः । छात्रस्य हसितम् । जनिकर्तुरित्यादि ।
वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ।
२४६
अपि धागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् । ( कि०का०९-२) इति च ।
यद्वा, "इक्ष्वाकूणां सिद्धयः" इत्यन्वयो न तु "इक्ष्वाकूणां दुरापे" इति । तथा " वागधिपस्य विस्मयम्" इत्यन्वयो न तु "वागधिपश्य दुर्वचम्" इति दिक् । इह उश्च उकश्च ऊकाविति व्युत्पाद्य लच ऊकौ चेति विग्रहीतव्यम् । ऊकारेण च कृतो विशेषणात्तदन्तविधिः । व्यपदेशिवद्भावात्केवलेनापि निषेधः ।
अनोविष्यदाधमर्ण्ययोः (पा०सु०२-३ - ७० ) । भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थे नश्च योगे षष्ठी न स्यात् । एधानाहारको वजति । ब्रजङ्गामी । द्वितीयासमासप्रसङ्गे व्युत्पादितमेतत् । अधम- शतं दाबी | भविष्यदिति स्वर्यते । तेन भविष्यदधिकारविद्दितस्व ग्रहणा
- वर्षशतस्य पूरकः । पुत्रपौत्राणां दर्शकः । अयं हि "युन्दची" (पा०सु०३-१-१३३) हत्यविशेषेण विहितो न तु "तुमुण्डुलौ" (पा०सु० ३-३-२० ) इतिवद्भविष्यदधिकारस्थः । इह यथासंख्यं वारवितुं माध्ये
Page #256
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम्। २४७ योगो विभक्तः । अकस्य भविष्यति, इत आधमय चेति ।
छत्यानां कर्तरि पा (पा०सू०२-३-७१) । षष्ठी वा स्यात् । "कर्तृ. कर्मणो कृति" (पासू०२-३-६५) इति नित्यं प्राप्त विभाषेयम् । कर्तव्य. मिदं कृष्णेन कृष्णस्य वा । कर्तरीति किम् ? गेयो माणवकः सानाम् । "भव्यगेय" (पा.सु०३-४-६८) इति कर्तरि यद्विधानादनभिहितं कर्म । इहापि भाग्ये योगविभागः कृतः । तद्यथा-कृत्यानाम् । उभय. प्राप्तौ नेत्यनुवर्तते । नेतव्या व गावः कृष्णेन । इह प्रधाने कर्मणि गवारये कृत्यः, अप्रधानकर्मणः कर्तुश्च । कृत्येनानभिधानाषष्ठी प्राप्ता निषिध्यते । ततः कर्तरि वा ॥ षष्ठी स्यात् । अन्यत्सर्व निवृत्तम् ।
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् (पा०१०२-३-७२) । तुल्यायोगे तृतीया वा स्याच्छेषे, पक्षे षष्टी । तुल्यः सरशः समो वा कृष्णेन कृष्णस्य वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कमणस्य नास्ति । कथन्तर्हि "तुलां यदा रोहति दन्तवाससा" इति कालिदा. सः। "स्फुटोपमं भूतिसितेन शम्भुना"(मा०का०१-४) हात माघश्च ।
अत्राहः, तोलनं तुला। अस्मिन्नेव सूत्रे "णिलुगकोः"निपातनात्साध. रिति माधवः। उपमितिरुपमा । तत्र धात्वर्थ प्रति करणीभूतयोः दन्तः वासाशम्भुशब्दयोस्तृतीया युक्कैव । यथा-उपमीयतेऽनेनेत्यादौ । प्रकृ. नसूत्रं तु शेषे षष्ठ्यपवादभूततृतीयाविधायकम् । नेह प्रवर्तते इत्यन्य. देतत्।
यद्वा, "सहयुक्त प्रधाने" (पा०सू०२-३-१९)इति तृतीयाऽस्तु । "स्ववालभारस्य तदुत्तमाङ्गजैः समचर्येव तुलाभिलाषिणः । इत्यत्र यथा । उक्तं हि, विनापि तद्योगं तृतीया । "वृद्धो यूना"(पा० सु०१-२-६५) इति निदर्शनादिति । तुल्यायरित्यर्थग्रहणात द्योतकानामिवादिशब्दानां योगे न, गौरिव गवयः । यथा-गौस्तथा गवय इति । वेति वर्तमाने अन्यतरस्यां ग्रहणमुत्तरसूत्रे चकारेण स्वम्यानुकर्षणार्थम । अन्यथा हि तृतीयैवानुकृष्येत, सन्निहितत्वात् । __ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः (पा०९०२-३७३)। सुखपर्यन्तानां द्वन्द्वाः । ततोऽर्थशब्देन बहुव्रीहिः। तथा च द्वन्द्वान्ते श्रयमाणात्प्रत्येकमर्थशब्दः सम्बध्यते । मद्रभद्रशब्दयोः पर्या. यतया सुत्रेऽन्यतरोन पठनीयः । केचित्तु अर्थशब्दोऽपि पृथगेव निमि त्तम् । व्याख्यानाच सर्वत्रार्थग्रहणमित्याहुः । आशिषिगम्यमानायामे. तैयोगे शेषे चतुर्थी वा स्यात, पक्ष षष्ठी। आयुष्यं चिरशाषितं देव. दत्ताय देवदनस्य वा भूयात् । एवं मद्रं भद्र कुशलं निरामयं सुसं
Page #257
--------------------------------------------------------------------------
________________
२४८ शब्दकौस्तुभद्वितीयाण्यायचतुर्थपादे प्रथमान्हिकेअर्थः प्रयोजनं हितं पथ्यं भूयादित्यादि । हितयोगे चतुर्थी वतम्या (कावा०)। इत्यस्य मनाशिषि चरितार्थत्वादाशिष्यनेन विकल्प एव । माशिषीति किम् ? देवदत्तस्यायुध्यमस्ति । इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य तृतीये पादे तृतीयमान्हिकम् ।
॥ समाप्तश्चायं पादः ॥
विगुरेकवचनम् (पा सु०२-४-१) । वक्तीति वचनम् । बाहुलका. स्कर्तरि ल्युट् । सामान्ये नपुंसकम् (का०वा०)। समाहारद्विगुरेकार्थप्र. तिपादकः स्यात् । "तद्धितार्थ (पासू०२-१-५१) इति सूत्रे हि भावसा. धन एवं समाहार इति स्थितम् । तथा च न्यायसिद्धमेतत् । कर्मसा: धनताभ्रमं वारयितुमारभ्यते "स नपुंसकम्" (पा०स०२-४-१७) इत्य. स्थ प्रवृत्यर्थ च । दृश्यते च भ्रमनिवृत्तयेऽपि सत्रकृतो यत्नः। यथा"उपकादिभ्योऽन्यतरस्यामद्वन्द्वे" (पासू०२-४-६९) इति । तत्र हि अद्वन्द्वइत्यस्य द्वन्द्वग्रहणं नानुवर्तते इत्यर्थो भाग्ये स्थितः ।
चन्द्रश्च प्राणितूर्यसेनाङ्गानाम् (पा०स०२-४-२) । प्राण्यङ्गानां इन्द्र एकार्थः स्यात् । एवं तूर्याङ्गानां सेनाङ्गानाश्च । पाणिपादम् । मार्दङ्गिक पाणधिकम् । रथिकाश्वारोहम् । इह प्राणिसेनयोरङ्ग नामावयवः । तूर्यस्य तु अङ्गं नामोपकारकं बोध्यम् । 'माईङ्गिक' इत्यादी मृदङ्गवादनं शि. ल्पमित्यर्थे "शिल्पम्"पासू०४-४-५५) इति ठक। पाणिपादम्' इत्यादौ "जातिरप्राणिनाम् (पासू०२-४-६) इत्येव सिद्ध व्यतिकरनि. रासार्थ वचनम् । 'हस्त्यश्वं' 'हस्त्यश्वाय' इत्यत्र तु सेनाङ्गत्वेऽपि परत्वात्पशुलक्षणो विकल्प इति "विभाषा वृक्षे" ( पा०सु०२-४-१२) इत्यत्र भाष्यकैयटयोः स्थितम् । अथ कथं "रथवाजिपत्तिकरिणीसमा. कुलम्" इति । नपुंसकहस्वत्वेन हि भाव्यम्।
उच्यते, रथादिसहिताः करिण्ये इति मध्यमपदलोपी समासो बोध्यः। यद्वा, रथश्च वाजी चेत्यादि विग्रहः ।जातावेकवचनम् । "फलसेनादीनां बहुप्रकृतिः" इति वक्ष्यमाणत्वात्रैकवद्भावः। एतेन "पातितैरथनागाश्वैः" इति । "इत्यं रथाश्वेभनिषादिनां प्रगे। (माका०१२-१) इति माघश्च व्याख्यातः । इहापि मध्यमपदलोपादेक. वचनान्तेन विग्रहाद्वा ।
यद्वा, कृतद्वन्द्वानामेकशेषः। तथा च "तिस्त्रीणि त्रीणि' (पा० सु०९-४-१०१) इति सूत्रे "लुटःप्रथमस्य" (पासू०२-४-८५) इति सूत्रे
Page #258
--------------------------------------------------------------------------
________________
विधिशेष प्रकरणे एकवद्भावप्रकरणम् ।
१४९
च भाष्यम् - - ' 'उभयं हीष्यते बहूनि शक्तिकिटकानि" इति । माघटिप्पणे -- "रचतुरङ्ग। श्वेभे निषीदन्ति” इति णिन्यन्तेनोपपदसमास इर्ति समाधानान्तरं सारम् । यद्यपि "चार्थे द्वन्द्वः" ( पा०सू०२-२-२९ ) इत्येवेतरेतरयोगे समाहारे च द्वन्द्वो विहितः, समाहारस्यैकत्वाश्च सिद्धमेकवचनं, तथापि नियमार्थमिदं प्रकरणम्प्राण्यङ्गादीनामेकवचने द्वन्द्व एव । समाहारद्वन्द्व एवेत्यर्थः । न च समाहारे एषामेवेति विपरीतं ग्राह्यम्, "तिष्यपुनर्वस्वोः " ( पा०स्०१२-६३) इति सूत्रे बहुवचनग्रहणात् तद्धि समाहारैकवचनव्यावृत्तये क्रियते तिष्यपुनर्वस्विदमिति ।
अनुवादे चरणानाम् (पा०सू०२-४-३) | चरणानां द्वन्द्व एकवत्स्यात् । चरणशब्दः कठकालापादिषु शाखाभेदेषु मुख्यः । तदध्यायिषु पुरुषेषु गौणः । उभयेषां चैषां "गोत्रञ्च चरणैः सह " (का०वा० ) इति जातिसंज्ञा । तत्र शाखाभेदवाचिनां "जातिरप्राणिनाम्" (पा०सु०२-४-६ ) इत्येकवद्भा वस्य सिद्धत्वाङ्गौणोऽपि पुरुषवृत्तिरेवेह गृह्यते । उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् । इह यदा कठकालापेषूदितेषु प्रतिष्ठितेषु चाषा. भ्यां तत्र गन्तव्यमिति संवादं कृत्वा तश्च विस्मृत्य कश्चिदास्ते तत्र प्रतीदमुच्यते- ननृद्गात्कठकालापन्तरिकमास्यते इति । अतो भवत्यनुवादः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः । "कठचरकाल्लुक्" (पा०सु०४-३-१०७) ' तदधीतेतद्वेद" ( पा०सु०४-२-१९) इत्यण् । " प्रोक्ताल्लुक्” ( पा०सू०४-२-६४ ) । कलापिशब्दात् "कलापिनोऽण्" (पा०सु०४-३ - १०८ ) " नान्तस्य टि. लोपे सब्रह्मचारि" (का०वा० ) इत्यादिना टिलोपः । अध्येत्रणो लुक् । एतेन कौथुमो व्याख्यातः । यदा तु उदयप्रतिष्ठे नानूद्येते, किन्तु अ. ज्ञाते शाप्येते तदा प्रत्युदाहरणम् - उदगुः कठकालापाः । स्थेणोर द्यतन्यामेवेति वाच्यम् । स्थेणोः किम् ? अनन्दिषुः कठकालापाः । अद्यतन्यां किम् ? उद्यन्ति कठकालापाः ।
अध्वर्युक्रतुरनपुंसकम् ( पा०सु०२-४-४) । अध्वर्युशब्दो यजुर्वेद. लक्षकः । तत्रोत्पन्नो विनियुक्तो वा यः क्रतुः तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । साइनातिरात्रम् | अध्वर्युक्रतुः किम् ? ६षुवज्रौ । उद्भिद्वलभिदौ । सामवेद एषां विधानम् | अ नपुंसकमिति किम् ? राजस्यवाजपेये । इमौ हि शब्दावर्द्धर्चादिषु प· ठितौ । यदा नपुंसकलिङ्गौ तदा प्रत्युदाहरणम् ।
अध्यनतोऽविप्रकृष्टा स्थानाम् (पा०सु०२ - ४ - ५ ) । अध्ययनेन मि.
Page #259
--------------------------------------------------------------------------
________________
२५०
शब्दकास्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके
मित्तेन येषामविप्रकृष्टा प्रत्यासन्ना आख्या तेषां द्वन्द्व एकवत्स्यात् । - पदककमकम् । पदान्यधीते पदकः । क्रमादिभ्यो वुन् (पा०सु०४-२६१) एवं क्रमकः । क्रमकवार्तिकम् । वृत्तिः संहिता, तामधीते वार्तिकः। उक्थादिपाठाक् । पदान्यधीत्य क्रमोऽध्येतव्य इति स्पष्टा प्रत्यास. तिः । क्रमकवार्तिकमित्यत्र तु संहितामनधीत्य कमोऽध्येतुं न शक्यते इत्येव प्रत्यासत्तिबोध्या । अध्ययनत इति किम् ? पितापुत्रौ । अषि. प्रकृष्टाख्यानां किम् ? याशिकवैयाकरणौ।
जातिरप्राणिनाम् (पा०सु०२-४-६)। प्राणिवर्जजातिवाच्यवयषको द्वन्दू एकवत्स्यात् । आराशस्त्रि । आराप्रतोदः । जातिः किम् ? नन्दक. पाशजन्यो । संशाशब्दावेतो। ___ खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ।।
मप्राणिनां किम ? ब्राह्मणक्षत्रियविशुद्राः । नवियुकन्यायेन द्रव्यजातीनामेकवद्भावो न गुणक्रियाजातीनाम् । रूपरसौ । गमना. कुधने । जातिप्राधान्य एवायमेकवद्भावः । यदा तु द्रव्यविशेषविवक्षा तदा बदरामलकानि । जातिविवक्षायान्तु वदरामलकम् । इहैकवद्भा. वो वैकल्पिक इति भाग्यस्वरसः । तथाच "विभाषा वृक्षमृग" (पासू०२-४-१२) इति सूत्रे "बहुप्रकृतिः" (काभ्वा०) इत्यादि वार्ति कमुपक्रम्य बदरामलकं बदरामलकानीत्युदाहृतं भाष्ये । बदरामळ. कानीति प्राप्ते इत्यर्थ व्याचक्षाणानां मते तु नित्यमेवेति तत्रैव कैयटः। अत एव "तस्य भावस्त्वतलौ" (पासू०५-१-११०) इति सूत्रभाष्यस्थ ओषधिवनस्पतीनामिति प्रयोगः सङ्गच्छते ।भाष्यप्रयोगात्रैकवद्भाव इति वदन् कैयटस्तु जातिविवक्षायामपि एकवद्भावाभावं मेने । एवं "लटःशतृशानचौ"(पासू०३-२-१२४)इति सूत्रस्थभाष्यकैयटादिग्रन्थो बोध्यः । कथं तर्हि "रञ्जितानुविविधास्तरुशैलाः" इति भारविः । न. ह्यत्र व्यक्तिविशेषविवक्षा ? सत्य, तरुसहिताः शैला इति बोध्यम् ।।
विशिष्टलिङ्गो नदीदेशोऽग्रामाः (पा०सु०२-४-७)। अग्रामा इत्ये. कवचनस्य स्थाने सौत्रं बहुवचनम्। विशिष्टलिङ्गानां भिन्नालिङ्गानां नदीवाचिनान्देशवाचिनाश ग्रामवर्जितानां द्वन्द्व एकवत् स्यात् । सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणावयविनि द्वन्छ बोध्याः । नदीदे. श इत्यसमासनिर्देशः । उध्यश्च इरावती च उध्येरावति । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिनाः किम् ? गङ्गायमुने । मद्रकेकयाः। नदीदेश इति किम् ? कुक्कुटमययों। अग्रामाः किम ? जा. म्म नगरं, शालकिनी प्रामः, जाम्बवशालूकिन्यो । अत्र पूर्वपदार्थः
Page #260
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे एकवद्भावप्रकरणम् २५१ स्य अग्रामत्वेऽपि उत्तरपदार्थस्य ग्रामत्वात्तदाश्रयः प्रतिषेधः । तदु. कम् "उभयतश्च प्रामाणां प्रतिषेधो वक्तव्यः" इति । नदीग्रहणमदे. शत्वात् । जनपदो हि देशः । अत एव पर्वतानां न-कैलासश्च गन्धमा. दनं च कैलासगन्धमादने ।
क्षुद्रजन्तवः (पा०पू०२-४-८) । एषां द्वन्द्व एकवत्स्यात् । यूकालि. क्षम्। आनकुलात् क्षुद्रजन्तवः।
येषाञ्च विरोधः शाश्वतिकः (पासू०२-४-९)। येषां नित्यं वैरं तेषां द्वन्द्व एकवत्स्यात् । गोव्याघ्रम् । गजसिंहमित्यादि । विरोधो वैरं न तु सहानवस्थानादिः, 'छायातपो' इत्यादावतिव्याप्तेः । शश्वदिति त्रैकाल्यमाह । तत्र भवः इत्यर्थे "काला" (पा०४०४-३-११)। तान्तात्परत्वेऽपि निपातनादिकादेशः । अव्ययानां भमात्रे"(का०वा०) इति प्राप्तस्य टिलोपस्याभावश्च सामान्यापेक्षमिकस्य केनाबाधे ज्ञाप. कमिदम् । तेन कान्दाविकादि सिद्धमिति कश्चित् । वस्तुतस्तु कन्तुः स्वेदनी, तत्र "संस्कृतं भक्षाः" (पा०म०४-२-१६) इत्यण् । कान्द. वम् । तदस्य पण्यम्"(पा०पू०४-४-५१) इति ठक् । शाश्वतिकः किम्? चैत्रमैत्री कलहायते । एतेन "देवासुरैरमृतमम्बुनिधिर्ममन्थं" इति भारविप्रयोगो व्याख्यातः । तेषां हि अमृतादिप्रयुक्तः कादाचित्को विरोधो न तु नित्यः, मन्थनप्रवृत्तिकाले तद्विरहात् । इह (१)पशुशकुनिन्द्रावकाशो-महाजोर_, महाजोरभ्राः। हंसचक्रवाकं, हंसच. क्रवाकाः । "येषां च" (पा० सू०२-४-९) इत्यस्यावकाशः-श्रमणब्राह्म. णम् , मार्जारमूषकम् , अश्वमहिषं, काकोलूकमित्यत्रोभयप्रसङ्गे पर• त्वा:पशुशकुनि विभाषा प्राप्ता चकारेण पुनर्विधानाद् "येषांच" इति नित्यमेव भवति।
शद्धाणामनिरवसितानाम् (पा०सू०२-४-१०)। अबहिष्छतानां शद्राणां द्वन्द्व एकवत्स्यात् । तक्षायस्कारम् । रजकतन्तुवायम् । शदशब्दोऽत्र त्रैवर्णिकेतरपरो न तु शुद्रत्वजातिपरः, अनिरवसितानामिति प्रतिषेधात् । निरवपूर्वात्स्यतेः कर्मणि कः। निरवसानं बहिष्करणम् , तच्चेह पात्राद्विवक्षितम् । यैर्भु के पात्रं न शुध्यति "भस्मना शुध्यते का. स्यम्" इत्यादिस्मृतिकारक्तसंस्कारणापि ते पात्रादहिष्कृताः । अ. निरसितानां किम् ? चण्डालमृतपाः।
गवाश्वप्रभृतीनि च (पा०१०२-४-११) । एतानि द्वन्द्वरूपाणि कृते.
(8) "विभाषा सम्म" (पा० स०२-५-२२) इति विहिवन्द्र स्यावकाश इत्व।
Page #261
--------------------------------------------------------------------------
________________
२५५ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिकेकवद्भावानि साधूनि स्युः । गवाश्वकम् । गवाविकम् । गवैडकम् । अजाविकम् । अजैडकम् । एषां पशुद्वन्द्वाविभाषायां प्राप्तायां वचनम् । कुब्जवामनम् । कुजकैरातम् । पुत्रपौत्रम् । श्वचाण्डालम् । स्त्रीकु. मारम् । दासीमाणवकम् । उष्ट्रस्तरम् । शाटीप्रच्छदम् । इहाप्राणिजा. तिवाचिनामबहुप्रकृत्यर्थः पाठः। उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरी. बम् । यकृन्मेदः । मांसशोणितम् । दर्भपूतीकम् । अर्जुनपुरुषम् । तृणो. लयम् । दासीदासम् । अत्र "पुमान् स्त्रिया' (पा०सु०१-२-६७) इत्ये. कशेषो न । कुटीकुटम् । मांसशोणितम् । भागवतीभागवतम् । गवा श्वप्रभृतिषु "यथोचारितं बन्धवृत्तम्" इति वार्तिकम् । गणपाठे रूपमेषां विवक्षितं न तु पूर्वोत्तरपदनिर्देशमात्रे तात्पर्यमित्यर्थः । तेन अव. जादेऽशोभावपक्षे न भवति। अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोमश्वाः।
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधः रोत्तराणाम् (पासू०२-४-१२) । वृक्षादीनां सप्तानां द्वन्द्वः अश्ववडके. त्यादि द्वन्द्वत्रयं च विभाषा एकवत्स्वात् । वृक्षादौ विशेषाणां प्रहणम् । तथाहि, वृक्षादिशब्दैः प्रत्येक द्वन्दो विशेष्यते । न चैको वृक्षशब्दो बम्बः । न च द्वयोः सहप्रयोगः, एकशेषात् । एवं पर्याययोरपि, वि.
पाणामपि समानार्थनामेकशेषारम्भात् । नापि 'वृक्षश्च धवश्व' इत्यादि, सामान्यविशेषयोर्वाचनिकद्वन्द्वनिषेधस्योकत्वात् । न च प्रा. ज्यभरतग्विति निर्देशादनित्यः स इति वाच्यम् , तथापि 'वृक्षवम' इत्यादि, प्रयोगादर्शनेन निषेधस्यैव प्रकृते प्रवृत्तेः । तस्माविशेषाणामे. घेह ग्रहणं स्थितम् । प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः । रुरुपृषतम्, रुरु. पृषताः।कुशकाशम् , कुशकाशाः । ब्रीहियवम्, व्रीहियवाः ।दधिघृतम्, वधिघृते । गामहिषम्, गोमहिषाः । तित्तिरिकपिञ्जलम , तित्तिरिकपि. अलाः । अश्वबडवम् , अश्ववडवो। पूर्वापरम् , पूर्वापरे । अधरोत. रम , अधरोत्तरे।
अत्र वार्तिकम्-बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रज. न्तुधान्यतणानामिति (कावा०) । एषां बहुप्रतिरेव बन्छ एकवदि. त्वर्थः । मेह-बदरामलको, रयिकाश्वारोही, प्लक्षम्यग्रोधावित्यादि । इदं वार्तिकं विध्यन्तरशेषभूतं न तु स्वातन्त्रेण विधायकम् । विधि: स्वं हि समित्यत्तर्हि वनस्पत्यादीनामेतत्सूत्रोपातानामपि बहुप्रक. हिरवे विकल्प बाधित्वा नित्यं स्यात् । अबहुप्रकृतिकत्वे च सौत्रो वि. कल्पः स्यात् । वैकलिएकत्वे तु फलादीनामपि "नातिरप्राणिनाम्"
Page #262
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे एकवद्भावप्रकरणम् । २५३ (पासू०२-४-६) इत्यादिलक्षणान्तरप्राप्तं नित्यमेकवद्भावं बाधित्वा बहुप्रकृतिकत्वे विकल्पः स्यात् । न च "बदरामलकं, बदरामलका. नि" इति भाष्यदर्शनादिष्टापत्तिरिति वाच्यम् , तत्र बदरामलकानी. ति काचित्कः पाठः, सोऽपि बदरामलकानात्येवं प्राप्ते जातिलक्षणो नित्य एकवद्भाव इति व्याख्येय इति कैयटेनोकत्वात् । यत्तु नित्ये एकवद्भावे प्राप्त विकल्पोऽनेन क्रियते इति मतान्तरं कैयटेनोक्तम् । तदापाततः, "बदरामलके तिष्ठतः" इति तदुत्तरभाध्यविरोधात् । उक्तरीत्या प्रकृ. तवार्तिकस्य बहुप्रकृतिके विकल्पविधिपरत्वे हि अन्यत्र नित्य एकवद्भा. वो दुर्वार: स्यादिति दिक् ।
तत्रापि यदि "विभाषा वृक्ष" (पा.सु०२-४-१२) इत्यत्र पठितत्वा. दस्यैव शेषः स्यात् , तदा वनस्पत्यादिवबहप्रकृतित्वे विकल्पाभा. वेऽपि "जातिरप्राणिनाम्' (पा०सू०२-४-६) इति नित्यो विधिः स्यात् । तस्मात्सर्वप्रकरणशेषोऽयम् । एषां फलादीनां द्वन्द्वोऽनेन लक्षणान्त. रेण वा एकवद्भवन् बहुप्रकृतिरेवेति। तेन "प्लक्षन्यग्रोधौ" इत्यत्र अयं विकल्पो "जातिरप्राणिनाम्" (पा०म०२-४-६) इति नित्यश्च न भवति । एवं व्रीहियवौ कुशकाशावित्यादि।
प्रकृतसूत्रोपात्तानान्तु इत्थं विषयविभाग:-त्राप्राणिनस्तेषां "जातिरप्राणिनाम" (पासू०२-४-६) इति नित्यं प्राप्ते विकल्पो विधीयते । स च तेषां तैरेव । तथाच वृक्षादनिामन्यैः सह द्वन्द्व यथाप्राप्तं नित्यं विकल्पो वा । तद्यथा-'बीहिकुशप्लक्षम्' इत्यत्र "जा. तिरप्राणिनाम्" (पासू०२-४-६) इति नित्यः । 'प्लक्षशब्दस्पर्श' 'प्लक्षशन्दस्पर्शाः' इत्यत्र तु "चार्थे द्वन्द्वः" (पा०स०२-२-२६) इत्युः भयत्र । न चेह "जातिरप्राणिनाम" (पा० सू०२-४-६)इत्यस्य प्रवृत्तिा, अद्रव्यजातित्वात् । अप्राणिनामिति हि पर्युदास इत्युक्तम् । पशुग्रह णन्तु हस्त्यश्वादिषु सेनाङ्गलक्षणस्य नित्यविधेर्बाधनार्थम् । मृगश. कुनिग्रहणं त्ववशिष्यते । तत्थं वचनं व्यज्यते-पो विभाषाप्राप्त एक. पचनो द्वन्द्वः स मृगविशेषाणां तैरेव नान्यैरिति । तेनैषामन्यैः सह इतरेतरयोग एवेति फलितम् । एवं 'पूर्वापरम्' 'अधरोत्तरम्' इत्य. प्रापि । पशुवन्द्वत्वादेव सिद्धे अश्ववडवग्रहणं प्रतिपदविधानार्थम् । तेनैकवद्भावपक्षे "पूर्ववदश्ववडवौ" (पा०स०२-४-२७) इत्येतद्बाधिस्वा "स नपुंसकम" (पा०स०२-४-१७) इति प्रवर्तते । तच्छन्दो हि पकवद्भावमा परामशति । तेन एकवद्भावनपुंसकत्वमपि प्रतिप. विदितं सम्पयते । “पूर्ववरश्क्वाडौ" (पा०३०२-४-२७) इति खेक
Page #263
--------------------------------------------------------------------------
________________
२५४ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिकेबद्भावविरहपक्षे प्रवर्त्तते । अश्ववडवौ। अश्ववडवान् ॥
विप्रतिषिद्धं चानधिकरणवाचि (पा०स० २-४-१३)। विरुया. नामद्रव्यवाचिनां छन्द्व एकवद्वा स्यात् । अत्रेदं नियमशरीरम्-य एकवचनो द्वन्द्वो विभाषा प्राप्तः, स यदि विप्रतिषिद्धवाचिनां भवति, तदा अद्रव्यवाचिनामेवेति । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः। विप्रतिषिद्धं किम् ? नन्दकपाञ्चजन्यम् । इह द्रव्यवाचित्वेऽपि पाक्षिकः समाहारद्वन्द्वो भवत्येव । यन्तु वृत्तौ का मक्रोधौ इति प्रत्युदाहृतं, तत्रापि 'शीतोष्णं' 'सुखदुःखम्' इत्यादा. विव पाक्षिकस्यैकवद्भावस्य दुरित्वात् । नियमार्थ हि प्रकृतसूत्रमिति स्थितम् । न च अद्रव्यवाचिनाद्भवति तर्हि विप्रतिषिद्धानामेवेति तदाशयः कल्यः, "शीतोष्ण उदके" इत्यत्र पाक्षिकैकवद्भावापत्त्या "अनधिकरणवाचीति किम् ? शीतोमे उदके" इत्येवंरूपस्वोक्तिविरो. धापत्तेः,सौत्रानुपूर्वीस्वरसभङ्गप्रसङ्गाति दिक।
न दधिपयआदीनि (पा० सु० २-४-१४) । एतानि नकवत्स्युः । दधिपयसी । मधुसर्पिषी । सर्पिर्मधुनी । इह त्रिषु व्यञ्जनस्वादिकल्पः प्राप्तः । ब्रह्मप्रजापती । शिववैश्रवणौ। स्कन्दविशाखौ। न चेह विरु पाणामपीति एकशेषः शङ्ख्यः, ___ "स्कन्दश्चैव विशाखश्च द्वौ सुतौ संबभूवतुः।"
इति महाभारतस्वरसेनापर्यायत्वनिर्णयात् । परिवादकौशिको । प्रवग्योपसदौ । शुक्लकृष्णे । इध्माबर्हिषी, निपातनादीर्घः। दीक्षात प. सी। श्रद्धातपसी। मेधातपली। अध्ययनतपसी । उलूखलमुसले । आघवसाने । श्रद्धामेधे । ऋक्सामे । वाङ्मनसे । इह ब्रह्मप्रजापत्या. दिषु समाहारद्वन्द्वनिषेधमुखेनेतरेतरयोगद्वन्दो व्यवस्थाप्यते । तत्सा. हचर्यात 'दधिपयसी' इत्यादावपि तथैव । तेन तत्र व्यखनत्वप्रयुक. विकल्पे निषिद्धेऽपि जातिलक्षणो नित्य एकवद्भावोऽस्त्विति न राहनीयम् । किञ्च नेह लक्षणविशेष आग्रहः, एकवद्भावमात्रस्य निषे. धाव । यथा "न षट्स्वनादिभ्यः" (पा० स०४-१-१०) इत्यत्र खियां यदुकं तत्रेति सामान्यतो निषिद्धपते । तथाच वक्ष्यति-दोषस्विर तस्माचोमाविति । ननु भवेदेवं यदि "जातिरप्राणिनाम्" (पा०२० २-४-६) इति विधि: स्यात्, निषेधस्तु सः । तथाच तेनेतरेतरयोगे प्रकृतस्त्रेण समाहारे च निषेधाधिपयादीनां द्वन्द्व एव न लभ्येत । . अनोच्यते-नियमवाक्यानां विधिरूपेण निधरूपेण वा प्रवृत्ति रिति पक्षवयं तावत्प्रत्ययलक्षणसुत्रे उपादितम् "द्युयो लुडि"
Page #264
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे एकवद्भावप्रकरणम् ।
(पा० सू० १-३-९१) इत्यादौ भाष्यारूढं च । तत्र "जातिरप्राणिनाम्” (पा०सु० २-४-६ ) इत्यादी विधिमुखता पक्षस्यैव लक्ष्यानुरोधेनाश्र यणात्तस्य च "न दधि" (पा० सू० २-४ -१४) इत्यादिना निषेधासर्वे सुस्थम् ।
अधिकरणतावस्वे च (पा० सू० २-४-१५) । द्रव्यसङ्ख्यावगमे नै. कवत्स्यात् । दश दन्तोष्ठाः । ननु वर्त्तिपदार्थस्य सङ्ख्याविशेषे बोधनीये इतरेतरयोगद्वन्द्व एवेति न्यायसिद्धम् । अन्यथा हि "दशपञ्च पूल्यः" इति द्विगाविव प्रधानभूते समाहार एव दशत्वसधा अन्वियात् न तु समुदायादिषु तत्किं निषेधेन ? सत्यम, नानेन समाहारद्वन्द्वो निषिध्यते, किन्तु प्राण्यङ्गादीनां समाहार एवेति योऽसौ नियमः स एव निषिध्यते । असति हि निषेधे
पञ्चस्विद्दास्याङ्घ्रिकरेष्वभिण्या भिक्षाऽधुना माधुकरीसरक्षा |
इत्यादीनामसाधुत्वं स्यात् समाहार एवेति नियमेनेतरेतरयोगे द्वन्द्वस्य दुर्लभत्वात् । तथाच सङ्ख्यावगतावेकवदेवेति नियमो न स्या दिति सूत्रार्थः फलितः । तस्मादितरेतरयोगद्वन्द्वस्य प्रतिप्रसवार्थमि दम् । एतेन "दश दन्तोष्ठाः" इत्यादौ समाहारद्वन्द्वस्येवेतरेतरयोग. द्वन्द्वस्यापि दौर्लभ्याद्वाक्यमेव प्रयोज्यम् । अधिकरणैतावत्वेचेत्यनेन प्राण्यङ्गानां समाहार एवेत्यनेन चोभयोर्निषेधादिति प्रत्युक्तम् । “दश ब्राह्मण क्षत्रियाः" इत्यादौ प्रागुक्तन्यायबलेनैव समाहारद्वन्द्वो वारणीयः ।
२५५
विभाषा समीपे (पा०सू०२-४-१६) । अधिकरणैतावत्वस्य सामीप्येन परिच्छित्तौ समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदर्श दन्तोष्ठम् । उपदशा दन्तोष्ठा । । " अव्ययं विभक्ति" (पा०सु० २-१-६) इत्यादिना सुबन्तसामान्येन विधीयमानोऽव्ययीभावः सङ्ख्ययापि भवति । बहुव्रीहिस्तु “सङ्खघयाव्ययासन्ना” ( पा० सु० २-२-२५) इत्यादिना विशिष्य विहितः । तत्रैकवद्भावपक्षे अव्ययीभावो ऽनुप्रयुज्यते । एकार्थस्य त्वेकार्थ एवान्तरङ्गः । ऐकार्थ्यञ्च सामीप्यप्रधानत्वात् । यद्यप्यव्ययीभावो निःसङ्खयस्तथापि भेदाभावरूपमैकार्थ्यं बोध्यम् । सामानाधिकरण्यन्तु सामीप्यतद्वतोरभेदविवक्षया । अधिकरणतावस्वं तु समाहारसमाहारिणोरभेदविवक्षया । पक्षान्तरे तु बन्हर्थस्य बन्व्हर्थो बहुब्रीहिरेवानुप्रयुज्यते । बव्हर्थत्वञ्च तस्य समीपिप्राचान्यात् । यदि तूभयत्राव्ययीभाव एवानुप्रयुज्यते, तदा तस्याव्ययस्वाद्
Page #265
--------------------------------------------------------------------------
________________
२५६
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके
बहुत्वाभावाद्वहुवचनं न स्यात् । सत्यपि वा तस्मिसमभाषे ते 'उपदशा' इति न स्यात् , बहुव्रीहेरेवानुप्रयोगे तु उपदशस्य पाणि. पादस्येति षष्ठी स्यात् । उपदशं पाणिपादस्येति चेप्यते । तस्माद्यथोक्तमेव मनोरमम् ।
स नपुंसकम्(पा०स०२-४-१७। समाहारे द्विगुर्वन्तश्च नपुंसकास्या. तू । परल्लिङ्गापवादः । पञ्चगवम्। दन्तोष्ठम्। प्रकरणादेवानुवाघलामे सग्रहणमेतत्प्रकरणानुपात्तस्यापि समाहारद्वन्द्वस्य सङ्ग्रहार्थम् । तथा च “युवोरनाको” (पा०सू०७-१-१) इत्यादावुच्यते-युवोरिति समा. हारबन्। सनपुंसकम् (पा सू०२-४-१७) इति क्लीबत्वं स्यादिति । अत एव प्रयुज्यते "कार्यकालं संशापरिभाषम्" इति । अकारान्तोत्तरपदो विगुः खियामिष्टः (का०वा०)। अत इत्यधिकारे "द्विगोः" (पा००४१-२१) इति ङीविधानमिह लिङ्गम । पञ्चमूली । वावन्तः (का०वा०)। पञ्चखट्वी, पश्चखट्वम् । स्त्रीत्वपक्षे उपसर्जनहस्वत्वम् । अनो नलोपश्च वा च द्विगुः स्त्रियाम् (का०वा०) । पञ्चतक्षं, पञ्चतक्षी । "उत्तरपदत्वे चापदादिविधौ" (का०वा०) इति प्रत्ययलक्षणप्रतिषेधात् पक्षवामावानलोपवचनम् । पात्राद्यन्तस्य प्रतिषेधः । पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । द्विसमासम् । पात्रादिराकृतिगणः । ____ अव्ययीभावश्च (पासू०२-४-१८)। अयं नपुंसकं स्यात् । अधि. स्त्रि । उन्मत्तगङ्गम् । पूर्वपदार्थप्रधानस्य अलिङ्गत्वेन्यपदार्थप्रधानस्य तु विशेष्यलिङ्गत्व प्राप्ते इदमुच्यते । अनुक्तसमुच्चयार्थश्चकारः। तत्फ. लन्तु "पुण्यसुदिनाभ्यामन्हः" (कावा०)। पुण्याहम् । सुदिनाहम । कर्मधारये "राजाहस्सखिभ्यष्टच्" (पासु०५-४-९१)। "रात्रान्हाहाः सि' (पासू०२-४-२९) इत्यस्यापवादः । सुदिनशब्दः प्रशस्तषा. ची। तथा च प्रयुज्यते
सुदिनासु सभासुकार्यमेतत् प्रविचिन्वीत विशेषतः स्वयश्च । इति ।
तेनेह दिनाहाशब्दयोः सहप्रयोगविरोधो न शङ्कनीयः। पथा स. लघाव्ययादेः ( कावा० ) । त्रयाणां पन्थाः त्रिपथम् । विरूपः पन्थाः विपथम् । प्रादिसमासः। कथन्तर्हि-"अतिपन्थाः सुपन्थाश्च" (अ० को०२-१-१६) इत्यमरः उच्यते,पथ इति कृतसमासान्तांप्रथमा; संख्या. व्ययरूपादेः परः कृतसमासान्तःपथशन्दः क्लीबमित्यर्थः । पथः क्लीबतेति पाठेऽपि सङ्खयादिपथशब्दस्याव्यभिचरितसमासान्ततया तत्साइच. दिव्ययादेरपि तथाभूतस्यैव ग्रहणं बोध्यम् । तथाच क्लीबलिगका. रिका-पथः सङ्ख्याव्ययात्पर इति । न चेह समासान्नोस्ति, "न पू
Page #266
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
२५७
जनात्" (पा०सू०५-४-५९) इति निषेधात् । कथन्तर्हि "सरपथश्वाचिं. तेऽध्वनि' इति ? स्वतिभ्यामेवेति परिगणनात् । अथ कथं
_ "व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः"
इत्यमरः (अ०को०२-१-१६) ? अत्र क्षीरस्वामिदुर्घटादयो विपथं कापथमित्येव पाठः कर्तव्यो लिनकारिकाधनुरोधादित्याहुः। एवन्तु "व्यध्वौ विपथकापथौ" इति रभसकोशेऽपि पुंस्त्वं प्रामादिकमिति लभ्यते । वस्तुतस्तु पथे गतौ इत्यस्मात्पचाचि पथते व्याप्नोतीति पथः, अकारान्तोऽयम् । तथाच त्रिकाण्डशेषः, "वाटः पथश्च मार्गः स्यात्" इति । तेन समासे पुंस्त्वन्न । न चैवं विपथः' इति सिद्धावपि 'कापथो' न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम्, ईषदर्थे चेति तत्सम्भवात् , कुत्सायामर्थतः पर्यवसानात् । यत्वकारान्तस्याभ्युपगमे "पथो विभाषा" (पा०स०५-४-७२) इति सूत्रं व्यर्थ स्यादिति माधवे. नोक्तम् । तत्रायं समाधिः-"अपथं नपुंसकम्" (पासू०२-४-३०) इति सूत्रे कृतसमासान्तनिर्देशसामर्थ्यात् "नअस्तत्पुरुषात्" (पासु०५-४७१) इत्यस्य नित्यं बाधः प्राप्तः। न च सोऽप्यकारान्तस्य निर्देशः, "पथासङ्ख्याव्ययादेः" (कावा०) इत्यत्रापि तथात्वापत्तौ सत्यामपथो विपथः कापथ इत्याद्यसियापत्तेः । किञ्च "राधान्हाहा:" (पासू०२४-२९) इति सूत्रात्परम् “अपथं नपुंसकम्" (पासू०२-४-३०) इति सूत्रे वार्तिकं पठ्यते। तथाच प्रक्रमानुरोधात्कृतसमासान्तनिर्देश एव न्याय्यः सम्प्रदायसिद्धश्च । अत एव "अपथं नपुंसकम्" (पासू०२४-३०) इति सुत्रस्य वात्तिकेन गतार्थतामाशय सूत्रस्य प्राच्यत्वाद. दोष इति कैण्टः । एवं स्थिते 'अपन्थाः' इत्येतत्सिद्धये "पथो वि. भाषा" (पासू०५-४-७२) इति सूत्रम् , अमरस्य च न पूर्वापरविरो. ध इत्यवधेयम् ।
प्रकृतमनुसरामः-इदं क्लीबत्वविधानं परवल्लिङ्गताया अपवादः । तेन "विपथा नगरी" इति बहुव्रीही न । पन्थानमतिकान्ता ऽतिपथे. त्यत्रापि न । इह हि "द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु न" (कावा०) इति परवल्लिङ्गता प्रतिषिद्धा । यद्येवमुत्पथमिति प्रतीकमुपादाय "कु. गति" (पा०स०२-२-१८) इति तत्पुरुष इति कैयटो विरुध्यते । मैवम्, न हि तत्र 'पथ उद्गतः' इत्यादिविग्रहः, किन्तु उत्कृष्टः पन्था इति । तथा च परवल्लिङ्गमेव प्राप्तम् । तस्मादुत्तरपदार्थप्राधान्य एवेदं लिङ्गवि. धानमिति स्थितम् । स्पष्टश्चेदं माधषप्रन्थे । यतु वृत्तिग्रन्थे 'सुपथम्' इत्युदाहतम् । तत्र सुशब्दस्य वैपुल्यमर्थो न तु पजेति समासान्तः
शब्द . द्वितीय. 17.
Page #267
--------------------------------------------------------------------------
________________
२५८
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमाह्निके
1
कृत इति माधवः । क्रियाविशेषणानाञ्च क्रियाया असत्वरूपत्वात्तद्वि शेषणानां तद्वदलिङ्गत्वे प्राप्ते वचनमिदं वार्त्तिकानारूढमपि वृष्टिकारेण कृतमित्याहुः । मृदु पचति । प्रथमं पचति । "सामान्ये नपुंसकम्" (का० वा० ) इति वा सिद्धम् । अत एव नियतलिङ्गेषु नेदं प्रवर्त्तते । आर्दि पचति । आदिभूता या विक्लित्तिस्तां करोतीत्यर्थः । धातुपात्तभावनाप्रति कर्मत्वात्तत्सामानाधिकरण्याद्वा द्वितीया । अत एव 'सकृल्ल्वौ' इत्यादौ कारकपूर्वत्वाद्यणित्याकरः । न च सकलकारकाणां क्रियावि. शेषणत्वात क्लबितापत्तिः शख्या, कारकाणां विभक्त्यर्थत्वरूपत्वाच्च । शक्त्याधारस्तु यद्यपि द्रव्यं नामार्थश्चः तथापि नासौ क्रियां प्रति वि. शेषणं, किन्तु क्रियाविशेषणी भूतकारकविशेषणमिति बोध्यम् । अत एव नामार्थस्य भेदेन धात्वर्थान्वयो नेति सिद्धान्तः । 'स्तोकं पच्यते' इत्यादावपि धात्वर्थव्याप्यस्यैव तण्डुलादेनाभिधानं न तु धातुकोडीकृतस्यापि "भावे चाकर्मकेभ्यः" (पा०सू०३ - ४ - ६९ ) इत्यत्र विशेषणसामर्थ्याद्वाह्यकर्मग्रहणे "लः कर्मणि" (पा०सु०३-४-६९) इत्यत्रापि त यैव निर्णयात् । अतो धातुना क्रोडीकृतस्य विशेषणं द्वितीयान्तमेव, न तु अभिहितत्वप्रयुक्त प्रथमान्तम् । न वा " स्तोकमोदनस्य पक्ता” इत्यत्र स्तोकशब्दात्कृद्योगलक्षणा षष्ठी । यत्र तु भावनाम्प्रति करणत या धात्वर्थविशेषस्यान्वयस्तत्र विशेषणानां तृतीयान्ततैव "ज्योति - टोमेन यजेत" इति यथा । स्पष्टं चेदं "करणे यजः " (पा०सू०३-२८५) इति सूत्रे वृत्तिपदमञ्जर्योः । न चैवं "ज्योतिष्टोमेन समीचीनं यजेत्” इति न स्यादिति वाच्यम्, भावनाविशेषणत्वे तदुपपत्तेः । तत्र च प्रथमान्ततैव । सन्दर्शनप्रार्थनादिभिर्व्याप्यमानत्वात्क्रियाया अपि कृत्रिमकर्मत्वे तु तद्विशेषणत्वेऽपि द्वितीयैव । तदिह क्रियाविशेषणानां क्लीबतेत्युत्सर्गः, नियतलिङ्गे तदभावात् । द्वितीयेव्यप्युत्सर्गः, प्रथमातृतीययोरप्युक्तत्वात् । एकवचनमप्युत्सर्गः । 'हतशायिकाः शय्यन्ते' इत्यादी बहुवचनस्यापि "सार्वधातुके यक्" (पा०सू०३-१६७) इति सूत्रे वक्ष्यमाणत्वादिति दिक् । 'प्रातः कमनीयम्' इत्याद्यव्ययविशेषणे तु क्लीबत्वं यद्यपि तुल्यं तथापि प्रथमैकवचनमेव न तु द्वितीयैकवचनम्, कर्मताभावात् । प्रातरादिरिति तु नियतलिङ्गमेवेति दिक् । यद्यप्येतानि वार्त्तिकानि माध्ये " अपथं नपुंसकम' (पre सु०२-४-३०) इत्यत्र पठितानि तथापि "अव्ययीभावच्च" (पा०सु० ४-३-५९) इति चकारसुचितार्थकथनपराणीत्याशयेन वृत्यनुरोधादिहैव व्याख्यातानि !
Page #268
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम्
तत्पुरुषोsनकर्मधारयः (पा०सू०२-४-१९ ) । अधिकारोऽयम् कर्मधारयशब्दो भावप्रधानः । द्वन्द्वगर्भो नञा बहुव्रीहिः । न विद्येते नञ्च कर्मधारयत्वं चेत्युभे यत्र स तत्पुरुष इत्यर्थः । वक्ष्यति "विभाषा सेनासुरा" (पा०सु०२-४-२५) इत्यादि । तत्पुरुषः किम ? दृढसेनो राजा । नरहितः किम् ? असेना । कर्मधारयत्वरहितः किम् ? परमसेना । मध्यम सूत्रेष्वयमधिकारो नातीवोपयुज्यत इति तत्रैव वक्ष्यामः ।
પૂર
संज्ञायां कन्धोशीनरेषु ( पा०स्०२ - ४ - २० ) | कन्यान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नाय ः कन्यायाः संज्ञा । सुशमस्या प त्यानि सौशमयः, तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् ? वीरणकन्या । ऊशीनरदेशेषु किम् ? दाक्षिकन्था | इहानादिः संज्ञा गृह्यते । सा चोशीनरेषु तत्पुरुषभिन्ना न समासरूपा कर्मधारयश्च नास्त्येवेतीह मन्दमधिकारस्य फलम् ।
उपक्रमान्तश्च
उपशोपक्रमन्त दाद्याचिख्यासायाम् (पा०सु०२-४-२१) । उपज्ञायते "आतश्चोपसर्गे" (पा०सू०३-१-१३६) इति कर्मण्य प्र इत्युपज्ञा । त्ययः । उपक्रम्यते इत्युपक्रमः । कर्मणि घञ् । "नोदात्तोपदेशस्य" ( पा०सु०७-३-३४) इति वृद्धिप्रतिषेधः । उपज्ञान्त तत्पुरुषो नपुंसकं स्यात्, तयोरुपशोपक्रमयोरादिः प्राथम्यश्चेदाख्यातुमिष्यते । पाणिनेरूपशा पाणिन्युपशं ग्रन्थः । त्वदुपक्रमं सौजन्यम् । इच्छासनेह विवक्षैव शब्दव्युत्पत्तौ नियामिका न तु वस्तुस्थितिरिति ज्ञाप्यते । तेन क्रियासम्बन्धमात्र विवक्षायां न 'देवदत्तोपनो रथः ' इत्यादि । इह षष्ठीतत्पुरुषाद्विना तदादित्वा सम्प्रत्ययादलभ्यमधिकारफलम् ।
छाया बाहुल्ये (पा०सू०२ - ४ - २२ ) । छायान्तस्तत्पुरुषो नपुंसकं स्यादु बाहुल्ये सति चेच्छायाम् । यानि सम्भूयोपजीव्यां छायामारभमाणान्यावरकद्रव्याणि तत्समर्पकात्पूर्वपदात्परश्छायाशब्दश्चेदित्यर्थात्फलति । अत एवेह नाधिकारः फलवान् । दक्षूणां छाया क्षु उछायम् । "विभाषा सेना" (पा०सु०२-४-२५) इत्यादेर्विकल्पस्यापवादोऽयम् । कथन्तर्हि 'इक्षुच्छायानिषादिन्यः' (२०वं ०४-२० ) इति १ उच्यते, आसमन्तान्निषादिम्य इत्याप्रश्छेषो बोध्यः ।
समा राजा मनुष्य पूर्वा (पा००२-४-२३) । राजपूर्वा अमनुष्य पूर्वा च या सभा तदन्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वर स भम् । पर्यायस्यैवेष्यते । तथाहि, मराजेतिच्छेदः । नत्रिवयुक्त न्याया
1
Page #269
--------------------------------------------------------------------------
________________
२६०
शब्दकौस्तुभद्वितोपाध्यायचतुर्थपादे प्रथमाहिके
चाराजा राजसहशस्तत्पर्यायो गृह्यते। नेह, राजसभा।चन्द्रगुप्तसभा। कथं "नृपतिसभामगमन्न वेपमाना" (म०भा०) इति कीचकवधे? गज. पतिवद्राजविशेषवाचित्वादिति रक्षितः । यदा, ना पतिर्यस्यां सभा. यामिति बहुवीही कृते पश्चात्कर्मधारयः । अनाकर्मधारय इत्यनुवृत्तेने क्लीबत्वम् । अमनुण्यशब्दो रूल्या रक्षापिशाचादीनाह । रक्षासभम् । सव्यर्थाभावान्नेह--काष्ठसभा।
अशाला च (पासू०२-४-२४) । शालावाची सङ्घातवाची च सभाशब्दः । तत्र राजामनुष्यपूर्वत्वे पूर्वसुत्रेण पूर्वस्य क्लीबत्वमुक्तम् । सकतवाचिनस्तु अनेन विधीयते । स्त्रीसभा, स्त्रीसद्धात इत्यर्थः । अशाला किम् ? अनाथसभा, अनाथकुटीत्यर्थः ।।
विभाषा सेनासुराच्छायाशालानिशानाम् (पासू०२-४-२५) । एतदन्तस्य तत्पुरुषस्य क्लीबता वा स्यात् ब्राह्मण सेनम् , ब्राह्मणसे. ना।यवसुरम्, यवसुरा । कुड्यच्छायम्, कुड्यच्छाया । गोशा. लम्, गोशाला । श्वनिशम्, श्वनिशा कृष्ण चतुर्दशीत्याहुः। तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः । "शुनश्च तुर्दश्यामुपवसतः पश्या. मः" इति तिर्यगधिकरणे शाबरभाष्यम् ।
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (पा०स०२-४-२५) । एतयोः परपदस्यैव लिङ्गं स्यात् । कुक्कुटमर्याविमौ, मयूरीकुक्कुटाविमौ । अर्ध पिप्प. ल्या अर्धपिप्पली। ___ स्यादेतत् यदि समासार्थस्य परवल्लिङ्गत्वमनेनातिदिश्यते, तर्हि "पूर्ववदश्ववडवो" (पासू०२-४-२७) इति सूत्रेणापि न्याय साम्यात्समासस्यैवातिदेष्टव्यम् । ततश्च टाप् श्रूयेत समासार्थस्य पुंस्त्वेऽपि उत्तरपदार्थस्य स्त्रीत्वानपगमात् । यत्तु “गोस्त्रियो" (पा० सु०१-२-४८) इति हस्व इति । तत्र, “चाथै द्वन्द्वः" (पासू०२-२-२९) इत्यत्रानेकमित्यधिकारात्सर्वेषां प्रथमानिर्दिष्टत्वेऽपि प्राधान्यादुपस. जनसञ्चाविरहात् । अन्वर्थसंज्ञा हि सा । अत एव राक्षः कुमार्याः राजकुमार्या इत्यत्र न हस्व इत्युक्तम् । अत एव च 'कुक्कुटमयूर्यो' इत्यत्र न इस्वः । ननु मास्वन्वर्थता। तथाच 'अश्ववडवो' इति सि. धति । 'राजकुमार्याः' 'कुक्कुटमयूर्यो' इत्यत्र तु हस्ते कृते पुनः स्त्री. प्रत्ययात् सिद्धम् । तदुक्तम्-'परवल्लिङ्गमिति शब्दशब्दार्थों इति । तथाहि, लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्व गृह्यते, तन्त्राद्या. श्रयणात् । एवञ्च द्वन्द्वार्थस्य तत्पुरुषार्थस्य च परस्येव लिङ्गं स्यात् । तदभिधायी प्रत्ययश्च परस्येवेति सूत्रार्थः। तथा च यत्र 'द्रव्यगुणो'
Page #270
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम्। २६१ 'गुणकर्मणी' इत्यादौ लिङ्गाभिधायी प्रत्ययो न सम्भवति तत्रार्थ पवातिदिश्यते । उभयसम्भवे तूभयम् । यथा 'कुक्कुटमयूर्यो" इत्या. दौ। ततश्च औपदेशिकस्य इस्वत्वेऽप्यातिदेशिकस्य श्रवणं भषि ध्यति । न च पुनर्हस्वः शङ्ख्यः, अनुपसर्जनत्वात्तदन्यस्याप्रातिपदिकत्वाच । न चैवमपि 'दत्तागाायण्यो' 'दत्ताकारीषगन्ध्ये' इत्यत्र ह्रस्वत्वे कृते समासात्पुनः फस्यौ स्यातामिति वाच्यम् , "भस्याढे तद्धिते" (कावा०) इति पूर्वोत्पन्नयोनिवृत्तिसम्भवादिष्टापत्तेरिति । मैवम् , 'दत्ता च युवतिश्च दत्तायुवती' इत्यत्र तिप्रत्ययद्वयश्रवणापत्तेः । तत्राभत्वेन पुंवद्भावायोगात् । तस्मादुपसर्जनत्वं द्वन्द्व नास्त्येव अन्वर्थत्वादिति स्थितम् । 'अश्वघडवौ' इत्यत्र स्त्रीप्रत्ययनिवृत्तौ उपा. यान्तरं वक्तव्यमिति। ___ अत्रोच्यते, "विभाषावृक्षमृग"(पा०सू०२-४-१२) इतिसूत्रे ऽश्व. वडवेत्यत्र टापो निवृत्तिनिपात्यते । तदुक्तम्-"समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनं निपातनात् सिद्धम्" इति । "विगुप्राप्ता. पन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः (कावा०)। पञ्चसु कपालेषु संस्कृतः पश्चकपालः पुरोडाशः। प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलङ्कमारिः। निष्कौशाम्बिः । भाग्ये त्वेतत्प्रत्या. ख्यातम् । तथाहि, तत्पुरुषग्रहणं न करिष्यते । परवल्लिङ्गं द्वन्द्वस्येत्येव । कथं 'पूर्वकायः' 'अर्द्धपिप्पली' इति : एकदेशिसमासोऽपि नारभ्यते । कर्मधारय एवायं-पूर्वश्चासौ कायश्च, अर्द्धश्चासौ पिप्पली चेति । ततश्च प्राधान्यादेवोत्तरपदार्थस्य लिहंभवति। न च षष्ठीसमासबाधनार्थमेकदेशिसमासोऽवश्यारब्धव्य इति वाच्यम् , इयत्वादनभिधाना। तथाहि, "द्वितीयतृतीय' (पासु०२-२-३) इत्यत्रान्यतरस्याङ्ग्रहणात्स्. त्रकारस्यापि षष्ठीसमास इष्टः, अर्धशब्देनापि षष्ठीसमासो भाग्यका. राणामिष्ट इति प्रागेवोक्तम्। 'पूर्वापरम्' इत्यत्र वनभिधानात्षष्ठीसमासो न भविष्यतीति । इदश्च प्रत्याख्यानं दुर्बलम्, अनभिधानाश्रयणमग. तिकगतिरिति सन्प्रत्ययविधौ भाष्य एवोक्तत्वात् ।
पूर्ववदश्ववडवी (पा०सू०२-४-२७) । द्विवचनमतन्त्रम् । अर्थातिदेशश्वायम् । परवल्लिङ्गतापवादः। अश्ववडवी, अश्ववडवान् ,
अश्ववडवैर्जवनैरित्यादि । “विभाषा वृक्षा" (पा००२-४-१२) इत्या. दिसूत्रेण समाहारद्वन्द्वपक्षे तु “स नपुंसकम्" (पा००२-४-१७) इत्येव भवति, तच्छन्देन विशिष्प परामर्शार्थमेवाश्ववडरग्रहणात् । अन्यथा पशुग्रहणेनैव सिद्धौ तद्वैयक्त्तिरित्युक्तम् ।
Page #271
--------------------------------------------------------------------------
________________
२६२
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमाहिके
हेमन्तशिशिरावहोरात्रे च च्छन्दसि (पासू०२-४-२८)। पूर्वव दित्यनुवर्तते । हेमन्तश्च शिशिरे च हेमन्तशिशिरौ। अत्रेदमवधेयम् , शिशिरशब्दः पुनपुंसकयोः । तथाच चक्रवज्रान्धकारेति सूत्रे तिमि रशिशिराणि नपुंसके चेति भगवान्पाणिनिः । अमरोऽपि-"हेमन्तः शिशिरोऽस्त्रियाम्"(अ०को०१-४-१९) इत्याह । तथा चात्र सुत्रे हेमन्तः शिशिराविति न कर्तव्यम् । अहोरात्रे शिवे स्याताम् । इह "रात्रा. न्हाहाः' (पासू०२-४-२९) इति पुंस्त्वं प्राप्तम् । द्वित्वमतन्त्रम। अ होरात्राणि विदधत् । न चेदं समाहारद्वन्द्वे सत्येकशेषात्सिद्धमिति वाच्यम् , तत्रापि पुंस्त्वस्योत्तरसूत्रे वक्ष्यमाणत्वात् । छन्दसि लिङ्गव्यत्ययो वक्ष्यते तस्यैवायं प्रपश्चः। लोके तु दुःखे हेमन्तशिशिरे। अहोरात्रौ पुण्यो।
रात्राहाहाः पुंसि (पा००२-४-२९) । एतदन्तौ द्वन्द्वतत्पुरुषो पुंस्येव । रात्रेः पूर्वो भागः पूर्वरात्रः । एकदेशिसमासः । “अहः स. धैकदेश" (पा०सू०५-४-८७) इत्यच् समासान्तः । पूर्वाह्नः। “राजाहः सखिभ्यः" (पा०सू०५-४-९१) इति टन् । "अन्होऽन्ह एतेभ्यः" (पा० सू०५-४-८८) इत्यन्हादेशः । “अन्होऽदन्तात्" (पा०सू००-४-७) इति णत्वम् । यहः । “न संख्यादेः समाहारे" (पासू०५-४-८९) इत्यः महादेशाभावः। "अन्हएखोरेव" (पासू०६-४-१८५) इति टिलोपः। परवल्लिङ्गापवादोऽयं योगः | वृत्तौ तु एते पुंसीत्युक्तम् । तत्राप्येतदन्ता इत्यर्थो बोध्यः। यत्तु रात्रादीनामेवानेन पुंस्त्वे कृते तदन्तस्य "पर. पल्लिङ्गम्" (पा०सू०२-४-२६) इत्येव सिद्धमिति । तन्त्र, समाहार नपुंसकत्वापत्तः । परवल्लिङ्गत्वापवादो हि "स नपुंसकम्" (पा०सू० २-४-१७) इति योगः। न च नपुंसकत्वे इधापत्तिः, 'द्विरात्रः' 'त्रिरात्रः' इति वृत्तिकारीयोदाहरणविरोधात । तद्धि समाहारे द्विगुरिति सर्वै
ाख्यातम् । अमरोऽपि प्रायुक्त-"ते तु त्रिंशदहोरात्रः" (अ०को० १-४-१२) इति, "मासेन स्यादहोरात्रः" (अ०को०१-४-२२) इति च । तस्मात्तदन्तस्यैवायं पुंस्त्वविधिः । यद्यपि सन्निधानात्परवल्लिङ्गः ताया एवायमपवादस्तथापि परत्वानपुंसकतां बाधते ।।
अत्रेदं चिन्त्यम्-उक्तरीत्या 'अहोरात्रः' इत्यत्र पुंस्वमस्तु । द्विरात्रादौ तु वृत्तिकारहरदत्तायुकं पुंस्त्वमसङ्गतम्, तत्र विशिष्टक्लीबंतावि. धेः । तथाच लिङ्गानुशासनसूत्रम्। “अपथपुण्याहे नपुंसके" (लि. स०१३२)। "संख्या पूर्वा रात्रिः" (लि०स०१३२) इति । अमरो ऽच्याह--"रात्रेः प्राक् संख्ययान्वितम्' (अ०को०३-५-२५) इति "गणरात्रं निशाबव्हाः" (अ०को०१-४-६) इति च । भनुवाकादयः
Page #272
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
२६३
पुंसीति वक्तव्यम् (का०वा० ) । अनुवाकः । शंयुबाकः । सूक्तवाकः । वाक्यविशेषस्यैताः सञ्ज्ञाः 1 कर्मणि घञन्ता इति नपुंसकत्वे प्राप्ते वचनम् ।
अपथे नपुंसकम् (पा०सू०२-४-३०) । इदं नपुंसकं स्यात्तत्पुरुषे । समासान्तरे तु अपथों देशः । अपथा नगरी । कृतसमासान्तनिर्देशा. नेह-अपन्थाः ।
अर्धर्चाः पुंसि च (पा०सु०२-४-३२ ) । अर्धर्चादयः शब्दाः पुंलि क्लीबे च स्युः । ते च गणरत्ने संगृहीताः । तद्यथा-अर्धर्चध्वजकुञ्जरी धुमधवो वर्चस्ककूचदकाः पङ्कानी कपिनाकनिष्क कपटाष्टङ्कः किरीटः कुटः । कूटः कङ्कटकर्वटाण्डशकटा वल्मीकसानूनटाः खण्डोद्योग विडङ्गशृङ्गसरकाः पुंखव्रजौ मोदकः । मधुर्मकरन्दे मधे माक्षिके च द्विलिङ्गः । " मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणेपाठात्पुन्नपुंसकयोर्मधुः " ॥ इति शाश्वतः । अमरस्तु - "माकं मधु न द्वयोः" इत्याह । चैत्रदैत्ययोस्तु पुंस्येव । वर्चस्कं शकृत् । कुर्वं दीर्घश्मश्रु । आढकं मानविशेषः । पङ्कः कर्दमपापयोः । अनकिं सैन्यम् । पिनाको रुद्रधनु त्रिशूलं न । निष्क आभरणम् । कपटं व्याजः । टङ्कः पाषा णभेदनः । किरीटो मुकुटम् । कुटो घटः । कूटं सङ्घातो माया च । कङ्कटं सन्नाहः । कर्वटं नद्यादिवेष्टितः खेटकग्रामः । अण्डं पक्ष्यादिप्रसवः । नटो नर्त्तकविशेषः । खण्ड इक्षुविकारः शकलं च । उद्योगमुत्साहः । विडङ्ग औषधम् । सरकं मद्यम् । शेषं प्रसिद्धम् ।
शाको मस्तककल्कशुकनिकराः शुल्कं निदाघो नखो बाणद्रोण सुवर्णभूषणरणाः कार्षापणस्तोरणः । काण्डस्ताण्डवदण्डमण्डपिटकाः सक्तुस्तटाकत्रणौ पेटो मञ्चकवारबाणचरणा वस्त्राम्बरैरावताः ।
कल्क औषधनिर्यासः दम्भः पातकं च । शुकं धान्यादेः सूची । शुएकं घट्टादावायस्थानम् । द्रोणो मानविशेषः पक्षिविशेषश्च । भूषणऽलङ्कारः । काण्डः शरनालवर्गवारिसमयकुत्सितेषु । मण्डो दध्यादेर्द्रवांशः । पिटको वंशनिर्मितः पात्रविशेषः । पेटः संहतिः । ऐरावतमिन्द्रगजः ।
नरकटवटडिनामवर
Page #273
--------------------------------------------------------------------------
________________
शब्द कौस्तुभद्वितीयाध्याय चतुर्थपादे प्रथमाहिके
प्रयुतघृतवसन्ता हस्तबुस्तापराह्नाः । पलित फलक कण्टा नाम कर्माभिधानाऽयुतशत तृणनीडा यौवनोद्यानयानाः । खरकं ग्रन्थविशेषः । मठं व्रतिनां स्थानम् । विटङ्कं कपोतपाली । क्ष्वेडितो मुखध्वनिविशेषः । भूतः पिशाचे द्विलिङ्गः । क्रियाशब्दस्तु विशेष्यलिङ्गः । वृत्तं शीलम् । प्रयुते दशलक्षाः । घृत आज्यम् । हस्तं पाणिः । बुस्तं मांसशष्कुली । पलितः पाण्डुरकेशः । फलकः खेटकम् | कष्टं पापम् । अयंनामा अयंकर्मा, कार्यमित्यर्थः ।
कर्म व्याप्ये क्रियायाञ्च पुंनपुंसकयोर्मतम् ।
इति रुद्रः ! यौवनो द्वितीयं वयः । उद्यान आरामः । यानो वाहनम् । तीर्थप्रोथौ नलिन पुलिनस्तेय योधौषधानि स्थानः शूर्पो निधनशयन द्वीपपुच्छायुधानि । यूथं गूथं कुणप कुतपक्षेमवर्णासनानि च्छत्राकाशप्रतिसरमुधाष्टापदारण्यवर्षाः ॥
प्रोथोऽश्वनासा । स्तेयश्चौर्यम् । योधो भटः । औषधो भेषजम् । स्थानम् आधारः । शूर्पो वेणुपात्रम् । निधनो मृत्युः । शयनः शय्या | यूथः पशुसमूहः । गुथो विष्ठा । कुणपं शवः । कुतपः कालविशेषः । वर्णमक्षरम् । प्रतिसरः कङ्कणम् । मुखो वदनम् । अष्टसु लोहेषु पदं प्र तिष्ठाऽस्येत्यष्टापदं सुवर्णम् । “अष्टनः संज्ञायाम् (पा०सु०६-३ - १२५ ) इति दीर्घः । अरण्योऽटवी । वर्षः संवत्सरः । कमण्डलुमण्डपकुट्टिमाबुदावतंसपाराः शतमानचन्दनौ । समानपुत्रौ दृढमूषिकौदना दिनं विमानं च वितानलोहितौ ॥ अर्बुदो दशकोटिः । पर्वते तु पुल्लिङ्गः । तथाच मेदिनीअर्बुदो मांसपुरुषे दशकोटिषु न स्त्रियाम् ।
महीधरविशेषे ना इति । अवतंसं शेखरम् । पार: परतीरम् । शतमानं रूप्यपलम् । समानः सदृशः । पूषो मुद्रादिनिर्यासः । मूषिक आखुः । ओदनं कूरः । दिनो दिवसः । लोहितः शोणितम् । गुणवाची तु वाच्यलिङ्गः।
२६४
अंसक्षीरकषायबिम्बविटपा नेत्राव्ययौ शेखरः केदाराश्रम शल्यशूलवलया बालस्तमालो मलः । गुल्माङ्गारविहारतोमररसाः पात्रं पवित्रं पुरम
मध्यो बुध्नमृणालमण्डलनला नालप्रवालोत्पलाः ॥ अंसः स्कन्धः । क्षीरो दुग्धम् । कषायं तुवरो रसः । विम्बो
Page #274
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
मण्डलम। विटपः स्तम्भः शाखा च । नेत्रो नयनम् । अव्ययमथे. त्यादि । शेख रमापीडः । केदार क्षेत्रम् । आश्रमो मुनिस्थानम् । शूलमायुधं रोगविशेषश्च । घलयो हस्ताभरणम । बालः शिशुः केशश्च । तमालो वृक्षविशेषः । मलः पापं विट् च । गुल्मः प्रकाण्डम् । अङ्गारो दग्धकाष्ठम् । विहारः क्रीडास्थानम् । रसं मधुरा. दि । पात्रो भाजनम् । "त्रिषु पात्री पुटी वाटी" (अ०को०३-५-२२) इत्यमरादिहायोगव्यवच्छेदे तात्पर्य न त्वन्ययोगव्यवच्छेदेऽपि । एवं पवित्रः पावनम , पुरः पुरीत्याधपि । बुध्नमधोभागः । नलः सुषिर. तृणम्। नालः दुष्करादीनां दण्डः । अयं स्त्रियामपि, "नाला मणालाग्र भुजो भजामः" इति श्रीहर्षः । प्रवालं पल्लवो विद्रुमश्च ॥
সূমা অসুন্ধৰণৰাখকাঘাষাভুক্ত। वक्रः संगमदेहदाडिमहिमाः पत्रं बलं वल्कलम् । कार्पासामिषकाशकोशकुसुमप्रग्रीवमासेक्कसा
निर्यासः कलशाम्बरीषकलला माषं करीषं कुशम् ।। जृम्भो जृम्भणम् । वज्रः कुलिशं हीरकश्च । कबन्धं रुण्डः । कर्षः पलचतुर्भागः । ककुदं श्रेष्ठे वृषांसे राजचिन्हे च । चक्रो रथा
गः । अकुशः सृणिः । वको मुखम । सङ्गमो नद्यादेमेलनम् । देहं शरीरम । दाडिमं फलविशेषः । हिमस्तुहिनम् । पत्रः पर्ण वाहनं च । बलं सामर्थ्य सैन्यं च । कुसुमः पुष्पम् । प्रग्रीवं वातायनम् । मासं त्रिंशद. होरात्रः । इक्कसश्चिकसं गोधूमादिचूर्णम् । अमरस्तु चिक्कसमर्धर्चादौ पपाठ । निर्यासं वृक्षादेनियन्दः । कलशं घटः। अम्बरीषं भ्राष्ट्रम् । कललं शुक्रशोणितयोः परिणामविशेषः । माषं परिमाणविशेषो धा. न्यविशेषश्च । करीषं शुष्कगोमयम् । कुशशब्दस्य विषयविवेकस्तु "दण्डमड" इत्यादिलिङ्गानुशासनमूत्रव्याख्यानावसरे वक्ष्यते।
मुसलमुकुलमूलाः पार्श्वपात्रीवपूर्वाः कमलहलचषालाः खण्डलं कुण्डलं च । निगलफलपलाला मङ्गलं शालशीला
विषचषकविशालाः पूलतेले कपालम ॥ मूलः शिफा । पात्रीवं यज्ञोपकरणम् । कमला पनम् । हलः सीर. म् । चषालं यक्षपात्रविशेषः। खण्डलं खण्डम् । फलःप्रयोजनम् । शालो वृक्षविशेषः । शीलं चरितम् । विषो वत्सनागादिः । चषको मधुपान भाजनम् । पूलं बद्धतृणसंचयः॥
Page #275
--------------------------------------------------------------------------
________________
२६६ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके
समरतिमिरवारा राजसूयोपवासौ चमसदिवसकंसा वाजपेयो हिरण्यम् ॥ जठरदरशरीराऽऽरावकान्तारराष्ट्राः
पटहगृहकवाटाः कुक्कुटा च धाम ।। धारः परिपाटी । "कंसोऽस्त्री पानभाजनम्" (अ०को०२-९-३३) इत्यर्थः । दरखासे रोगे अल्पे च । शरीरः कायः । आरावः शब्दः । गृहशब्दो नपुंसकेऽभिधेयवचनः । पंसि तु बहुवचनान्त एव । "कवा. टमररं तुल्ये" (अ०को०२-२-२८) इत्यमरः । अत्रैव कपाटशब्दोऽपि साधुरिति "शकौ हस्तिकपाटयोः (पा०स०३-२-९४) इति सत्रे वक्ष्या. मः । आर्द्रः शृङ्गवेरम् । घाम गृहं तेजश्च ॥
पद्माषाढकपित्थषष्टिककुलान्यम्भोजवाजामृताः स्थूलधूतखलीनलोहकवचाशोकक्षयानेकपाः । शस्तण्डकर्मचमरजतस्नेहासिहंसापराः
सारः सैन्धवमध्यमावरधनुर्मानस्तनस्थाणवः ।। पो निधौ पुंसि, जलजे तु द्विलिङ्गः । आषाढं व्रतिदण्डो मासश्च । कपित्थो वृक्षविशेषः । वृत्तौ तु कवीयेति पठ्यते, अश्वमुखबन्धनरज्जु स्तस्यार्थः । उक्तं च बोपालितेन "नार्यो करीखलीनं कवीयं वा ना तुरङ्गमुख भाण्डम्' इति । षष्टिकं व्रीहिभेदः । कुलो वंशो गृहं च । अ. म्भोजः कमलम् । वाजं पिच्छम् । अमृतं सलिलम् । अशोकं तरुः । क्षयो गृहम् । अनेक हस्ती । शलो निधौ पुमान् , जलजे द्विलिङ्गः । नण्डकदछन्दोगानां ग्रन्थविशेषः । चर्माजिनम् । रजतं रूप्यम् । स्नेह सौहार्दम् । असिः खड्गः । अपरोऽन्यः। सारो बलम् । सैन्धवो लवणम्। मानो दर्पः । स्थाणुः शङ्कः ॥
महिमनेत्रकपञ्चकदण्डकाः क्रकचशम्बलकुण्डपकन्दराः ॥
कटकमालवमर्मरदैवताः शिखरकेसरदारुभगन्दराः ॥ महिमं महत्वम् । नेत्रकं शृङ्खलकण्टकम् । पञ्चकं विस्तारः। दण्डकं छन्दोविशेषः । ककवं काष्ठादिदारणसाधनम् । शम्बलं पायेयम् । कु. ण्डपं क्रतुविशेषः। कन्दरा स्त्रियामपि । मालवा देशविशेषः । मर्मरं शुष्कपर्णध्वनिः । दैवतो देवः । दारुः काष्ठम् ॥
दीपोद्यमब्रह्मपिधानभावा वास्तुबतार्धप्रवराभिधानाः ।
अों मुहूर्तो धनवप्रसौधा रेणुस्तलं लोपपटं विहायः ॥ दीपं प्रकाशविशेषः । भावः स्वभावः । वास्तुर्वेश्म । अर्मः चक्षुः गःगे। धनो वित्तम । पटं वस्त्राम ॥
Page #276
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम्
उटजचापनपुंसकपातको भुवनकोटरपल्लवगोमया:।
अविखरं हरिचन्दनमुलको भवनसपगाण्डिवपत्तनाः ॥ उटजः पर्णशाला । चापो धनुः । पातकः पापम् । गाण्डिवोऽर्जुन धनुः । दीर्घमध्योऽपि । एतच "गाड्यजगात्सायाम्" (पा०सू०५२-११०) इति सूत्रे वृत्यादौ स्पष्टम् ॥
कर्पूरकूसकषष्टयुशीरगाण्डीवनिष्ठेवसवर्णभस्त्राः। पिण्याकपुस्तौ नखरेषुखण्डवैनीतिकद्वीपिनखारकूटाः ॥ कर्पूरो घनसारः। सकः कञ्चुकः । षष्टिः सङ्ख्यावाची । उशीरो नलदम् । निष्ठेवो निष्ठीवनम् । भस्त्रश्चर्मकोशः भस्त्रा च । पुस्तः पुस्त. कम् । नखरं नखः । इषुर्बाणः । अयं स्त्रीलिङ्गोऽपि ।"पत्री रोप इषद्धयो" (अ०को०२-८-८७)इत्यमरः। तथाच श्रीहर्षः "कुसुमानि यदि स्मरेषवः" इत्युपक्रम्य "हृदयं यदमूमहन्नमूः' इति प्रायुक्त । खण्डः पद्मादीनां समुदायः । विनीतानामिदं वैनीतिकम् । मनुष्यवाह्य यानम् । द्वीपी व्याघ्रः। आरकूटः पित्तलम् ॥ अमरस्त्वाह
पुनपुंसकयोः शेषोऽधर्चपिण्याककण्टकाः । मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽबुदः ॥ पातकोद्योगचरकतमालामलकानडः। कुष्टं मुण्डं शीधु बुस्तं वंडितं क्षेम कुट्टिमम ॥ सङ्गमं शतमानार्मशम्बलाव्ययताण्डवम् । कवियं कन्दकार्पासं पारावारं युगन्धरम् ॥ यूपं प्रग्रीवपत्रीवे पूषश्चमसचिक्कसौ । अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् ॥
तन्नोक्तमिह लोकेऽपि तदस्त्यस्तु शेषवत् । इति ।। अर्म चक्षुरोगः । अर्तिस्तुसुहुस्" (उ०सू०१४५) इत्यादिना औणादिको मन्प्रत्यय इति तद्वयाख्यातारः । शम्बलं तालष्यादि दन्त्यादि चेति ते एव । इह यद्यपि अर्धर्चादीन् चिक्कसान्तानत्र पठितान् कटोऽस्त्रीत्यादींश्च तत्र तत्र प्रापठितान् विहायान्येषां प्रसिद्धविलक्षणं पुंस्वादिकमित्युक्तम् । तेन घृतक्षीरदारुलोमासनमुखशरीरादयो लोके नियंतलिका एवेति प्रतीयते । तथापि मुनित्रयवचनविरहाद्वैदिकत्वं निर्मुलम् । अत एकापरितोषाल्लोकेऽपीत्यायुक्तमित्याहुः।
युक्तं चतत् , लिङ्गानुशासनसूत्राणां घृतादिविषयकाणां लोकवेद. साधारण्येनैव प्रवृत्तेः । एवमन्येऽपि ये शन्दाः कोशादिना पुन्नपुंस. कलिगतया निर्णीतास्ते सर्वे अर्ध दिपु बोध्याः ॥
Page #277
--------------------------------------------------------------------------
________________
२६८ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके
इदानीं परवल्लिङ्गमित्यतिदेशे उपयुक्ततया प्रसङ्गात् पाणिनीयलि. ङ्गानुशासनसूत्राणि व्याख्यायन्ते ॥
लिङ्गम् ॥ स्त्री ॥ अधिकारसूत्रे एते । क्रकारान्ता मातृ दुहितस्वसृयातृननान्दरः ॥ ऋकारान्ता एते पश्चैव स्त्रीलिङ्गाः, स्वनादिसप्तकस्यैव ङोनिषेधेन कीत्यादींपा ईकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृ. त्योत्रिचतुरोदन्तत्वाभावात्।
अन्यूप्रत्ययान्तो धातुः । अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः ! प्रत्ययग्रहणं किम् ? देवयतेः विप् दुयः। विशेष्यलिङ्गः।
अशनिभरण्यरणयः पुंसि च ॥ इयमयं वा अशनिः । मिन्यन्तः ॥ मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्लानिः।
वन्हिवृष्ण्यग्नयः पुसि ॥ पूर्वस्थापवादः । श्रोणियोन्यर्मयः पुंसि च ॥ इयमयं वा श्रोणिः । तिन्नन्तः ॥ स्पष्टम् । कृतिरित्यादि । ईकारान्तश्च ॥ ईप्रत्ययान्तः स्त्री स्यात् ' लक्ष्मीः । ऊडाबन्तश्च ॥ कुरूः ॥ विद्या।
स्वन्तमेकाक्षरम् ॥ श्रीः । भूः । एकाक्षरं किम् ? पृथुश्रीः । विंशत्यादिरानवतेः ॥ इयं विंशतिः । त्रिंशत् । चत्वारिंशत् । पञ्चा. शत । षष्टिः। सप्ततिः। अशीतिः। नवतिः।
दुन्दुभिरक्षेषु ॥ इयं दुन्दुभिः । अक्षेषु किम् ? अयं दुन्दुभिः, वाद्य. विशेषोऽसुरो वेत्यर्थः।
___ नाभिरक्षत्रिये ॥ इयं नाभिः । उभावप्यन्यत्र पुंसि ॥ दुन्दुभिर्नाभिश्चोकविषयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हिसमुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनामिमिः।
(कि०का० ८-२५) इति भारविः । उच्यते, दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु "लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य" इतिभायात्पुंस्त्वमीह साधु । अत एव
नाभिर्मख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिकामदे ॥
Page #278
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
२८२
इति मेदिनिः । रभसोप्याह--
मुख्यराट्क्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः । चकमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ॥ इति ।
एवमेवंविधेऽन्यत्रापि बोध्यम् । तलन्तः ॥ अयं स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्राह्मणस्य कर्म ब्राह्मणता । प्रामस्य समूहो ग्रामत। । देव एव देवता ।
भूमिविद्युत्सरिल्लतावनिताभिधानानि ॥ भूमिभूः । विद्युत्सौदा. मनी । सरिनिम्नगा । लता वल्ली । वनिता योषित् ।
यादो नपुंसकम् ॥ यादःशब्दः सरिद्वाचकोऽपि क्लीव स्यात् ॥ भानुक्सदिगुष्णिगुपानहः ॥ एते स्त्रियां स्युः । इयं भा इत्यादि ।
स्थूणोणे नपुंसके च ॥ एते स्त्रियां क्लोबे च स्तः । स्थूणम, स्थूणा। ऊर्णम् , ऊर्णा । तत्र स्थूणा काष्ठमयी द्विर्णिका । ऊर्णा तु मेषादिलोम |
गृहशशाभ्यां क्लीबे ॥ नियमार्थमिदम । गृहशशपूर्व स्थूणोम यथा. संख्यं नपुंसके स्तः । गृहस्थूणम् । शशोर्णम् । “शशोर्ण शशलोमनि" ( अ०को०२-९-१०८ ) इत्यमरः ॥
प्रावृट्विनुट्रवितिषः ॥ एते स्त्रियां स्युः ॥ दर्विविदिवेदिखनिशान्यश्रिवेशिकायौषधिकट्यङ्गुलयः। एते स्त्रियां स्युः । पक्षे ङीष् । दर्वी, दर्विरित्यादि।
तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविराज्यादयः । एते प्राग्वत् । इयं तिथिरित्यादि । अमरस्त्वाह-"तिथयो द्वयोः" (म०को. १-४-१) इति । तथाच भारविः-"तस्य भुवि बहुतिथास्तिथयः" इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च-"निखिलानिशि पौर्णिमातिथीन्" इति ।
शकुलिराजिकुट्यशनिवर्तिभ्रकुटित्रुटिवलिपतयः। एतेऽपिस्त्रियां स्युः । इयं शकुलिः ।
प्रतिपदापद्विपसंपत्शरसंसत्परिषदुषःसंविक्षुतपुन मुत्समिधः । इयं प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता ।
आशीषूःपू¥ारः । इयमाशीरित्यादि । अप्सुमनस्समासिकतावर्षाणां बहुत्वं च ॥ अबादीनां पशानां स्त्री. स्वं स्यात्वं च । आप इमाः । "स्त्रियः सुमनसः पुष्पम्"(अको० २४-२७)। "सुमना मालती जातिः" (अ० को० २-४-७२) । देववाची तु पुंस्येव । “सुपर्वाणः सुमनसः” (अ० को०१-१-७)। बहुत्वं प्रायिकम् । "एका च सिकता तैलदाने असमर्था" इति अर्थवस्त्रे भाष्यप्रयोगात
Page #279
--------------------------------------------------------------------------
________________
२७० शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके"समां समांविजायते" इत्यत्र समायां समायामिति भाष्याश्च ।"विमाषा घ्राधेट" (पा० सु० २-४-७८) इति सूत्रे "अघ्रासातां सुमनसौ" इति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् ॥
सक्त्वज्योग्वाग्यवागूनौस्फिजः । इयं सक् । त्वक् । ज्योक् । वा. क् । यवागूः । नौः । स्फिक् ।।
त्रुटिसीमासंबध्याः । इयं त्रुटिः । सीमा । सम्बध्या ॥ चुलिवेणिवार्यश्च ॥ स्पष्टम् ॥ ताराधाराज्योत्स्नादयश्च ॥ शलाका स्त्रियां नित्यम् ॥ नित्यग्रहणमन्येषां क्वचिद्वयभिचार ज्ञापयति ॥
इति ख्याधिकारः॥ पुमान् ॥ अधिकारोऽयम् ॥ घवन्तः । पाकः । त्यागः । करः। गरः । भावार्थ एवेरम्, नपुंसक. त्वविशिष्ट भावे कल्युड्भ्यां स्त्रीत्वविशिष्टे तु तिनादिभिर्वाधेन परिशे. षात् । कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् । तथाच भाष्यम्"सम्बन्धमनुवर्तिप्यते' इति ।
घाजन्तश्च । विस्तरः । गोचरः । चयः । जयः इत्यादि। भयलिङ्गभगपदानि नपुंसके ॥ एतानि नपुंसके स्युः। भयम् । लिङ्ग. म् । भगम् । पदम् । नातः ॥ नङ्प्रत्ययान्तः पुंसि स्यात् । यहः । यत्नः ॥
याच्या स्त्रियाम् ॥ पूर्वस्यापवादः। क्यन्तो घुः ॥ किप्रत्ययान्तो घुः पुंसि स्यात् । आधिः । निधिः । उदधिः । क्यन्तः किम् ? दानम् । घुः किम् ? जशिर्बीजम् ॥
इषुधिः स्त्री च ॥ इषुधिशब्दः स्त्रियां पुंसि च । पूर्वस्वापवादः। देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपका. भिधानानि ॥ एतानि पुंसि स्युः । देवाः सुराः । असुरा दैत्याः। आ. स्मा क्षेत्रमः । स्वर्गो नाकः । गिरिः पर्वतः । समुद्रो ऽब्धिः । नखः कर. रुहः । केशः शिरोरुहः । दन्तो दशनः। स्तनः कुचः। भुजो दोः । कण्ठो गलः । खड्गः करवालः । शरो मार्गणः। पकः कर्दम इत्यादि ।
त्रिविष्टपत्रिभुवने नपुंसके । स्पष्टमः । तृतीयं विष्णुपं त्रिविष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्त भयमारम्भः ।
चौः खियाम् ॥ घोदिवोस्तन्वेणोपादानमिदम् । इधुवाहूलियां च चात्पुंसि ।
Page #280
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
बाणकाण्डौ नपुंसके च ॥ चारपुंसि । त्रिविष्टपत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः ।
२७१
नान्तः ॥ अयं पुंसि । राजा । तक्षा । न च धर्मवर्मादिष्वतिव्याप्तिः, "मन्यच् को कर्तरि ” (लिं०सु०१४५) इति नपुंसक प्रकरणे वक्ष्यमाणत्वात् । ऋतुपुरुषक पोलगुल्फमद्याभिधानानि ॥ क्रतुरध्वरः । पुरुषो नरः । कपोलो गण्डः । गुल्फः प्रपदः । मेघो नीरदः ।
अभ्रं नपुंसकम् ॥ पूर्वस्यापवादः ॥
उकारान्तः ॥ अयं पुंसि स्यात् । प्रभुः । इक्षुः । "हनुर्दट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् ॥
द्वयोः कपोलाऽवयवे" इति मेदिनी । "करेणुरिभ्यां स्त्री नेभे" (अ० को० ३-३-५९) इत्यमरः । एवंजा तीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः । उक्तं च
-
लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः । इति ।
एवमन्यत्रापि ।
॥
धेनुरज्जुकुद्दूसरयुत नुरेणुप्रियङ्गवः स्त्रियाम् ॥ समासे रज्जुःपुंसि 'च । कर्कटरज्ज्वा, कर्कटरज्जुना ॥ श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके ॥ वसु चार्थवाचि | अर्थवाचीति किम् ? वसुर्मयूखाग्निधनाधिपेषु ।
मद्गुमधु (१) शीधुल नुकमण्डलूनि नपुंसके च ॥ चात्पुंसिं । अयं मद्गुः । इदं मद्गु ।
रुत्वन्तः ॥ मेरुः । सेतुः ।
दारुक से रुजतुवस्तु मस्तूनि नपुंसके ॥ रुत्वन्त इति पुंस्त्वस्यापवादः । इदं दारु |
सक्तुर्नपुंसके च ॥ चात्पुंसि । सक्तुः । सक्तु । प्राग्रश्मेरकारान्तः || " रश्मि दिवसाभिधानम्" (लिं०स्०९००) इति वक्ष्यति, प्रागेतस्मादकारान्त इत्यधिक्रियते ।
कोपधः ॥ कोपधो ऽकारान्तः पुंसि स्यात् । स्तबकः । कल्कः । चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके ॥ पूर्वसूत्रापवादः ॥ कण्टकानीकसरकमोदक चषकमस्तक पुस्तकतडाकनिष्क शुष्क वर्च स्कपिनाकभाण्डक पिण्डककटकशण्डकपिटकतालकफलकपुला कानि नपुंसके च ॥ चात्पुंसि । अयं कण्टकः । इदं कण्टकमित्यादि । टोपधः ॥ टोपधोऽकारान्तः पुंसि स्यात् । घटः । पटः । (१) 'सीधु' इत्यधिकं कौमुद्याम् ।
Page #281
--------------------------------------------------------------------------
________________
२७२ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके
किरीटमुकुटललाटवटवि(१)टशृङ्गाटकराटलोष्टानि नपुंसके । कि. रीटमित्यादि।
कुटकूटकपटकवाटकर्पटनटनिकटकीट कटानि नपुंसके च ॥ चात्पुं. सि । कुटः कुटमित्यादि ।
णोपधः ॥ पोपघोऽकारान्तः पुंसि स्यात् । गुणः । गणः । पाषाणः । ऋणलवणपर्णतोरणरणोष्णानि नपुंसके ॥ पूर्वसूत्रापवादः ॥ कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुसके च ॥ चात्पुंसि ॥
__ थोपधः ॥ रथः । प्रस्थः॥ काष्ठपृष्ठरि (२)क्योक्थानि नपुंसके । इदं काष्ठमित्यादि । काष्ठा दिगर्या स्त्रियाम् ॥ इमाः काष्ठाः ।
तीर्थप्रोथयूथगाथानि नपुंसके च ॥ चात्पुंसि । अयं तीर्थः इदं तीर्थम् ।
नोपधः ॥ अदन्तः पुंसि । इनः । फनः ।
जघनाजिनतुहिनकाननवनवृजिनविपिनबेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिन्हानि नपुंसके ॥ पूर्वस्यापवादः ।
मानयानाभिधान(३)नलिनोद्यानशयनासनस्थानचन्दनालानसमा. नभवनवसनसम्भावनविभावनविमानानि नपुंसके च ॥ चात्पुंसि । अयं मानः । इदं मानम् ।
पोपधः ॥ अदन्तः पुंसि । यूपः । दीपः । सर्पः ॥
पापरूपोडपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके ॥ इदं - पापमित्यादि। शूर्पकुतपकुणपद्वीपविटणानि नपुंसके च ॥ अयं शूर्पः।इदं शूर्पमित्यादि ।
भोपधः ॥ स्तम्भः। कुम्भः। तलभं नपुंसकम् ॥ पूर्वस्यापवादः । जृम्भं नपुंसके च ॥ जृम्मम् । जृम्भः ।
मोपधः ॥ सोमः । भीमः। रुक्मसिध्म(४)युग्मेध्मगुल्माध्यात्मकुकुमानि नपुंसके ॥ इदं रुक्ममित्यादि।
__ सडासदाडिमकुसुमाश्रममक्षौमहोमोद्दामानि नपुंसके च : चात्पुंसि । अयं संग्रामः । इदं संग्रामम् । (१) 'वाट' इति कौमुद्याम् । (२) 'सिक्य' इति कौमुद्याम् । (३) 'नलिनलिनोद्यान'इति कौमुद्याम् । (४) 'युध्म इति कौमुद्याम् ।
Page #282
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
२७३
योपघः ॥ समय: हयः । किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । स्पष्टम् । गोमयकषायमलयान्षयाव्ययानि नपुंसके च ॥ गोमयः । गोमयम् । रोपधः ।। क्षुरः । अङ्कुरः।
द्वाराप्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रच्छि(१)द्रनीरतीरदूरकृच्छ्ररन्ध्रा. श्रश्वभ्रभा(२)रगाररविीचकेयूरकेदारोदाराजस्रशरीरकन्दरमा न्दारपक्षराजरजठराजिरवैरचामरपुष्करगहरकुहरकुटीरकुलीरचश्वरः काश्मीरनीराम्बरशिशिरतन्त्रयानक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवकनेत्रगोत्राङ्गुलिनमलप्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि नपुंसके ॥ इदं द्वारमित्यादि।
शुक्रमदेवतायाम् ॥ इदं शुकं रेतः।
चक्रवज्रान्धकारसारावारपारक्षीरतोमरशुमारभृङ्गारमन्दारोशीर. तिमिरशिशिराणि नपुंसके च ॥ चात्पुंसि । चक्रः । चक्रमित्यादि ।
षोपधः ॥ वृषः । वृक्षः। शिरीषीषाम्बरीषपीयूषपुरीषकिल्विषकल्माषाणि नपुंसके।
यूषकरीषमिषविषवर्षाणि नपुंसके च ॥ चात्पुंसि । अयं यूषः । इदं यूपमित्यादि।
सोपघः ॥ वत्सः । वायसः । महानसः ।
पनसविसबुससाहसानि नपुंसके । चमसांसरसनिर्यासोपवासकासवासभा(३)सकासकांसमोसानि नपुंसके च ॥ इदं चमसम् । अयं चमस इत्यादि ।
कसं चाप्राणिनि ॥ कंसोऽस्त्री पानभाजनम् । प्राणिनि तु कंसो नाम कश्चिद्राजा।
रश्मिदिवसाभिधानानि ॥ एतानि पुंसि स्युः । रश्मिर्मयूखः । दिवसो घस्रः।
दीधितिः स्त्रियाम् ॥ पूर्वस्यापवादः। दिनाहनी नपुंसके ।। अयमप्यपवादः । मानाभिधानानि ॥ एतानि पुंसि स्युः। कुडवः । प्रस्थः । द्रोणाढको नपुंसके च ॥ इदं द्रोणम् । अयं द्रोणः। खारीमानिके स्त्रियाम् ॥ इयं खारी। इयं मानिका ।
दाराक्षतलाजासूनां बहुत्वं च ॥ इमे दाराः ॥ (१) 'च्छिद्र' इति नास्ति कौमुद्याम् । (२) 'भोर' इति कौमुद्याम
(३) 'मास' इति कौमुद्याम् । . शब्द. द्वितीय. 18.
Page #283
--------------------------------------------------------------------------
________________
२७४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादअष्टमाहिके
नाड्यपजनोपपदानि व्रणाङ्गपदानि ॥ यथासंख्यं नाड्याधुपपदानि वणादीनि पुंसि स्युः । अयं नाडीव्रणः । अपाङ्गः । जनपदः । व्रणादी. नामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थ सूत्रम् ।
मरुद्रुत्तरहत्विजः । अयं मरुता
ऋषिराशिदृतिप्रन्थिक्रिमिध्वनिषलिकौलिमौलिरषिकविकपिमुन यः ॥ एते पुंसि स्युः । अयमृषिः ।। ध्वजगजमुअपुजाः॥ एते पुंसि ।
हस्तकुन्तान्तवातवातदूतधूर्तसूतचूतमुहूर्ताः ॥ एते पुंसि । अम रस्तु-"मुहूर्ताऽस्त्रियाम्' इत्याह । _षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः ॥ अयं षण्डः। ___ वंशांशपुरोडाशाः ॥ अयं वंशः । पुरो दाश्यते पुरोडाशः । कर्मणि घञ् । भवव्याख्यानयोः प्रकरणे "पौरोडाशपुरोडाशात्ष्ठन्" (पा०सू० ४-३-७०) इति विकारप्रकरणे "व्रीहेः पुरोंडाशे" (पा० सू०४-३१४८) इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् । "पुरोडाशभुजामिष्टम्" इति माघः ।
इदकन्दकुन्दबुबुदशब्दाः ॥ अयं हृदः।
अर्घपथिमथ्यभुक्षिस्त(१)म्बपूगाः॥ अयमर्घः। पल्लवपल्वलकफरेफकटाहनिर्म्यहमठमाणितरगतुरजगन्धस्कन्धमृ दङ्गसङ्गसमुद्रपुलाः ॥ अयं पल्लव इत्यादि । सारथ्यतिथिकुक्षिवस्तिपाण्यालयः ॥ एते पुसि । अयं सारथिः ।
॥ इति पुल्लिङ्गाधिकारः॥ - नपुंसकम् ॥ अधिकारो ऽयम् ॥
भावे ल्युडन्तः ।। हसनम् । भावे किम् ? पचनो ऽग्निः । इध्मव. धनः कुठारः।
निष्ठा च ॥ भावे या निष्ठा तदन्तं क्लीबं स्यात् । हसितम । गीतम्।
त्वयो तद्धितौ ॥ शुक्लत्वम् | शौक्लयम् । व्यञः पिस्वसामर्थ्या. त्पक्षे स्त्रीत्वम् । चातुर्यम् । चातुरी । सामग्यम् । सामग्री । औचित्य म् । औचिती।
कर्मणि च ब्राह्मणादिगुणवचनेभ्यः ॥ ब्राह्मणस्य कर्म ब्राह्मण्यम् ।
यद्यढग्यगण्वुञ्छाश्च भावकर्मणि ॥ एतदन्तानि. क्लीबानि । "स्ते. नाचनलोपश्च" (पा० सू०५-१-१२५)--स्तेयम् । “सख्युर्यः" ( पा०
(१) 'स्तम्बनितम्ब' इति कौमुद्याम् ।
Page #284
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् । सू०५-१-१२६ )-सख्यम् । “कपिशात्योढंक" ( पा० सु०५-११२७)-कापेयम् । “पत्यन्तपुरोहितादिभ्यो यक्" (पा० सू०५-११२८ )-आधिपत्यम् । “प्राणभृजातिवयोषचनोगात्रादिभ्योऽञ्' (पा० सु०५-१-१२९)-औष्ट्रम् । “हायनान्तयुवादिभ्योऽण्" (पा० सू०५१-१३०)-बैहायनम् । "द्वन्द्वमनोक्षादिभ्यो वुश्" (पा० स०५-११३३)-पितापुत्रकम् । "होत्राभ्यश्छः " (पा० स०५-१-१३५)-अ. छापाकीयम् ॥
अव्ययीभावः ।। अधिस्त्रि। दन्द्वकत्वम् । पाणिपादम् । अभाषायां हेमन्तशिशिरावहोरात्रे च ॥ स्पष्टम् । अनकर्मधारयस्तत्पुरुषः ॥ अधिकारोऽयम् । अनलपे छाया ॥ शरच्छायम् ।
राजामनुग्यपूर्वा सभा ॥ इनसभमित्यादि। सुरासेनाच्छायाशालानिशा स्त्रियां च ।। (१)परवत् । अन्यस्तत्पुरुषः परवल्लिम: स्यात् । रात्रान्हाहाः पुंसि ॥ अपथपुण्याहे नपुंसके। संख्यापूर्वा रात्रिः। पिरात्रम् । सहयापूर्वेति किम ? सर्वरात्रः। द्विगुरु सियां च ॥ व्यवस्थया । (२)पशमूली। त्रिभुवनम् । इसुसन्तः ॥ हविः । धनुः ।.
मार्चिः लिया। इसन्तत्वेऽपि अर्चिः सियां नपुंसके.च स्यात् । इयमिदं वा अर्चि।। .
सिसियामे यंगदिः। अद्यतेऽनेनेति छादेशचुरादिण्य न्तात् "मर्षिशुचि, इत्यादिना इम् । इस्मन्नित्यादिना इस्वः । “पटलं छदिः" (स०को०२-२-२७) इत्यमरः । तत्र पटलसाहचर्याच्छदिषः कीवतांवदन्तोऽमरव्याख्यातार उपेक्ष्याः।
मखनयनलोहवनमांसरुधिरकार्मुकविधरजलहलधनान्नाभिधाना नि । एतेषामभिधायकानि क्लोबे स्युः ।। मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिषम् । रुधिरं रक्तम् । कार्मुकं शरासनम् । विवरं बिलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रवि. णम् । अन्नमशनम् । अस्यापवादानाह त्रिसूच्या
सीरादनाः पुंसि। (१) 'शिष्टः परवत्' इति कौमुद्याम् । (२) 'पञ्चमूली' इति कौमुद्याम् ।
Page #285
--------------------------------------------------------------------------
________________
२७६ . शब्दकौस्तुभप्रथमाध्यायप्रथमपादअष्टमालिके
बननेवारण्यगाण्डीवानि पुंसि च ॥ वक्रो बक्रम् । नेत्रो नेत्रम् । भरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् ।
मरवी खियाम्॥ लोपधः । कुलम् । कुलम् । स्थलम् । ' तूलोपलतालकुसुलतरलकम्बलदेवलवृषल। पुंसि ॥ अयं तूलः।
शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालबालनिंग. लपलालबिडालखिलशुलाः पुंसि च । चात् क्लीवे । इदं शीलमित्यादि ।
शतादिः संख्या ॥ शतम् । सहस्रम् । शतादिरिति किम् ? एको. द्वौ बहवः । संख्येति किम् ? शतशुतो नाम पर्वतः ।
शतायुतप्रयुताः पंसि च ।। अयं शतः । इदं शतमित्यादि ।
लक्षा कोटिः स्त्रियाम् ॥ इयं लक्षा । इयं कोटिः । "वा लक्षा नि. युतं च तत्" इत्यमरात् क्लीवेऽपि लक्षम् ।
(२)सहस्त्रः पुंसि ॥ अयं सहस्रः ।
मन् द्यच्कोऽकर्तरि ॥ मन्प्रत्ययान्तो धकः क्लीवः स्थान तु कर्त. रि। वर्म । चर्म । बच्कः किम् ? अणिमा । महिमा । मर्तरि किम् ? ददाति इति दामा।
ब्रह्मन् पुंसि च ॥ अयं ब्रह्मा । इदं ब्रह्म । नामरोमणी नपुंसके । मन्धक इत्यस्यायं प्रपश्चः । असन्तो धन्कः ॥ यशः । मनः । तपः। द्यकः किम् ? चन्द्रमाः । अप्सराः स्त्रियाम् ॥ एता अप्सरसः। प्रायणायं बहुवचनान्त:। प्रान्तः ।। पत्रम् । छत्रम् । यात्रामात्रामस्नादंष्ट्रावरत्राः स्त्रियामेव ॥
भृत्रामित्रछात्रपुत्रमन्त्रवृत्रमद्रोष्ट्राः पुंसि ॥ अयं भृतः । न मित्रममि. प्रातस्य मित्राण्यमित्रास्ते" (मा०का०२-१०१) इति माघः । "स्या. ताममित्रो मित्रे च" इति च । यत्तु "द्विषोऽमित्रे" (पा०प०३-२-१३१) इति सत्रे हरदत्तेनोकम्-"अमेषिति चित"(उ०पू०६२३) इत्यौणादिक इत्र । अमेरमित्रम् । “मित्रस्य व्यथयेत्" इत्यादौमध्योदात्तस्तु चिन्त्यः । मन्समासेऽप्येवम् । परवल्लिङ्गतापि स्यादिति तु तत्र दोषान्तरमिति, तत्पकतस्त्रापालोचनमूलकम । स्वरदोषोद्भावनमपि "नो जरमर. मित्रमुताः" (पा०स०६-२-११६) इति षाष्ठस्त्रास्मरणमूलकामति दिक।
पत्रपात्रपवित्रस्त्रच्छत्राः पुंसि च ॥
(१)'शङ्कः पुंसि । सहस्रः कचित् । अयं सहस्रः। इदं सहस्रम्'। इति कौमुद्याम् ।
Page #286
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम्। २७७ बलकुसुमशुल्षयु(१)द्धगत्तनरणाभिधानानि ॥ बलम् । वीर्य । पकमलोत्पलानि पुंसि च ॥ पद्मादयः शब्दाः कुसुमाभिधायि. स्वेऽपि द्विलिङ्गाः स्युः । अमरोऽप्याह-"वा पुंसि पनं नलिनम् (अ. को०१-१०-४०) इति । एवं चार्ध दिसूत्रे तु जलजे पमं नपुंसकमेके. ति वृत्तिग्रन्थो मतान्तरण नेयः।
आहवसङ्कामौ पुंसि ॥ आजिः स्त्रियामेव ॥ फलजातिः॥ फलजातिवाची शब्दो नपुंसकं स्यात् । आमलकम् । मानम्।
वृक्षजातिः ॥ स्त्रियामेव । कचिदेवेदम् । हरीतकी। विपजगत्सकृत्शकन्पृषत्शकद्यदुदश्वितः ॥ एते क्लीवाः स्युः। नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तवतरजतवृत्तपलितानि॥
श्राद्धकुलिशदेवपाठकुण्डाङ्गदधिसक्थ्यश्यास्यास्पदाकाशकण्वबी. जानि ॥ एतानि क्लीबे स्युः ।
देवं पुंसि च ॥ दैवम् । देवः ।
धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्य हव्यकव्यकाव्यसत्यापत्यमूल्यशि. क्य(२)कुड्यहऱ्यातूर्यसैन्यानि ॥ इदं धान्यमित्यादि ।
द्वन्द्वबर्हदुःखवडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि ।। अक्षमिन्द्रिये ॥ इन्द्रिये किम् ? रथाङ्गादौ मा भूत् ।
इति नपुंसकाधिकारः । स्त्रीपुंसयोः ॥ अधिकारो ऽयम् ।
गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः ॥ इय. मयं वा गौः।
मृत्युसीधुकर्कन्धुकिकुकण्डरेणवः ॥ इयमयं वा मृत्युः ।
गुणवचनमुकारान्तं नपुंसकं च ॥ त्रिलिङ्गमित्यर्थः । पटु । पटुः । (३)पट्वी ।
।इति स्त्रीपुंसाधिकारः। पुनपुंसकयोः ॥ अधिकारोऽयम् ।
घृतंभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः ॥ अयं वृतः । इदं वृतम्। (१) 'युद्ध' इति नास्ति कौमुद्याम् । (२) 'कुड्य मद्य' इति कौमुद्याम।' (३) पट्वी। अपत्यार्थस्तद्धिते । औपगवः । औपगवी ।' इति कौमुद्याम् ।
Page #287
--------------------------------------------------------------------------
________________
२७८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादअष्टमाह्निके
शनार्धनिदाघोद्यमशल्यढाः । अयं शृङ्गः । इदं शुङ्गम् । व्रजकुञ्जकुथकूर्चप्रस्थदीर्धर्चदर्भपुच्छाः॥ अयं व्रजः। इदं व्रजम् । कबन्धौषधायुधान्ताः ॥ स्पष्टम् ।
दण्डमण्डखण्डशवसैन्धवपाश्वाकाशकुशकाशाशकुलिशाः ॥ एते पुनपुंसकयोः स्युः॥
कुशो रामसुते दर्भ योकोऽधीपे कुशं जले।
इतिविश्व शलाकावाचीतु स्त्रियाम्। तथाच "जानपद"(पा०म०४१-४२) इत्यादिसूत्रेणायोविकारे जीषि कुशी। दारुणि.तु टापा कुशा। "वानस्पत्याः स्थ ता भा यात" इति श्रुतिः। "अतः "ककमि" (पा० सू०८.३-४६) इति सूत्रे कुशाकणींग्विति प्रयोगश्च ।व्याससूत्रे च "हा. नौ तू रायनशब्दे शेषत्वात्कुशाच्छन्दः' इति । तत्र शारीरकभाष्येऽप्ये. वम् । एवञ्च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याप्रश्ले. पादिपरो भामतीप्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः । गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च ।
॥ इति पुनपुंसकाधिकारः॥ अविशिष्टलिङ्गम् ॥ अव्ययं कतियुष्मदस्मदः॥ ष्णान्ता संख्या ॥ शिष्टा परवत् । एकः पुरुषः। एका स्त्री। एकं कुलम।. गुणवचनं च ॥ शुक्ल पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । कृत्याश्च ।। करणा। करणाधिकरणयोयुट् च ।। सर्वादीनि सर्वनामानि । स्पष्टार्थेयं त्रिसुत्री ।
॥ इति पाणिनीयलिङ्गानुशासनं समाप्तम् ॥ प्रासङ्गिकं समाप्य प्रकृतमनुसरामः।
इदमोऽस्वादेशेऽशनुदात्तस्तृतीयादौ (पासू०२-४-३२) । अन्वादेश. विषयस्येदमोऽनुदात्तोऽशआदेशः स्यात्तृतीयादौ । प्रते बसविचक्षणं शं. सामि, माभ्याङ्गा अनु । इह बभ्रूशब्देनोकयोरिदमा परामर्शप्यन्वादेशो भवत्येव "अन्वादेशश्व कथितानुकथनमात्रम्, न तु इदमा कथितस्येदमैवानुकथनम् इति भाष्योक्तेः। न चैवम् “ईषदर्ये" इति श्लोके यच्छन्देनोक्तस्य पुनः कथनात् 'एतम् आतम्' इत्यत्रैनादेशः स्यादि. ति वाच्यम् , किचिद्विधायान्यद्विधातुमनुकथनस्यैवान्वादेशत्वात् । ईषदादिवृत्तेस्वनुवादेऽप्यविधानान । अशादेशवचनं माकच्का
Page #288
--------------------------------------------------------------------------
________________
विधिप्रकरणे अदेशविधानप्रकरणम् । २७६ र्थम् । अन्यथाऽन्वादेशेऽशातार्थविवक्षायाम् 'इमकाभ्याम्' इत्यपि प्र सज्येत । ननु त्यदायत्वन सिद्धौ विधानसामर्थ्यात्सर्वादशोऽस्तु किं शित्त्वेन ? मैवम् , 'आभ्याम्' 'पभिः' इत्यादौ विकाराभावार्थतापत्तेः, मोराजीतिषत् । ननु 'आभ्यामिन्द्रपक्कम्' इत्यादावन्वादेशत्वविवक्षा. विरहे यथा “ऊडिदम" (पा०स०६-१-१७१) इति विभक्तेरुदात्तता, तथा “माभ्यां गाः" इत्यत्रापि कुतो नेति चेत् ? न, तत्र प्रकृतेर. नुदात्तविधानात् "ऊडिदम्" इति सूत्रे च "अन्तोदात्तादुसरपदात्" (पासू०६-१-१६९) इति सूत्रादन्तोदात्तादित्यस्यानुव. तैनात् । तथाचान्वादेशे 'आभ्याम' इत्यादेः सर्वानुदात्तता, इतरत्र त्वन्तोदात्ततेति विवेकः।
स्यादेतत् , "साधेकाचः" (पासू०६-१-१६८) इत्युदात्तेनेह भा. व्यम् , "सुः सप्तमीबहुवचनम्" इति भाष्ये वृत्ती चोकत्वात् । यनु "ऊडिदम" इति सूत्रे हरदत्तनोक्तम्--इह "अन्तोदात्तात्" (पा० सू.६-१-१२९) इत्यनुवृत्तिसामात 'सावेकाचः' (पासू०६-११६८) इत्यपि न प्रवर्तते । न च “यदीमेनाउशतः" इतिशसो व्या. वृत्तौ सामोपक्षयः, एकाग्रहणेनैव तद्यावृत्तः । एकाच इत्यस्य चावश्यानुवय॑त्वात । अन्यथा "ग्रीवायां बद्धो अपि कक्ष मास.. नि" "मत्स्यं नदीन उदनि क्षिपन्तम्' इत्यत्रातिप्रसङ्गात् । 'आसन्' इत्यादयो छन्तोदात्ता एवादेशाः सूत्रे पठिता इति । ___ अत्रेदं वक्तव्यम्-'आभ्याम्' इत्यत्र "सावेकाचः" (पा००६-११६८)इत्यस्य प्राप्तिरेव नास्ति सप्तमीबहुवचनेषु'पषु'इति रूपं न ताडगि हास्ति । तथाचात्रैवान्तोदात्तग्रहणस्य चरितार्थत्वात्सामर्थ्यविरहः । तथा च "माभ्यालाः" "तदस्य प्रियम्" "तदस्मै नव्यम्" इत्यादेः सिद्धावपि मिसादौ दोषस्तदवस्थ एव । "एभिरग्रे" 'सुन्वन्ति सोमान्वचसि त्वमेषाम्" "प्रेणा तदेषां निहितम्" "एषुधावीरवत्" इत्यादौ हि ए इत्येव रूपमस्त्येव । तथाच तत्र विभकेरुदात्तप्रसङ्गः । न च "सावेकाचः" (पासू०६-१-१६८) इत्येतत्सूत्रस्थकैयटपर्यालोचनये. टापत्तिरिति वाच्यम् , अन्येत्विति वदता कैयटेन तन्मतेऽस्वरसावि. करणात् । तदीजन्तु बहुतरवैदिकप्रयोगविरोध एव । ____ अथोच्येत--"साधकाचः" (पा०सू०६-१-१६८) इति सूत्रे हरदत्तो. करीत्या सुः प्रथमैकवचनमेव । न च त्वया' इत्यत्रातिप्रसङ्गः, साव. वर्णेति निषेधात् । शेषेलोपष्टिलोप इति पक्षे तु साधकाच्त्वाभावाप्राप्तिरेव नास्ति । रूपविवक्षापि विफला । एवञ्च 'एभिः' इत्यादौ प्रा.
Page #289
--------------------------------------------------------------------------
________________
२८० शब्दकौस्तुमप्रथमाध्यायंप्रथमपादअष्टमाइकेप्तिरेव नास्तीति । तदपि न, रूपविवक्षाभावे 'दोषभ्याम्' इत्यत्राति प्रसङ्गात् । तैत्तिरीये हि "अंसायों स्वाहा दोषभ्यां स्वाहा' इति मध्योदात्तं पठ्यते । एवं स्थिते सुः सप्तमीबहुवचनमेव प्राह्यम् । अन्य था "इन्द्रो या तो वसितस्य राजा' इत्यत्र या इत्यन्तोदात्तं न स्यात् । नाह प्रथमैकवचनं यदूपं यानिति तदिहास्ति । अत एव गोशुनोः प्रतिषेधः सार्थका । तदेवमन्तोदात्तानुवृत्तिसामर्थ्य प्रथमकष चनग्रहणं वा शरणमित्येवंरूपस्य पाष्ठहरदत्तप्रन्यबललब्धस्य स. माधानद्वयस्यापि दुष्टत्वात् 'एभिः' इत्यादि कथनिर्वाह्यमिति फ. लितः पूर्वपक्षः। ___अत्रोच्यते, "सावेकाचः' (पा००६-१-१६८) इत्यत्रापि ". न्तोदात्तात्" (पा०६-१-१६९) इत्यस्यापकर्षानोकदोषः । वृत्यादा वननुवर्चितस्याप्यनुवृत्तिस्तु बहुधा राष्ट्रव । मत पत्र: "तुरुस्तु" (पा० सू०७-३-५) सो 'स्तुधीत' इत्यादिसिखये पितीत्यस्यः मिवृत्त्यै सा. र्वधातुकग्रहणमिति स्थिते 'शाम्यति इति श्यनमिटं पारयितुं तिकी. त्यस्यानुवृत्तिर्वक्ष्यते।
एतदनतसोतसो चानुदात्तौ (पाणसु०२-४-३३) । अन्वादेशः विषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तो चानुदात्तौ स्तः । एतस्मिन् प्रामे सुखं घसामः, अयोऽत्राधीमहे, अतो न गन्तास्मः । 'अत्र"अतः' इति पदे सर्वानुदासे । ननु पञ्चमे "एतदोऽन्"(पा०स०५-३५) इति भाग्यसम्मतः पाठः । न्यासरीत्या वृत्तिपाठोऽप्येवमेव । पद. मञ्जरीरीत्या तु "एतदोऽश्" इति वृत्तिपाठः । उभयथापि अकारे सिद्धे किमनेनेति चेत् ? पाञ्चमिकस्योदात्ततयाऽनुवाचार्यामह पुनवंचन. मिति गृहाण । 'प्रतसोः' इति वचनं निमित्तभावार्थम । अन्यथा "त्र. तसौ चानुदाचौ" इत्यन्वाचयो विधायेत।
स्यादेतत् , तसोः कृतयोः प्रछतेर्लिस्वरः । ततः शेषनिघातेन प्रतसोरनुदात्तत्वं सिद्धम् । अमात्रस्य त्वनुदात्तत्वं विधीयताम् । मैवम् , तसोहि कृतयोः “येननाप्राप्ति"न्यायेनापवादत्वानित्यत्वा. च्चानुदासोऽशादेशः स्यात् । ततस्तविधानसामालित्स्वरस्याप्रवृ. त्तावुत्सर्गः प्रत्ययस्वर एव तलोः स्यात् । यथा-'गोपदम' इत्यत्र पमु. ल्लोपेन सहविधानाल्लित्स्वराप्रवृत्तौ प्रत्ययाधुदासत्वे सति दुत. रपदप्रकृतिस्वरेणान्तोदा पदं भवति । तस्मात "तसौ बानुदाची' इति कर्तव्यमेव ।
द्वितीयाटोस्स्वनः (पाऽसृ०२-४-३४) । द्वितीयायाण्टौसोश्च परत
Page #290
--------------------------------------------------------------------------
________________
विधिप्रकरणे आदेशविधानप्रकरणम् ।
२८२
इदमेतदोरेनादेशः स्यात्स चानुदात्तः अन्वादेशे। इदमोऽत्र मण्डूक प्लुत्याऽनुवृत्तिः। अथैन मद्रेः । एनेन, एनयोः । कथन्तर्हि-"अइउण" (मान्सू०१-१-१) इत्यत्रोदाहते "हे रोहिणि" इति श्लोके एनादेश इति चेत् ? "अयं श्रोणीतटं स्पृशति, पनं निवारय" इति व्यत्या. सेन योज्यम् ।
आशीविषेण रदनच्छददंशदान
मेतेन ते घुनरबर्थतया न शक्ष्यम् । इत्यादौ त्वन्वादेशत्वस्याविवक्षा बोध्या। 'अभून्नुप' इत्यादावनद्यतनत्वस्य यथा । अथ कथं "प्रक्षालयतत्परिवर्तयनत्" इति ? नपुंसकै. कवचने एनदिति वक्तव्यात् । वस्तुतस्तु सूत्र एकैनद्वक्तव्यः । एनम् एनौ इत्यादि तुत्यदायत्वेन सिद्धमः। 'पनं श्रित' , इति द्वितीयासमासे तु 'एतच्छ्रित' इत्येव भवति, नत्वेन एनहा, "सुपो धातु" (पा०सं०२-४७१) इति लुका बहिरङ्गेणाप्यन्तरताणां बाधनात् । न चैवं 'प्रक्षालय. 'मत्' इत्यपिन, स्यादिति, वाच्यम, अमे लुका लुप्तत्वेऽपि तकारोबार.
सामर्थ्यादेनदादेशप्रवृत्तः। न चैवमेतच्छ्रितेऽपि एनदापत्तिः, एकपदाश्रयत्वेनान्तरले स्वमोलुंकि चरितार्थत्वेन बहिरङ्गे समासलुकि अप्रवृतेः ।
आर्धधातुके (पा०सु०२-४-३५)॥ अधिकारोऽयं "ण्यक्षत्रिय" (पा० सु०२-४-५८) इति यावत् । विषयसप्तमी चेयम् । तेनार्धधातुकोत्पत्तेः प्रागेवादेशेषु प्रवृत्तेषु यथायथं प्रत्ययाः । तथाहि, अस्तेः-भव्यम् । पर सप्तम्यान्तु ण्यति कृते भाव्यमिति स्यात् । अजेः-प्रवेयम् । ण्यति तु प्रवैयमिति स्यात् । चक्षिङ-आख्येयम् । ण्यति युकि आख्या. य्यमिति स्यात् । ब्रुवस्तु अजन्तत्वाद्यति वच्यामिति स्यात् । वा. व्यमिति चेप्यते । ।
स्थादेतत् , अङ्गाधिकारस्थे आर्धधातुकाधिकारे एव जग्ध्यादयो वि धीयन्ताम् । मैवम् , 'जक्षतुः' 'अधिजगे' 'अध्यगीष्ट' 'बभूव' 'विव्यतुः' इत्यत्र घस्लाद्यादेशानामसिद्धतया उपधालोपाऽऽल्लोपेत्ववुग्यणामभावा. पत्तेः। न चाऽतोलोपादयोऽप्यत्रैव विधीयतामिति वाच्यम् , 'गत" 'गतवान्' इत्यंत्रानुनासिकलोपस्यासिंद्धत्वाभावादतोलोपापत्तेः । यदि स्वार्धधातुकोपदेशकाले यदकारान्तमिति व्याख्यायतेऽसिद्धवत्सूत्रञ्च प्रत्यास्पायते, तदाऽभ्यतर आर्धधातुकाधिकारः शक्योऽकर्तुम् । नन्वेकश्चेदार्धधातुकाधिकारस्तहि विषयसप्तमीत्वपरससमीत्वे कथं व्य. वतिष्ठेयातामिति चेत् ? न, सूत्रद्वयारम्भपक्षेऽप्याङ्गस्यैकस्यैव शापक.
Page #291
--------------------------------------------------------------------------
________________
२८२
शब्दकौस्तुभद्वितीयाध्यायचतुथपादे प्रथमाहिके
बलेनोभयरूपताश्रयणात् । यथा चैतत्तथा "न पदान्त' (पासू०१-१५८) सूत्रे उपपादितम् । ___ अदोजग्घिर्त्यप्ति किति (पासू०२-४-३६) ॥ ल्यविति लुप्तसप्त. मीकं पृथक् पदम् । अत्तेजग्धिरादेशः स्याल्ल्यपि तादौ किति च । इकार उच्चारणार्थो न त्वनुबन्धः, नुमप्रसङ्गात् । एवं "ब्रुवो वचिः" (पा०स०२-४-५३) इत्यादौ । प्रजग्ध्य, जग्धम् ।
जग्धौ सिद्धेऽन्तरङ्गत्वात्तिकितीति ल्यबुच्यते।
झापयत्यन्तरलाणां ल्यपा भवति बाधनम् ॥ तथाहि. पदद्वयसापेक्ष समासं प्रतीक्षमाणो ल्यब्बहिरङ्गः, ततः प्राक्तिकितीति सिद्धौ जग्धेर्त्यग्रहणन्तु हित्वदत्वात्वेत्वदीर्घत्व. शूडिठामन्तरङ्गाणामपि बाधं ज्ञापयति । "दधातेर्हिः (पासू०७-४-४२) "जहातेश्च विव" (पा०सु०७-४-४३) हित्वा । नेह-विधाय । "दो दद् घोः (पासू०७-४-४६) दत्त्वा। नेह-प्रदाय । “जनसनखना सञ्झलो" (पासु०६-४-४२)खात्वा। नेह-प्रखन्य, प्रखाय । इह हि "ये विभाषा' (पा०सू०६-४-४३) इति विकल्पः । "धतिस्यतिमास्थामित्ति किति" (पा००७-४-४०) स्थित्वा । नेह-प्रस्थाय। “अनुनासिकस्य क्विझलो" (पासू०६-४-१५) इति दीर्घः, क्रान्त्वा । नेह-प्रक्रम्य । “च्छ्वोः शूट" (पा०९०६-४-१९) पृष्ट्वा । द्यूत्वा । नेह-आपृच्छय | प्रदीव्य । इटदेवित्वा । नेह-प्रदीव्य । वस्तुतस्तु ल्यग्रहणं नान्तरङ्गबाधं ज्ञापयितुं, किन्तु विध्यर्थ व्यर्थमेव वा इति निरूपितम् "अचः परस्मिन्" (पासू१-१-५७) इति सूत्रे ।
लुङ्सनोर्घस्लु (पासू०२-४-३७)॥ अदो घस्ल स्याल्लुङि सनि च । लदित्वाद। अघसत् । जिघत्सति । यद्यपि घसिः प्रकृत्यन्तरमस्ति, तथापि अदेः 'आसीत' 'अदित्सति' इत्यनिष्टं रूपं वारयितुं सुत्रम् । ____ अच्युपसङ्ख्यानम् (का०वा०) ॥ प्रात्तीति प्रघसः । इदमपि अदेः पचाद्यचि 'अदः' इति रूपं वारयितुम् 'प्रघसः' इत्यस्य प्रकृ. त्यन्तरेणैव सिद्धेः।
घअपोश्च (पा०स०२-४-३८)॥ घनि अपि चादेर्घस्लादेशः स्यात् । घासः । प्रघसः। "उपसर्गेऽदः" (पा०स०३-३-५९) इत्यप् । ___ बहुलच्छन्दसि (पासू०२-४-३९) । अदो बहुलं घस्लादेशः स्याः च्छन्दसि । घस्तान्नुनम् । लुकि "सन्त्रे घस" (पासू०२-४-७०)इत्या. दिना ग्लेलृक् । “बहुलञ्छन्दस्यमाङ्योगे" (पा०सू०६-४-७५) इत्यड. भावः । सग्धिश्च मे । क्तिनि "प्रसिभ मोहलि च' (पासू०६-४-१००)
Page #292
--------------------------------------------------------------------------
________________
२८३
विधिप्रकरणे आदेशविधानप्रकरणम् । इत्युपधालोपः । “समानस्य छन्दसि' (पा०९०६-४-८४) इति सभावः । न च भवति-अत्ताम् । प्रकृत्यन्तरेण सिद्धे सूत्रस्य प्र. योजनं मृग्यम् ॥
लिट्यन्यतरस्याम् (पा०सु०२-४-४०) ॥ अदेर्घस्ल वास्याल्लिटि । जघास, जक्षतुः, जक्षुः । आद,आदतुः, आदुः। प्रकृत्यन्तरस्यासर्वविषय. त्वज्ञापनार्थमिदं सूत्रम् । तेन यत्र लिङ्गं वचनञ्च नास्ति तत्र तस्य प्रयोगो न । तत्र लदिस्करणं लुङि प्रयोगस्य लिङ्गम् । घसिश्च सान्तेष्विति अनुदात्तपाठो वलादावार्द्धधातुके । 'सृघस्यदः कमरच"(पा०सू०३-२१६०) इति क्वतं कमरचि । भूवादी परस्मैपदिषु पाठाच्छपि परस्मैपदेषु.प्रयोगः । अत एवाशीलिङि कर्तरि नास्य प्रयोग इति माधवादयः । • बेञो वयिः (पा००२-४-४१) ॥ वेत्रो लिटि परे वयिर्वा स्यात् । उवाय,ऊयतुः, ऊयुः । “लिटि वयो यः" (श०सू०६-१-३८) इति निषेधाधकारस्य न सम्प्रसारणम् । “वश्चास्यान्यदरस्यां किति" (पा०सू०६-१. ३९) इति वकारादेशपक्षे ऊवतुः, ऊचुः । वयेरमावे-ववौ, ववतु, ववुः । "वेषः" (पासू०६-१-४०) इति सम्प्रसारणनिषेधः ।
हनो वध लिङि (पा०पू०२-४-४२) ॥ हन्तेबंध इत्यादेशः स्यादा. र्द्धधातुके लिङि । वध्याव । .. लुङि च (पा०स०२-४-४३) ॥ हनो वधः स्याल्लुङि । अवधीत् । वधादेशोऽदन्तः। अल्लोपस्थ स्थानिवद्भावात् “अतो हलादेर्लघोः" (पा० ३०७-२-७)इति वृद्धिर्न ॥
आत्मनेपदेष्वन्यतरस्याम् (पासू०२-४-४४) ॥ हनो वधः स्याद्वा आत्मनेपदं यो लुक तत्परे आर्धधातुके । आवधिष्ट, आवधिषाताम. आवधिषत । आहत, आहसाताम्, आहसत । "आङो यमहनः"(पा०स० १-३-२८) इत्यात्मनेपदम् । "हनलिच्" (पासू०१-२-१४) इति कि. स्वम् । “अनुदात्तोपदेश" (पा०००६-४-३७) इति नलोपः।
इणो गा लुङि (पासू०२-३-४५) ।। णो गा स्याल्लुङि । अगात्, अगाताम्, अगुः । अगायि भवता ।
इण्वदिक इति वक्तव्यम् (का०वा०)॥ अध्यगात् । न केवलडा. देशमात्रस्यातिदेशः, किन्तु सकलकार्यस्य । तेन इणो यण स्यात् । अधियन्ति । अधीत्य । “पतिस्तुशास्वृ' (पासू०३-१-१०९) इति क्यबिति हरदत्तः। अन्ये तु गादेशस्यैवातिदेशमास्थाय "ससी. तयोराघक्योरधीयन्" इति भट्टिप्रयोगं समर्थयन्त इति तृतीये स्फु. टीकरिष्यामः।
Page #293
--------------------------------------------------------------------------
________________
२८४
शब्दकौस्तुभद्वितीयाध्यायचतुर्थ पादे प्रथमाहिके
णौ गमिरबोधने (पासु०२-४-४६) ॥ अबोधनार्थस्य इणो गमिरा. देशः स्याण्णौ ॥ गमयति । बोधने तु प्रत्याययति । "इण्वदिकः'(का०. वा०)। अधिगमयति । ___सनि च (पा०स०२-४-४७) ॥ अबोधनार्थस्य इणो गमिः स्यात्स. नि । जिगमिषति । बोधने तु प्रतीषिषति । "इण्वदिक' (का० वा०) जिगमिषति ।
इङश्च (पा०स०२-४-४८) । इङो गमिः स्यात्सनि । अधिजिगांसते । गालिटि (पा.सू.२-४-४९) । इङो गाङ् स्याल्लिटि । अधिजगे। घार्तिकमते लिटीति परसप्तमी। "द्विवचनेऽचि(पा०९०१-१-५९) इति स्थानिवद्भावस्तुन भवति,लिलटीति द्विलकारकनिर्देशेन लावस्थायामेव गाऊःप्रवृत्तेः । भाग्यमते तु आर्धधातुकायाः सामान्येन भवन्तीत्यभ्युप. गमास्परनिमित्तता नास्तीति प्रागेवोकम् । यद्यपि.स्थानिवद्भावेन जि. स्वात्त सिद्धा,तथापि "गाकुटादि" (पासू०१-२-१) सूत्रेऽस्यैव ग्रहणाथै ङित्करणम् । न हि स्थानिवद्भावेन गाङिति रूपं लभ्यते । “गा. कुटादिभ्यः" इति तूच्यमाने "के गै रै शब्दे" (भ्वा०प० ९४१-९४२-१४३) "इणो गा लुङि" (पा०सू०२-४-४६) इत्येतयोर. पि ग्रहणं स्यात् । ततश्च 'अगासीनटः' 'अगासातां ग्रामौ देवदत्तेन" इत्यत्र "घुमास्था' (पा०स०६-४-६६) इतीत्वं स्यात् । “गा गतौ' (भ्या आ०९७५) इत्यनने सह सामान्यग्रहणार्थोऽयं उकार इति तु न भ्रमितव्यम् । 'गाते' इत्यादौ तडं प्रवयं तदीयङकारस्य निवृत्ताकाडत. या उल्लिखितप्रज्ञाप्यशराित्तु, यत्र सानुबन्धकाषष्ठी उच्चार्यते तत्रा. कृतायामेवेत्संहायामादेश इति । सत्यामपि वा तस्यां तत्र स्थानिव. द्भावेनानुबन्धकार्य नेति । प्रयोजनन्तु 'नन्दना' 'कारिका' इत्यत्रोगिः लक्षणङीवभावः । तथाहि 'युवोरनाको' (पा०९०७-१-१) इति सूत्रे. अनुनासिकोकारौ युवू निर्दिष्टौ । अन्यथा 'भुज्या शंयुः' इत्यत्रातिव्या.
। तथाचं स्थानिवद्भावेनोगित्त्वात् 'नन्दना कारिका' इत्यत्रोगि: लक्षणो डीप स्यात् । 'नन्दः' 'कारकः' इत्यत्र चेगिल्लक्षणो नुम् स्यात् ।
ननु नुम् स्यादिति सत्यं, जीप तु कारिकायामापांघताम् । न भदनायान्तु कथम् ! ल्युः कर्तरीमनिज् भावे को, घो कि प्रादितोऽन्यतः
(अको०३-५-१५) ज्यमरेण पुंस्त्वस्योक्तत्वादिनि चेत् ? न, एनत्सूत्र “युवोः" (are
Page #294
--------------------------------------------------------------------------
________________
विधिप्रकरणे आदेशविधानप्रकरणम्। २८५ सू०७-१-१) इति सूत्रे च : 'नन्दना' इति : भाग्योदाहरणबलेन "ल्युः कतरि" इत्यमरस्य प्रायिकत्वात्। तथाच श्रीहर्षः प्रायुङ्क्त "वि शिष्य सा भीमनरेन्द्रनन्दना" इति । तस्मान् छोप्नुमोरभावो शा. पनफलमिति।
. ___ अत्रोच्यते, “युवो" (पा०सू०७-१-१) · इत्यत्रानुनासिकयणावेष युवू, न त्वनुनासिकोकारौ । अतो डीनुमौ न । तथा 'यजमान इत्यः त्र टेरेत्वाभावोऽपि नःशापनफलम् । "टित आत्मनेपदानाम्' (पा०सू० ३-४-७९) इत्यत्र प्रकृतानामेवात्मनेपदानां ग्रहणात् । तामित्येव वाऽ. स्तु । अन्यान्यपि सम्भावितानि ज्ञापकफलानि प्रत्याख्यातानि भाये । प्रत्युत शापनाभ्युपगमे बाधकान्यपि सन्ति । तथाहि,. 'अचिनवम् इत्यत्र अमादेशस्य पित्वसिद्धधये "तस्थस्थमीनाम्" इति वकव्यम् । "अणिोरनार्षयोः' (पा०सू०४-१-७८)"कोल्यप्". (पासू०ए०७-१३७) इत्यादी स्थानिनि अनुबन्धस्स्यकव्यः । वाराया'. 'प्रकृत्य' इत्यादी वृद्धिर्गुणप्रतिषेधश्च यथा स्यात् । तदेवं बहुसत्रभझापचेर्नेदं शापकं सूत्रकृतोऽभिप्रेतं, किन्तु पूर्वोक्तमेव स्विस्य फलं बोध्यम् ।
विभाषा लुङ्लङ (पा०स०२-४-५०)॥ङो गाङ्वा स्यात् लङि लङि च । “गाकुट" (पा०१०१-२-१) इति जित्वम् । “घुमास्था" (पासू०६-४-६६) इतीत्वम् । अध्यगीष्ट, अध्यगीषाताम, अध्यगी. षत । अध्यैष्ट, अध्यैषाताम्, अध्यैषत । अध्यगीप्यत । अध्यष्यत ।
णीच संश्चङोः (पा०सू०२-४-५१)॥ गाङ् वा स्यात् सन्परेचपरे चणौ। अधिजिगापयिषति। अध्यापिपयिषति । "क्रीजीनां णौ" (पा. सू०६-१-४८) इत्यात्यम् । अध्यजीगपत् । अध्यापिपत् । - 'अस्तेर्भूः (पासू०२-४-५२) ॥ अस्तेर्भूरादेशः स्यादार्धधातुके । भविता । भवितुम् । भवतिनैवाभिमते रूपे सिद्धेऽस्तेः 'असिता' इत्या. दिनिवृत्तये योगारम्भः । कथन्तर्हि 'ईहामास' इत्यादि ? अत्राहुः, अनु. प्रयोगसामर्थ्यादस्ते भावो नेति । अन्यथा "क्रम चानुप्रयुज्यते" इति "कृम्वनुप्र" इति वा ब्रूयादिति तदाशयः । अथ कथं "तेनाऽऽस लोकः पितृमान्विनेत्रा" "प्रादुरास बहुलक्षयाच्छविः” इत्यादि ? उच्यते, ति. उनसप्रतिरूपकमव्ययमिदमासेति । यद्वा, अस · गतिदीप्यादानेषु" (भ्याट०८६) इति स्वादे स्परितेतो रूपमिदम् । भूभावस्तु नास्य शङ्कया, अस्तेरिति लुका निशात् ॥
ब्रवो वचिः (पासू०२-४-५३)॥ बुवो वचिरादेशः स्यादार्धधा. तुके। "वच परिभाषणे" (अ०७०१०६३) इत्यनेन सिद्ध ब्रुवोऽनिष्टः
Page #295
--------------------------------------------------------------------------
________________
२६
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमाहिके -
प्रयोगवारणार्थ सूत्रम् , क्रियाफलस्य कर्तृगामितायां स्थानिवद्भावेनात्मनेपदार्थश्च । 'शास्त्रार्थ वक्ष्यते मुनि।
चक्षिङः ख्याञ् (पासू०२-४-५४)॥ आर्धधातुके विवक्षिते । तृजा. दौ 'चक्षिता' इत्यादिनिवृत्तये सूत्रम् , कत्रभिप्राये फले आत्मनेपदार्थश्व । मुनिर्वेदं व्याख्यास्यते । 'आख्याता' इत्यादि तु "ख्या प्रकथने" (अ०प०१०६०) इत्यनेनापि सिद्धम् । अत्र वार्तिकानि
चक्षिक ख्याशाऔ ( का वा० ) । आक्शाता। खशादिर्वा (का०या०)।
असिद्ध शस्य यवचनं विभाषा (का० वा०)। मस्यार्थः । ख. कारशकारादिरादेशोऽनेन विधेयः। असिडकाण्डे तु गत्वप्रकरणानन्तरं "खशाजः शस्य यो वा" इति वचनं कर्तव्यम् । तथाच चत्वे यत्वं सिद्धमिति स्वर्परत्वाभावेन "खरिच" (पा००८-४-५५) इत्य. स्याप्रवृत्तेयत्वपक्षे 'मास्याता' इति सिखम् । यत्वामावपक्षे तु चान 'माक्शाता' इति रूपम।
प्रयोजनं सौप्रत्ये वुविधिः (का०या०) । सुप्रचष्टे सुप्रख्या। "आतश्योपसर्गे" (पासू०३-१-१३६) इति कः । तस्य भावः सौ. प्रख्यम् । व्यञ् । “योपधाद्गुरूपोत्तमा" (पा०५०५-१-१३२) इति वुम् तु न भवति, यत्वस्यासिद्धत्वादित्यर्थः । तम सुप्रख्येन निवृत्ती देशः सौप्रख्यः । तत्र भवः सौप्रख्यायः "वृद्धाच्छ:" (पा०१० ४-२-११४) न तु "धन्वयोपधाद" (पा०९०४-२-१२१) इति खुम् ।
प्रयोजनान्तरमाह-निष्ठानत्वमाख्याते । (को०वा.) 'पाख्याते इत्यत्र "संयोगादेरातो घातो र्यग्वतः" (पा०स०८-२-४३) इति न भवति, यत्वस्यासिद्धया यण्वचाविरहात् । एवञ्च "न ध्याख्या' (प्रा००८-२५७) इति सूत्रे ख्याग्रहणं न कर्त्तव्यं भवति ।
रुविधिः पुडधानम (कावा०)॥ यत्वस्यासिखतयाऽम्परामा. वात् "पुमः स्वयि" (पासू०८-३-६) इति रुत्वं नेत्यर्थः ।
णत्वं पर्याख्यानम् (कावा०) ॥ यत्वस्थासिद्धतया शकारणाऽनटा व्यवाया "कृत्यचः"(पा०स०८-४-२९)इति गत्वं नेत्यर्थः।
सस्थानत्वं नमःयात्रे (कावा.)। "शपरे विसर्जनीयः" (पासु ४-३-३६) इति विसर्गः सिध्यतीत्यर्थः । 'सस्थान' इति जिहाम्रली. यस्य प्राचां संज्ञा । सस्थानत्वं विह नेति योज्यम्, गत्वादीनाम: प्यभावस्यैव प्रक्रान्तत्वात् । तस्माद् कुन्नत्वरुत्वणवानि सस्थानचे ति पकं प्राप्तं वारयितुं शस्य यत्वं कृतमिति स्थितम् ।
Page #296
--------------------------------------------------------------------------
________________
२८७
विधिप्रकरणे आदेशविधानप्रकरणम् । स्यादेतत् , “ख्या प्रकथने" (अ०५०१०६०) इति धातुमादाय वुझा. दिपञ्चकं दुर्वारम् । सत्यम् , सोऽपि खशादिः । यतु 'अविधिरप्युभय. साधारण बोध्यः' इति हरदत्तमाधवादयः, कैयटस्तु नैतन्मने । भाष्ये ख्याधातोः बशादित्वानुके, चक्षिङ ख्याआदेशमेवोपक्रम्य यत्व. विधानात् । “न ध्याख्या" (पा०सू०८-२-५७) इति सूत्रे ख्याग्रहण. न्तु कर्तव्यमेव 'व्याख्यातः' इत्यत्र नत्वाभावाय । ख्याआदेशस्तु लाक्षणिकत्वात्तत्र न गृह्यत इत्ति, यत्वस्यासिद्धत्वात्प्राप्तिरेव नास्तीति च बोधयितुं प्राक् नत्वग्रहणम् । णत्वं तु "लुब्योगाप्रख्यानात्" (पासू०१-२-५४) इति निपातनान भवति । वुश्रुत्वसस्थानत्वानि तु ख्यातौ स्युरेव । स्याआदेशे तु नेति तत्र रूपद्वयं बोध्य. म् । अस्मिन्मते आदेशे प्रख्यानादिति प्रयोगोपपत्तेः कथं निपातनमुप. न्यस्तमिति चिन्त्यम् । बुादाविव णत्वांशेऽपि रूपये इष्टापत्तिः, अनिष्टत्वे वाऽनभिधानात्कृत्यल्युटोबहुलग्रहणाच्च तत्र ल्युडेव नेति न्याय्यः पन्थाः।
परमार्थस्तु ख्याधातुः सार्वधातुकमात्रविषयः। "सस्थानत्वं नमः ख्यात्रे' (काभ्वा०) इति वार्तिकं तद्भाष्यं चेह प्रमाणम् , आर्धधातुके. ऽपि तत्प्रयोगे उक्तप्रयोजनासमतेः। एवं "णत्वं पर्याख्यानम्"(कावा०) इत्यपि । तथा च "न ध्याख्या" (पासू०८-५-७) इति सूत्रे ख्याग्रहणं न कर्तव्यमेव । माधवहरदत्ताद्युत्प्रेक्षा तु गौरवप्रस्ता उपक्रमादिविरुद्धा। सार्वधातुकेपि क्शाप्रयोगे प्राप्तेऽनभिधानमात्रालम्बना चेत्यवधेयम्।
वर्जने प्रतिषेधः (का०या०) ॥ दुर्जनाः सञ्चश्याः, वर्जनीया इत्यर्थः ।
असनयोश्च (काल्वा०)।नृचक्षा रक्षः । छान्दसोवर्णविकारः।भाषा यान्तु नृचक्षो रक्षः' इति भवतीति कैयटहरदत्तौ।माधवस्तु "हे अग्ने नृच. क्षा: मनुष्याणां द्रष्टा त्वं रक्षः परिपश्य" इति वेदभाज्ये व्याख्यत्। विचक्ष. णः "अनुदान्तश्च हलादेः" (पासू०३-२-१४९) इति युन् । अत एवा. न्तोदात्तः पठ्यते-'विचक्षणः प्रथयन्' इति । 'यत्रामृतस्य चक्षणम्' इत्यादौ तु ल्युट् । अत एव लित्स्वरेणाधुदात्तता । कथं तर्हि- 'पुख्यानं' 'पयाख्यानम्' इतिप्रागुदाहृतमिति चत? वक्ष्यमाणबाहुलकादित्यवेहि ।
बडुलन्तण्यत्रवधकगात्रविचक्षणाजिराद्यर्थम् (का०वा०)। सर्वप्रकरणापेक्षमेतत् । तणिति संशाछन्दसोर्ग्रहणम् । तत्र अनशब्दे जम्ध्यभावः । “अन्नाण्णः" (पासू०४-४-८५) इति निपातनाद्वा सिद्धम्। 'वधकः' इति । ण्वुलि वधादेशः । अल्लोपस्य स्थानिवस्वादृष्यभावः। "क्वुन् शिल्पिसंशयोः' ( उ०सू०२०० ) इत्यधिकारे "हनो वध च"
Page #297
--------------------------------------------------------------------------
________________
२८८
शब्दकौस्तुभद्वितीपाध्यायचतुर्थपादे प्रथमोहिके
(उ०म०२०४ ) इत्युणादिसूत्रेण गतार्थमेतत् । गात्रमिति । इणः औणादिकेष्ट्रनि गादेशः । गाधातुना वा सिद्धम् । मजिरामिति । वीभावो न । “अजिरशिशिर (उ०सू०५६)इति निपातनात् सिद्धम् । ___ पा लिटि (सू०२-४-५५) ॥ चक्षिकः स्याम् वा स्यालिटि चल्यो । चक्शौ । चचः।
अजेयं घपोः ( पासु०२-४-५६) । अर्घातोषी इत्यादेशः स्या दोर्द्धधातुके घनमपञ्च वर्जयित्वा। प्रवपणीयः। प्रापकः । अघनपो. किम् ? समाजः । उदाजः । समजः । उदजा। समुदोरंजा पशुषु (पासू०३-३-६९) इत्यप् । दीर्घव्याख्यानं किमर्थम् ? संवीतिः ।
धपोः प्रतिषेधे क्यप उपसंयानम् 1 (कावा) ॥ समज्या । "संज्ञायां समज" (पासू०-३-३-९९) इति क्या ।ह पूर्वसूत्राद्वत्य. नुवर्तते । सा चं व्यवस्थितविभाषा । तेने घनमप्क्याप्सुन । स माजा, संमजः, समध्या, इति। .
बलादावार्घघातुके ल्युटि च वा (कावा.)। प्राजिता, प्रवेता। प्राजनं, प्रवयणम् । एवञ्च नार्थो घअपाः प्रतिषेधेन, नापिक्यप उपसस्थानेन, नापि "वा यो" (पा०स०२-४-५७) इति सूत्रेण । तस्मात्अजेर्वी वेति घनपोः क्यपि चायं न सम्मतः।।
वलादौ यौ च वाऽन्यत्र नित्यमित्येष निर्णयः (कावा०) । आर्धधातुके इत्यस्य विषय सप्तमीत्वात प्रागेव प्रत्ययोत्पत्तेर्वीमावे हलादित्वाद्यङ् । वेवायते । नात्र यङ्लुगस्ति यतो लुका यङ मार्ध. धातुकस्य विषयत्वापहारानार्द्धधातुकन्यक्तभिव्यक्तिरिति वीमावस्य नैव प्रसङ्गः । उक्तश्च "न लुमताऽस्य" (पासू०१-१-६३) इति सूत्रे कैयटन-लुको यो विषयत्वापहाराद्विषयसप्तम्याश्रयणेऽप्यसिद्धिरिति ।
वा यौ (पासू०२-४-५७) ॥ अजेर्वी वा स्यात् यौ । प्रवयणम् । प्राजनम् । इदश्च पूर्वसूत्र एंव प्रत्याख्यातम् ।
आर्द्धधातुकाधिकारः समाप्तः । ' यक्षत्रियार्षभितो यूनि लुगणिोः (पासू०२-४-५८) ॥ क्षत्रियशब्दः क्षत्रियगोत्रपरः । ऋषेरपत्यमार्षम् । "इतश्चानिमः" (पासु०४१-१२२) इति ढकि प्राप्ते शिवादिपाठादण् । ढगपीप्यते, 'आर्षेयं वृणी. ते' इति दर्शनात् । तस्माच्छुभ्रादिष्वपि पठनीयः । ण्यप्रत्ययान्तात् क्ष त्रियगोत्रापत्य प्रत्ययान्तादृज्यभिधायिनो गोत्रप्रत्ययान्तात् भितश्च पर. योः युवाभिधायिनोरणिो क् स्यात् । “कुर्वादिभ्यो ण्यः" (पा०१० ४-१-१५१) । तस्माधूनि इञ् । तस्य लुक् । कौरव्यः पिता,
Page #298
--------------------------------------------------------------------------
________________
विधिप्रकरणे लुम्विधानप्रकरणम्।
२८९ कौरव्यः पुत्रः । ननु कौरव्यशब्दस्तिकादिषु पठ्यते । ततः 'को. रव्यायणि इति हि किया भाव्यमिति चेत् १ न, तप हि "कुरुनादिः भ्यो पयः" (पासू०४-१-१७२) इस्यमेन विहितस्य क्षत्रियगोत्रस्य ग्रहणम् । इदन्तु ब्राह्मणगोत्रम् । "ऋष्यन्धकवृष्णिकुरुभ्यश्च"(पा०सू० ४-१-११४) इत्यण । तस्माद्यूनि इम्। तस्य लुक् । प्रवाफलकः पिता, श्वाफलकः पुत्रः । क्षत्रियवसिष्ठायण तत.म् । तस्य लुक् । वासि. छ: पिता, वासिष्ठः पुत्रः । आर्षः विदायम् तस्मानी ।तस्य लुक् । बैदः पिता, बैदः पुत्रः । तेकायनिः पिता, तैकायनिः पुत्रः । कुत्सातः सौवीरगोत्राद्वाऽन्यत्रेदम् । अन्यथा "फेश्छ"(पा०सू०४-१-१४९) इति छप्रसङ्गात् । यमुन्दश्चेत्यादिपरिगणनस्य. भाज्यविरुद्धत्वात् । एभ्यः किम् ? "शिवादिभ्योऽण्" (पासू०४-१-११२)। ततो यूनि इन् । कोहड: पिता, कौहडिः पुत्रः । यूनि किम् ? पामरथ्यस्य छात्राः वामर. थाः । “कुर्वादिभ्यो ण्यः" (पासू०४-१-१५१) । तस्मात् “कण्वादि. भ्यो गोत्रे' (पा०पू०४-२-१११) इति शैषिकोऽण् । बामरथस्य क. ज्वादिवत्स्वरवर्जमिति कुर्वादिषु पाठात् । अत्र शैषिकस्याणो न लु.
। अणिोः किम् ? दाक्षेरपत्यं युवा दाक्षायणः । ____ अब्राह्मणगोत्रमात्रायुवप्रत्ययस्योपसल्यानम् (कावा०) ॥ मात्रश. दः कात्स्न्ये । क्षत्रियादिजाति विनापि अब्राह्मणत्वमात्रेण ततः परस्य मणिमयां मिन्नस्यापि लुगित्यर्थः । मण्डिजङ्घकर्णखरको वैश्यौ, ताभ्यामतइञ् , तदन्ताफको ठक् । माण्डिजतिः पिता पुत्रश्च । एवं कार्णखरकिः ॥
पैलादिभ्यश्च (पा०म०२-४-५९) ॥ एभ्यो युबप्रत्ययस्य लुछ स्यात् । “पीलाया वा" (पा००४-१-११८) इत्यम् । तस्मात् "अणोध. च' (पा०९०४-१-१५६) इति फिम् , तस्य लुक् । पैलः पिता पुत्रश्च । आकृतिगणोऽयम्।
तद्राजाधाणः (गसू०)। इत्यन्तर्गणसूत्रम्।तद्राजसंक्षकादणः परस्य युवप्रत्ययस्य लुक् स्यात् । "धमगध" (पासू०४-१-१७०) इत्यण्ण. न्तादानशब्दात् "अणो वचः” (पा०सू०४-१-१५६) इति फिप्रो लुक् । आज पिता पुत्रश्च । , ञः प्राचाम् (पासू०२-४-६०) ॥ गोत्रे य इञ्. तदन्ताधुवप्रत्यय. स्य लक् स्यातक्षेद्रोत्रं प्राचां भवति । इह "प्राचामवृद्धाव" (पाल ४-१-१६०) इत्यादिवत्याग्रहणं विकल्पार्थ नेत्यत्र व्याख्यानं शरणम् पत्रं प्राप्तम् भगारं येन स पनागारः । तत { "यषिोश्च" (पा०५०
शब्द. द्वितीय. 19. . .
Page #299
--------------------------------------------------------------------------
________________
२९०
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे द्वितीयान्हिके
४-१-१०१) इति फक् । पान्नागारिः पिता पुत्रश्च । मन्थरा मन्दीभूता एषणा यस्य स मन्थरैषणः। मन्थरैषणिः पिता पुत्रश्च । प्राचां किम् ? दाक्षिः पिता, दाक्षायणः पुत्रः।
न तौल्वलिभ्यः (पासू०२-४-६१)॥ तौल्वल्यादिभ्यः परस्य युवप्र. त्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तो निषिध्यते । तुल उपमाने (चु०५० ६६) । औणादिको वलन् । तुल्वलः। तत इजि फक्-तौल्वलिः पिता, तौल्वलायनः पुत्रः। तौल्बलि।तैल्वलि । धारयतिपारयतिभ्यो नन्द्यादि स्वाल्ल्युः , तत इ-धारणि। पारणि । दैवलिपि। देवमित्रि । देवयनि । देवा मित्रमस्य, देवेभ्यो यज्ञोऽस्येति विग्रहः । प्राणेहति । चापति । मानराहनि । श्वाफल्कि । आनुमति । आहिसि । मासुरि । आयुधि । नैमिषि । आसिबन्धकि । वैकिपौरिक । पुष्करे सीदतीति पुष्करसत्, अनुहरतीत्यनुहरत् बाहादी अनुशतिकादी च-पौष्करसादि । आनुह. रति । पुष पुष्टौ (भ्वा०प०७००) यत् । पुण्यः पौष्यि। वैरकि । वैहति । विलक्षणो कर्णावस्य विकर्णः-वैकर्णि । कामंलि । करेणुं पालयतीति करेणुपाल:-कारेणुपालि ॥ इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य चतुर्थे पादे प्रथममाहिकम् ॥
तद्राजस्य बहुषु तेनैवास्त्रियाम् । (पासू०२-४-६२) ॥ बहुवर्थेषु विद्यमानस्य तद्राजस्य लुक् स्यात्तेनैव लुग्भाग्जातीयेनैव कृतं चहुत्वं, न तु स्त्रियाम् । अनाः । वङ्गाः । सुराः । पुण्ड्राः । मगधाः । "ते तद्रा. जापा०स०४-१-१७४) इत्यादीनामिह संज्ञा । लोहध्वजाः। वोहिमा ताः । इह तु "ज्यादयस्तद्राजाः" (पा०सू०५-३-११९) इति । तद्राजस्ये. ति किम् ? औपगवाः । राघवाः। यादवाः । कथन्तर्हि “घृणामन्वयं वक्ष्ये" इति "निरुध्यमाना यदुभिः कथंचित" इति च? ___ उच्यते, रध्वपत्ये रघुशब्दो लक्षणया वर्तते । एतच "बहुच इमः" (पासू०२-४-६६) इति सूत्रे पदमार्यो स्पष्टम् । नन्वेवं "परश्च"(पा० स०३-१-२) इति सूत्रे 'बर्मण्डर्लमक' इत्यादीनामपशब्दत्वपरं भाष्यं विरुध्येतेति चेत् ? न, भाष्यस्य शक्तिभ्रमप्रयुक्तपरत्वात् । इप्येते हि गोणीशब्दस्य गोणीसादृश्यशक्तिभ्रमाभ्यां गवि प्रयुक्तस्य साधुत्वासाधुत्वे । एतेन
सोऽयमित्यभिसम्बन्धात्तद्धितेन विना यदि । बभवादयः प्रयुज्येरनपत्यनियमो भवेत् ॥
Page #300
--------------------------------------------------------------------------
________________
विधिप्रकरणे लुग्विधानप्रकरणम् ।
२९१
इति हरिश्लोकोऽपि व्याख्यातः । बहुषु किम् ? आङ्गः । वाङ्गः । ते नैव किम् ? आङ्गदेवदत्तयज्ञदत्ताः । यद्यपीह बहुत्वमाङ्गेऽप्यन्वेति तथापि नेदं लुग्भाजोऽर्थ एव विश्रान्तम्, देवदत्तादिगतत्वात् । नन्वेवं "भार्गवश्च वात्स्यश्च आग्रायणश्च भृगुवत्साग्रायणाः" इत्यत्र लुङ् न स्यात्, उत्तरसूत्रेष्वपि तेनैवेत्यधिकारात् । आग्रायणे च नडादिफको लुगभावात् ?
सत्यम्, तेनैवेत्यस्य तज्जातीयेनेति व्याख्यातत्वाददोषः । अपत्यतयेह साजात्यात् । यद्येवं 'गार्ग्यश्च काश्यपश्च गालवश्च' इत्यत्र गालवे ऋष्यणो लुगभावेऽपि अपत्यतया साजात्याद्यत्रो लुक्प्रसङ्गः । अत्राहुः, ठोप्यलोपिभिरपत्यप्रत्ययैः कृते बहुत्वे विकल्पः । "भृगुव. त्याग्रायणेषु' " अगार्ग्य काश्यपगालवानाम्" इत्युभयथापि सूत्रनिर्दे शात् । अस्त्रियां किम् ? आङ्ग्यः स्त्रियः ।
स्यादेतत् आङ्गस्यापत्यानि बहूनि " अणो ह्यचः " ( पा०सु०४-११५६ ) इति फिञ् । तस्य " तद्राजा श्ञ्चाणः" इति गणसूत्रेण "अब्रा ह्मणगोत्रमात्रात्" (का०वा० ) इति वार्त्तिकेन वा लुक् । अङ्गाः । वैदस्यापत्यानि बहूनि - "अत इञ् " ( पा०सु०४ - १ - ९५) । " ण्यक्षत्रिय" (पा०सु०२-४-५८) इति लुक् । बिदाः । अत्र यूनि बहुत्वान्वयेऽपि गोत्रस्य तद्राजवाच्यस्यैक्याल्लुङ् न स्यात् । किश्च विदानामपत्यं माणवकः बैद, बैदौ । अत्र युवबहुत्वाभावेऽपि गोत्र बहुत्वादतिव्याप्तिः ।
सत्यम्, “गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ ह्येकयोरलुक्" "एकवचन द्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि" इति वार्त्ति कद्वयेन सिद्धम् ।
यद्वा, अत्र्याप्त्युद्धारः सूत्रेणापि सुकरः । तथाहि, तद्राजान्तं यद्व. हुष्विति व्याख्यास्यामः । न चैव प्रतिकृतिबहुत्वेऽतिप्रसङ्गः तेनैवेत्यस्य 'लोपिप्रत्ययार्थजातीयेन' इत्यर्थात् । गोत्रयूनोरपत्यतया सजातीयस्वेऽपि प्रतिकृतेर्विजातीयत्वात् । नापि 'बैद:' 'बैदौ' इत्यत्रातिव्याप्तिः । "गोत्रेऽलुगचि” (पा०सु०४ - १ - ८९) इति सूत्रेण इञि विवक्षित एवालुक्प्रवृत्तेः । न च यूम्युपसङ्क्रमानन्तरं पुनर्युवबहुत्व इव तद्वित्वैक त्वस्थले लुकः प्राप्तिरस्ति युवबहुत्वे तु पुनर्लुक् । न च पुनरलुक् शङ्खयः, " समर्थानां प्रथमात्" (पा०सू०४-१-८२) इत्यधिकारात् । विभक्तिविपरिणामेन हि गोत्रप्रत्ययस्य प्रथमस्य अलुगित्यर्थः । प्राथस्यं च अर्धान्तरेऽनुपसङ्क्रान्तत्वम् । अत एव 'अत्रिभरद्वाजिका' इति सिद्ध्यति । अत्रेरपत्यानि "इतश्चानित्रः" (पा०सु०४-१-१२२) इति ढक् । भरद्वाज
Page #301
--------------------------------------------------------------------------
________________
२९२ शब्दकौस्तुभद्वितीयाध्यायचतुर्थवादे द्वितीयान्हिकेस्थापत्यानि बिदाद्यञ् । तत उभयत्र युवबहुत्वे "अत इ" (पा० सू०४-१-९५) तस्य "ण्यक्षत्रिय' (पा०४०२-४-५८) इति लुक् । ढका "अत्रिभृगु" (पासू०२-४-६५) इति, अओ “यअनोश्च" (पा०स०२४-६४) इति । ततो अत्रिभरद्वाजानां मेथुनि केति द्वन्द्वाद् वुन् , तस्या. कादेशः । यदि द्वितीयमर्थमुपसंकान्तस्यापि अलुक् स्यात्सदा इहा प्यास स्यात् । गोपवनादिगणे गर्गभाविकाग्रहणं चेह सापकम् । गर्गशब्दाद्या, तस्य लुक् । भृगुशब्दाहण्यण् , तदन्ताधूनि "अत इम', (पासु०४-२-९५), तस्य लुक। गर्गभृगूणां मैथुनिकति वुन् । अत्रात्रिभृ. ग्विति प्राप्तलुकं निषेधुं हि गोपवनादिषुपाठः। स च द्वितीयार्थीस. सूकमेऽप्यलागति पक्ष व्यर्थः स्यात् ।
इदं त्ववधेयम् , आङ्गी च वाङ्गश्च सौह्मश्चेति इन्द्र आलोशन्दन स्त्रीत्वयुकानामर्थानामभिधानात्तदणो लुक् न भवति । अन्यस्य तु स्थादव । आङ्गीवासुमा इति । इह भाज्ये तेनैवेति प्रत्याख्यातम् । अतो गार्यश्च चैत्रश्च मैत्रश्चेत्यत्रापि लुग्भवतीति प्रतीयते, तजातीय स्वस्थानुक्तेश्च । तथापि सूत्रशेष "अथ यो लोप्यलोपिनां समास' इति माध्यं व्याचक्षाणेन कैयटेन तेनैवेति वचनादलोपिसान्निधिकृतं बहु त्वमिति माकारि लुगत्युक्तया तेनैवेत्यंशस्य भाष्याभ्युपगतत्वं ल. भ्यते । अत एवानन्तं यद्वहुन्विति पक्षे "काश्यपस्य प्रतिकृतयो बव्ह्यः काश्यपाः" इत्यत्रापत्यबहुत्वाभावान्मा भूत् । आङ्गस्य प्रति कृतयो बव्ह्य इत्यत्र तु स्यादव । इह गोत्रग्रहणाभावादित्याशक्य तेनैव ग्रहणवलेन समाहितं हरदत्तेनेति ध्येयम् । ननु 'आङ्गश्च'इत्यादिविग्रहे भाष्यादि। सम्मतोऽपि लुक दुरुपपादः, तद्राजान्तस्य बहुववृत्तेरिति चेत् ? न, अजहरस्वार्थायांबहुषु वृत्तेः स्पष्टत्वात् । कथं तर्हि "सेयं दुःना च" इत्यादि प्रागुकमिति चेत् ? द्विवचनबहुवचनान्तर्विग्रहो नेत्याशये. नेति गृहाण । तथाहि, लौकिके विग्रहवाक्ये स्वार्थमात्रवृत्तिता स्पष्टा। प्रक्रियावाक्येऽपि वृत्तिप्रवेशात्प्राक् प्रवृत्तमेकवचनं दुारमेव । राज. पुरुषादौ षष्ठयादिवत् । अथ कथं--
कौरव्याः पशवः क्रियापरिभवक्लंशोपशान्तिः फलम् । इति वेणीसंवरणम् ? उच्यते, "कुरुनादिभ्यो पयः" (पा०सू०४-१-१७२) इति कौरव्यश. ब्दं व्युत्पाद्य "तत्र साधुः" (पा०९०४-४-८९) इति यत् कार्यः । एतेन "तस्यामेव रघोः पाण्ड्याः " (२००४) इति व्यारथातम्। "वृद्धत्कोसल', (पा०स०४-९-१७१) इत्यत्र "पाण्डोषण" (कामा०) इत्युपलक्या .
Page #302
--------------------------------------------------------------------------
________________
विधिप्रकरणे लुग्विधानप्रकरणम् । २९३ नात् ज्यणस्तद्राजत्वेऽपि 'पाण्ड्ये साधवः पाण्ड्याः' इति यत्प्रत्ययाः न्तत्वेन साधुत्वनिवांहात् । __ यस्कादिभ्यो गोत्र (पासू०२-४-६३) । एभ्यः परस्य गोत्रप्रत्यय.' स्य लुक् स्यात् । बहुषु तेनैधास्त्रियामित्यनुवर्तते । "गोत्रे कुजआदिभ्यः इच्फञ्"(पा०सू०४-१-९८) इतिगोत्रप्रत्ययप्रकरणं, ततोऽन्यत्र लौकिक स्य गोत्रस्य ग्रहणम् । अपत्याधिकारे तु गोत्रग्रहणलामादेव पा. रिभाषिकस्य ग्रहणम् । यद्यपि कृत्रिमस्यवाऽन्यत्र ग्रहणं प्राप्तं तथापि लौकिकस्य शापकं वक्ष्यते । तेनानन्तरापत्येऽपि लुक् । यस्काः। लह्याः। बहाम्वति किम् ? यास्कः । लाह्यः । स्त्रियां तु यास्का:स्त्रियः । गोत्रे इति किम् । यास्काः छात्राः । यस्क, ला, द्रुह्य, अधःस्थूण, तृणकर्ण, एते पञ्च शिवादिषु पठ्यन्ते । ततः परेभ्यः षड्भ्य इश् । सदामत्त, कम्बल(१)मार, अ(२)हियोग, कर्णाटक, पिण्डोजङ्घ, बकसक्य । ततः परभ्यश्चतुभ्यः "शुभ्रादिभ्यश्च" (पासू०४-१-२२३) इति ढक् । (३)बि. स्ति,कुद्रि, अजवस्ति, मित्रयु । ततः परेभ्यो द्वादशभ्य इञ् । रक्षोमुख, जङ्घारथ, म(४)न्थक, उत्कास, कटुक, पुष्करसत् , (६)विषपत् , उप. रिमेखल, क्रोष्टुमान, क्रोष्टुपाद, क्रोष्टुमाय, शीर्ष माय । नन्विह पु. स्करसदः पाठो व्यर्थः । स हि बाम्हादित्वादिअन्तः । "बम्हच अःप्रा. च्यभरतेषु' (पासू०२-४-६६) इत्येव सिद्धम् । न चायं प्राच्यो नेति भ्रमितव्यम् , तौल्वल्यादिवतत्पाठस्य वैयापत्तेः । तस्य हि "इञः प्राचाम् (पासू०२-४-६०) इति प्राप्तस्य लुकः प्रतिषेधः फलम् । ___ अत्राहुः, "न गोपवनादिभ्यः'' (पा०सु०२-४-६७) इति प्रतिषेध बाधितुमिहास्य पाठः । गोपवनादिगणे हि तौल्बल्यादय इति कैश्चि. त्पठ्यत एव । यैर्न पठ्यते तैरप्यत एव ज्ञापनात् तौल्बल्यादिप्रकृतिभा. गानां तुल्बलादीनां गोपवनाद्यन्तर्भावोनुमेय इति । (६)वरपद, अस्य नडादित्वात्फक्। पदका क्रमक । आभ्यामतहञ् । भलन्दन । अस्माच्छि. घायण । भडिल। भडिक । भडिव । भण्डित । एभ्यश्चतुर्यः "अश्वादि. भ्यः फर" (पा००४-१-११०)।
(१) 'हार' इति कौमुद्याम् । (२) 'बहियोग' 'कर्णाढक' इति कौमुद्याम् । (३) 'विधि' इति कौमुद्याम् । (४).'मथक' इति कौमुद्याम् । (५) 'विषपुट' इति कौमुद्याम् ।
(६) 'स्वरप यदक वर्षुक भलन्दन भडिल भण्डिल भडित भण्डित' इति कौमद्याम् ।
Page #303
--------------------------------------------------------------------------
________________
२९४ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे द्वितीयान्हिके
यानोश्च (पासू०२-४-६४) । गोत्रे यौ यात्रौ तदन्तं यद हुषु तदवयवयोर्यो क् स्यान्न तु स्त्रियाम् । गर्माः । वत्साः । विदाः । उर्वाः । स्त्रियां तु गायः स्त्रियः । गोत्रे किम् ? "द्वीपादनुस. मुद्रं यम्" (पा०सू०४-३-१०) द्वैप्याः । "उत्सादिभ्योऽञ्''(पा०स०४-११६) औत्साः । अथ कथं-पौत्राः' 'दौहित्राः' बिदाद्यअन्तत्वात् ?
उच्यते, अपत्याधिकारादन्यत्र लौकिकं गोत्रन्तच्चेऽह प्रवराध्याय प्रसिद्धम् । न च पौत्रादिस्तथा । इदं च "स्त्रीपुंसाभ्याम् (पा०सू०४१-८७) इति सुत्रे कैथटेन स्फुटीकृतम् ।। ___ यादीनामेकद्वयोर्वा तत्पुरुषे षष्ठया उपसंख्यानम (का०वा०) । एकद्वयोरिति भावप्रधानो निर्देशः । गाय॑स्य गार्ययोर्वा कुलं गर्ग: कुलं, गार्ग्यकुलं वा । यादीनां किम् ? आङ्गकुलम् । एकद्वयोः किम् ? गर्गाणां कुलं गर्गकुलम् । तत्पुरुषे किम ? गाय॑स्य समीपमुपगा. र्यम् । षष्ठयाः किम् ? परमगार्ग्यः ।
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च (पासू०२-४-६५) ॥ एभ्यो गोत्रप्रत्ययस्य लुक् स्यात् बहुत्वे । अत्रिशब्दात् "इतश्चानिञः" (पा० स०४-१-१२२) इति ढक् । इतरेभ्य ऋष्यण । अत्रयः भृगव इत्यादि ।
बव्हच इञः प्राच्यभरतेषु (पासू०२-४-६६) ॥ बव्हचः परो य इत्र प्राच्यगोत्रे भरतगात्र च वतमानस्तस्य लुक् स्यात् । पन्नागाराः । मन्यरैषणाः । भरतापत्ये तु युधिष्ठिराः । अर्जुनाः । युधिष्ठिरार्जुनश. ब्दाभ्यां कुर्वादिण्यापवादो बाम्हादिलक्षण । भरतापत्ये अभेदोपचाराद्भरतशब्दः। ते च भरताः प्राच्या एव । द्वन्द्वस्तु गोबलोवईन्या. येन । सामान्यविशेषवाचिनोर्वाचनिकद्वन्द्वनिषेधो यद्यप्युकस्तथापि तस्थानित्यता अनेनैव शाप्यते । तत्फलं तूक्तमेव । प्रागग्रहणेनैव सिद्धे भरतानां पृथगुपादानमन्यत्र प्रागग्रहणे एषां ग्रहणं नेति बापनार्थम् । तेन "इञः प्राचाम्"(पासू०२-४-६०) इति लुक् भरतयुवप्रत्ययस्य न भवति.। आजुनिः पिता, आर्जुनायनः पुत्रः ।
नगोपवनादिभ्यः (पासु०२-४-६७) । एभ्यो गोत्रप्रत्ययस्व लुकून स्यात् । बिदाधन्तर्गणोऽयम् । स च हरितात्प्रागेव । तथा च वार्तिकम्गोपवनादिप्रतिषेधः प्राग्यरितादिभ्यः (कावा०) इति । मागणा म्ताहणे प्राप्ते हरिताप्राक् वृत्करणं कर्तव्यमिति भावः । गौपष मारा शैप्रवाः । नेह-हरिताः।।
तिककितवादिभ्यो द्वन्द्व (पा०स०२-४-६८) ॥ एभ्यो गोत्रप्रत्यय स्य बदुपु लुक् स्याद् बन्छे । यद्यपि द्वन्द्वरूपाण्येव गणे. पठयन्ते तिका.
Page #304
--------------------------------------------------------------------------
________________
विधिप्रकरणे लुग्विधानप्रकरणम् ।
२९५
दीनि पूर्वपदानि कितवादीन्युत्तरपदानि, तथापि "तिकादिभ्यः " ( पा० ०४ - १ - १५४ ) इत्युक्तेः पूर्वपदेष्वेव लुगाशङ्क्येत । इष्यते तूत्तरप देष्वपि । अतः 'तिकाकितवादिभ्यः' इत्युक्तम् । तैकायनयश्च कैत वायनयश्च "तिकादिभ्यः फिल्" (पा०सु०४-१-१५४) । तस्य लुक् तिककितवाः T: 1
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे (पा०सु०२-४ - ६९ ) ॥ एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् वा स्यात् द्वन्द्वे चाद्वन्द्वे च । सूत्रशेषस्य अद्वन्द्वे इत्यस्य द्वन्द्वग्रहणमिह नानुवर्त्तते इत्यर्थः । एषां मध्ये त्रयो द्वन्द्वा • स्तिककितवादिषु पठ्यन्ते । औपकायनाश्च लामकायनाश्च "नडादि • भ्यः फक्” (पा०सु०४-१-९९) । तस्य लुक् । उपकलमकाः । भ्राष्ट्रकक पिष्ठलाः । कृष्णाजिनयः । कृष्णसुन्दराः । एषां पूर्वेण नित्यमेव लुक् । अद्वन्द्वे त्वनेन विकल्पः । उपकाः । औपकायनाः । लमकाः । लामका - यनाः । भ्राषूकाः । भ्राष्ट्रकयः । कापिष्ठलाः । कापिष्ठलयः । कृष्णाजिनाः । कार्णाजिनयः । कृष्णसुन्दराः । कार्ण सुन्दरयः । शेषाणान्तु द्ववेऽपि विकल्प इति वृतिः । भाष्ये तु 'भ्राष्ट्रकिकापिष्ठलयः' इत्युदाहरणात्तिककितवादिष्वस्य पाठोऽनार्ष इति कैयटः ।
आगस्त्य कौडिन्ययोरगस्तिकुण्डिनच् (पा०स्०२-४-७० ) ॥ एतयो वयवस्य गोत्रप्रत्ययस्य अणो यत्रश्च बहुषु लुक् स्यात् अवशिष्टस्य प्रकृतिभागस्य यथासङ्ख्यमगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः । कुण्डिनीशब्दस्य यत्रि "भस्याद" (का०वा० ) इति पुंवद्भावे "नस्तद्धिते" ( पा०सु०६-४-१४४) इति टिलोपे 'कौण्ड्यः' इति प्राप्तम् । अस्मादेव तु निपातनान्न पुंवत् । ईकारस्य "यस्य" (पा० सु०६-४-१४८) इति लोपः । तस्य स्थानिवत्त्वादा भी यत्वेनासिद्धत्वाद्वा टिलोपो न । चकारः स्वरार्थः । मध्योदाचो हि कुण्डिनीशब्दः । 'कुण्ड यस्याः इति मत्वर्थीयस्य इनेरुदात्तत्वात् । तदादेशोऽपि आन्सरतम्याचथा स्यात् । कथं तर्हि -
वासिष्ठकुण्डिनौ तद्वदुपमन्युपराशराः । चतुर्णामेक गोत्रश्वान विवाहः परस्परम् ॥ इवि १
"
उच्यते, नायं कुण्डिनजादेशः, किन्तु "कुडि दाहे" (स्वा०आ०२७१) इत्यस्मादौणादिके इनच्प्रत्यये उज्ज्वलदत्तादिभिर्व्युत्पादितः स्वतन्त्र पंवायं शब्दः । अत एव "वासिष्ठमैत्रावरुण कौण्डिन्येति होता कुण्डि नवन्मित्रावरुणवद्धसिष्टवदित्यध्वर्युः” इति बौधायनसूत्रं सङ्गच्छते !
Page #305
--------------------------------------------------------------------------
________________
२९६ शब्दकौस्तुभ द्वितीयाध्यायचतुर्थपादे द्वितीयान्हिके
आपस्तम्बसूत्र मध्येषम् । एतेन -
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ।
इति मत्स्य पुराणप्रवराध्यायप्रयोगोऽपि व्याख्यात इति दिक् । १. इह यदि लुकं निवर्त्य विशिष्टयोरेषादेशी क्रियेते, तदा 'कौण्डि नाः' इत्यस्य सिद्धावपि 'आगस्तीयाः' इति न सिद्ध्यति । तथाहि, अगस्त्य शब्दा दृष्यणि आगस्त्यः । ततो बहुबचनान्ताद्वृद्धाच्छे विवक्षिते "गोत्रे ऽलुगाच” ( पा०सू०४ - १-८९) इति लुक्प्रतिषेधः । प्रत्ययविशिइस्यागस्यादेशपक्षे तु तनिषेधाभावादृद्धस्थापयमे शैषिकोऽणेव स्यात् । उपपादितं चेदं "प्रत्ययस्य लुक् इलु” (पा०सू०१-१-६१) सूत्रे ।
.99
सुपो धातुप्रातिपदिकयोः (पा०सू०२-४-७१) ॥ एतयोरवयवस्य सुपो लुक् स्यात् । पुत्रीयति । राजपुरुषः ।
अदिप्रभृतिभ्यः शपः (पा०सू०२-४-७२ ) ॥ एभ्यः शपो लुक् स्यात् । अत्ति । कथं तर्हि
"वासुदेवं परित्यज्य योऽन्यं देवमुपासते " इति ?
उच्यते, 'अस गतिदीप्त्यादानेषु (भ्वा०३०९११) इति स्वादेरुभयप दिनो रूपमिदम्, उपादत्ते इत्यर्थात् । अथ कथम् " आश्वसेयुर्निशाचराः " इति भट्टिः " न विश्वसेत्पूर्वविशोधितस्य " इति च पञ्चतन्त्रम् ? पचाद्यज. न्तादाचार क्विपि भविष्यति । “गणकार्यमनित्यम्" इति तु जयमङ्गला । तत्र ज्ञापकं तु "घटादयः षितः" इत्यत एव सिद्धे "क्षमूष् सहने" (भ्वा० आ०४४३) इति षित्करणम् ॥
बहुलं छन्दसि (पा०स्०२-४-७३) ॥ छन्दसि बहुलं शपो लुक् स्यात् । वृत्रं हनति | अहिः शयते । अन्येभ्योऽपि भवति । श्राध्वं नो देवाः ॥
यङोऽचि व (पा०सु०२-४-७४) ॥ यङोऽच्प्रत्यये परे लुक् स्यात् चकाराद्वहुलमन्यत्रापि । लोलुवः । पोपुवः । पचाद्यच् । इदमेष अचि लुग्विधानं पापकं "सर्वधातुभ्यः पचाद्यच्" इति । बाहुलकात् 'बेभिदीति' 'चेच्छिदीति' इत्यादि । इह अजिति प्रत्याहारो न गृह्यते । तयाहि सवि " आणि " इत्येषावश्यत् यङन्तादन्यस्याचोऽसम्मवात् इति हरदतः । न च 'पापच्ये' 'पापच्यै' इत्यत्र सम्भवः; शपा व्यवधा मध्य एकादेशस्य स्थानिवद्भावाद | "लिटस्तझयो" (पा०स्०३-४-८१) इत्येशः सम्भवोस्तीति चेत् ? न, आम्प्रसङ्गात् । यदि तु "अमन्त्रे" इति निषेधात् मन्त्रे कथंचित्तत्संभवस्तहिं यका साहचर्यादिति युक्त्वं न्तरमन्वेषणीयम् |
"
Page #306
--------------------------------------------------------------------------
________________
विधिप्रकरणे लुग्विधानप्रकरणम् ।
२६७
जुहोत्यादिभ्यो श्लुः (पासू०२-४-७५) ॥ एभ्यः शपः श्लुः स्यात् । जुहोति। मण्डूकप्लुत्यह शबनुवर्तते । न त्वनन्तरोपि यङ्, "श्लो" (पा०म०६-१-१०) इति सूत्रारम्भात । अन्यथा यङो लुकीव लावपि "सन्यो " (पा०सं०६-१-९) इत्येव सिद्धे किं तेन :
बहुलं छन्दसि (पा०सू०२-४-७६) ॥ दाति प्रियाणि । अन्येभ्यश्च भवति-पूर्णा विष्टि । जनिमासंविविक्तः ।
गातिस्थाघुपाभूभ्यः सिंचः परस्मैपदेषु (पासू०२-४-७७) ॥ एभ्यः सिंचो लुक् स्यात्परस्मैपदेषु । इह मण्डूकप्लुत्या लुगनुवर्तते न घनन्तरोऽपि श्लुः, व्याख्यानात् । यद्यपि गामोदाग्रहणेष्वविशेषस्तथापि 'गाति' इति निर्देशादिह "इणो गा लुङि' (पा०स०२-४-४५) इत्यस्य प्र. हणम् । गादेशस्यैव होये पितपि शब्लुका निर्देशः। . नेनु नायं गांदेशः, लुङ्येव तद्विधानात् । सत्यम् , तथापि "प्रकृति वंदनुकरणम्" इति स्थानिवद्भावातिदेशाच्छब्लुक् । "भवतेरः" (पा०. सु०७-४-७३) इत्यादौ तु अस्त्यादेशानुकरणे अतिदेशातिदेशेन प्राप्तो. ऽपि शब्लुक् "प्रकृतिवत्" इत्यस्यानित्यत्वान्नित्यवैधयम् । हरदत्तस्तु स्थानिवद्भावात "प्रकृतिवदनुकरणम्" इति वा गातीत्यत्र शब्लुगि. ग्याह । तत्र शब्दस्यासङ्गतिः स्पष्टव । वस्तुतस्तु "गापोंग्रहणे इणपिब. त्योः (कावा०) इति वार्तिकमेवात्र शरणम् । निर्देशादेव व्यक्तम् । लुग्विकरणप्रहणमिति तु भाष्ये प्रौढिवादमात्रम्, निर्देशस्य सन्दिग्ध. स्वात् । गायतेरपि हि सिचि कृतात्वस्यानुकरणं गातीति सम्भवत्येवे. त्यवधेयम् । अगात । अस्थात् । अदात् । अधात् । पिबतेरेवेह ग्रहणं न तु पाते, "लुग्विकरणामुग्विकरणयोरलुम्विकरणस्यैव" (१०भा०) इति परिभाषया । अपात् । अभूत् । भूधातोः स्वतन्त्रस्यास्त्यादेशस्य चेदं रूपं तुल्यम् । चादेशस्य लुग्विकरणत्वात्पातिवदग्रहः शयः । आ. र्धधातुकविषयतया हेतोः स्वरूपासिद्धेः गापोर्ग्रहणेन दणादेशपिवः त्योरेव प्राणमित्युक्तम् । नेह-'के गैरै शब्द' । अगासीत । 'पा रक्षणे। अपासीत् । “यमरम" (पारस०३-२-७३) इतीट्सको । 'पै शोषणे' इत्यस्यापि लामाणिकत्वादग्रहणं बोध्यम् । परस्मैपदेषु किम् ? मगासाता प्रामा देक्दन । अत्र कश्चित् सूत्रे मीधातोर्डसौ निशः "एरनेकाचः" (पासू०५-४-८२) इति यण । तेन 'मा भैः शशाङ्क मम शीधुनि नास्ति राहुः" इति प्रयोगः सङ्गच्छत इत्याह । एवं तु
___ "मा स्म भैषीस्त्वयाऽचैव कृतार्थी द्रक्ष्यते यतिः" इति भट्टिर्विरुध्येत । मा मैरिति तु प्रामादिकम् । यहा, आगमशा.
Page #307
--------------------------------------------------------------------------
________________
२४८ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादेद्वितीयाहिकेसनानित्यतया अस्तिसिचः" (पा०सु०७-३-९६) इतीटो विरहे सिपो "हल्या " (पा०सू०६-१-६८) इति लोपे सिचो विसर्गः।।
विभाषा घ्राधेशाच्छासः (पा०सु०२-४-७८)॥ एभ्यः सिचो वा लुक् स्यात्परस्मैपदेषु । घटः पूर्वण प्राप्त इतरेषामप्राप्ते विभाषयम् । अ. घ्रात, अघात, अशात् , अच्छात, असात् । पक्षऽघ्रासीदित्यादि । परस्मैपदेषु किम् ? अघ्रासन्त सुमनसो देवदत्तेन । कर्मणि तङ् ।
तनादिभ्यस्तथासोः (पासू०२-४-७९) ॥ एभ्यः सिचो वा लक स्यात्तथासोः परतः । अतत । अतथाः । अतनिष्ट । अतनिष्ठाः । असात। असाथाः । “जनसन" (पा०सू० ६-४-४२) इत्यात्वम्। पक्षे असनिष्ट । असनिष्ठाः। यूयमतनिष्टत्यत्र तु न लुक्, आत्मनेपदेनैकवचनेन च थासा साहचर्यात्तथाभूतस्यैव तशब्दस्य ग्रहणात् । __ मन्त्रे घसम्हरणशवृदहादृच्छगामजानभ्यो लेः (पासू०२-४-८०)। एभ्यो ललक स्यान्मन्त्रे । अक्षत्रमीमदन्त दि। "लङ्सनोर्घस्ल" (पा० सू०२-४-३७) । “गमहन' (पा०सू०६-४-९८) इत्युपधालोपः। "शा. सिवसि' (पा०सू०८-३-६) इति षत्वम् । अट् । “विभाषा छन्दस्यमाङ्योगेऽपि"(का०वा०) इत्यडभावेतु मा त्वा वृकासो अशिवासउ क्षन् । 'व्ह कौटिल्ये' अस्य कृतगुणस्थानुकरणं द्वरेति, अकारस्तूच्चारणार्थः । मा व्हर्मित्रस्य । धूर्तिः प्रण मय॑स्य । "नशेर्वा"(पा०सू०८-२-६३)इति कुत्वम् । पक्षे "वश्व"(पा००८-२-३६) इति षत्वे नडिति रूपं बोध्यम् वृ इति वृवृषोः सामान्यग्रहणम्। सुरुचो वेन आवः। दह-माना. धक् । आदित्याकारान्तग्रहणम् । प्रा पूरणे । आपर्वः । आप्रा द्यावा. पृथिवी अन्तरिक्षम् । वृज--परावग्र भृद्यथा । अनन् कर्म कर्मकृतः। स्वेरयिं जागृनमो अनुग्मन् । अक्षत वा अस्य दन्ताः । यद्यप्यतरेयना ह्मणे हरिश्चन्द्रं प्रति वरुणस्येदं वचनं तथापि मन्त्रग्रहणमिह सत्रे छन्द स उपलक्षणमिति ब्राह्मणेऽपि लुक सिध्यति । इह सूत्रे विभाषेत्यनुव. तते । तेन-"न ता अगृभ्णनजनिष्ट हिषः" इत्यादि सिद्धम् । एतेन इह सूत्रे 'सिच' इत्यनुवर्त्य सिचस्थानिभूतो यो लिरिति व्याख्यानाल्लि. डूलिटोति हरदत्तग्रन्थः परास्तः। लोपस्थ वैकल्पिकतया छन्दास रूपान्तरस्यानापाद्यतया च सिजनुवृत्तेफल्यात् । अत एव सिचि प्र. कृते लिग्रहणम् "आदिः सिचोऽन्यतरस्याम्" (पासू०६-१-१८७) इत्ये तस्याप्रवृत्यर्थमिति प्रकृतसूत्रस्थहरदत्तग्रन्थः "लि बुद्धि" (पा० सू० ३-१-४३) इत्यत्रत्यकैयटग्रन्यश्च परास्तः ।
आमः (पासू०२-४-८१) ॥ आमः परस्य लुक् स्यात् । ईहांवके ।
Page #308
--------------------------------------------------------------------------
________________
विधिप्रकरणे आदेशविधानपकरणम् ।
"लक्षणप्रतिपदोक्त"(१०भा०)परिभाषया नेह । “अम गत्यादिषु"-आम । आमतुः । तिबाद्यपवादत्वाल्लावस्थायामेवायं लुक । तेनामन्तस्यातिङ. न्तत्वादनिघातस्ततः परस्य निघातश्च सिध्यतीति "न लुमता"(पासू० १-१-६३) इति सूत्रे प्रतिपादितम् । न चैवमामन्तस्य पदत्वं न स्या. दिति वाच्यम्, सुबन्ततया तत्सिद्धः । यथा च सुपो न श्रवणं तथा "कृन्मजन्तः (पा०सू०१-१-३९) इति सुत्रे प्रतिपादितम् ।
अव्ययादाप्सुपः (पा०सू०२-४-८२) ॥ अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । अथ । अत्र वार्तिकम्• . "अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्" इति । न च "स्त्रियाम" (पासू०४-१-३) इति सूत्रे 'स्त्रीसमानाधिकरणात्' इति पक्षः स्थितः, 'भूतमियं ब्राह्मणी' इत्यादावत्तिव्याप्तेः । विहितविशेषणान्नेहअत्युच्चैसौ ॥
नाव्ययीभावादतोऽम् त्वपञ्चम्याः (पा०स०२-४-८३)। अदन्तादव्य. यीभावात्सुपो न लुक् पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात् । उपकुम्भं तिष्ठति । अपश्चम्याः किम् ? उन्मत्तगङ्गादागतः । अतः किम् ? अधिहरि।
तृतीयासप्तम्योर्बहुलम् (पा०सु०२-४-८४) ॥ अनयोबहुलमम् स्यात् । पूर्वेण नित्ये प्राप्ते आरम्भः। उपकुम्भमुपकुम्भेन वा कृतम् । उपकुम्भमुपकुम्भे स्थितः । अत वार्तिकम--
सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यम् ॥ ऋद्धिः-सुमः दम । नदीसमास-उन्मत्तगङ्गम् । संख्याध यव-एकविंशतिभारद्वाजम् । त्रिपञ्चाशगौतमम् । एकविंशतिभरद्वाजा बंश्यास्त्रिपञ्चाशदातमा वंश्या इति विग्रहः । "संख्या वंश्येन" (पा०म०२-१-१९) इति समासः । ननु भरद्वाजात् बिदाद्यओं “यामोश्च" (पा०सू०२-४-६४) इति लक प्राप्नोति, पवं गोतमादृष्यणः "अत्रिभृगु" (पा०सु०२-४-६५) इत्यार. म्भात् । न च "वर्तिपदानां स्वार्थीपसर्जनकत्वविशिष्टार्थान्तरोपसंक्रमाल्लुगभावः" इति कैयटोक्तं युक्तम्, वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽ. न्तरजस्य लुको दुर्वारत्वात । अन्यथा गर्माणां कुलं गर्गकुलमित्यपि न स्यात् । ___अत्राहुः, "भाज्यकारप्रयोगादेव लुगभावोऽत्र बोध्य" इति । इदं च वार्तिकं बहुलग्रहणासिद्धार्थकथनपरम् ।
लुटः प्रथमस्य डारोरसः (पा०४०२-४-८५) ॥ लुडादेशस्य प्रथम. पुरुषस्य डारिसः क्रमात्स्युः । अत्ता । शयिता । ननु पदद्धये द्वौ त्रिको
Page #309
--------------------------------------------------------------------------
________________
३००
शब्दकौस्तुभद्वितीयाध्यायचतुथादेखि तीयाबिके
प्रथमपुरुषौ, तथा च षट् स्थानिनः त्रय आदेशाः तत्कयं वैषम्ये संख्या तानुदेशः ? अत्राहुः, डारौरसश्च डासैरसश्चेति कृतद्वन्द्वानामेकशेषात् षडेवादेशाः। यद्वा, अर्थत आन्त-द्यवस्था एकार्थस्यैकार्थों धर्थस्य धर्थ इत्यादि । एकार्थत्वादिनिर्णयस्तु व्यवहारात, । यद्यपि “नानुबन्धकतमनेकालवम्" (प०भा०६) तथापि डा इत्यस्य सर्वादेशत्वमानुपूर्याद्वोध्यम् । प्रतिपादितं चेदम् "अने. कालीशत्" (पा००१-१-५५) इति सूत्रे। न चात्मनेपदे अध्येता अध्येतारौ इत्यादौ डारौरस्सु कृतेषु टेरेत्वं स्यादिति चेव, न, अस्मिः नेव प्रयोगे सकृत्प्रवृत्ततया चरितार्थत्वात् । तथाहि, एत्वं डादयश्चे त्युभयमपि शब्दान्तरप्राप्त्याऽनित्यम्, तत्र परत्वादेत्वे कृते पुनःप्रसङ्ग विज्ञानाड् डादयः । यद्वा, तिङ आदेशेषु टेरेत्वं न भवति, एशिरेचो. स्थासः सेश्च एकारोच्चारणामापकात् । स्यादेतत, तिप्तयोयोरपि डादेशेऽन्तोदात्तम्पदमिप्यते । तत्र तिबादेशस्यान्तरतम्याद नुदात्तत्वे सत्युदात्तनिवृत्तिस्वरेणोदात्तत्वं सियतु, तादेशस्य तु न सिध्यति । तथाहि, तप्रत्ययस्य डादेशे ते लसार्वधातुकस्वरात्परत्वाहिलोपः । न चेदानीमुदात्तनिवृत्तिस्वरो लभ्यः, अनुदात्तत्वात्प्रागेव लोपात् । ननु स्वरभिन्नस्य प्राप्नुवन्ननित्यो डादेशः, शब्दान्तरस्य प्राप्नुवन्ननुदात्तोऽप्यनित्यः, उभयोरनित्ययोः परत्वादनुदात्तत्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशे कृते उदात्तनिवृत्तिस्वरः सुलभ इति चेत् ? न, अन्तरगत्वा. हादेशप्रवृत्तेः।
अत्राहुः, अस्तूकरीत्या परत्वाहिलोपः, तथाप्यसौ अनुदात्ते अविद्यमानोदात्तेपर इत्यर्थः। “अनुदात्तस्यच"(पासू०६-१-१६१)इति सूत्रे हनु दाचग्रहणं प्रत्याख्यास्यते, तत्स्वीकारेऽपि शास्त्रीयोऽनुदात्तो न गृह्यते,कि तूदात्तमिन्नः । न च प्रत्ययाद्युदात्तप्रवृत्तेरिदमपि दुर्लभामिति वाच्यम, परिहत्य चापवादविषयमिति न्यायेन लसार्वधातुकानुदात्तविषये प्रत्ययस्वराप्रवृत्तेः । न च तासेः प्रत्ययस्वरात्मागेव परत्वाहिलोपः शयः, प्रत्ययस्वरस्य प्रत्ययसंनियोगशिष्टत्वेनान्तरणत्वात् । तथाच भाग्ये संग्रहश्लोको
प्रत्ययस्वरापवादो लसार्वधातुकानुदात्तत्वम् । तेन तत्र न प्रसका प्रत्ययस्वरः कदाचित् । प्रत्ययस्वरश्च तासेवृत्तिसंनियोगशिष्टः । तेन चाप्यसावुदात्तो लोप्स्यते तथा न दोषः ।
Page #310
--------------------------------------------------------------------------
________________
विधिप्रकरणे प्रत्ययाधिकारप्रकरणम् । ३०१ वृत्तिः प्रवृत्तिः । यदैव तासिः प्रवर्तते तदैवापवादाभावाददासत्व युक्त इत्यर्थः।
मुनित्रयोक्तिसदणीपरिशीलनशालिनाम् । महतामपि मान्योऽसौ धार्यते येन कौस्तुभः ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणस्य लक्ष्मी. धरसूरेः सूनुना भट्टोजिभट्टेन कृते श्रीशब्द कौस्तुभे द्वितीयस्याध्यायस्य चतुर्थे पादे द्वितीयमा. न्हिकम् । पादश्च समाप्तोऽध्यायश्च ॥
प्रत्ययः (पासू०३-१-१) ॥ प्रत्ययशब्दः संशात्वेनाधिक्रियते आ. पञ्चमसमाप्तेः । स्यादेतत्, प्रकृत्युपपदोपाधिविकारागमानामतिर्हि संज्ञा स्यात् । "हरतेईतिनाथयोः पशौ" (पा०४०३-२-२५)। हरते. रिति प्रकृतिः। तिनाथयोरित्युपपदम् ।पशावित्युपाधिः । "हनस्त च" (पासू०३-१-१०८) इत्यादिर्विकारः । “त्रपुजतुनोः षुक्"(पासू०४-३ १३८) इत्यागमः । नन्वेषां प्रत्ययत्वे सति किं स्यादिति चेत् ? शुणु, प्रकृतिप्रत्यययोः परस्परापेक्षं परत्वं पर्यायेण स्यात, शब्दान्तरापेक्षं वा प्रकृतेः । उपपदस्यापि परत्वं स्यात् । "उपसर्जनं पूर्वम"(पा०सु०२-२३०) इति तु राजपुरुषादिषु सावकाशं परत्वात् "परश्च"(पा०४०३-१-२) इत्यनेन बाध्येत । ननु सुविधौ प्रातिपदिकाधिकाराद्राजपुरुषादौ कथं सावकाशतेति चेत् ? सत्यम, एवमपि समाससंशाविरहस्थले उप. पदस्य परत्वं स्यादेव । तथा च भोक्तुं बजतीत्येव स्यात्, न तु वज. ति भोक्तुमिति । उपाधेस्तु अर्थत्वेन परत्वासम्भवेऽपि तद्वाचकशब्द. स्य परत्वं नियतं स्यात् । आयुदात्तत्वं च स्यात् । अङ्गसंज्ञा तु विधा नायचा । न च प्रकृत्यादयः कुतश्चिद्विहिता अतो न प्रकृत्यादिषु परेषु पूर्वस्य तत्प्राप्तिरिति प्रागुक्ता एव दोषाः । विकारागमयोरपि यथायथं परत्वमाादात्तत्वं तयोः परतः पूर्वस्यानत्वं च स्यादिति दुष्टोऽयं प्रत्य. याधिकार। __ अत्राः, प्रकृस्यादीनां सनाद्युत्पत्तौ निमित्तत्वेनोपादानात् पारायोत् स्वसंस्कारं प्रति न प्रयोजकत्वम् । यथा 'योऽश्वे स देवद. सः' इत्युक्ते वाश्वस्य देवदत्तसंचा। किच हरतेई तिनाथयोः कर्मणो. रुपपदयोः पशी करि इन्प्रत्ययो भवतीति वाक्यार्थपर्यवसाने कथं प्रकृत्यादीनां संज्ञाप्राप्तिः १ न च मावृत्त्या ते च हरत्यादयः प्रत्ययसं.
Page #311
--------------------------------------------------------------------------
________________
३०२
शब्दकौस्तुभतृतीयाध्यायप्रथमदेप्रथमाह्नि के
ज्ञका इति द्वितीयं वाक्यं कल्प्यम, मानाभावाद् गौरवपराहतत्वा. च्च । वनु सनादीनामप्यसतां संज्ञानुपपत्तेः वाक्यभेदेनैव संज्ञा विधे. या। ततश्च यथा एकेन सनादीनां विधिरपरेण संक्षाविधिः, एवं प्र. कृत्यादीनामपि स्यादेवेति । तन्न, वृद्धिसूत्रशेषे वर्णितया रीत्या सन्प्र. त्ययो भवतीत्यादिक्रमेण संझाविशिष्टस्य संझिन एकवाक्येनैव विधिसम्भवात् । नहि 'उद्भिदा यजेत' इत्यादौ नामधेयसम्बन्धलाभाय वि. ध्यावृत्ति मन्वते न्यायविदः। अभ्युपेत्य बमः, संशापरं द्वितीयं वा. क्यमपि 'गुप्तिजकिदभ्यः सन् प्रत्ययः' इत्यादिरूपमेव । तथाच विरुद्ध. विभक्त्यवरुद्धानां प्रकृत्यादीनां प्रथमान्तेन प्रत्यय इत्यनेन सामानाधि. करण्यमसम्भाव्येव । न च द्वितीयवाक्ये प्रकृत्यादीनां विभक्तिविपरि. णामेन प्रथमा कल्पया, योग्यविभक्तिनिर्दिष्टषु सनादिषु संज्ञायाश्चरि. र्थत्वात् । अपि च आघवाक्ये सनादीनामेव अपूर्वविधानविषयतया प्राधान्यम् । एवञ्च द्वितीयेऽपि संज्ञिनमपेक्षमाणा संक्षा पूर्वत्र प्रधानत. या क्लप्तमेव गृहीयात् न त्वप्रधानमरि । नन्वेवमपि विकारागमानां विधेयतया प्राधान्यात्संज्ञा दुर्वारेति चेत् ? मैवम् , अन्वर्थसंचाविशा. नात् । प्रतियन्त्यनेनार्थमिति हि प्रत्ययः ।विकारागमो त्वनर्थको । न चै. वम् "अवेः कः" (पा०सू५-४-२८) इत्यादीनां समासान्तानां च प्रत्यय. संक्षा न स्यात् , अनर्थकत्वादिति वाच्यम् , 'स्वार्थिका अपि प्रकृत्यः थैनार्थवन्त एव' इति सिद्धान्तात् । यत्तु कल्पनामात्रमेतदिति । तन्त्र, प्रकृतिप्रत्ययार्थविभागस्य सर्वस्वापि काल्पनिकत्वाविशेषात् । नैषा कल्पना शास्त्रकसम्मतेति चेत् ? न, "द्वितीय'' (पा०सू०२-२-३) इति सूत्र पूरणार्थात्स्वार्थे अन्प्रत्ययस्यापि पूणार्थताया भगवतैवोक्तः इहापि प्रत्याय्यन्त इति व्युत्पत्त्यन्तरमप्याश्रित्य प्रकुत्या अभिव्यज्य. मानार्थत्वं स्वार्थिकानामस्तीति भाष्यकैयटयोः स्वीकाराच्च । न चै. वं विकारागमयोः सम्भवति, प्रकृत्यवयवतया तदर्थ एवापक्षयात् । अपिच प्रयोजनाभावान्नामोषां संज्ञा। न च परत्वमेव प्रयोजनम् , षष्ठया विकाराणां स्थानसम्बन्धस्य आगमानामवयवत्वेन सम्बन्ध. स्य च प्रतिपादनात् । न चायुदात्तत्वं प्रयोजनम् , .आगमानामनुदासत्वविधानात् । यत्र तु प्रयोजनं लभ्यते तत्रेष्यत एवागमस्यापि प्र. त्ययत्वम् । यथा श्रमः शकारस्येत्संक्षार्थमिति।
इदं स्ववशिष्यते, "हनश्च वधः” (पा०सू०३-३-७६) "नामिनभं च" (ग०स०) "विरागविरङ्गश्च'' (गसू०) इत्यादावादेशानां संज्ञा स्यात अर्थववाद्विधेयत्वेन प्राधान्यात् योग्यविमतिकस्वाच्चेति ।
Page #312
--------------------------------------------------------------------------
________________
विधि प्रकरणे प्रत्ययाधिकारप्रकरणम् । संज्ञाप्रयोजनं तु स्थानिन आदेशेन निवर्तितत्वेन शब्दान्तरापेक्षया परत्वमस्तीति । तस्मात्कर्तव्योऽत्र यत्त इति हरदत्तः। ' अत्रेदं वक्तव्यम् , हनश्चेत्यादिधकारो न प्रत्ययसंहामा. प्रस्यानुकर्षणार्थः, अधिकारादेव तल्लामात् । किन्तु संशिविशिष्ट स्य । एवञ्च तेनैव निराकाला संज्ञा कथं वधादिभिः सम्बध्येत ? "क्षेमप्रियमद्रेऽपच' (पा०म०३-२-४४) इत्यादौ तु णित्वादिसामा . दावृत्त्या संशालाभः । किञ्च नभं विरङ्गमिति द्वितीयान्तं न तु प्रथमा. न्तम् ; असावमुमादेश लभते इत्याशयेन प्राचां व्यवहारात् । उक्तश प्रातिशाख्ये-"असावमुमिति तद्भावमुक्तम्" इति । ___ "समानाक्षरमन्तस्थं समकण्ठयं स्वरोदयम्" इति च।।
"इकोयणचि" (पा०पू०६-१७७) इति तदर्थः । एवं स्थिते नमः विरङ्गयोः संशया सह विरुद्धविभक्तरावरोधोऽपि स्पष्ट एवेति दिक् । ____ अथ सनः सशदादारभ्य कपः पकारण सपिति प्रत्याहारमाश्रित्य सम्प्रत्यय इत्येव कुतो नोक्तमिति चेत् ? न, प्रत्यासत्या सिपः पकारेण ग्रहणापत्तेः । व्याप्त्या तु "तप्तन. सनथनाच'' (पा०म०७-१-४) इति तनपः । तस्माद्यथान्यासमेवा. स्तु । संज्ञाप्रयोजनं तु कर्तव्य इत्यादौ धातोरङ्गसंज्ञाप्रवृत्तावाङ्गो गुः जः। यत्त प्रत्ययाधुदात्तत्वं फलमिति । तदापाततः, "आधुदात्त श्व" (पासू०३-१-३) इत्याधिकारमाश्रित्य तस्य सुसाधत्वात् । . परश्च (पा०स०३-१-२)॥ अयमधिकारः परिभाषा वा। लिङ्गवती चेयम् । लिङ्गं तु प्रत्ययसंज्ञा । "गुप्तिकिझ्यः सन्" (पा०सू०३-१-५) इत्यादी अपादानत्वासम्भवाहिग्योगलक्षणपश्चमी, तत्र परः पूर्वो वेत्य. नियमेनाध्याहारे प्रसक्ते पर एवेति नियमार्थमिदम् । “गापोष्ट (पासु०३-२-८) इत्यादौ षष्ठीनिर्देशेऽपि आनन्तर्यरूपषष्ठपर्थस्य पूर्व परयोरविशेषादनियमस्तुल्य एव । स्यादेतत्, "विभाषा सुपे. बहुच्पुर. स्तात्तु" (पा०स०५-३-६८) इत्येतनियमार्थमस्तु बहुजेव पुरस्ताद्भवति नान्य इति । ततश्च बहुचि पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यति । न चैवमपि षष्ठीनिर्देशेषु मध्यशब्दाध्याहारेण मध्येऽपि प्रसङ्ग एवेति वाच्यम्, "अव्ययसर्वनाम्नाम"(पासु०५-३-७१) इत्यनेन अकजेव प्रकृतिमध्ये नान्य इति नियमात् । न च बहुजेव पुरस्ताद. कजेव मध्ये इति नियमे बहुजकचोनियमो न लभ्येतति वाच्यम्, देशनियमार्थयोरपि वाक्ययोः बहुजकचोद्देशसम्बन्धप्रतीत्या निराका. सतया तयोर्देशान्तरसम्बन्धे मानाभावात् , विकल्पस्यानेकदोषदुध.
Page #313
--------------------------------------------------------------------------
________________
३०४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादेमथमाह्रिकेत्वाच्च । न चोकजेव प्राक् टेरिति नियमे प्रत्ययान्तरं टिप्राग्भागरूप. मध्यविशेषे मा भून् , मध्यान्तरे तु स्यादेवेति वाच्यम् , लक्ष्यसिद्ध ये मध्यसामान्यापेक्षनियमाभ्युपगमे बाधकाभावात् । किञ्च "गुप्ति किझ्यः " (पा०स०३.१-५) इत्यादौ भ्यसादीनां परत्वदर्शनेन अङ्गसं. ज्ञासूत्रे प्रत्यये इति सप्तमीबलेन च "ज्याप्रातिपदिकात्" (पासू० ४-१-१) इत्यादौ परशब्दाध्याहारे निश्चिते तदैकरूप्याय प्रत्ययविधिः परायामष्टाध्याय्यां न पूर्वादिपदाम्तराध्याहारो न्याय्यः, तत्किं परति सूत्रेण ? उच्यते, प्रयोगनियमार्थमिदं , पर एव प्रत्ययो न केवल इति । अन्यथा प्रत्ययार्थमात्रविवक्षायां किमस्य द्वयसमित्यापि प्रयुज्यतः । यदि तु प्रकृतिविशेषोहेशेनैव प्रत्ययस्य विधानात्केवलो न प्रयोश्यत इति ब्रषे, एवमंपि प्रत्यर्थमात्रविवक्षायां केवला प्रकृतिः प्रयुज्यतैव । यथा पच् पठ् इति । अतः प्रत्ययः परो भवत्येवेति नियमार्थमिदम् । आपदत्वानिवृत्तेश्चायं नियमः । तदेतत्तत्रतत्रोच्यते-"न केवल। प्रकृतिः प्रयोक्तव्या न केवल प्रत्ययः" इति "अपदं न प्रयुखीत" इति च । अप. रिनिष्ठितं न प्रयुञ्जीतेति तस्यार्थ इत्युक्तम् । यत्विह भाप्ये बरुमण्डुः लमक इत्यादीनामपशब्दत्वमुक्तम्, यच्च पदमजो तारतम्यादिश. ब्दानाम्, तत्सर्वे लाक्षणिकरवमनादृत्य प्रयुक्तषु बोध्यम् । इज्यते हि गोणीशब्देस्य गवि गोणीसारश्यशक्तिभ्रमाभ्यां प्रयुकस्य साध्वसा. धुत्वव्यवस्था । अत एव "बव्हच इञः, (पासू०२-४-६६) इति संत्रे रघुशब्दस्य तदपत्ये लक्षणया साधुत्वं हरदत्तेनोक्रम । प्रकृतसूत्रेऽपि 'नो खल्वारभ्यमाणमप्येतलक्षणया प्रयोगं निवारयितुमर्हतिइत्युक्तन्ते. नैव । अत एव तारतम्यमित्यस्य शब्दपरस्यार्थे लक्षणया साधुत्वं के. यटेन "साधकतमङ्करणम्" (पासू०१-४-४२) इति सूत्रे ध्वनित. मिति दिक् ।
आधुदात्तश्च (पा०स०३-१-३) ॥ अयमप्यधिकारः परिभाषा वा प्राग्वत् । तित्तिरिणा प्रोकमधीते तैत्तिरीयं ब्राह्मणकुलं, "तितिरिवरतन्तुस्खण्डिकोखाच्छण" (पा०म०४-६-१०२) "छन्दोब्राह्मणानि च तद्विषयाणि' (पा०म०३-२-६६) "तदधीते तद्वद" (पा०म०४-२५९)। "प्रोकाल्लुक" (पा०स०४-२-६४) । प्रायन्नादिष्पदेशिववचनं स्वरसिद्धर्थम् । इह रीशब्द उदात्तः । स्यादेतत, अस्वरकस्यांच उच्चारणासम्भवात् सर्व एव स्वरविधिनियमार्थः । तत्र चित एवान्तो. दात्तः ।रित एवं मध्योदात्तः । तिदेव स्वरितः । सुप्पिताववानुदासी। वात्सम्बुद्धावेवैकश्रुत्यमिति स्वरान्तराणामन्यत्र. नियमात्पारिशेण्या
Page #314
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे स्वरविधानप्रकरणम् ।
३०५
प्रत्यय आधुदात्त एव भविष्यति नास्थरकः, नाप्यन्यस्वरकः, तरिक. मनेन सूत्रेणेति चेत् ? मैवम, उक्तरीत्या आधदात्तत्वमपि “नित्यादिः" (पा०म०६-१-११७) इत्यादौ नियम्यते । किञ्च त्वदुक्तनियमे चिदादी. नामनियमः स्यात्, अतश्चितोऽन्त एवेत्यादि व्याख्येयम् । ततश्च छणा. दीनामनियतस्वरत्वं स्यात् । अपिच रित्येवेति नियमेऽन्यत्रोपोत्तमरूप. मध्यविशेष उदात्तो मा भूत् । मध्यान्तरं तु स्यादेव । सामान्यापेक्षनिय मे च व्याख्यानमेव शरणीकरणीयं स्यात् । तस्मात्सुत्रारम्भ एवो. चितः । स्यादेतत् , "नित्यादिनित्यम्" (पा०स०६-१-१९७) "प्रत्यय. स्य च "लसार्धधातुकमनुदात्तम्' "सुप्पितीच"इति षष्ठ एव सूध्य. ताम् । एवं स्वरप्रकरणे पाठात्सन्दर्भशुद्धिः, आधुदात्तानुदात्तशब्दयो। स्तत्रत्ययोरेवोपजीवनाल्लाघवं च । नन्वेवं प्रत्ययग्रहणपरिभाषया तद. न्तस्य स्वरः स्यात् । इह तु क्रियमाणे "आधुदात्तश्च" (पासू०३-१-३) इत्यस्य प्रतियोगमुपस्थाने सत्युत्पद्यमान एव तव्यादिरुदासः, एवं ति. बादिरनुदात्तः। अतःप्रत्ययसझासन्नियोगेन स्वरो विधीयत इति चेत् ? मैवम् , बाष्ठत्वेऽपि शापकेन तदन्तविधिनिराससम्भवात् । तथाहि, "प्रत्ययस्य च" इत्यत्र न तदन्तविधिः "नित्यादिः" (पा०सू०६-११९७) इत्यारम्भात् । “सुप्पितौ च" इत्यत्रापि न, “धातोः" (पा०म०६१-१६२) इत्याद्यारम्भात् । यदि हि प्रत्ययान्तस्यानुदाचत्वं स्यातर्हि धातुप्रातिपदिकयोरन्तोदात्तविधिनिर्विषय एव स्यात् । यत्र हि प्रत्ययोऽनुदात्तो 'याति' 'वृक्षान्'इत्यादौ, तत्रैव प्रकृतिस्वरः श्रूयते । यातो यान्ति वृक्षत्वं वृक्षतेत्यादौ तु सतिशिष्टेन प्रत्ययस्वरेण बाध्य. ते । तस्मात् षष्ठे सूत्रकरणमेवोचितमिति चेत् ? मैवम्, गोपायति धूपायतीत्यत्र उत्पत्तिसंनियोगेनायुदात्तत्वे कृते ततः "सनाद्यन्ताः" (पा.सू०३-१-३२) इति धातुत्वे "धातोः" (पा०स०६-१-१६२) इत्य: न्तोदात्तो भवति । यदि तु "नित्यादिनित्यम्" (पा०सू०६-१-१९७) "प्रत्ययस्य च' इत्युच्येत । तदा परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेत। सूत्रस्य सूत्रान्तरेण निमाने फलं वाच्यम्। "सुप्पितीच" इत्यस्य षष्ठे न्या. सोऽप्यनुचितः, तथासति तदन्तविधेर्दुरित्वात् । यत्नक्तं प्रकृतिस्वरवि. धानं शापकमिति । तम, नास्ते शेते' इत्यादौ लसार्वधातुकमात्रस्या. नुदात्तत्वे सति धातुस्वरस्य सावकाशत्वात् । प्रातिपदिकान्तो. दात्तस्यापि अग्निमान् अग्नीनामित्यादौ "हस्वनुड्भ्यां मतुप्" (पा०सू०६-१-१७६) "नामन्यतरस्याम्" (पासू०६-१-१७७) इति स्वरसिद्ध्यर्थत्वात् । तत्र हन्तोदात्तादित्यनुवर्तते 'तमश्याममधुमन्तम'
शब्द. द्वितीय. 20.
Page #315
--------------------------------------------------------------------------
________________
३०६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे प्रथमाहिकेइत्यादौ मा भूदिति । भित्वा प्रकरणं सोढ्वा गौरवं चेह सूत्रणे फलं धातुस्वरस्तद्वत्तदन्ताग्रहणं स्थितम् । म्न फल स्तरमपि, तथाहि, भवितव्यमित्यादौ प्रत्ययोत्पत्तिकाल एवायुदात्तत्वे कृते पश्चाद्भवन्निट अनुदात्तः सिध्यति । अन्यथा तु 'भू-तव्य' इति स्थिते आधुदात्तत्वं श. ध्यान्तरप्राप्त्याऽनित्यम् , इट् तु स्वरभिन्नस्येत्युभयोरनित्ययोः परत्वाविटि कृते तस्यैव प्रत्ययावयवत्वादुदात्तत्वं स्यात् । मैत्रम, यासुडदा. सवचनेन 'आगमा अनुदात्ता' इत्यस्यार्थस्य शापितत्वात् । न च चि. नुयादित्यादौ पिद्भक्के यासुटि चरितार्थमुदात्तवचनं कथं झापकमिति वाच्यम् , एवं हि उदात्तो ङिचत्यपहाय अपिञ्चेत्येव ब्रूयात् । 'अपिच्च लिइत्युक्त्या हि "सार्वधातुकमपित्"(पा०सू०१-२-४)इति जित्वमपि सिध्यत्येव । अवश्यञ्चोकमापकं त्वयाऽप्यादर्तव्यम् । अन्यथा प्रत्ययसं. शासनियोगेनाधुदात्तविधावपि भविषीयेत्यादौ स्वरो न सिध्येत । तत्र हि लावस्थायामनकत्वात्प्रत्ययस्वरे असति परत्वाद्विशेषविहि. तत्वाच्च सीयुटि कृते पश्चाल्लादेशे प्रत्ययायुदात्तत्वं सीयुट एव स्यातासापकाश्रयणे तु सीयुडनुदात्तः । "इटोऽत्"(पासू०३-४-१०६) इत्यकार उदात्तः । न च तित्त्वात्स्वरितत्वं शङ्कयम् , तकार उच्चारणा. थों न त्वित्संक्षकः । इत्संशाऽभ्युपगमपरो वृत्तिग्रन्थस्तु अत्रत्यभाष्यादि. विरोधात् 'भक्षीयतवराधस' इत्यन्तोदात्तलक्ष्यविरोधाश्च प्रामादिक. इति "न विभक्तौ तुस्माः" (पा०सू०१-३-४) इत्यत्रावोचाम । नन्वेवमपि सीयुटि कृते अकारस्थादित्वं विच्छिन्नं तत्कथमुदात्तत्वमिति चेत? यासुट उदात्तवचनेन प्रत्ययायुदात्तत्वे कर्तव्ये आगमा अविद्यमानवद्भः चन्तीति शापितत्वात् । तहविद्यमानवद्भावमात्रमापनेनोपक्षीणं लिममा गमानामनुदात्तचा न शापयतीति चेत् ? वाचनिकं तहिं तदस्तु। तथा च भाष्यम्-"यद्येवं वचनादथापि सापकादागमा अनुदात्ता भवन्ति" इति । अवश्यं च त्वयाऽपीदं वाच्यम् , भवितव्यमित्यादौ पूर्वमुदात्तत्वे सत्यपि पश्चाद्भवन्निट् शापकञ्च बचनं वाचनिकमित्यनुदात्तो भवेत् शे. पनिघातेनेति चेत् ? नायं शेषनिघातस्य विषयः, स्वरविधिशेषत्वात्त. स्य । 'यस्मिन्पदे यस्यामवस्थायां यस्याच उदात्तः स्वरितो वा विधीयते तस्मिन्पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यते' इत्य.
न चायं प्रकारोऽत्र सम्भवति । तस्मादिटोऽनुदात्तत्वं नात्र सूत्रार. म्भस्य फलमिति स्थितम् । इदं तर्हि फलं 'घने भवा नौनी' अण उ. त्पत्तिवेलायामेवोदासत्वे सति उदात्तनिवृत्तिस्वरेण डीबुदात्तः । अन्यथा 'स्त्रोधन' इति स्थिते "प्रत्ययस्य च" इत्या.
Page #316
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे सन्विधानप्रकरणम् ।
३०७
"
चुदासत्वं बाधित्वा परत्वात् "यस्य" ( पा०सू०६-४-१४८) इति लोपे कृते उदात्तनिवृत्तिस्वरो न लभ्येतेति चेत् ? मैवम् परस्यापि यस्थेति लोपस्य ङीबुत्पत्तिमपेक्षमाणस्य अन्तरङ्गेण बाधात् । तवापि हि आयशब्दे इयमेव गतिः । तथाहि, अत्रेरपत्यम् “इतश्चानिञः" (पा०सू०४-१-१२२) इति ढक् । आयन्नादिषु उपदेशिवद्वचनं स्वरसि ज्वर्थमिति प्रत्ययस्वरात्पूर्वमेयादेशः । "टिड्ढ ।” (पा०सू०४-१-१५) इ. ति ङीप् । भात्रेय ई इति स्थिते तद्धितस्य "कितः" (पा०सू०६-१-१६५) इति स्वरं बाधित्वा परत्वात् " यस्य " (पा०सू०६-४- १४८) इति लोपे कृते उदान्तनिवृत्तिस्वरो न स्यात् । तस्मान्नेदं फलमिति स्थितम् । अस्तु तर्ह्यनुदात्तस्यात्र प्रदेशे करणे फलान्तरम् । तथाहि,
.
1
पित्स्वरात्तित्स्वरष्टापि चित्स्वरश्चापि पिरस्वरात् ।
कार्यशब्दाट्टापि स्वरितत्वात्प्रागेकादेशे कृते तस्य पूर्वे प्रत्यन्तवद्भावात्तित्स्वरः प्राप्नोति परं प्रत्यादिवद्भावात्पित्स्वरश्च परत्वात्स्वरितो भवति । यदि तु " लसार्वधातुकमनुदात्तम्" "सुप्पितौ च" इत्युच्यते तर्हि परत्वादनुदात्तत्वं स्यात् । एवम् 'आम्बष्ठ्या' इत्यत्र यङश्चाप्येकादेशे कृते पित्स्वरात्परत्वाच्चित्स्वरो जायते । तदपि विपरीतं स्यादिति चे. त् ? मैवम्, 'कार्या' इत्यत्र हि टाबुत्पत्तेः प्रागेव स्वरितो भवत्यन्तरङ्गत्वा त्सत्यपि वा टापि स्वरितैकादेशयोरुभयोरनित्ययोः परत्वात्स्वरिते कृते आन्तर्यतः स्वरितानुदात्तयोरेकादेशः स्वरित एव भवति । आम्ब ष्ट्यायामपि चापश्चित्करणसामर्थ्यादेव चित्स्वरो भविष्यति । सामा न्यग्रहणे चित्त्वमुपक्षीणमिति चेत् ? न, एवं हि टाप्रकरण एव "यङः" इति सूत्रयेत् ।
अनुदात्तौ सुप्पिती (पा०सु०३-१-४) ॥ पूर्वस्यापवादः । सुप्प्रत्याहारः. पिच्च अनुदात्तः स्यात् । प्रत्याहारश्च सुपः पकारेण न तु कपः, दीनां पित्करणात्, सुपः पकारस्यानन्यार्थत्वाच्च । दृषदः । पठति, पचति ।
तत्र गुपेर्निन्दायाम् (का०वा० ) । जुगुप्सते । तिजेः क्षमायाम् (का०वा० ) । तितिक्षते ।
टाबा
गुप्तिज् किदुद्भ्यः सन् ( पा०सू०३-१-५) ॥ एभ्यः परः सम्प्रत्ययः स्यात् । " धातोः कर्मणः " ( पा०सु०३-१-७) इति सूत्रे वाग्रहणं विभ ज्य त्रिसूत्रीशेषतया सम्बध्यते । सा च व्यवस्थितविभाषा । तेन प्रथ मंसूत्रद्वये अर्थविशेषोपहितेभ्य एव धातुभ्यः सन् । स च विशेषो मु. नित्रयेण साक्षादनुकोऽपि वृत्तिकारादिभिरुपनिबद्धः ।
I
Page #317
--------------------------------------------------------------------------
________________
३०८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे प्रथमालिके
कितेाधिप्रतीकारे अपनयने नाशने निग्रहे च (का०वा०) । चिकित्सति वैद्यः। "क्षत्रियपरक्षेत्र चिकित्स्यः " (पा०सू०५-२-१२) इति सूत्रे वृत्तिप्रन्थः । क्षेत्रियाणि तृणानि सस्थार्थ क्षेत्रे जातानि चिकित्स्यानि अपनेयानि विनाशयितव्यानि वा । तथा क्षेत्रियः पार• दारिकः । परदाराः परक्षेत्र तत्र चिकित्स्या निग्रहीतव्यः । वि. पर्वः संशयेऽपि-विचिकित्सति मे मनः । “विचिकित्सा तु संशयः' (अ०को०१-५-४) इत्यमरः । अर्थान्तरे तु गोपयति । हेतुम. णिच् । तेजयति । संकेतयति। हेतुमण्णिच चुरादिणिज्वा । भूवादी चुरादौ चानयोः पाठादिति न्यासकारः। वस्तुतस्तु सर्वत्र चुरादिणिजे. व न तु हेतुमणिच् इत्यनुपदमेव स्फुटीकरिष्यामः । इह गुपितिजिभ्यां सन्नन्ताभ्यां कथं तडित्याशङ्कय अवयवे ह्यचरितालिङ्गं सामर्थ्यात्समु. दायस्य विशेषकमिति भाष्ये समार्थतम् । युकं चैतत् , भ्वादी अनुदा. चेत्सु गुप गोपने"तिज निशाने' (भ्वा०आ९९५,९९६) इत्यनयोः पाठात् । मैत्रेयस्तु तत्रैव 'गुप गोपनकुत्सनयोः इति पपाठ । एषां च नित्यं सन् । तथा च भाज्यम्-"नेतेभ्यः प्राक्सन आत्मनेपदं नापि परस्मैपदं पश्यामः" इति । एवं च 'गोपते' 'तेजते' इति स्वाम्युक्तः केवलात्तङः प्रयोगः प्रत्युक्तः । नन्वेवं गोपयति तेजयतीति णिजन्तेऽपि तमसङ्गः । सन्नन्ते तर्क प्रवर्त्य अनुदात्तत्वं चरितार्थमिति चेत् ? णिचि प्रवयंतां न तु सनीति विपरीतं कुतो न; इति चेत् ? ___अत्रोच्यते, भिन्नार्था धातवो मित्रा एव । एवं च निन्दाक्षमादौ यत्रार्थे सनिष्यते तदुपहिताः सानुबन्धा भ्वादयो भिन्ना एव, यत्र तु णिजिष्यते तत्राननुबन्धका पव चुरादौ बोध्याः। अवयवे कृतं लिङ्गमिति भाग्यस्यायमेवाशयः । स्पष्टं चेदं "पूर्ववत्सनः" (पा०स० १-३-६२) इति सूत्रे पदमार्याम् । एवञ्च भ्वादिभ्यो हेतुमणिजिति प्रागुकन्यासग्रन्थोऽसङ्गत एव ।
अत्राभरणकार:--गुपादिसूत्रे गुप्तिजकिन्मानित्युपक्रम्य गुपादि. वनुबन्धकरणमात्मनेपदार्थमिति भाष्ये वार्तिके चोकत्वात्कितिः प. रस्मैपदिषु पठितोऽप्यात्मनेपदी बोध्यः । न च गुपादिग्विति बहुवचनं वस्यमाणमान्बधाद्यपेक्षामिति वाच्यम् , भाष्ये विशिष्य कितेरप्युप. क्रमादित्याह । एतदनुसारी वर्धमानोऽपि "स्वाश्रयं कश्चिकित्सतु" इति खण्डनस्य व्याख्यावसरे "चिकित्सतामिति तु युक्तम्" इत्याह । माधवस्तु नैतन्मेने, अनेकमहामन्यविरुदत्वात् । तथाहि, धातुपाठे तावदयमुदात्तत्पठितः वृत्तिकारोऽपीह परस्मैपदमुदाजहार । कैयटोऽ.
Page #318
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे सन्विधानप्रकरणम् ।
३०६
प्याह-क्रमदर्शनाय कितिः पठितो न त्वयमनुदात्तेदिति । हरदत्तोऽप्या. ह 'कितिस्तु परस्मैपदी'इति। स्वामी काश्यप इन्द्रश्चेत्यादयोऽपात्यमेव प्रत्यपीपदन् । तस्मात् श्रीहर्षोक्तिरेव युक्ता वर्धमानोक्तिरयुकेति दिक् ।
तथा च प्रयुज्यते-तस्य चिकित्सतो भ्रम एवं विद्वान्वि. चिकित्सतीत्यादि । सनो नकारः स्वरार्थः । धातुस्वरस्तु न भ. वति नित्करणसामर्थ्यात् । यः स्तोतारं जिघांसति सखायम् । न चार्धधातुके अतोलोपेन भाव्यम्, सार्वधातुके तु शपा सहैकादे. शन, तथा च सनोकारो मास्त्विति चेत् ? न, दित्सधित्सादिभ्य एकान्त्वे यप्रसङ्गात् 'दिस्यम्' 'धित्स्यम्'इत्यत्र ण्यत्प्रसनाच्च । "का. स्यनकाजग्रहणं चुलुम्पाद्यर्थम्" इति वार्तिकस्य प्रत्ययग्रहणमपनीया. नेकाजग्रहणं कर्तव्यमित्येवंपरत्वेन 'दित्साश्चके' इत्याद्यसिद्धधापत्तेश्च । एतेन सन्यङोरिति सप्तमी व्याख्याय 'प्रतीषिषति'-'अटाट्यते' इत्यादौ तु सन्यकोरकारोवारणसामर्थ्याद्वित्वमिति वदन्तः प्रसादकारादयः परास्ताः, उक्तरीत्या अकारोच्चारणस्य चरितार्थत्वात् । न्यासहर• दत्तादिप्रन्थास्तु सन्यङोद्वित्वमपि फलमित्येवंपराः । ते च षष्ठीव्या. ख्यानमेव गृहीत्वा योज्या इति दिक् ।
मानबधदानशानभ्यो दीर्घश्चाभ्यासस्य (पासू०३-१-६) ॥ एभ्यः सनस्यात् अभ्यासस्य इकारस्य दीर्घश्च । अत्रापि पूर्ववदर्थविशेषो. पहितेभ्यः सानुबन्धेभ्यो नित्यः सन् । अर्थान्तरोपहितानि तु धात्वन्तराणि चुरादौ बोद्धव्यानीति निष्कर्षः। तत्र___ मानर्विचारे (काभ्वा०)। मीमांसते । ननु सानार्थान्मानेरुत्तरसूत्रे. जव सन्नस्तु, मैषम्, दीर्घविधानार्थमिडभावार्थश्चास्यावश्यकत्वात् । धातोरित्यविधानाद्धि सनोऽत्र नार्धधातुकत्वमतो नेट् । यत्नत्सरतन्त्र वाचस्पत्यादौ मीमांसाशब्दो 'माङ् माने' (दि०आ०३६) इत्यस्मादयुत्पन्न इत्युक्तम्, तस्यायमाशयः-इह सन्प्रकृतिस्तावदात्मनेपदाच्चुिरा. दिकाद्भित्रैवेति स्थितम् । वत्र मान पूजायाम्" इत्यादिवृत्तिकारग्रन्थो भकवा व्याख्येय एव। न हि तस्मादयं सन् । एवं स्थिते सन्प्रकृतिरनु. दातेकैवेत्यत्र मानाभावात्, ङोदेव सास्तु, नुक्सधे च निपात्यतां मुण्ड. मिश्रादि पा०सू०३-१-२१) सूत्रे हलिकल्योरदन्तत्ववत् । न च वैयाकर. णानामुपायेवाग्रहः,
उपेयप्रतिपत्त्या उपाया अव्यवस्थिताः। इत्युक्तः । न चैवं "सनिर्मामा"(पा०९०७-४-५४) हाम्म सङ्गःधादिसाहच. र्येणेच्छासन्येव तद्विधानात् इति ।
Page #319
--------------------------------------------------------------------------
________________
३१० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे प्रथमाह्निके
बधेश्चित्तविकारे (कावा०)। बीभत्सते । दानेरार्जवे (का०वा०)। दीदांसते ।
शानेनिशाने । (का०३०)। निशानं तीक्ष्णाकरणम् । शीशांसति, शी. शांसते । चुरादीनां तु-मान पूजायाम् (चु०प०३११) मानयति । बधः बन्धने (चु०प०७४) बाधयति । दान अवगुण्ठने (भ्वा०प०१०१९) दानयति । शान तेजने (भ्वा०प०१०२०) शानयति । अत्र सन्प्रक तिभूतो मान्बधी अनुदान्तो, शेषौ स्वरितेतौ । चुरादयस्त्वननुबन्धाः । मनु प्रयाणामर्थभेदानेदोऽस्तु शानेस्तु णिच्सनोरथुक्यात्कथं भेद इति चेत् ? धुनाति धुनोत्यादीनामिवेति गृहाण । स्यादेतत्, इह दीर्घश्रुत्या अच इत्युपस्थितं तच्चेदभ्यासेन विशेष्यते तदा अभ्यासस्थाचो विधी. यमानो दीर्घा हलादिशेषात्प्राक् स्यात् । अचा अभ्यासविशेषणे तु अज. न्तस्याभ्यासस्य विधीयमानो हलादिशेषं प्रतीक्षतां ततोऽधिकस्य प्रती. क्षायां कारणामावात् विशेषविहितत्वाच समनन्तरमेव भवन् बधेरिस्वस्य शेषाणां इस्वस्य च बाधकः स्यात्। ततश्चाभ्यासे आकार: श्रयेत नत्वीकार इति चेत् सत्यम् । अत एव आभ्यासस्येति च्छेदः कृतः। अभ्यासस्य विकार आभ्यासः, सचेत्वमेव । तथाहि लोपस्तावन्नवि. कारः, लोपागमवर्णविकारक्ष इति पस्पशायां हो चापरी वर्णविकार. नाशाविति वार्तिके च पृथगुपादानात् । अभावस्थादेशविधानायोगा। च, अच इत्युपस्थितेश्च । यदि तु हस्वस्य स्यातर्हि तद्धितनिर्देशो व्यर्थः स्यात् । तस्मादित्वमेव तद्धितेन प्रत्याय्यते । यद्वा, सन्याहत्य विहितस्य विकारस्य ग्रहणमस्तु । तदेतदभिसन्धाय व्याख्यातं प्राक् 'आभ्यासस्यविकारस्य'इति । अथ वा“दीर्घोऽकितः"(पासू०७-४-८३) इत्यत्राकिब्रहणेन अभ्यासविकारेषु बाध्यबाधकभावो नास्तीति झाप्य ते । तद्धि 'यंयंम्यते "रंग्यते' इत्यादौ नुकिकृते मा भूदिति कृतम्। वि. शेषविहितेन नुका अनजन्तत्वादेव दी? न भविष्यतीति किं तेन ? अत एव 'डोढौक्यते' 'तोत्रौक्यते' इत्यादी इस्वे कृते गुणो भवति । अन्य. था 'बबाधे' इत्यादौ चरितार्थ इस्वत्वं 'पापच्यते' इत्यादौ चरितार्थों दीर्घः परत्वाद् बाधेत।
धातोः कर्मणः समानकर्तृकादिच्छायां वा (पासू०३-१-७) ॥ षेः कर्म तेनैव च समानकर्तृको यो धातुः तस्मादिच्छायाम सन्प्रत्यः यो वा स्यात् । धातोः कर्मत्वसमानकर्तृकत्वे अर्थद्वारके बोये । अर्थ. स्थापि ते इषिनिरूपिते एव न तु क्रियान्तरनिरूपिते, इच्छायामित्यस्य सविधानात कर्तुमिच्छति चिकीर्षति । धातोः किम् ? सन पाईधा.
Page #320
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे सन्विधानप्रकरणम् ।
३११
तुकत्वं यथा स्यात् । तेन यथायथ मिगुणौ स्तः । अन्यथा 'जुगुप्सते' इत्यादाविव न स्याताम् । कर्मणः किम् ? गमनेनेच्छतीत्थर्थे 'जिगमिषति' इति मा भूत् । समानकर्तृकात्किम् ? देवदत्तकर्तृकं भोजनमिच्छति यशदत्तः । इच्छायां किम् ? कर्तुं जानाति । वावचनाद्वाक्यमपि । न च "समानकर्तृकेषु तुमुन्" ( पा०सु०३ -३ - १५८) इति तुमुन्विधानसामर्थ्यादेव वाक्यं सिद्धमिति वाच्यम, चिकीर्षितुमिच्छतीत्यत्र चरितार्थत्वात् । नात्र सनः प्रसङ्गः, सन्नन्तान्न सन्नितिवक्ष्यमाणत्वात् ।
आशङ्कायामुपसंख्यानम् (का०वा० ) । कूलं पिपतिषति । या मु· मूर्षति । शङ्के पतिष्यति कूलम् । शङ्के मरिष्यति चेत्यर्थः । आशङ्का ल म्भावना तद्विशिष्टक्रियावचनात्स्वार्थे सन्निति कैयटादयः । शङ्काविशिटयोः पतनमरणयोर्लडर्थवत्तमानत्वान्वये 'स्वर्गी ध्वस्त' इत्यादावि व विशेषणीभूतशङ्कायां वर्तमानत्वपर्यवसानं बोध्यम् । प्रत्याख्यानं तु यो यदिच्छति स तस्य पूर्वरूपाणि करोति यथा-देवदत्तः कटं चि कीर्षुः पूलादीन्युपादत्ते । एवं कूलस्यापि लोष्टविशरणादीन्युपलभ्य पतनेच्छाऽध्यारोप्यते । यद्वा, सन्विधाय के सूत्रे इच्छाशब्दो गौणमुख्यसाधारणः । गौणमुख्यन्यायस्तु लक्ष्यानुरोधात्स्वरितत्वाश्च नाश्रयिते ।
अत्र भाष्यम्-
शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥
I
अयं श्लोक इह सूत्रे मतुब्विधौ च भाध्ये पठितः । अस्माभिस्तु चतुर्थे" शेषे ' (पा०स्०४-२-१२) इति सूत्रे शापितोयमिति तत्रैव व्याख्यास्यते । पतव्द्यास्थानपराः प्रकृतसूत्रस्थकैयटहरदत्तादिग्रन्थाः पाश्चमिकभाष्यविरुद्धा इति तत्रैव वक्ष्यते । इह सन्प्रसङ्गादन्योऽप्यनिष्टः प्रत्ययो बारितः । प्रकृतोपयुक्तं तु "सन्नन्तान सनिष्यते” इति । सरूप इत्येव । सारूप्यं चात्र सादृश्यम् । तच्चार्थद्वारकम् । तेन चिकीर्षितुमिच्छतीतीच्छासनन्तानेच्छासन । स्वार्थसन्नन्तात्तं स्यादेव । जुगुप्सिषते । मीमांसिषते । एतच्च न्यायसिद्धम् । तथाहि, लक्ष्यवशादिह जातिः पदार्थः । तत्र च
कुल्लक्षणं प्रवर्त्तते इति सन्प्रवृत्तेः प्राक् तदन्तप्रकृत्यसम्भवात्तदन्तात्प्रत्ययस्य प्रसङ्ग एव नास्तीत्याहुः । एवं तु यङ् सन् ण्यन्तात्सनि बो भूयिषयिषतीत्यादि बहूनां लेखनं विरुध्यते । तस्माद्वाचनिकः समन्तात - दभाव इत्येव सारम् । इह यो प्रामं गन्तुमिच्छति तस्य यद्यपि प्रामो न स्वरूपेणेष्टः ग्रामो मे स्यादिति, तथापि गम्यमानतारूपेणेष्ट एव । अत एव प्रामो जिगंस्यते जिगमिषितव्यः जिगमिषितः सुजिगमिष
Page #321
--------------------------------------------------------------------------
________________
३१२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेइति सनन्ताद्रामे कर्मणि लादयो भवन्ति । गमनं प्रति कर्मत्वमप्य स्त्येव । अत एव ग्रामं प्रामाय वा जिगमिषतीत्यत्र “गत्यर्थकणि" (पासू०२-३-१२) इति द्वितीयाचतुथ्यौं भवत इति भाग्ये स्थितम । एवं च ग्रामो गमनं चेत्युभयमिषेः कर्म "शक्यं च क्षुदुपहन्तुम् इति प. स्पशायां भाष्यस्य तत्रत्यकैयटस्य च पर्यालोचनया क्षुत् उपहननं चे. त्युभयं शकः कति स्थितम् । एवं च गन्तमिप्यते शक्यते चेति प्र योगे प्रामो प्रामं चत्युभयमपि विषक्षाभेदेन साधु । प्रथमान्तस्य हि इषि शकिभ्यां कर्मत्वेन शाब्दोऽस्वयः, गमिना त्वार्थः । द्वितीयान्तस्य तु गर्मि प्रति कर्मत्वं शाब्दम् , इषिशकी प्रति तु विशिष्टस्य वैशिष्टयं, विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति वा बोध्यम । एतेन इषि. शकी च द्विकर्मको भाष्ये स्थिताविति माधवप्रन्यो व्याख्यातः । कि. न्तु एतदुपष्टम्भेन "अयाचितारं नहि इति श्लोके देवदेवस्य शकिक मत्वं यदुपपादितं तच्चिन्त्यम् । उक्तरीत्या हि सुतां ग्राहयितुंमिति द्वयं कर्मास्तु, गृहातिकर्तुस्तु शकिकर्मतायां का प्रसता ? -
इति श्रीशब्दकौस्तुभे तृयिस्याध्यायस्य प्रथमे पादे प्रथममान्हिकम् ॥
... ७८
सुप आत्मनः क्यच् (पा०सू०३-१-८)॥ कर्मण इच्छायां वेति व तते । इषिकर्मण पषितृसम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । आत्मशब्दोऽत्र परब्यावृ. त्तिपरः स्वशब्दपर्यायो गृह्यते न तु चेतनमात्रवचनः। तथात्वे हि स इच्छां विशेषयेत् सुबन्ते वा? आद्येऽपि आत्मन इति कर्तरि षष्ठी चेत् ? आत्मा चेदिच्छतीति तर्हि पर्यवस्येत । तथा च व्यर्थविशेषणता, ना नात्मा इच्छति । कर्मषष्ठयां तु "अश्वक्षार"(पा०स०७-१-५१) इति सुत्र न सङ्गच्छेत, क्षीरादिभ्यः क्यचो दुर्लभत्वात । द्वितीयेऽपि व्यर्थवि. शेषणतयः । परस्यापि हि इष्यमाणः चेतनसम्बन्धी भवत्येव । तस्माद्य थोकमेव साधु । स्वस्य यत्सुबन्तमित्यंत्र तु कस्य स्वस्येत्यपेक्षायां इच्छया पषितुः संनिधापितत्वातंत्तस्यैवेति लभ्यते । न चैवमपि आ. रमनः पुत्र परस्य स्वामिनमिच्छतीत्यत्र मसक्का, सुबन्तस्यात्मसन्ध न्धित्वादिति वाच्यम्, नात्र थाकथंचिदात्मसंम्बन्धित विवक्षिा तम्, किंतहीप्यमाणं रूपमात्मसम्बन्धित्वेन यदेण्यते तदा प्रत्ययः । इह त्वात्मीयत्वेन नेच्छा किन्तु फ्रस्वामित्वेनेति न दोषः । सुग्रहणं
Page #322
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
पदावधित्वार्थम् । तेन समर्थपरिभाषोपस्थानान्महान्तं पुत्रमिच्छतीत्यादौ सापेक्षा न भवति । अन्यथा महान्तं पुत्रीयतीति स्यात् । न च सुब्ग्रहणं विनाऽपि कर्मण इत्यनेनैव पदविधित्वं लभ्यतामिति वाच्यम्, यत्र हि पदस्वासा धारणं रूपमाश्रयते स पदविधिः कर्मत्वं तु अपदे ऽपि दृश्यते धातोः कर्मण इति यथा । कथं तर्हि "कर्मण्यण्" (पा०सु०६-२- १) इत्यादौ पदवि. धित्वमिति चेत् ? उपपदसञ्ज्ञाया अन्वर्थत्वबलादिति गृहाण | महापुत्रीयतीति तु महापुत्री मिच्छतीति विग्रहे बोध्यम् । आत्मनः किम् ? राज्ञः पुत्रमिच्छति पुरोहितः । नन्वसामर्थ्यादेवात्र न भविष्यतीति चेत् ? तत्मनः पुत्रमिच्छतीत्यत्रापि न स्यात् । ननु लौकिकविग्रहे आत्मन इति प्रयोगेऽपि अलौकिके प्रक्रियावाक्ये केवलात्पुत्रशब्दात् क्यजिति चेत् ? तर्हि तथैव परकीयपुत्रेच्छायामपि स्यादिति गृहाण | किश्च पुत्रशब्दस्य नित्यसापेक्षत्वानासामर्थ्यम् । अपिच यत्रार्थादेव परकीयत्वं गम्यते तत्र परस्येति प्रयोगाभावात्स्पष्टैवातिव्याप्तिः । अघ· मिच्छतीति यथा । न हि कश्चिदात्मनोऽघमिच्छति । क्यचः ककारो "नः क्ये" (पा०सू०१-४-१५) इति सामान्यग्रहणार्थः । 'ये' इत्युक्ते हि 'सामसु साधुः सामन्यः' अत्रापि स्यात् । चकारस्तदविघातार्थः । स्वर - स्तु प्रत्ययस्वरेण धातुस्वरेण वा सिद्धः । अकारस्तु यद्यपि न श्रवणार्थः, आर्द्धधातुकेषु लोपात्सार्वधातुकेषु शपा गतार्थत्वात्, तथापि गुणवृद्धिनिषेधार्थः सः । तथाहि, समिधं दृषदं वेच्छति समिभ्यति, दृबद्यति । ततो ण्वुल् “अतो लोपः " (पा०सु०६-४-४८) । "यस्य हलः" (पा०सू०६-४-४१) । "क्यस्य विभाषा" ( पा०सू०६-४-५०) । समिधकः । हृषदकः । अत्राल्लोपस्य स्थानिवद्भावात् " पुगन्त" (पा०सू०७-३-८६) इति गुणः "अत उपधायाः” (पा०सू०७-२-११६) इति वृद्धिश्व न भव. ति । किञ्च मृदमिच्छति मृद्यति । मृद्यतेः "अचो यत्" (पा०सू०३-१९७) अतोलोपादि पूर्ववत् मृयम् । "यतोऽनावः " ( पा०सु०६-१-२१३) इत्याद्युदात्तत्वम् । अपिच 'पुत्रीयात' इत्यादौ शपोऽनुदात्तता स्यात् । या सहकादेशे तु स उदात्तों भवति । अपिच मृद्यतेरनेकाच्त्वाच ङोनुत्पचिराम्यश्च फलमिति दिन् ।
३१३
यदि मान्ताव्ययावां प्रतिषेधः (का०वा० ) ॥ मान्तश्चाव्ययं चेति इन्द्रः तेन तत्प्रकृतिक लक्ष्य प्रकृतिकादव्ययप्रकृतिकाञ्च सुबन्तान क्यजित्यर्थः । यथाश्रुते तु पुत्रमिच्छतीत्यादौ क्यज् न स्यात् कवेिच्छति का विच्छ्रतीत्यादौ च स्यात् । इदमिच्छति स्वरिच्छति । गाँसमानाक्षरनान्तादित्येके गांमिच्छति गव्यत्ति - "वान्तो यि प्रत्यये"
Page #323
--------------------------------------------------------------------------
________________
३१४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयान्हिके
(पा०सू०६-१-७९) । दधीयति, मधूयति-"अकृत्सार्व” (पा०सू०७-४२५) इति दीर्घः। कर्मयति, हर्बीयति-"रीङ्क्रतः" (पासु०७-४-२७) । राजीयति, तक्षीयति-"नः क्ये" (पा०सू०१-४-१५) पदत्वानलोपे "क्याचि च"(पासू०७-४-३३) इतीत्वम् । "नलोपः सुप्स्वर" (पासू० ८-२-२) इति नियमान्नासिद्धत्वम् । अस्मिन्पक्षे 'वाच्यति' 'मृद्यति' इत्यादि न सियेदिति नायं स्थितः पक्ष इत्याहुः ।
छन्दसि परेच्छायामपि (कावा०): जहि यो नो अघायति । मा त्वा वृका अघायवो विदन् ।शापकात्सिद्धमायदयंक्यचि प्रकृतरीत्वबाधनार्थम् "अश्वाघस्याऽऽत्"(पासू०७-४-३७)इत्याकारंशास्तिान हि कश्चिदात्म. नोऽघमिच्छति। न चाचारक्यजथै तत्, छन्दसि अघशब्दादाचारे क्य. चोऽदर्शनात्, उदाहतस्थले इच्छार्थस्यैव प्रतीतोरत्याहुः । क्यजन्तेषु प्रकृत्यों यद्यपि कर्म तथापि तस्य धात्वर्णन्तर्भावात् जीवतिनृत्यती त्यादिवदकर्मक एवेच्छाक्यजन्तः । अतोऽस्माद्भावे कर्तरि च लादयः । आचारक्यजन्ते तु पुत्रादेरुपमानकर्मणो धात्वर्थान्तभावेऽपि छात्रादे. रुपमेयकर्मणोऽनन्तर्भावात्तस्मिन्कर्मणि लादयो भवन्त्येव । 'पुत्रीय्यते छात्र:' 'पुत्रीयितव्यः' इत्यादि यथा, 'श्येनायते काकः' इत्यत्र उपमा-- नकर्तुरन्तर्भावेऽपि उपमेयकर्तरि लो भवति तद्वत । ननूक्तरीत्या मुण्डं करोति मुण्डयति माणवकमिति न सिध्येत्, णिजन्ते मौण्ज्यगुणविशिष्टत्वेनैव कर्मान्तर्भूतं न तु माणवकत्वादिना विशेषेणेति यदि, तर्हि तथैव मुण्डमिच्छति मुण्डायति माणवकमित्यपि स्यात, सापेक्ष. त्वेनासामर्थ्यान्न क्यजिति चेतहि तत एव णिजपि न स्यात् । तस्मात णिक्यचोर्विशेषो वक्तव्य इति चेत् ? उच्यते, "तत्करोति" (गळसू०) इति णिचि सिद्धे "मुण्डमि"(पा०सु०३-१-२१)इति पुनर्षिधानं सापे. क्षेभ्योऽपि यथा स्यादित्येवमर्थमेव । क्यच तु निरपेक्षेषु चरितार्थ इति स्पष्ट एव विशेषः । यद्वा, कण्ड्वादिवत् मुण्डादयो द्विविधाः । धातवः प्रातिपदिकानि च । तत्र सौत्रा एते विशिष्टक्रियावचना धा. तवःतेभ्यश्चुरादिवत्स्वार्थे णिच् । प्रातिपदिकानां तु विग्रह एव । माणकं मुण्डं करोतीति ।अथवा मुण्डयतीत्यत्र कमिति विशेषाकाला अनुभवसिद्धा । मुण्डस्यैव वा शुद्धन करोतिनाऽन्वयः। मौण्ड्यविशि. टेन तु माणवकस्य । यथा 'गां दोग्धि पर्य' इतिशुद्धस्य दुहेः पूर्व गवा सम्बन्ध, पश्चात्तु गोदुहिना पयसः । क्यच्प्रत्ययस्तु अनमिधानाच भवति । माणवकं मुण्डीयतीत्युके मुण्डमिवाचरतीत्यर्थान्तरमेव गम्य.
Page #324
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
ते । तदुक्तं हरिणा
सदपीच्छाक्यचः कर्म तदाचारक्यचाहतम् । वाक्यवाच्यमतो व्यक्तर्यथाऽभ्यासः क्रमादिषु ॥ इति । अस्यार्थ:-सदपि न्यायतः सम्भवदपीच्छाक्यचः कर्म वाक्यवाच्यं माणवकं मुण्डमिच्छतीत्येवं रूपेण बोधनीयम्, न तु क्यजन्तेन, यत आचारक्यचा हृतं निरवकाशीकृतम्, तदर्थस्यैव निरूढेः । आचारक्यचा हरणे वाक्यवाच्यत्वे वा हेतुमाह-अतो व्यक्तेरिति । अतोऽस्मात् क्यचो व्यक्तराचारार्थस्यैव प्रतीतेः। अतो वाक्यादिच्छाकर्मणः प्रती. तेरिति वा । यथा क्रमादिषु गत्यर्थेषु अभ्यासः पौनःपुन्यं वाक्येनैव गम्यते न तु यङा, कौटिल्ये निरूढेः । उक्तं च प्रकीर्णकाण्डे--
सदपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते । प्रसिद्धन हृतः शब्दो भावगाभिधायिना ॥
अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रवर्तते । इति ॥ एतेन यथेति क्रमादिषु यथा वेदादिविषयोऽभ्यासो व्यज्यते तथा वाक्ये इच्छाक्यचः कर्मेत्यर्थः । अथवाऽभ्यासक्रमादिग्वित्येकं पदम्, अभ्यासेन वर्णक्रमादिविषयाभिव्यक्तिर्भवति तथा वाक्येन कर्मत्व. विषयाभिव्यकिरित्यर्थ इति विवरणं प्रत्युक्तम् ।
अत्र भाग्ये क्यजन्तस्य 'इष्टः पुत्रः' 'इज्यते पुत्रः' इत्यादयो विग्रहा निराकृताः। तस्यायमाशय:-यद्यपि वृत्तिवाक्ययोरत्यन्तसमानार्थकता नास्तीत्यदूरविप्रकर्षणैव सर्वत्र विग्रहः, तथापि सुसहशसम्भवे मन्दस. दृशोपादानमन्याय्यम् । इच्छाक्यजन्तस्य चाकर्मकतया कर्मप्रत्ययान्तैविग्रहोऽनुचितः, निरर्यकाधिकावापापत्तेरिति । अत एव बाहुलका. कर्मणि किबन्तस्य श्रीशब्दस्य 'श्रीयते' इत्येव विग्रहो न्यायो न तु श्रयन्त्यतामिति कर्बर्थतिङन्तेनति मान्याः । यदि तु कर्तरि किए तर्हि भयतीत्येव विग्रह इत्यन्यदेतत् । एवं च श्रयन्त्येतामित्यत्र कि शब्दा. शुद्धिराशुद्धिवेत्यादिवल्गनमत्रत्यभाध्यापयालोचनसूल कत्वादुपेक्ष्यम् । ___ अथ नामधातुषु प्रतिसूत्रं लेशतः प्रक्रिया व्युत्पाद्यते। सुप्रीयती. त्यादी अलौकिके प्रक्रियावाक्ये सन्धिकार्यरहितात्पुत्र अमित्यस्माक्यचि सुपो लुक् “मन्तरानपि"(प०भा०५३) इति न्यायात् । ततक्य. चिच"(पा०सू०७-४-३३)इतीत्वम्, अश्वस्यति। वृषस्यति । क्षीरस्य. ति। लवणस्यति । "अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि"(पासू० ७-१-५१) इत्यसुगागमः । अशात्मप्रीतावित्यपनीय "अश्ववृषयोमैथुने. छायाम्""क्षीरलवणयोलालसायाम्" इति वक्ष्यते । तेनायोरुदाहरण.
Page #325
--------------------------------------------------------------------------
________________
३१६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयान्हिकेयोरश्ववृषयोमैथुनायेच्छतीत्यर्थः । अन्ये तु परित्यक्तप्रकृत्यर्था मैथुने च्छैवार्थ इत्याहुः । तथा च कालिदासः--
इति रामो वृषस्यन्ती वृषस्कन्धः शशास ताम् । इति । निघण्टुश्व-'वृषस्यन्ती तु कामुकी' इति । इतरयोरपितृष्णातिरेको ऽभ्यवजिहीर्षातिरेको लालसा, तेन क्षीरलवणेच्छायां लालसारूपाया मित्यर्थलाभात् क्षीरलवणे अतिशयेन अभ्यवहर्तुमिच्छतीत्यर्थः । अत्र प्रकृत्यसुगकारयोः सवर्णदीर्घ बाधित्वा "अतो गुणे" (पा००६-१-९७) इति पररूपम् । अकारोचारणं तु पूर्वसूत्रोदाहरणे 'ब्राह्मणासः' इत्यादौ कृतार्थम्। तथा "सर्वप्रातिपदिकेभ्यो लालसायममुग वक्तव्यः' इत्यः नकारान्तादसकि दध्यस्थतीत्यादौ च सुगसुकौ च दधिमधुभ्यामेव स्तः, भाष्ये "दधिस्यति मधुस्यतीत्येवमर्थम्" इत्युक्तरित्यके । अन्ये तु सर्वप्रातिपदिकेभ्य इत्येके इति सर्वग्रहणाबहुववननिर्देशाच सर्वत्र : स्तः । एवमर्थमिति तूदाहरणान्तराणामप्युपलक्षणमिति वदन्ति ।
अशनोदकधनेभ्यः क्याच "अशनायोदन्यधनाया बुभुक्षापिपासा. गर्धेषु" (पासू०७-४-३४) इत्यशनधनयोरीत्वापवाद आत्वम् उदक. स्योदनादेशश्च । अशनायति । सद्यो भोक्तुमशनमिच्छतीत्यर्थः । बुभुः क्षायां किम् ? अशनीयति । औत्तरकालिकमशनमिच्छतीत्यर्थः । उद. न्यति । पातुमुदकमिच्छतीत्यर्थः । उदकीयति । स्नानाद्यर्थमुदकमिच्छ. तीत्यर्थः ।धनायति, सत्यपिधने भूयोऽपीच्छतीत्यर्थः। धनीयति। दरिद्रः सन् धनमिच्छतीत्यर्थः । केचित्तु अशनादिप्रकृत्यर्थमनपेक्ष्य केवलं बुभुक्षादीनेव क्यजन्तस्यार्थान् मन्यन्ते । तथाच निघण्टु:-"उदन्या तु पिपासा तृट् इति । भारविश्व-"किमु धनं धनायितुम्" इति । गार्ग्य. मिच्छति गार्गीयति । अत्र "क्यच्च्योश्च" (पासू०६-४-१५२) इति हल उत्तरस्य आपत्ययकारस्य लोपः । उर्षीयति, उपर्षभीयति । उपाल्कारीयति, उपल्कारीयति । अत्र "वा सुप्यापिशले"(पा००६-१९२) इति वृद्धिविकल्पः । पक्षे गुणः । न च पक्षे "ऋत्यकः" (पा०१०६ -१-१२८) इति प्रकृतिभावः शङ्कनीयः । वा सुपात्यत्र हि "उपसर्गाइति धातो" (पा०सू०६-१-९१) इति सम्पूर्णमनुवर्तते । तत्र "यक्रिया. युक्ता" इति न्यायनोपसर्गग्रहणादेव धाताविति लब्धे पुनर्धातु प्रहणं योगविभागेनाधिकविधानार्थ सत्प्रकृतिभावं बाधत इति षष्ठे वक्ष्यमाणत्वात।
उपगता ऋषभीयका अमुं देशम् उपर्षभीयको देशः । इह गुणप्रकृतिभावौ न तु वृद्धिः, गमिम्प्रत्युपसर्गत्वेऽगि सुरमातुं प्रत्यत.
Page #326
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३१७
थात्वात् । न च "उपसर्गादध्वनः" (पा०सु०५-४-८५) इत्यादा. विव प्राद्युपलक्षकत्वम्, तत्रैवात्र मुख्य बाधकाभावात् । ऋषभः स्य समीपमुपर्षभं तदिच्छति उपर्षभीयति । अत्रापि गुणप्रकृतिभावी न तु वृद्धिः, पूर्ववत् । स्यादेतत "धातुसंज्ञानिमित्ते प्रत्यये चिकीर्षिते उपसर्गाः पृथक् क्रियन्ते" इति तावश्यते 'उदमनायत' 'उन्मनाय्य गतः' 'उन्मिमनायिषते' इति अत्यद्विर्वचनानि यथा स्युरिति । एवं चेहापि ऋषभशब्दादेव क्यच् । तेन-उपार्षभीयत् , उपर्षभाय्य, उपेन प्रादिसमासः । उपर्षिषभीयिषति इत्यादि सिध्यतु, वृद्धिस्तु कुतो नेति चेत् , ? ऋषभीयतेरिह सुब्धातुत्वाभावात् । “प्रत्ययग्रहण"(प०मा०२३) परिभाषया हि उपर्षभशब्दोऽत्र सुबन्तः, न तु केवल ऋषभशब्दः । त. दिह यः सुबन्तो नासौ धात्ववयवः, यश्च धात्ववयवः नासौ सुबन्तः, किचोपसर्गत्वाभावादपि न वृद्धिः। अत एव "ल्यबर्थ प्रादिसमासः" इत्युक्तं न तु 'गतिसमासः' इति। न च सोऽपि क्त्वान्तेनासामर्थ्याक. थमिति वाच्यम्, प्रकृत्येकदेशद्वारकस्य विशिष्टेन सामर्थ्यस्य कृत्सु सर्वत्र वाच्यत्वात् । न चोक्तरीत्या सुब्धातुत्वाभावे यथेष्टद्विर्वचनं न सि. ध्येदिति वाच्यम्, नामधातुत्वस्यैव तत्र प्रयोजकत्वात् । ऋकारमि. च्छति ऋकारीयति उपारीयतीत्यत्र "वासुपि"(पा०सू०६-१-९२)इति वृद्धिः श.कलप्रकृतिभावश्चेत्युभयं न भवति, ऋतीति तपरकरणात् । उनामैच्छत औस्त्रीयत्। ओंकारीयत् । आ ऊः भोढः, औढायत्। अत्र "उस्यपदान्तात् (पा०४०३-१-९६)"भोमाङोश्व"(पा०पू०६-१-९५) इतिपररूपं प्राप्तम्"आटश्च" (पा०सू०६-१-९०) इति पुनर्वृद्धिविधानाथेन चशब्देन बाध्यते । तथा च षष्ठे वार्तिकम-"उस्योमावाटः प्रति. षेधः' इति । उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः ।
स्यादेतत् उक्तवार्तिके आङ्ग्रहणम औढीयदिति तदा चासङ्गतम्, उपसर्गाणां पृथकरणस्य शापितत्वात् । न च सन्ध्यभावविषयकमेव तदिति वाच्यम्, उपर्षभीयतीत्यत्र तदभावापत्तेः । न चेष्टापत्तिः, माधवादि ग्रन्थविरोधात् । ___ अत्राहुः-यत्रोपसर्गस्वरूपमविकलं पृथक् प्रतीयते सं बापस्य विषयः । इह तुं आङ् उकारेण सहकादेशे न तथेति ओकारात्पूर्वमाद् । तस्य अन्तवद्भावलब्धाव्यपदेशेन ओकारेण सह प्राप्तं पररूपं वृद्धि मा बाधिष्टेति वार्तिक आइहणम् । उक्तवार्तिकभाष्यग्रन्थ एव चाप कस्य विशेषविषयत्वे प्रमाणमिति । एवं स्थिते आइता पता, पेती. यत, एतीयत्वा, पतितीयिषतीत्यादि द्रष्टव्यम् । प्र एतीयतीति स्थिते.
Page #327
--------------------------------------------------------------------------
________________
३१८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयान्हिके"एङि पररूपम्" (पासू०६-१-९४) बाधित्वा प्राप्ताम् "एत्येधति" (पा०स०६-१-८९) इति वृद्धिम"ओमाङोश्च" (पा०स०६-१-९५) इति पररूपं परत्वाद्वाधते । प्रेतीयति । आगत ऋश्यः आ ईषहश्यो वा अयः, प्रादिसमासः, अर् गुणः, अयमिच्छति अर्यायति, आयित् । अत्र गुणस्य अन्तवद्भावेन आङ्त्वा "ओमाङोश्च"इति पररूपं प्राप्तं परत्वा. चद्वाधित्वा सवर्णदीर्घः प्राप्तः सोऽपि "आटश्च" (पासू०६-१-९०) इति पुनर्वृद्धिविधानार्थेन चकारेण बाध्यत इति केचित् । तन्न, रूपे विशेषाभावात्, पुनर्विधानस्य पररूपबाधेनोपक्षीणत्वाच्च । अत एव "उस्योमाच" इति वार्तिकेन पररूपमेव निषिद्धमिति दिक् ।
अ-यतीत्यस्य प्रादिपूर्वत्वे प्रायति । अत्र "ओमाङोश्च" (पा० स०६०१-९-७) इति बाधित्वा परत्वात्प्राप्तः सवर्णदीर्घः चकारेण पुन: पररूपविधानान्नेति माधवः। अरमिच्छति अरीयति, "री ऋतः" (पा० सू०७-४-२७) अलमिच्छतीत्यत्रापि इदमेव रूपं, सावर्यात् । तपरकरणाहीर्घस्य न रीङ् नापि ऋत इत्वम्, अधातुत्वात् । ऋयति । हेश. ब्दमिच्छति हेयति । गामिच्छति गव्यति । गठियता। अतो लोपे "क्य. स्य विभाषा" (पा०सु०६-४-५०) इति हल उत्तरस्य क्यप्रत्यययकारस्य प्राप्तो लोपः “सन्निपात" (१०भा०८७) परिभाषया न भवति । अगव्यीत् । “वदवज" (पासू०७-२-३) इत्यत्र हल्ग्रहणस्य हल्समुदायस्य प्रतिपत्त्यर्थत्वेऽपि अल्लोपस्य स्थानिवत्वेनाङ्गस्य हलन्तत्वाभावान्न वृद्धिः रैयति । ग्लाव्यति ग्लाव्यिता । श्वलिह्यति । श्वलिहिता, श्व. लिहिता। अश्वलिहीत् । अत्र हलन्तलक्षणा वृद्धिर्न, अल्लोपस्य स्थानिवत्वात् “नेटि" (पासू०७-२-४) इति निषेधाच्च । अत्र "हो ढः" (पासू०८८२--९) इति ढत्वं न, "नः क्ये" इति नियमेनापदान्त. त्वात् । अत एव 'गोदुह्यति'इत्यत्र “दादेः"(पा०सु०८४२-३२)इति घत्वं 'मित्रगृह्यति'इत्यादौ “वा दुह" (पा००८-२-३३) इति तद्विकल्पः 'उ. पानाति इत्यत्र "नहो धः"(पासु०२-३४)इति धत्वम् 'अनबुह्यति इत्या. दौ "वसुखं" (पा०सू०८-२-७२) इति दत्वं च न । पुरमिच्छति पूर्यति । "हलि च" (पासू०८-२-७७) इति दीर्घः। यत्तु अधातुत्वान्न दीर्घ इति माधवेनोक्तम्। तन्न, पिपः किपि "उदोष्ठ्यपूर्वस्य" (पा०स० ७-९-९२) इत्युत्वे रपरत्वे च निष्पन्नस्य पुर्शब्दस्य धातुत्वानपा. याद । कथमन्यथा पूः पूामित्यादौ दीर्घः । कथं च "ऋक्पुरन्धुः" (पासू०५-४-७८) ": सर्वयोः" (पा०सू०३-२-४१) इत्यादिनिर्देशा प्रति दिक् ।
Page #328
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३१९
एवं गिरमिच्छति गीर्यति । अत्रापि गिरतेः किपि ऋत इत्वे रपरत्वे प्राग्वद्दीर्घः । गीर्थिता, गिरिता । "कयस्य विभाषा" (पा०सू०६-४५०) इति यलोपपक्षे हल्परत्वाभावान्न दीर्घः । "वः " ( पा०सु०८०२७६) इति पदस्य विधीयमानो ऽपिन, “नः क्ये" इति नियमेनापदत्वात्। स्वरिच्छतीति तु वाक्यमेव न तु क्यच्, मान्ता ताव्ययेभ्यः प्रतिषेधात् । चतुर्यति । दिव्यति । अनयोरधातुत्वात् "हलि च" (पा०सू०७-२-७७) इति दीर्घो न | चतुर्दिवशब्दौ हि "चतेरुरन्” ( उ०००४७) इति सूत्रेण "दिवेर्डि विः” इति न्यासोहितसूत्रेण च व्युत्पन्नौ अव्युत्पन्नावेव वा । उभयथाऽपि धातुत्वाभावः स्पष्ट एव । यत्तु प्रक्रियायां "हलिच " (पा०सू०८-२-७७) इति दीर्घः दिवमिच्छति दीव्यतीत्युक्तम्, तदप्रामाणिकमेव । तथाच हलि चेति सूत्रे काशिका - " धातोरित्येव दिवमिच्छति दिव्यति' इति । यत्तु दिवेरौणादिके किपि दिवशब्दो धातुरेवेति । व्युत्पत्तिपक्षमाश्रित्य प्रक्रिया ग्रन्थः, अव्युत्पत्तिपक्षमाश्रित्य तु काशिकेत्यविरोध इति प्रसादकृतोक्तं; तत्तुच्छम्, किबन्तत्वे ऊठः प्र सङ्गाद् भाग्यविरोधाच्च । “दिव औतृ" (पा०सु०७-१-८४) इति सूत्रे हि 'अक्षद्यू:' इत्यत्र अतिव्याप्तिमेकदेशविकृतस्यानन्यत्वादाक्षिप्य "नि: रनुबन्धक" (प०भा०८३) परिभाषया "उगिदचाम्” (पा०सू०७-१-७०) इति सूत्रादधातुग्रहणानुवृत्या वेति द्वेधा समाहितम् । उभयथाऽपि त्वत्पक्षे असङ्गतिः स्पष्टैवेति दिक् ।
तमिच्छति तद्यति । यद्यति । प्राणितीति प्राणू, प्राण्यति । अहर्यति । "रोऽसुपि" (पा०सु०८-२-६९) इति रुत्वापवादो रेफः । स च न. लोपे कर्तव्ये असिद्धो नेति वक्ष्यते ।
I
उज्झेः किए उत्, तमिच्छति उज्झ्यति । ककुभ्यति । मृडं परिवृढं वाऽऽचक्षाणामिच्छति मृद्ध्यति, परिवढ्यति । णाविष्ठव दित्यतिदेशात्परिवृढेकारस्य रेफः । बुधेः किप्, भुत्, तमिच्छति बुध्यति । त्वां मामि च्छति त्वद्यति मद्यति । अतित्वामतिमामिच्छति अतित्वद्यति, अतिमद्यति । "प्रत्ययोत्तरपदयोश्च (पा०सु०७२-९८) इति त्वमौ । युवामावां वेत्यादिविग्रहे युष्मद्यति, अस्मद्यति । अतियुष्मद्यति, अत्यस्मद्यति । उखां पन्थानं च आचक्षाणमिच्छति उख्यति, पथ्यति । मरुत्यति । अदस्यति । पयस्यतीत्यादि ।
काम्यश्च (पा०सु०३-१-९) । उकविषये काम्यच् स्यात् । पुत्रमारमन इच्छति पुत्रकाम्यति । "सुप आत्मनः क्यच्काम्यचौ" इति वक्तव्ये उत्तरत्र द्वयोरनुवृत्तिर्मा भूदित्येवमर्थो योगविभागः । न चैवमपि .स.
Page #329
--------------------------------------------------------------------------
________________
० शापौर तृतीयायाया थमपादे हितीयान्हिकेनिहितत्वारकाम्यजेवोत्तरत्र सम्बध्यतेति वाच्यम् , इह चकारेणानुक. ष्टस्य क्यच उत्तरार्थत्वात् । सुप आत्मनः काम्यच क्यच्चेति तु सुत्रः यितुं युक्तम् । काम्यचः ककारस्य इत्संना न, फलाभावात् । न च "कि ति च" (पा०सू०७-२-११३) इति निषेधः फलम् , अधातुविहितत्वेन आर्द्धधातुकत्वाभावादेव गुणाप्राप्तः। 'वाकाम्यति'इत्यत्र सम्प्रसारणं फलं स्यादिति चेत् ? न, षष्ठान्ते भ्रौणहत्ये तत्वनिपातनेन "धातोः स्वरूप ग्रहणे तत्प्रत्यये कार्यविज्ञानम्"इति झापयिष्यमाणत्वात् । तत्प्रत्ययो धातुसंशब्दनेन विहितः प्रत्यय इति प्राश्चः ।
स्वरूपग्रहणं च नेह शृङ्गग्राहिकयोपादानम् , तथा सति 'घृतस्पृ. ग्भ्याम् इत्यादी अनुदात्तस्य चदुपधस्य"(पा०सु०६-१-५९)इत्यमागम. प्रसङ्गात् । किन्तु यत्कार्य धातुं न व्यभिचरति तत्रेयं परिभाषोपतिष्ठते । तथाच स्वरूपग्रहणं नाम धातोरेवाश्रयणम् । तश्च यथाकथञ्चिदित्या. स्तां तावत् ।
चकारस्तु भाग्यवार्तिकयोः प्रत्याख्यातः ।न्यासकारहग्दत्तमाध. वास्तु 'पुत्रकाम्यिध्यति'इत्यादौ सतिशिष्टमपि स्यस्वरं बाधित्वा धातुः स्वरो यथा स्यादित्येतदर्थ चित्करणमित्याहुः । तत्तु प्रौढ़िवादमा मुनिवचनविरोधेन स्वोत्प्रेक्षितस्वारस्यानादर्तव्यत्वादिति सुहृदयैर्वि. भाव्यताम् ।
पुत्रकाम्यिता । पुत्रकाम्यिष्यति । इह “यस्य हलः" (पासू०६-५४९) इति न भवति, अनर्थकत्वात् । यस्येति हि सहातग्रहणात् "अर्थवद्हणे नानर्थकस्य" (५०मा०१४) इति वक्ष्यते । अत एव प्रयतौ पुत्रकाम्ययेति सिध्यति । इहान्तर्वतिन्या विभक्तथा पदत्वाद्ययायोगं पदकार्याणि । यशस्काम्यति, रुत्वं विसर्गः, सोपदादाविति मंत्वम् । स्वःकाम्यति, सोपदादावनव्ययस्येति वचनात्सत्वाभावः, अधिकारणशक्तिप्रधानस्याप्यस्य वृत्तिविषये शक्तिमत्प्रधानत्वाद् इषिणा कर्म त्वेन योगः। गी:काम्यतीत्यादौ 'रोः काम्ये' इति रोरेव विसर्जनी. यस्य काम्ये सत्वनियमात्सत्वाभावः । सर्पिष्काम्यति, सत्वं बाधि. त्वा "हणः षः (पासू०८-३-३९) इति षः । अयं च सत्वापवादप्तया यत्र तत्प्रसङ्गस्तत्रैव । तेनोःकाम्यति गी:काम्यतीत्यादौ न भव. ति । पुंस्काम्यति । अत्र पुंसः संयोगान्तलोपे "पुमः खय्यम्परे"(पा० सू०८-३-६) इति रुत्वं निर्वयं “सम्पुम्कानां सो वक्तव्यः” (का०वा.) इति सत्ववचनान्नास्ति विसर्जनीय इति न षत्वम् । मान्ताव्ययेभ्यो. ऽव्ययं भवत्येव-किंकाम्यति । अनुस्वारपरसवर्णविकल्पी ।
Page #330
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
उपमानादाचारे (पासू०३-१-१०) ॥ उपमानाकर्मणः सुबन्ता. दाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति च्छात्रम् । विष्णू. यति द्विजम् ।
अधिकरणाचेति बक्तव्यम् (कावा०)। प्रासादीयति कुट्याम् । कु. टीयति प्रासादे । इहोपमेये सप्तमीश्रवणापमानमपि सप्तम्यन्तमेवेति कर्मत्वाविवक्षया सूत्रेणासिद्ध वार्तिकारम्भः । सूत्रवार्तिकयोरुभयोर. प्युदाहरणे क्यच्प्रत्ययस्य आचारमात्रमर्थः । प्रकृतेस्तु वृत्तिविषये एकत्र स्वार्थकर्मकाचरणसदृशमर्थः, अपरत्र स्वार्थाधिकरणकाचर. णसरशम् । तच प्रत्ययार्थेऽभेदेन संसर्गेण विशेषणम् । प्रत्ययायें भूताचरणक्रिया तु उपमेया । सा च बालाभ्यां कर्माधिकरणाभ्यां सम्बध्यते ।
कर्तः क्यङ्स लोपश्च (पा०स०३-१-११)। उपमानास्कर्तुः सुब. न्तादाचारे क्यङ् वा स्यात, सान्तस्य तु कर्तुरलोन्त्यस्येति लोपो पा स्यात् । प्रत्ययविकल्पनात्पक्षे वाक्यम् । सान्तस्य लोपविकल्पस्तु व्य. वस्थितः- ओजोऽप्सरसोर्नित्यमन्येषां तु विकल्प पवेति । कृष्ण इवा. चरति कृष्णायते । कथं तर्हि
क्षीरोदीयन्ति सद्यः सकलजलधयो वासुकीयन्ति नागाः। इति? क्षीरोदमिव आत्मानमाचरन्तीत्यर्थ "उपमानावाचारे (पा०पू०३१-१०) इति क्यच् । ओजायते । ओजःशब्दोऽत्र वृत्तिविषये तद्वति वर्तते । अप्सरस इवाचरति अप्सरायते । यशायते, यशस्यते । विदा. यते, विद्वस्यते । इह सूत्रे चकारोऽन्वाचये । तेन कर्तुः क्यङ् सर्वत्र भवति, यत्र तुं सकारः सम्भवति तत्र लोपोऽपि । सेति च पृथक्पदं लुप्तषष्ठीकम् । तेन कर्तृर्षिशेषणात्तदन्तविधिः। अतो 'हंसायते' इत्यादौ सलोपो न । सान्तेष्वपि लोपो व्यवस्थितः । तथाच वार्तिकम्--
"मोजोऽसरसोर्नित्यम्" इति । एवं स्थिते। ___"ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया"
इति काशिकायां पयोग्रहणं ओजोऽप्सरोभिन्नसकारान्तस्योपलक्ष. णार्यम् । एतेन यशःप्रभृतेनैव भवतीति भ्राम्यन्तः परास्ता।। यत्तु प्रकि. यायां सुपूर्वस्य मनसो नित्यमिति, तदपाणिनीयम् । यतु "विद्वस्थमानः शास्त्रेऽधिकारी" इति वाचस्पतिप्रन्थव्याख्यावसरे कल्पतरुकारैरुक्तम्विद्वस्यमान इति "लोहितादिडाभ्यः क्यष्' (पा०सू०३-१-१३) इति, तल्लोहितादेराकृतिगणवेन प्रौढिवादमात्रम् । वस्तुतस्तु क्यवायं ने तु क्यष्, लोहितादिसत्रे "नायं हलन्ताद्विधीयते” इति वद.
शब्द. द्वितीय. 21
Page #331
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ तृतीयाध्यायप्रथमपादे द्वितीबाह्निके
1
द्भिर्भाष्यकारैर्हलन्तात्क्यषोऽनङ्गीकृतत्वात् । कथमन्यथा "क्यस्य वि भाषा" (पा०सू०६-४- ५० ) इत्यत्र सामान्यग्रहणार्थे ककारं प्रत्याचक्षीरनित्यवधेयम् । अर्चिरिवाचरति अविष्यते । "नः क्ये" (पा०सु०१-४१५) इति नियमेन पदान्तस्वाभावात्वत्वम् । त्वद्यते, मद्यते । अनेकार्थत्वे तु युष्मद्यते, अस्मद्यते । कुमारीवाचरति कुमारायते । हरिणीव गौरीव गुर्वीवाचरति हरिणायते, गौरायते, गुरूयते । "क्यमानिनोस्व” (पा०सु०६-३-३६) इति पुंवत् । सपत्नीवाचरति सपत्नीयते । अत्र पुंवद्भावो नेति न्यासकारः । यदाह - "नित्यं सपत्न्यादिषु' (पा०सु० ४-१-३५) इत्यत्र समुदायोचारणं पुंवद्भावबाधनार्थमिति, तदेतद्युक्तिविरुद्धं भाष्यविरुद्धं च । तथाहि, समुदायनिपातनं रूढ्यर्थे समानस्य सभावार्थ चेति न त्वदुक्तार्थज्ञापकम् । तथा " तसिलादिषु" ( पा०सु०६-३-३५) इति सूत्रे भाग्यकारः -- सपत्नीशब्दाच्छिवा द्यणि “भस्य।ढे” (का०वा०) इति पुंवद्भावे 'सापतः' इति प्रापय्य अढग्रहणमपनीय अनपत्य इति विवक्षया परिहृत्य गार्ग्यामण्या अपत्ये तु कुत्सिते "गोत्रस्त्रियाः कुत्सने ण च" ( पा०सू०४-१-१४० ) इति णप्रत्यये गार्ग्यायण इति स्यात्, गार्ग्य इति चेष्यत इति दोषमुद्भाव्य "भस्याढे" ( का०वा० ) इति यथान्यासं स्थापयित्वा "नित्यं सप ल्यादिषु" (पा०सू०४ - १ - ३५) इति समुदायनिपातनं परिहारत्वेनानभिधाय शत्रुपर्यायात्सपत्नशब्दात् "शार्ङ्गरवादि" (पा०स्०४-१-७३) ङनिन्तात् शिवाद्या इति सापत्नशब्दं साधितवान् । शिवादिषु समानः पतिर्यस्या इति व्युत्पादितस्य समानस्वामिकाभिघायिनो भाषितपुंस्कस्य केवलयौगिकत्व ग्रहणं नेष्टमिति तदाशयः । एवं स्थिते तस्मात् "लिङ्गविशिष्ट " ( प०भा०७३) परिभाषया पत्युतरपदलक्षणे ण्ये सापत्य इति भवति, भावकर्मणोः पत्यन्तलक्षणे वकि सापत्यमिति सुब्धातुवृत्तौ माश्वः । तस्मात्क्यङ्यपि प्रकृतिभेदेन 'सप· स्नायते' 'सपतीयते' इति द्वयमपि साधु । यत्तु पा रक्षणे (अ०प०४६) इति धातौ माघवेनोतम-भावकर्मणोः पत्यन्तलक्षणे यकि सापत्न्यम, अभाषितपुंस्कत्वात्पुंवद्भावो नेत्यादि, तन्तु विवाहजन्य संस्कारविशेषनिमित्तकं पतिशब्दमाश्रित्य इतरन्तु स्वामित्वमात्रपरमित्यविरोधः । एवं च शिवादौ नित्यस्त्रीलिङ्गस्यापि योगरूढस्य ग्रहणात्सापत्न शब्दो द्वयर्थः, 'सपत्नीयते इति च तृतीयमपि रूपं साध्वित्यवधेयम् । युवतिरिक्ाचरति युवायते । यत्तु "ङयाप्" (पा०सु०४ - १ - १) सूत्रभाष्ये 'युवतितरा' इत्युदाहरणात् यौवनं जातिः, अन्यथा " जातेश्व" इति निषेधा
"
३२२
Page #332
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३२३
भावात्तसिलादिष्विति पुंवद्भावः कियेतेति । तश्न, वय सोऽनित्यश्वेन अजातित्वात् । कथमन्यथा " अचः परस्मिन्" (पा०सू०१-१-५७) इति सूत्रे युवजानिरिति भाष्यं सङ्घच्छेत । युवतितरेति तु भाष्यनिर्देशादेव न पुंवदिति कैयटे स्पष्टम् |
पट्वी च मृद्वी च पट्वीमृद्वयौ । ते इवाचरति पत्रीमृदूयते । पूर्वपदस्य कयपरत्वाभावान्न पुंवत् । पाचिकायते, "न कोपधाया!" (पा०सू०६-३-३७) । चतुर्थीयते, "सञ्ज्ञापूरण्योश्च" (पा०सु०६-३३८) । नीयते, "वृद्धिनिमित्तस्य च तद्धितस्यारकविकारे" (पा०सु० ६-३-३९) । काषायीयते कन्था । रक्तार्थत्वान्नेह पुंवद्भावनिषेधः । खदि रस्य विकारः खादिरी । "पलाशादिभ्यो वा " (पा००४-३-१४९) इति विकारे अणओोरन्यतरस्मिन् ङीप् । खादिरायते इत्यादि ।
"आचारेऽवगल्भक्लीबहोडेभ्यः क्विन्वा" (का०वा० ) ॥ कवङपवादोऽयम् | पक्षे वाग्रहणात्कयङति । गल्भ धाष्टर्वे ( वा०आ०३९२ ) । कळी अधाष्टयें (स्वा०प०३८१ ) । होडृ अनादरे (स्वा०अ०२८६) । एने पत्राद्यजन्ताः | अचोऽकारस्य इहैव वार्तिके अनुदाचत्वानुनासिकत्वे प्रतिज्ञायेते । तेन वित्रबन्तादात्मनेपदं सिध्यति । विनियोगेनानुनासिकत्वप्रतिष्ठानात्वपक्षे इत्सा न भवति । स्यादेतत् उक्तधातूनामनुदात्तेत्वादवगल मते, क्लीवते, होडते, इति सिद्धम् । तेभ्य एव पचाद्यजन्तेभ्यः क्यङि मवगल्मायत इत्यादि । न च अवगमते इत्यादीनां धाष्टर्थ्यादिकमेवार्थः स्यान त्वाचार इति वाच्यम्, धातूनामनेकार्थत्वेनाचारार्थता या अपि लाभात् । तत्किमनेन वार्तिकेनेति चेत् ? सत्यम् । 'अवगल्भाञ्चके' 'क्लीबाञ्चके' 'होडाश्चक्रे' इत्यत्र प्रत्ययान्तत्वादाम् यथा स्यादित्येवमर्थमिदं वार्तिकम् । अन्रगल्भेति किम् ? अनुपसर्गादुपसर्गान्तरविशिष्टशच्च कपडे यथा स्या त् 'गल्भायाञ्चक्रे' इति माधवादयः । प्रक्रियायां तु अवेत्यपहाय केव लस्य पाठः । तदनुगामिप्रसादादिप्रन्थश्च प्रामादिक एव । धातुभ्य एव लिटि तु जगल्भे, चिक्लीबे, जुदोडे ।
"सर्वप्रातिपदिकेभ्यः' (का०वा० ) । न केवलमवगमादिभ्य एव किन्तु सर्वेभ्य एव आचारे विश्वकव्य इत्यर्थः । पूर्ववार्तिकन्तु अनुव न्धासंगार्थं स्थितमेव । प्रातिपदिकग्रहणादिह सुप इति न सम्बध्यते । तेन पदत्वाभावादुदाहरणेषु पदकार्याणि न । कृष्ण वाचति कृष्णति । "अतो गुणे" (पा०सु०६-१- ९७) इति शपा सह पररूपम् । . एतेन 'चर्मेवाचरति चर्मति' इति प्रक्रियाग्रन्थः परास्तः, अपदान्तरन
I
Page #333
--------------------------------------------------------------------------
________________
शब्द कौस्तुभसूतीयाध्यायप्रथमपादे द्वितीयाहि के
नलोपायोगात् । कथमन्यथा इहैव शमा संह पररूप स्यादिति यत्किञ्चिदेतत् । इह द्वितीयवार्तिके वाग्रहणं नानुवर्त्यम् प्रातिपदिकविषयकेणानेन क्विपा: सुवन्वविषयस्य क्यों भिन्नविषयत्वादेव बाधस्याप्रसङ्गाद्वचनद्वयप्रामाण्याद्विकल्पोपपत्तेश्च । पूर्ववार्तिकेऽपि एत. सिद्ध किवबनुवादेनानुबन्धासङ्गमात्रे तात्पर्यस्य भाष्ये स्थितत्वेन प्रा तिपदिकविषयता वाशब्दवैयर्थ्यं चेति तत्वम् । तस्य सुबन्तविषयत्वे हि अन्तर्वर्त्तिविभक्त्या पदत्वात् गल्भतेः संयोगान्तलोपो दुर्वारः ।
अथ क्विबन्तेषु रूपाणि लेशत उदाह्रियन्ते । अइवाचरति अति, अतः, अन्ति । णलि "अचोऽणिति" (पा०सु०७-२-११५) इति वृद्धौ "भात औ णलः” (पा०सू०७-१-३४), औ । तथाच कशब्दस्य चकाविति हरदचः । माधवस्तु "ण्यल्लोपौ " इति वचनाण्णलि वृद्धिम्बाधित्वा अतोलो. पात् 'चक' इत्युदाजहार । तन्मतेऽपि मशब्दस्य औ, अतुः, उः । सर्वत्रात्र द्विर्वचने अतोलोपादन्तरङ्गत्वादतोगुणे पररूपत्वे तस्याङ्गग्रहणेन प्राप्तादतालेापात्परत्वादभ्यासग्रहणेन प्रहणाद् "अत आदेः” (पा०सू०७-४-७०) इति दीर्घः । “आतो लोप इटि च" (पा०सु०६-४-६४ ) इत्यालोपः कि. ति, णलस्तु औ वृद्धिः । स्थादेतत्, इह प्रत्ययान्तत्वादामा भाष्यम् । न च "कास्यनेक। ज्ग्रहणम्” इति वार्तिकेन प्रत्ययग्रहणस्थानेऽनेकाज्ग्रहणस्य कृतत्वात्प्रत्ययान्तेभ्योऽप्येकास्य आस्नेति वाच्यम्, चुलुस्पादीनामप्रत्ययान्तानां संग्रहार्थमनेकाग्रहणमधिकं कर्तव्यमित्येतावन्मात्रपरतयाऽपि वार्तिकस्य कृतार्थत्वे सौत्रस्य प्रत्ययग्रहणस्यापनयने कारणाभावात् । अत एव वार्तिककृता चुलुम्पाद्यर्थमित्युक्तं न स्वेकाज्नवृत्यर्थमिति । अत एव 'अवगल्भाञ्चके" इत्यादि भाग्याद्यु दाहृतं सङ्गच्छते । न हि तत्रानेकाच्वमस्ति, आत्मनेपदार्थमनुबन्धासङ्गस्य निर्विवादत्वात् । अत एव स्वामास स्वाञ्चकारेति प्रक्रियाकारोदाहृतं निर्बाधमिति चेत् ?मैवम्, हरदत्तादिग्रन्थेषु कशब्दाद् अशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम् स्यात्, चुलुम्पादिभ्यश्च न स्यात्, अतोऽव्याप्यतिव्याप्तिपरिहाराय प्रत्ययग्रहण. मपनीय तत्स्थाने अनेकाज्ग्रहणं कर्त्तव्यमित्यर्थकतया वार्तिकस्य व्या ख्यातत्वात् माघवादिभिरपि तदनुसारेणैव रूपाणामुदाहृतत्वाच्च । युक्तं चैतत्, कास्यनेकाग्रहणमिति वार्तिकाक्षरस्वरसात् । अन्यथा हि अनेकाच उपसंख्यानमित्येव ब्रूयात्, न तु प्रत्यय शब्दावरुद्धकास्युत्तरभागमनेकाचं निवेशयेत्, आगन्तूनामन्ते निवेशस्य न्याय्यत्वा| चुलुम्पाद्यर्थमिति वार्तिकशेषस्वरसो ममाप्यनुकूलोऽस्तीति चेत् ?
३२४
Page #334
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३२५
न, तदपेक्षया उपक्रमस्य प्राबलमात । न चैव गल्भादावाम् न स्यादिति वाच्यम् तेषां क्लिप्सन्नियोगेन. एकावेऽपि पूर्वमनेकाच्त्वात् । कास्य. नेकाच इत्यत्र भूतपूर्वगतेराश्रयणात् । आचारश्वगल्भेत्यादिवार्तिकस्यैव च भूतपूर्वगत्याश्रयणे प्रमाणत्वात् । तद्धि आम्प्रत्ययो यथा स्था. दित्येवमर्थमिति भाष्यादी स्पष्टम् । इह सापकस्य सामान्यविषयत्वे घटपटप्रभृतिभ्यस्तत्करोतिण्यन्तेभ्यः "क्विए च" (पा०सू०३-२-७६) इति क्वौ तत आचारक्वौ लिटि आमा भापम् । गल्भादिविशेषमा. विषयत्वे तु नेत्यन्यदेतत् ।
इदं त्ववशिष्यते--"सर्वप्रातिपदिकेभ्यः” (का०या०) इति क्विपि परस्मैपदे प्राप्ते आत्मनेपदप्रवृत्या चरितार्थ वचनं कथमाम्प्रवृत्ति साधयेदिति। ___ अत्रोत्तरम् , वाक्याभ्यनुज्ञानार्थ छतस्यापि इच्छासनि वाग्रहणस्य पूर्वसूत्रद्वये व्यवस्थापकत्वमाश्रित्य गुपादेनिन्दाक्षमादिम्वेव सन्नान्य. प्रेति यथा सिद्धान्तितं, तथेहापि तद्लेनैव "सर्वप्रातिपदिकेभ्यः" (का० वा०) इति क्विप गल्भादेन करिष्यते इति परस्मैपदनिवृत्तिस्तावत्सिद्धा आत्मनेपदमपि स्वतन्त्रधातुभ्योऽस्त्येव । आचारार्थताऽप्यनेकार्थत्वात्सु. लभा । तथाच वचनस्य नान्यत्र चरितार्थतेति शापकत्वं सुस्थमेव । एवं च सकलमहामन्थविरुद्धं 'स्वामास' इति प्रक्रियोदाहरणं न अखेयमिति स्थितम् । इणः अयतेा णिजन्तात् "किप च" (पा०स०३-२-७६) इति क्विप् आययतीतिः आः, आयमाचक्षाण आः, स इवाचरति आति । “य. मरम" (पा०सू०७-२-७३) इतीट्सको, आसीत् , आसिष्टाम् । एकादे. शस्य पूर्वान्तत्वात “लिङ्गविशिष्ट"(१०भा०७३) परिभाषया च मालेवा. चरति मालाति । अमालासीत् । अमालासिष्टाम् । अस्मालङि-अमा. लात्, अमालाः । अत्र हल्ङ्यादिलोपस्तु न भवति, डीसाहचर्यादापोऽपि सोरेव लोपविधानात् । कविरिव कवयति । कवयाचकार । माशीर्लिङि कवीयात् । “सिचि वृद्धिः"(पासू०७-२-१) इत्यत्र "ऋत इखातो"पा०म०७-१-१००)इत्यतो धातोरित्यनुवृत्तेर्धातुरेव यो धातु. रिति विज्ञानानामधातोर्न वृद्धिरिति कैयटहरदत्तौ। तन्मते गुणे अक. वयीत् । वर्धमानोऽप्येवम् । माधवस्तु परिभाषारम्भपक्षे धात्वनुः वृत्तेः कैयटेन प्रदर्शितत्वादिगन्ते नामधातावपि वृद्धिमिच्छति । त. न्मते अकनायीत् । विरिव वयति । विवाय, विव्यतुः । अवयीत् , भ. वायीत् । इरिव अयति । इयाय, इयतुः, इयुः । इयविथ, हयथुः । इय । इयाय, इयिव, इयिम । अत्र कित्सु सवर्णर्धेि कृते इयङ् । यहा
Page #335
--------------------------------------------------------------------------
________________
३२६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेदीर्घात्परत्वेनोत्तरखण्डे "एरनेकाचः" (पा०९०६-४-८२) इति यण् । गुणवृद्धिविषये तु अयायोः "द्विवचनेऽचि" (पा००१-२-५९) इति स्थानिवत्वाद् दैतोत्विम्, अभ्यासस्वः । "अभ्यासस्यासवर्णे"(पा० सु०६-४-७८) इतीयङ् । एदेतोरपि स्थानिवस्वादिकारस्य द्वित्वमिति पक्षे तु सवर्णदीर्घात्परत्वादुत्तरखण्डस्य पुनर्गुणवृद्धी, ततोऽभ्यासस्ये. यङ् । लक्ष्मीरिव लक्ष्मयति । लक्ष्मयाकार | श्रीरिव श्रयति । शि. श्राय, शिश्रियतुः, शिधियुः । उरिव अवति । अवाञ्चकार । "इजा. देश्च" (पा०सू०३-१-२६) इत्याम् । कुरिव कवति । चुकाव । भ्ररिवं भ्रवति । बुम्राव, बुभ्रुवतुः । “अचि नुधा' (पा०सू०६-४-७७) इत्यु. वङ् । गुणवृद्धिविषये तु ताभ्यां बाध्यते । पितेव पितरति । फ्तिरा: श्वकार । आशैलिङि "
रिशयग्लिक्षु" (पा०स०७-४-२८) इति रि• लादेशः। पित्रियात् । नेव नरति । ननार । एवाचरति अरति । "पा. घ्रा" (पासू०७-३-७८) इत्यादौ नायं गृह्यते । “अमिव्यक्तपदार्था ये" इति न्यायेन धातुपाठस्थस्यैव ग्रहात् । एवञ्चास्माशब्दालिटि "क च्छत्यताम्" (पा मु०७-४-११) इति न प्रवर्वते । तत्र घात्वभ्यासयोः सवर्णदीर्घ धातुग्रहणेन ग्रहणादरकारान्तलक्षणे गुणे 'अरतुः इत्यादी. त्यके । अन्ये तु अभ्यासग्रहणेन ग्रहणात् "उरत्" (पा०सू०७-४-६६) अत्वं "हलादिः शेष:" (पासू०७-४-६७६) । “अत आदे"(पा०९०७४-७०) इति दीर्घः । “आतो लोप इटि च"(पासू०६-४-६४) इत्या. लोपः । अतुः, उः, इति प्रत्ययमात्रमवशिष्यत इत्याहुः । रिवाचरति द्रवति । अनभिव्यक्तपदार्थत्वेन "णिश्रिद्रुनुभ्यः"(पासू०३-१-४८) इति चोऽभावात्सिचि-अद्रावीत् । भूरिवाचरति भवति । अत्र "गातिस्था" (पा०स०२-४-७७) इति न प्रवति । अभावीत , अभाविष्टाम् , अमा. विषुः । बुभाषेत्यादि । एवं पिबतेर्विचि पाः । ततः क्विपि "पाघ्रामा" (पा००७-३-७८) इति "गातिस्था" (पा०सु०२-४-७७) इति च न प्रवर्तते । पाति । अपासीत् । एवं प्रतिपदोकानामन्येषामपि इहाप्रवृ. तिरुनेया । कथं तर्हि बुभवतुरिति प्रागुवडवाहत इति चेत् ? धातुत्व. प्रयुक्तोऽसौ न तु श्रुत्वप्रयुक्त इत्यवधेहि । परिवाचरति परति । पपार, पपरतुरित्यादि । अयं पृशब्दानुकरणं न पुनः यादौ जुहोत्यादौ वा पव्यमान इति श्रा इलुश्च न भवति । किति लिटि "ऋच्छत्यताम्" (पा० स०७-४-११) इति अकारान्तलक्षणो गुणः। "शदृप्राम्"(पा०सू०७-४१२) इति इस्वविकल्पस्तु न भवति, अनभिव्यक्तपदार्थत्वात् । ऋरि. (पाचरति अरति । अराशकार । "इजादेश्व"(पा०९०३-२-३६) इत्या.
Page #336
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३२७
म् | ऌ इवाचरति । अलति । लिटि द्विर्वचनम् । लर्वणस्य दीर्घाभावात्सवर्णदीर्घाभावः । उत्तरखण्डस्य यणि अभ्यासस्योरदत्वादेव आल, आलतुरित्यादीति माधवः। तत्र यणीति विद्विषयं पित्सु तु गुणवृद्धी बोध्ये। सवर्णदीर्घाभाव इति तु गुणवृद्धिस्थले भवतु नाम, अवर्णस्य लुकारं प्रत्य सवर्णत्वात् । गुणवृद्धो: स्थानिवद्भावेन ऌकारद्विर्वचनेऽपि सवर्णदीर्घास्वरत्वेन पुनरुत्तरखण्डे गुणादिप्रवृत्तेः । न चान्तरङ्गत्वात्सवर्णदीर्घः, "अभ्यासस्यालवर्णे" (पा०सु०६-४-७८) इत्यस्य निर्विषयतापत्तेः । न च 'इयर्ति' 'इयृतः' इत्यादिरवकाशः, एवं हि "अभ्यासस्यत" त्येव ब्रूयात् । न च एषेः इयेष, ओणेः उवोणेत्यवकाशः, भाषायाम् " (जा' दे:: (पा०स्०३-१-३६) इत्याम्प्रत्ययस्याचितत्वात् । छन्दसि तु तम्बादीनामुपसंख्यानात् 'त्रियम्बकं सुवर्ग' इत्यादिवदियङुवङोरुपपत्तेस्त• थापि लुवर्णस्य दीर्घाभावादिति माधवोपन्यस्तो हेतुरसङ्गत एव, 'हो' तृकारः" इत्यादाविव ऋकारस्य दुर्वारत्वात् । तथा च ऋशब्दात्क्विपीव एकादेशस्य धातुग्रहणेनाभ्यासग्रहणेन वा ग्रहणमिति मतभेदेन-अरतुः, अरुः; अतुः, उ:, इति रूपद्वयमेवोचितम् । "ऌति लु वां" इति
वार्तिकविधेयस्य वर्णान्तरस्य प्रवृत्तौ तु ऌअतुः लउरित्युचितम् । सर्वथाऽपि 'अलतुः' अलुरिति माधवोदाहृतं दुरुपपादमेवेति विभा: व्यतां भाष्यज्ञैः ।
हेरिवाचरति हयति । जिहाय । अहयीत् । यान्तत्वान्न वृद्धिः" । परिवाचरति अयति । " इजादे: (पा०सु०३-१-३६) इत्याम् । अयाञ्चकार | "नेटि" (पा०सु०७-२-४) इति वृद्धिनिषेधान्मा भवानयीत् । गौरिवाचरति गवति । अपदान्तत्वादव पूर्वरूपे न स्तः । जुगाव । 'अगवीत्' अगावीत् । "अतो हलादेः " ( पा०सू०७-२-७ ) इति वा वृद्धिः । भोकारातू - अवति । अवाञ्चकार । मा भवानवीत् । रै-रायति | रिराय | नौ-नावति । नुनाव । औ-आवति । आवाञ्चकार । गोधुमिवाचरति गोदोहति । पय इवाचरति पयति । पपाय । लुङि याम्तत्व'दृद्ध्यभावात् अपयीदिति माधवः ।
।
अत्रेदं वक्तव्यम् । अयपयहयधातुषु "क्विप् च " ( पा०सु०३-२-७६) इति क्विपि अत् पत् छत् इति तावत्वयैवोदाहृतम् । आचारकिपि तु अकृत्वात्तुगागमो मा भूत् । यकारस्तु कथं न लुप्येत ? तस्मात्कशब्दवदेवात्र रूपमुचितम् ! द्यौरिवाचरति 'देवति' इति - माधवः । अत्र ऊ ठि 'द्यवति' इत्युचितम् फलेन "किप् च " ( पा००३-२-७६ ) इति किप् । तत आचारकिप् । फलति । यङ्लुकि पम्फल्यते । अपम्फालीत् ।
Page #337
--------------------------------------------------------------------------
________________
३२८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेएकदेशविकृतस्यानन्यत्वात् अभ्यासस्य नुक् इति "चरफलोश्च" (पा० सु०७-४-८७) इति सूत्रे न्यासविस्तरौ। यद्यपि प्रतिपदोपात्तध्वभिः व्यक्तपदार्थानामेव ग्रहणं, तथापि "उत्परस्यात:' (पासु०-७-४-८८) इति सूत्रे अत इति तपरनिर्देशेन दीर्घनिवृत्त्यर्थ क्रियमाणेन इहास्या. पि ग्रहणं झाप्यत इति तदाशयः। इदमिवाचरति इदामति । यडिव याङति । आणव आणति । राजेव राजानति । "अनुनासिकस्य कि" (पा००६-४-१५) इति दीर्घः । यत्तु कश्चिज्झलादिः कङित् धातोरेव सम्भवतीति तत्साहचर्याद्धातुविहत एव किए गृह्यत इति आचारको नानेन दीर्घ इत्याह । तन्न, अस्य विपः ककारस्यात्रैव सामान्यग्रहणार्थः त्वात् । पकारस्य च तदविघातार्थत्वात्साहचर्यस्य च सर्वत्रानियामक तायाः द्विस्त्रिचतुरितिकृत्वोऽर्थग्रहणेन शापितत्वात् । एतेन इह विपि अनुबन्धयोः फलं चिन्त्यमिति पदन्न्यासकारः प्रत्युक्त इति दिक् ।। ___ एवं च पथिमथ्यभुक्षां परमप्युपधागुणं बाधित्वाऽन्तरङ्गत्वाहीर्धे सति पथीनति मथीनति ऋभुक्षीणतीत्यादि बोध्यम् । इदं च माधवादिमतमनुसृत्यानुनासिकान्तानां दीर्घः प्रपश्चितः । अपरं मतं कृत्येव दीघों न त्वाचारक्तिपि साहचर्यस्य नियामकत्वेनापि क्वचिदा. श्रयणात् । न चैवमनुबन्धवेयर्थ्यम् , "वेरपृतस्य" (पासू०६-१-६७) इत्यत्रास्यैव ग्रहणं मा भूदिति ककारासङ्गात् । पिस्वसामर्थ्यात्तु प्रकृ. तिः सर्वानुदात्तेति केषाञ्चिन्मतस्य न्यासग्रन्थे स्पष्टत्वात् । युकं चैः तत् , कौमारव्याकरणसंवादात् । तत्र हि क्यङ एव वैकल्पिको लोपो विहितो न तु किपः, तत्र र किबाश्रयस्य दीर्घस्याप्रसङ्गात् । गुणे सति 'पथेनति' मथेनतीत्याधुदाहृतम् । न्यायसाम्येन "च्छ्वोः शूठ'' (पा० सु०१-४-१९) इत्यत्रापि अस्य क्विपोऽग्रहणात् द्यौरिवाचरति देवती. त्यपि माघवोदाहृतमस्मिन्पक्षे निर्वहति, वलोपस्य भाज्ये प्रत्याख्यानात्। अत एव पदमजी बहुषु पुस्तकेषु राजनीति हस्वपाठः सङ्गच्छते । अत एव च "न पदान्त' (पा०स०१-१-५८) सूत्रे 'प्रतिनि : इत्यत्र “उप. धायां च" (पा००४-२-७८) इति दीर्घ इति काशिकाऽपि सङ्गच्छते, आचारक्विबन्ताद्विन् प्रत्यय इति तदाशयात् । चर्मवाचरति चर्मतीति प्रक्रिया तु अत्रापि पक्षे अशुद्धव । नलोपपररूपयोः पदान्तापदान्तत्व प्रयुक्तयोः समावेशस्य दुर्घटत्वादिति दिक् ।
अप्रसिद्धा ये हलन्तास्तेषां कारितणी छते टिलोपे च णिलोपे व तद्वलन्तत्वमुखताम् । मठं मखं कर्फ रथं चाचक्षाणः कुर्वन् वा मट् ,
Page #338
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम्। ३२९ मक्, कप, रत् । स इवाचरति मठति । मखति । कफति । रथति इत्यादिक्रमेण यथालक्षणमप्रयुक्तेऽप्यूह्यमित्यर्थः। प्रकृतमनुसराम:
भृशादिभ्यो भुव्यच्वापश्न हलः (पासू०३-१-१२) ॥ अत्राच्वे. रित्येकवचनं भृशाद्यवयवापेक्ष, सौत्रो वा वचनव्यत्ययः। पर्युदासात्स. दृशग्रहः । अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात्, हलन्तानां त्वेषां लोपोऽपि स्यात् । अभृशो भृशो भवति भृशायते । बशब्दोऽन्वाचये न तु सन्नियोगे, अजन्तानांगणे पाठस्य वैयर्खापत्तेः। अच्वेरिति यदि प्रसज्यप्रतिषेधः स्यात्तर्हि असमर्थसमासो वाक्यभेद. च स्पष्ट एव। किंच भवतियोगे च्वेर्विधानादनुप्रयुज्यमानेन भवतिनव उत्तार्थत्वात्क्योऽप्रसक्तौ निषेधवैयर्थम् । अतः पर्युदास एवोचिः तः। तथाच नजिवयुक्तन्यायेन सादृश्यलाभादभूततद्भावविषयेभ्य इत्युक्तम् । तेनेह न-क्व दिवा भृशा भवन्ति । ये रात्री भृशा नक्षत्रादयः ते दिषा क्व प्रदेशे भवन्तीत्यर्थः । इह सुमनस् उन्मनस् दुर्मनस् अभि. मनस् इति पठ्यते । तत्र शक्यते-समासात्क्यङि विशिष्टस्य धातुत्वा. दल्यद्विवचनेषु दोषः। तथाहि, स्वमनायत, उदमनायत इत्यादी. व्यते। असुमनायत, औन्मनायत इत्यादि प्राप्नोति। तथा सुमनाय्य'इत्या. दो ल्यबिष्टः । सु उद् इत्यादीनां क्त्वान्तशरीरप्रवेशे तु तद्व्यतिरिक्त पदाभावादसति समासे ल्यपोऽभावात् 'सुमनायित्वा' इत्यादि प्राप्नोति । तथा क्यङन्तात्सनि सनन्तस्य प्रथमस्यैकाचो द्वित्वे सुसुमनायिषते इत्यादि प्राप्नोति । सुमिमनायिषते इत्यादीप्यते।
अत्राहु:-चुरादिषु "संग्राम युद्ध" इति पठ्यते स न पाठ्यः । संग्रा. मशब्दाशुद्धवाचिन: "तत्करोति" (गसू०) इत्येव णिच: सिद्धरिति तत्पाठो नियमार्थः-धातुसंशानिमित्तःप्रत्ययः सोपसर्गाश्चद्भवति सं. ग्रामयतेरेव नान्यस्मादिति, ज्ञापनार्थो वा-सोपसर्गात्संघाताद्धातुखं. शानिमित्ते प्रत्यये विधित्सिते उपसर्गाः पृथक क्रियन्ते परिशिष्टादेव तु प्रत्यय इति । संग्रामशब्दो हि चुरादौ पठ्यमानः सोपसर्गः संघात एन न तूपसर्गसदृशावयवम् 'माप्ल' व्याप्तावितिवच्छब्दान्तरम् । तथाच "वा पदान्तस्य" (पा.सु०८४-४-५९) इति परसवर्णविकल्पो भवति । संघातपाठफलं तु असंग्रामयत शूरः, संग्रामयित्वा, सिसंग्रामयिषते इत्यादि । ततश्चोतरीत्या नियमो ज्ञापनं वा निष्कृत टं फलमिति ।
अत्र हरदत्तः-अनुदातेदयं संग्रामयतिरिष्यते । ततश्च आत्मनेप.
Page #339
--------------------------------------------------------------------------
________________
३३०
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके
दार्थ गल्भत्यादीनामिवानुबन्धासङ्गार्थः पाठः स्यादिति कथं नि: यमो ज्ञापकं वा भवेदिति । न चानुबन्धासअनार्थे पाठे 'ग्राम युद्धे' इत्येव पठ्येत । संशब्दस्तु द्योतकः प्रयोगदर्शनवशादेवं लभ्यः ते । यथा इङिकोरधिः । तस्माद्विशिष्टपाठः प्रागुक्तफलक एवेति वाच्यम्, एवं हि यथा इङिकोरधः पूर्वमाड् न भवति तथाऽस्यापि न स्यादिति ।
अत्र माधव:-अस्यानुदात्तेत्त्वमपाणिनीयमिति पाठस्यैतदर्थतया न ज्ञापकभङ्ग इति । एतत्तु "संग्रामयतिरनुदात्तद्वोद्धव्यः" इति कैयटेन विरुध्यते । यदपि हरदत्तेन सिद्धान्तितं-मनःशब्दस्य स्वादिभिर्न समासः, किन्त्वसमस्ता एवैते प्रत्ययार्थविशेषणम् , मनःशब्दश्व वृत्तिविषये तद्वति वर्तते, मनस्वी सुग्छु भवतीत्यादिरर्थ इति; तदपि "प्रभौ परिवृढः" (पासू०७-२-२१) इत्यत्र परिवृढमाचष्टे इति णिचि क्त्वाप्रत्यये कृते 'परिवढय्य' इति ल्यम् भवतीति भाष्यकारादिभिर्वक्ष्यमाणेन विरोधात्पराहतमेव । नपत्रेव तत्रापि प्र. त्ययार्थविशेषणत्वं सम्भवति । कथं तींह इष्टार्थसिद्धिरिति चेत् । ___ अत्रोच्यते--चुरादौ पठ्यमानं 'सलाम' इत्येतत्वातिपदिकम् , . "अर्तिस्तुसु' (उ०सु०१४५) इति मन्त्राधिकारे "प्रसेरा च" (उ. सु०१४८ ) इति व्युत्पादनात् ; न तु धातुः, तस्य च "तत्करो. वि" (गस०) इति पूर्वप्रक्रान्तेन गणसूत्रेण णिचि सिद्धे तरस नियोगे अनुबन्धासङ्ग एच फलं गल्भादिवत् । एवं स्थिते "युद्ध योऽयं ग्रामशब्द" इत्युकेपि केवळस्य प्रामशब्दस्य युद्धे वृत्यभावात्सामर्या. सङ्कामशब्दो लभ्यत एव । तत्र च 'सङ्गामि इति विशिष्टस्य घातुत्वमा पि सुलभम् , “सनाद्यन्ताः " (पासू०३-१-३२) इति सूत्रेण विधीय. मानायाः सज्ञायाः प्रकृतिप्रत्ययसङ्घाते विश्रान्तेः । एतेन इजिको प्र. तिबन्दिः परास्तः, तत्र हि पाठापेक्षा धातुसचा विशिष्टं न शती. ति वैषम्यात् । एवं च "सङ्ग्राम" इति विशिष्टपाठो ज्ञापयति "उपसर्गस. मानाकारं पूर्वपदं धातुसंज्ञाप्रयोजकीभूते प्रत्यये चिकीर्षिते पृथक् कि यते' इति । तचाजहत्स्वार्थायां वृत्तौ स्वोत्तरभागेन धातुसंक्षानिमित्त प्रत्ययप्रकृतिभूतेन समानार्थकमिति तद्घटितविशिष्टार्थेनापि क्त्वान्ते. न सह समर्थत्वात "कुगति" (पा०सू०२-२-१८) इति सूत्रेण प्रादि. ग्रहणात्समस्यत इति परिवढय्य'इत्यादिसिद्धिः । अवजिगल्मिषते, अघागल्भत, अवगल्भ्य इत्यादावपीयमेव गतिः । न चैवम् "उस्योमाझ्वाटः” ( का०वा० ) इति पाठवार्तिकेन 'मोदीयत्'
Page #340
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
इति तद्भाष्येण च सह विरोधः, ज्ञापकस्य सजातीयविषयतया श्रयमाणे पूर्वपदे प्रवृत्तिः, न त्वादेशेनापहृते इति स्वीकारात् । अत्र च भाग्यवार्तिकधातुवृत्त्यादिग्रन्था अनुकूला इति गुणगृह्यैर्विभाव्यताम् । एवंच 'प्रमाणयित्वा' 'विचारयित्वा' इत्यादयः केषांचित्प्रयोगाः प्रामादिका एव । अत एव प्रशस्यमाचष्टे 'श्रापयति' 'ज्यापयति' इति श्रज्यावुदाहरन्तः सुधाकरादयः 'श्रपयति' 'ज्यपयति' इत्युदाहरन्तः शाकटायनादयश्व प्रक्रियारले निराकृताः, प्रशब्दस्य पृथक्करणेन शस्यशब्दादेव णिजुत्वया श्रज्ययोरप्राप्तेः । अत एव माधवादिभिः 'प्रशस्ययति' इत्येव स्वी० कृतम् । एतेन 'प्रावृषमाख्यत् अपप्रावत्' 'वीरुधमाख्यत् अविवीरतू' इ. त्याद्युदाहरन्तो धातुचन्द्रोदयकारादयः परास्ताः । सङ्ग्रामयतेः पाठेन शापितस्यार्थस्य "उस्योमाङ्क्षवाटः " (का०वा०) इति षाष्ठभाष्यवार्तिकबलेन अनित्यताज्ञापनमाश्रित्य कथंचिद्वा समर्थनीया इति दिक् ।
३३१
I
भृशादयस्तु श्लोक गणपाठानुरोधेन माधवीये उदाहृताः । तद्य था-भृशायते । चपलायते । मन्दायते । पण्डितायते । रेहायते । रेहश दो रहसि निर्घृणत्वे भिक्षाभिलाषस्य च निवृत्तौ वर्त्तत इति गणवृ तिः । तृपायते, तृपश्चन्द्रः समुद्रश्च । वेहायते, वेहद् गर्भोपघातिनी । अधरायते, 'अधरो मूर्खः पुष्करश्च' इति गणवृत्तिः । भोजायते, वर्चायते, ओजोवर्चः शब्दो वृत्तिविषये तद्वति वर्त्तते । रेफायते, रेफ स रोष इति गणवृत्ती । दुर्मनायते । सुमनायते । उन्मनायते । उत्सुकाय ते । शश्वायते, बृहायते, तान्तावेतौ । “सुबामन्त्रिते" (पा०स्०२ - १-२ ) इत्यत्र मनस्युपसर्गस्य पराङ्गत्रद्भाव उपसंख्येयः । तेन 'सुमनायते' इत्यादौ "तिङ्ङतिङः" (पा०सू०८-१-२८) इति निघातो न भवति, 'देवद सः सुमनायते' इत्यादौ सोपसर्गस्य निघातश्च भवतीति प्रकृतसूत्रस्थभाष्यपर्यालोचनया लभ्यते । अमी श्लोका गणपाठस्था भृशादयः । गणवृचौ तु बृहच्छन्दो न पठ्यते । भद्रशब्दस्तु पठ्यते । कन्धरशब्दश्च त्वचोऽभ्यन्तरे स्थूलतत्वाभा असंयुक्का स्नायुः कन्धरा, तद्वान् क म्धरः । मत्वर्थे अर्शआदिभ्योऽच् (पा०सू०५-२-१२७) ।
लोदितादिडाज्भ्यः क्यष् ( पा०स्०३-१-१३) || लोहितादिभ्यो डाजन्ताषा भवत्यर्थे क्यष् स्यात् । "वा क्यषः " ( पा०सू०१-३-९०) लोहि• तायति, लोहितायते । अत्र 'अच्चेः' इत्यनुवृत्त्या अभूततद्भावविषयत्वं लभ्यते । तच्च ड|चो न विशेषणम्, असम्भवात् । अलोहितो लोहितो भवतीति विग्रहः । पटपटायति, पटपटायते । कृस्वस्तियोगं विनाऽपि क्यषो डाजन्ताद्विधानसामर्थ्यादेवेह डाच् । भवत्यर्थे विधीयमानेन
Page #341
--------------------------------------------------------------------------
________________
३३२. शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेक्यषा उतार्थस्य भवतेरिह प्रयोगायोगात् । अत्र वार्तिकम्
लोहितडाभ्यः क्यध्वचनं भृशादिग्वितराणीति ॥ आदिशब्दप्रत्या ख्यानपरमेतत् । लोहितशब्दात्परत्र पठ्यमानानि नीलहरितमन्द्रफेन. दासमन्द इत्येतानि षट् भृशादिषु द्रष्टव्यानीत्यर्थः । क्यषः ककारष. कारावपि प्रत्याख्याती । तथाहि, ककारी गुणवृद्धिनिषेधार्थो नेति स्प. ष्टमेव, अप्रसक्तस्य प्रतिषेधायोगात । नापि "न: क्ये"(पासू०१-४-१५) इति सामान्यग्रहणार्थः, नान्तादविधानात् । नापि "आपत्यस्य च तद्धि. तेनाति" "क्य योश्च"(पा०सू०६-४-१५१,१५२) इति, आपत्यादविधा. नात् । नापि "क्याच्छन्दसि" (पा०सू०३-२-१७०) इति, 'याच्छन्द. सि'इत्येव सुवचत्वात् । युकं चैतत् 'शकुनम्भुरण्युम्' इति, कण्ड्वा . दियगन्तादपि दर्शनाव । नापि लोहितायते इत्यत्र "अकृत्सार्व" (पासु०७-४-२५) इति दीर्घप्रवृत्त्यर्थः, तत्र ङितीत्यस्याननुवृत्तेः । नन्वनुवृत्तिरावश्यकी 'उरुया' 'धृष्णुया' इत्येवममिति चेत् ? न, इह हि तृतीयास्थाने "सुपां सुलुक" (पा०स०७-१-३९) इति या. देशः । स च छान्दसः। तत्र च इस्वोऽपि छान्दस एव भविष्यति उपगायन्तु सापत्नयो गर्भिणय इतिवत् । नापि "क्यस्य विभाषा" (पा० सु०६-४-५०) इत्यत्र सामान्यग्रहणार्थः, हल इत्यनुवृत्तेः । नायं हल. न्तादस्ति, न च "वा क्यषः" (पासू०१-३-९०) इति विशेष णार्थः, "वा स्यात्" इत्येव सत्रणात् । न चैवं "पाशादिभ्यो यः" (पासू०४-२-४९) पाश्या, अत्र प्रसङ्गः, सामान्यविहितानां तिडां नियमार्थ हि तत्प्रकरणम् । न च पाशादियान्तात्तिः सन्ति । नम्वा. चारकिबन्तात्सन्तीति चेत् ? न, टापा व्यवधानात् , पूर्वस्मादपि विधी एकादेशस्य स्थानिवद्भावात् । न च दण्ड्यवध्यादिशन्देश्य आचार. किवन्तेभ्योऽतिप्रसङ्गः शयः, तत्र "दण्डादिभ्य" (पा०म०५-१-६६) इति सत्रेण यदेव विधीयते "शीर्षच्छेदाधञ्च"(पासू०५-१-६५) इति पूर्वस्त्राचदनुवृत्तेः न तु यप्रत्यय इति पञ्चमे वक्ष्यमाणस्वात् । अत एव षकारोऽपि व्यर्थः। स हि "वा क्यष:"पा००१-३-९०)हत्यवि. शेषणार्थः "क्याच्छन्दसि" (पा०स०३-२-१७०) "क्यस्य विभाषा" (पा०स०६-४-५०) इत्यादी सामान्यग्रहणाविधाताओं 'वेति फलं स. म्भाव्यते। तच्च सर्व दूषितमेव । तस्मादादिशन् कषौ च हित्वा "लोहितडाज्म्यो यः" इति माये स्थापितम् । यदि तु “समाया यः (पासू०४-४-१५०)-सभ्यः, सहवाचरतीखादेराचारक्विवन्तस्या. भिधानमस्ति, तर्हि "वायषः' इति सच्यताम् । षकारमात्रं वाऽस्तु, अव.
Page #342
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३३३
शिष्टं तु व्यर्थमेव । वृत्तिकारस्तु वार्तिकस्यार्थमन्यथा मन्यते । तद्यथान किलानेनादिग्रहणं प्रत्याख्यायते, किन्तु यानि पठितानि नीलादीनि पट् तेषामेव इतोऽपकृष्य भृशादिषु निवेश उच्यते । अपठितानां तु कश्षेव । तानि चाकृतिगणत्वाल्लभ्यन्ते । आकृतिगणत्वे ज्ञापकं तु "नः क्वे" (पा०सु१-४-१५) इति सामान्यग्रहणार्थः क्यषः ककारः तदवि. वातार्थः षकारश्च न हि पठ्यमानेषु लोहितादिषु नान्तः कश्चिद स्ति । तानि चाकृतिगणसिद्धानि गणवृत्तिकारः सञ्जग्राह ।
लोहितश्यामदुःखानि हर्षगर्व सुखानि च । मूर्छानिद्राकृपाधूमाः करुणानित्यचर्मणीति ||
निद्राकरुणादयो वृत्तिविषये तद्वति वर्तन्ते । निद्रायति निद्रायते इत्यादि । तदेतत्सर्वे भाग्यविरुद्धत्वादुपेक्ष्यम् । किञ्च 'लोहितडाज्भ्यः' इति वदतो वार्तिककारस्यापि आदिशब्द प्रत्याख्यानमभिप्रेतमिति स्पष्टं लभ्यते । अन्यथा हि 'लोहितात्' इत्येव ब्रूयात् । अत एव "विद्वस्य. मान इत्यत्र लोहितादिडाज्भ्यः क्यष्" इति कल्पतरुग्रन्थो वृत्तिकारत्या सम्भवन्नपि माध्यविरुद्धत्वात्प्रौढिवाद मात्र मिति क्यविधाववो
चाम ।
स्यादेतत्, "क्वष्च" इति सुत्रमस्तु, चात्कयङ् । तत्र क्यष्पक्षे परस्मैपदम् क्यपक्षे त्वान्मनेपदमिति "वा क्वषः” ( पा०सु०१-३-९०) इति सूत्रं मास्त्विति चेत् ? मैवम्, "प्रातिपदिकग्रहणे लिङ्गविशिष्ट स्यापि ग्रहणम्" (प०भा०७३) इति लोहिनीशब्दात् क्यषि 'लोहिनीयति' 'लोद्दिनीयते' इति रूपद्वयमिध्यते । क्यङि तु "क्यमानिनोश्च" (पा०सू०६-३-३६) इति पुंवद्भावे सति 'लोहितायते' इति स्यादि. ति फले भेदात् ।
कष्टाय क्रमणे (पा०सु०३-१-१४) ॥ कष्टं कृच्छ्रम् | "कृच्छ्रगहनयोः कषः” (पा०सू०७-२-२२) इति कृच्छ्रे इडभावः । तेन च तत्करणं पापं कर्म लक्ष्यते । क्रमणमुत्साहः, "वृष्टिसगंतायनेषु" ( पा०सु०१-३-३८) इति सूत्रे हि 'सर्ग उत्साह' इत्युक्तम् । तदयमर्थः- चतुर्थ्यन्तात्कष्ट शब्दा दुत्साहेऽर्थे क्वङ् स्यात् । कष्टाय क्रमते कठायते । पापं कर्म कर्तु मुत्सहत इत्यर्थः ।
सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति बक्तव्यम् (का० वा० ) ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापपर्यायाः । ते भ्यो द्वितीयान्तेभ्यः चिकीर्षायां कयत् । पापं चिकीर्षतस्थिस्वपदेन विग्रहः । सत्रायते । कक्षायते । कष्टायते -कृच्छ्रायते । गहनायते ।
Page #343
--------------------------------------------------------------------------
________________
३३४
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (पा०सू०३-१-१५) ॥ कर्मण इति पञ्चमी, रोमन्धतपोभ्यामित्यनेन सामानाधिकरण्यात् । प्रत्येकं सम्ब धारवेकवचनम् । वर्तीति ण्यन्तादृतेः "ण्यासश्रन्थोयुच्"(पा०स०३-३१०७) इति युचि प्राप्ते अत एव निपातनात् तिन् । चरतेः सम्पदादि. स्वादावे किए । रोमन्थतपोम्यां कर्मभ्यां यथासङ्ख्यं वर्तिचरोरर्थयोः क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते।
हनुचलन इति वक्तव्यम् (का०वा०) ॥ हनुचलनेनात्र चर्वितस्य मुखप्रदेशे आकृष्य चर्वणं लक्ष्यते । नेह-कीटो रोमन्थं वर्तयति । अपानप्रदेशानिःसृतं द्रव्यं कीटो चर्तुलं कपेतीत्यर्थ इति न्यासकारहरदत्तौ । अपानप्रदेशानिःसृतमश्नातीत्यर्थ इति तु कैयटो व्याख्यत् । तपस्यति, यह त प्राप्तः । तस्मात--
तपसः परस्मैपदं च (काषा०)। इति वकन्यम् । एवं च “नमोवरि. व" (पासू०३-१-१९) इत्यादिसत्र एव तपःशब्दः पठितुमुचितः । तथा तु न तमित्येव ।
बाप्पोमभ्यामुखमने (पासू०३-१-१६) कर्मणः ॥ क्यडिति वर्तते । बाप्पमुखमति बाप्पायते । अण्माणमुद्वमति ऊष्मायते ।
फनाति वक्तव्यम् (काभ्वा०) ॥ फेनायते ।
शब्दवैरकलहाम्रकण्वमेघेभ्यः करणे (पासू०३-१-२७)। एभ्यः कर्मभ्यः करोत्यर्थे क्या स्यात् ।शन्दं करोति शब्दायते । एवं वैरावते। कलहायते । अभ्रायते । कण्वायते । मेघायते । “तत्करोति" (ग०१०) इति णिचि प्राऽयमारम्भः । पक्षे णिजपीप्यते-'शब्दयति' इति । तदर्थ मण्डूकप्लुत्या "भृशादिभ्यो भुवि" (पासू०३-१-१२) इति सत्रा. चकारोऽत्रानुवर्तत इति न्यासकारः । अत्र वार्तिकम्--
सुदिनदुर्हिनाभ्याश (कावा) ॥ सुदिनायते । दुर्दिनायते । नीहाराच्च (काभ्वा०) ॥ नीहारायते । अटाहाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम् (कावा०)॥ पोटा स्त्रीपुंसलक्षणा । अतोऽन्ये क्रियावचना इति सुन्धातुवृत्तौ माध. वः । अट गतौ (भ्वा०1०२९६)। अस्तीत्यर। । अचि टाए , तां करोति अटायते । अट्ट अतिक्रमसियोः (चु०३०२८) "गुरोश्च इलः" (पा०स० ३-३-१०३) इत्यकार:-अट्टा, तां करोति अट्टायते । शीक सेचने (भ्वा० आ०७५) तालव्यादिः । दन्त्यादिरिति तु धनपालकाश्यपौ। गुरोश्चेत्य. कार:-शीका, तां करोति शीकायते इति तद्धातुव्याख्यायां मा. धवः । कुट कौटिल्ये ( तु०प०८६ ) तुदादिः, तुमण्णिन् ।
Page #344
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३३५
कुट छेदने (चु०मा०१६५ ) आकुस्मीयः । कोटयति कोटयते वा कोटा, तां करोति कोटायते ! पोटोक्ता, पोटायते । सोटा' इति पाठे धात्वर्थोऽन्वेषणीयः । 'मोटाइति पाठे तु मुट सञ्चूर्णन(चु०प०८१)चुरा. दिः, प्रदर्शने भ्वादिः । प्रदर्शनाक्षेपयोस्तुदादौ (तु०प०९४)। मोटयतीति मोटा, मोटायते । प्रुष प्लुष दाहे (भ्या०प०५५,५६) । कर्मणि कः, पृष्टा प्लुष्टातां करोति रुष्टायते, प्लुष्टायते। उज्ज्वलदत्तस्तु"अशूप्रूषिलटि. कणिखटिविशिभ्यः क्वन्" (उ०सू०१५७) इति सूत्रे 'रुस्वास्या. हतुसूर्ययो: 'रुम्वा जलकणिका' इति रत्नमतिः। रुष स्नेहनादा. विति धातुः 'रुस्वायते' इत्युदाहरन् इह वार्तिके 'प्रुष्या' इति पाठ. मुपन्यस्तवान् ।
सुखादिभ्यः कर्तृवेदनायाम् (पासू०३-१-१८)॥कत इति पृथक्पदं लुप्तषष्ठीकम् । वेदना ज्ञानम् । “विद चेतनाख्यानविवासेषु" (चु०मा० १७५) इत्यस्माच्चुरादिण्यन्ताभावे "ण्यासश्रन्थो युच्"(पासू०३-३१०७)। “घट्टिवन्दि विदिभ्यश्च" (कावा) इति औपसङ्ख्यानिको वा । कर्तृत्वं च श्रुतवेदनक्रियापेक्षम् । तदयमर्थः-वेदनक्रियायाः कर्तुरा. धेयभावेन सम्बन्धिभ्यः सुखादिभ्यः कर्मभ्यो .वेदनायाम क्यङ् स्यात् । सुखं घेदयते सुखायते । कर्तृग्रहणं किम् ? सुखं वेदयते प्रसा. धको राक्षः । अयं वेदिः आकुस्मीयः । एवं च 'वेदयति इति केषांचित्पा रस्मैपदपाठः प्रामादिकः । अत्र श्लोकगणकार:--
सुखदुःखगहनछास्तृप्रालीकप्रतीपकरुणाश्च ।
कृपणः सोढ इतीमे सुखादयो दश गणे पठिताः॥ सोढं सहनमभिभवो वा । गणरत्नमहोदधौ तु आम्रशब्दो. ऽपीह पठ्यते ।
नमोवरिवश्चित्रङ क्यच् (पा०सु०३-१-१९)॥ करणग्रहणमनुवृत्त मभिधानशक्तिस्वाभाव्यादिह क्रियाविशेषपरम् । तेन नमसः पूजा. यां, वरिवसः परिचर्यायां, चित्रङ आश्चर्ये, क्यच् स्यात् । नमस्यति देवान्, नमस्कारेण पूजयतीत्यर्थः । वरिवस्यति गुरुन् । शुश्रूषत इत्य. र्थः। चित्रीयते । 'विस्मयते इत्यर्थः, 'विस्माययते' इत्यन्ये । तथा च मा. यामृगं प्रकृत्य भट्टिराह-"ततश्चित्रीयमाणोऽसौ" इति । अत्र चित्रको ङित्करणादवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति वाच्यम् । तथा सति क्यजन्तादात्मनेपदम् । न चैवं शब्दवैरादिसूत्रे चित्रश. ब्दोऽपि पठ्यतां क्य.व तङ् भविष्यतीति वाच्यम् , तथा सति हि
Page #345
--------------------------------------------------------------------------
________________
३३६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके"क्यचि च" (पा०सू०७-४-३३) इति ईत्वं न स्यात् । तस्मात्क्यजेव कार्यो ङित्वं च।
पुच्छभाण्डचीवराणिङ् (पा०सू०३-१-२०) ॥ करण इत्यनुवृत्तेः क्रियाविशेषे पुच्छादुदसने व्यसने पर्यसने च । उदसनमुक्षेपणम्। व्य सनं-विविधं विरुद्धं वाउतक्षेपणम् । पर्यसनं-परितःक्षेपणम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ।
भाण्डात्समाचयने (का०वा०) ॥ समाचयनं राशीकरणम् । सम्भा. ण्डयते । भाण्डानि समाचिनोतीत्यर्थः ।
चीवरादर्जने परिधान वा (काल्वा०) ॥ संचीवरयते भिक्षुः । वि. राण्यर्जयति परिधत्ते घेत्यर्थः । पिङो गकारः सामान्यग्रहणार्थों न तु वृद्ध्यर्थः, असम्भवात् । हुकारस्तदविघातार्थः आत्मनेपदार्थश्च । अत एव पुच्छादय उत्तरसुत्रे न निवेशिताः।
मुण्डमिश्रश्लणलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् (पा०स० ३-१-२१) ॥ एभ्यो दशभ्यः कृअर्थ णिच् स्यात् । मुण्डं करोति मु. ण्डयति । मिश्रयति । श्लक्ष्णयति । लवणयति ।
व्रतागोजने तनिवृत्तौ च (का०वा०)॥ पयः शूद्रानं वा ब्रतयति ।
वस्त्रात्समाच्छादने (का०वा) ॥ संवस्त्रयति । इह भोजनतनिवृत्ती. व्रतशब्दस्याएँ । समाच्छादनं तु वनशब्दस्य । प्रत्ययस्तु कृष। श्रूयते च भोजने व्रतशब्द:-"यदस्य पयो व्रतं भवति । आत्मानमेव त. वर्धयति । त्रिवतो वै मनुरासीत् । द्विवता असुराः । एकवता देवाः"ह. ति । पस्पशायां च-"शक्यञ्चानेन श्वमांसादीन्यपि व्रतयितुम्" इति। अ. यमेव व्रतशब्दो दर्शादिवद्विपरीतलक्षणया तनिवृत्ती वर्तते । 'संवस्त्र. यति प्रावारम'इत्यत्र प्रावारमाच्छादयीत्यर्थ इति माधवः।
हलादिभ्यस्त्रिभ्यो ग्रहणे प्रत्ययः । हलिं गृहाति हलयति । कलिं गृहाति कलयति । कृतं गृह्णाति कृतयति ।
तुस्तानि विहन्ति वितूस्तयति । 'तूस्तं केशः' इति श्रीमद्रः । जटीभूताः केशा इति न्यासः । पापमिति वैजयन्ती।
स्यादेतत्, “प्रातिपदिकाद्धात्वर्थे" (ग०स०) इत्येव सर्वमिदं सि. द्धम् । न च "तत्करोति" (ग०सू०) इत्यादिना तत्र धात्वर्थनियमः, राजानमतिकान्तवान् अत्यरराजदित्यादेरपीष्टत्वात् । ततिक मुण्डादि सूत्रेणेति चेत् ?
अत्राहुः, मुण्डयति माणवकं, मिश्रयत्यन्नं, श्लक्ष्णयति वलं, लव.
Page #346
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे नामधातुप्रकरणम्। ३३७ णयति व्यञ्जनमिति सापेक्षेभ्योऽपि णिजर्थमिदम् । हलिकल्योस्त्वत्व निपातार्थम् । तथा च वार्तिकम-- __ हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति । तथाहि, 'हलिइ' 'कलिह' इति स्थिते"अचो णिति (पासू०७-२-११५)इति वृद्धिः प्राप्नोति, णाविष्ठवदिति टिलोपश्च । तत्र लोपः शब्दान्तरप्राप्त्या अ. नित्यः, वृद्धिस्तु टिलोपे सत्यप्राप्तः । उभयोरनित्ययोः परत्वाद् वृद्धौ कृतायां ऐकारस्य आयादेशात्पूर्वमेव परत्वात् वार्णादाङ्गस्य बलीय. स्त्वाच्च लोपेऽनग्लोप्ययम्भवतीति "सन्वल्लघुनि" (पा.सु०७-४-९३) इति सम्वद्भावः स्याद् "दी?" (पासु०७-४-९४) इति दीर्घश्व । न च टिलोपस्य "अचः परस्मिन्" (पासू०७-१-५७) इतिस्थानिषद्भावात्तेन व्यवधानान्न दोष इति वाच्यम्, चपरे णौ यदनं तस्य योऽभ्यासो लघुपरः तस्य सन्वत् लघोर्दीघश्चति हरदमादिभिः पुरस्कृते कैय. टेनकायमततयोपन्यस्ते व्याख्याने स्थानिवद्भावस्याकिश्चित्कर. त्वात् । चपरे णो यल्लघु तत्र परतो योऽभ्यासः तस्येति भाज्यकै. यटमतेऽपि अभ्यासस्य टिलोपाद्यनन्तरं जातत्वेन (१)आदिष्टादचः पूर्वत्वेन स्थानिवत्याप्रसङ्गात । अत्वनिपातने तु यद्यपि परत्वाद् वृद्धिस्त. थापि अगेष लुप्यत इति सम्वद्भावदी! न भवतः। एवं च बलिपटुः प्रभृतिभ्यो णिचि अबीबलत अपीपटत् इति भवति न तु अबबलत् अपपटत् इति।
स्यादेतत, "णौ चङि' (पा०स०७-४-१) इत्यत्रत्यभाष्येण स. हैतद्विरुध्यते । तत्र हि वृद्धोपो बलीयानिति स्थितम् । युक्तं चैतत, शब्दान्तरप्राप्ती सत्यामपि कृताकृतप्रसङ्गित्वमात्रेण कचिनित्यत्वाम्युः पगमात् । यदाह-भुवोवुकोनित्यत्वादित्यादीति. सापकं चात्र "नाग्लोपिशास्" (पासू०७-४-२) इति सूत्रे अगिति प्रत्याहारग्रहणम् । त. थाहि, अवर्णान्तेष्ववर्णोपधेषु वर्णान्तेषु च वृद्धावण्यवर्ण एव लुप्यते । तत्र अलोपिनां नेत्येव वाच्यम् । स्वर्णोंवर्णान्तयोस्तु वृद्धौ कृतायामौ. कारो लुप्यते न त्वक् । न च स्वामिनमाख्यत् असस्वामत्, गोमिनमा. ख्यत् अजुगोमत,प्रादुराख्यत् अपप्रादत्, यादृशमाख्यत् अययावत्, ता. दृशमाख्यत् अततादत् इत्यादौ यत्र वृद्धरप्रसङ्गादिको लोपस्तत्र हस्वनि. वृत्तये अग्ग्रहणमिति वाच्यम , अनभिधानात्तत्र णिच एवानुत्पत्तेः।
(१) आदिष्टादचः पूर्वत्वेन दृष्स्य विधौ कर्तव्ये विहितस्य स्था. निवत्वस्याप्रसङ्गादित्यर्थः ।
शब्द. द्वितीय. 22.
Page #347
--------------------------------------------------------------------------
________________
३३८
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके
एतच्च भाष्यकारेण ज्ञापकत्वस्य समर्थनादवसीयते । न चैवमपि स्रग्विणमाख्यद् असस्रजत् इत्यत्र विन्मतोर्लुकि उपधाया वृद्धौ इस्व निवृत्त्यर्थे अग्लोपग्रहणं स्यात्, अस्ति ह्यत्राभिधानम् "टेः" इत्यत्र भाष्ये 'नजयति' इत्युदाहरणादिति वाच्यम्, एवमपि स्रजयतीत्यत्र वृद्ध्यभावस्य सिद्धान्तसम्मतत्वेनं टेरित्यत्र भाष्यकारेण स्रजयतीति निर्देशात् "अङ्गवृत्ते" (प०मा०९४) इति परिभाषया वा वृद्धेरप्रसङ्गेन ह्रस्वभा विन्या उपधाया एव अभावात् । अतः प्रत्याहारग्रहणं ज्ञापकं वृद्धेः पूर्व टिलोप इति । तत्कथमिहोच्यते वृद्धौ सत्यां टिलोप इतीति चेत् ?
अत्र माधवः परत्वाद् वृद्धिरिति मुख्यः पक्षः, वृद्धेर्लोपो बलीयानिति तु प्रौढिवादमात्रमित्येकं मतम् । तद्विपरीतं मतान्तरम् । भास्यद्वयप्रामाण्याद् वृद्धेः पूर्वं पश्चाद्वा कामचारेण टिलोप इति अपपटल अपीपटदिति रूपद्वयमपि साध्विति चापरं मतमिति मतत्रयमपि सुब्धातुवृत्तावुपनिबद्धवान् । तत्राद्यं मतं हरदत्तस्य, द्वितीयं कैयटस्य, तृतीयं त्वन्येषामिति विवेकः । एतद्बलाबलचिन्ता तु करिष्यते । अयं च भेदो णिभिन्नविषयः, णेर्णिचि तु ण्यल्लोपाविति विप्रतिषेधात् निष्कत्यापवादत्वाद्वा प्रागेव णिलोपः । उपधाह्रस्वत्वे सन्वद्भावदी. योश्च णि चीत्युपसंख्यानाण्ण्याकृतिनिर्देशाद्वा अधीषदादित्येव रूपमिति सप्तमे वक्ष्यामः ।
I
प्रकृतमनुसरामः । मुण्डादिसूत्रे केषांचिग्रहणं प्रपञ्चार्थम् । मुण्डादयः सर्वेऽपि "सत्यापपाश" ( पा०सु०३-१-२५) इत्यत्रैव पठितुं युक्ताः । एवं हि एकवाक्यता लभ्यते । द्विर्णिज्ग्रहणं च न कर्तव्यमिति लाघवम् । तथा तु न कृतमित्येव ।
धातोरेकाचा हलादेः क्रियासमभिहारे यङ् (पा०सू०३-१-२२) ॥ एकाच् हलादिः समभिहियमाणक्रियावृत्तियों धातुः तस्मात्स्वार्थे यङ् स्यात् । समभिहारोऽत्र पौनःपुन्यं भृशार्थो वा । यद्यपि विप्रकीर्णानामेकत्र राशीकरणं समभिहारशब्दस्य मुख्योऽर्थः तथाप्यसौ धान्यादीना. मेव सम्भवति, न तु धातुवाच्यावाः क्रियायाः, अमृतत्वात् । अतो गौणोऽर्थो गृह्यते । स च न प्रत्ययस्य वाच्यः, प्रकृत्यर्थे प्रति विशेष्यतापतेः, किन्तु द्योत्योऽर्थः । अत एव टाबादयस्तरबादयश्च स्वार्थिका एवेति निरूढः पन्थाः । यदा तु प्रकृत्यर्थप्राधान्यमात्सर्गिकम् आख्यात वटावादिष्वपि त्यज्यते तदा टाबादयो वाचका इत्यपि पक्षः सम्भ वत्येव । स्वीकृतश्चायं लिङ्गादिविधौ भाष्येऽपीति तत्रतत्र स्फुटम । पुनः पुनरतिशयेन वा पचति पापच्यते । “दीर्घोऽकितः' (पा०सु०७-४-८३)
Page #348
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे यऊन्तप्रकरणनिरूपणम्। ३३९ इति दीर्घः। देदीप्यते । “गुणो यङ्लुकोः" (पासू०७-४-८२) इति गुणः । ननु "क्रियासमभिहारे च' (कावा०) इति वार्तिकेन "नित्य. वाप्सयोः" (पासू०८-१-४) इति वा पदद्विवचनमिह कुतो नेति चेत् ! यच क्रियासममिहारस्य घोतितत्वात् । न चैवं लुनीहिलुनीहीत्या त्रापि न स्यादिति वाच्यम् , केवलेन लोटा तुल्यरूपो हिः क्रियासममि. हारं द्योतयितुं सहायतया द्वित्वमपेक्षते, अन्यथा संशयापत्तेयर तुन तथेतिवैषम्यात् । धातोरिति किम् ? आर्धधातुकत्वं यथा स्यात्। तेन "ब्रुवो वचिः" इत्यादि सिध्यति । एकाचः किम् ? पुनःपुनर्जी. गति । हलादेः किम् ? भृशमीक्षते । यो डिस्वं बोभूयते मरीमृज्यते इत्यादी गुणवृद्धिनिषेधार्थम् । न चैवमवयवे चरितार्थस्य समुदाय प्रत्यविशेषकत्वात् यङग्तादात्मनेपदं न स्यादिति वाच्यम् , जिदन्ता. द्धातोस्तदिति "अनुदात्तङिन" (पा००१-३-१२) इति सूत्र एव प्रपं. श्चितत्वात । 'भृशं शोभते' 'भृशं रोचते' इत्यत्रानभिधानाद्यङ् नेति भाष्यम् । कथं तर्हि "रुव दीप्तौ" (भ्वा० आ०७४६) "शुभ शोमा. याम्'। (तु०प०४१) इति धातू व्याचक्षाणैः धातुवृत्तिकारैः 'रोरुच्यते' 'शोशुभ्यते' इत्युदाहृतमिति चेत्? भाष्येभृशार्थोपादानात् पौनःपुन्ये भवः स्येत्याशयनेत्याहुः । शोभत इति शब्धिकरणस्योदाहरणासौदादिकस्य यङ् भवत्येवेति धातुचन्द्रोदये । "सूचिसधिमूख्यट्यय॑शर्णग्रहणम्" (कावा०)। सूच पैशून्ये (चु०प०३४१) सूत्र अवमोचने (चु०प०३७६) मूत्र प्रस्रवणे" (चु०प०३७७)चुरादिण्यन्ताः । अट गतौ (भ्वा०प०२९६)। जगतो (भ्वा०प०१६१)। अश भोजने(क्या०प०५१) अशू व्याप्ती (स्वा. आ०१८) द्वयोरपि ग्रहणम् । अत्र आद्यानां त्रयाणामनेकालत्वात् ततो ऽन्येषां अहलादित्वात् , ऊोतेस्तु अनेकाल्त्वादहलादित्वाचाप्रासो वचनम् । अत्र ऊोतेर्वक्ष्यमाणेन गुवद्भावेनापि सिद्धम् । सोसूच्यते । सोसध्यते । सूचिसूत्री अदन्ती, चुरादिणिच्, अतोलोपः, यङ्, णिलो. पा, द्वित्वं, "हलादिः शेषः' (पा०स०७-४-३०), अभ्यासस्य गुणः । अभ्यासात्परस्य षत्वं तु न भवति, अनादेशत्वात् । न चेमौ प्रोपदेशो, अदन्तस्वनानेकान्वात् । षोपदेशलक्षणे हि सेक्सबादिपर्युदासात् त. स्सादृश्यमेकाच्वं विवक्षितमिति निष्कर्षः । 'सोसूच्यने 'सोसूज्यते' इति भाग्योदाहरणं चात्र प्रमाणम् । षोपदेशलक्षणे एकात्वं विशेषणं देयमिति वदतो माधवस्याप्ययमेवाशयः । सोसूध्यते । अटाट्यते । "अजादेद्वितीयस्य" (पा०सू०६-१-२) इति ट्यशब्दस्य द्वित्वं, "स. न्यडोः" (पा०४०६-१-९) इति षष्ठीति वक्ष्यमाणत्वात् । अरायते । “गु..
Page #349
--------------------------------------------------------------------------
________________
३४०
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके
णोऽर्तिसंयोगाद्योः" "यङि च" (पासू०७-४-१२९,१३०) इति गुणः, र्यशब्दस्य द्वित्वम् । न च "नन्द्राः संयोगादयः" (पा०स०६-१-३) इति रेफस्य द्वित्वनिषेधः, "यकारपरस्य नायं निषेधः" इति षष्ठे वृत्तिका. रोक्तः । न चैतदप्रामाणिकम्, प्रकृतसुत्रस्थस्य अरार्यत इति भाग्यस्यैव तत्र प्रमाणत्वात् । अशाश्यते । ऊर्गोनूयते । ऊर्गुञ् आच्छादने (अ० उ०२९) । नोपधोयम् । तस्याष्टमिकं णत्वम् । तस्यासिद्धत्वान्नुशब्द. स्य द्वित्वम् । “पूर्वत्रासिद्धीयमद्विर्वचने” (प०भा०१२८) इत्यनित्यम् "उभौ साभ्यासस्य' (पा०सू०८-४-२१) इति लिङ्गात् । स्यादेतत् , लु: नीहिलुनाहीत्येवायं लुनाति । अत्र यङा लोट् बाध्येत । अन्तरङ्गो हि यङ्, क्रियासमभिहारमात्रापेक्षत्वात् । लोट् तु बहिरङ्गः, क्रियाभेदा. श्रये धातुसम्बन्धे भावकर्मकर्तृषु विधानात् । तथा लोट् सावकाशो. ऽपि क ? अनेकाचि अजादौ च-जागृहिजागृहीत्येवायं जागर्ति, ईक्ष. स्वेक्षस्वेत्येवायमीक्षते।
अत्राहुः,वेत्यनुवर्तते । यदा न यङ् तदा लोट् भविष्यति । नित्यं कौटिल्ये गतौ (पा०सू०३-१-२३) ॥ गतौ वर्तमानाद्धातोः कौटिल्ये एव घोत्ये यङ् स्यात् न तु क्रियासमभिहारे । क्रमु पादवि. क्षेपे (भ्वा०प०४७४) द्रम गतौ (भ्वा०प०४६७) चक्रम्यते । दन्द्रम्यते । अवधारणार्थानित्यग्रहणान्नेह-भृशं कामति । ननु यथा “वडवाया वृषे वाच्ये" इत्यनेन अपत्ये प्राप्तस्ततोऽपकृप्य विधीयते, यथा वा जीतः को भूते प्राप्तः ततोऽपकृप्य वर्तमान विधीयते, एवमत्रापि धातुमात्रात् क्रियासमभिहारे यङ् विहितो गतिवचनातु कौटिल्य इति तक्रकौण्डि. न्यन्यायेनैव बाधः सिद्धः। सत्यम्, अत एव नित्यग्रहणं भाग्यवार्तिक योः प्रत्याख्यातम् ।
लुपसदचरजपजभदहदशगृभ्यो भावगायाम् (पा०९०३-१-२४) एभ्यो यङ् स्यात् धात्वर्थगर्दायां द्योत्यायाम् । लुप्ल च्छेदने (तु०3०१. ५१) । षद विशरणादौ (भ्वा०प०८७९) । यस्तु "आङः सदिः पद्यर्थे। (चु०प०२९९) इति चौरादिको ण्यन्तः स इह न गृह्य ते 'एकाच' इत्यनुवृत्तरिति हरदत्तः; तच्चिन्त्यम, प्रकृतिग्रहणे ण्यधिकस्याप्राप्तेः। अ. न्यथा लुपादेरपि तुमण्ण्यन्तस्य वारणीयतया सदेरेवोपन्यासे बीजा. भावाञ्च । चर गतौ (भ्वा०प०५६०) जप व्यक्तायां वाचि(भ्वा०प०३९६) जभी गात्रविनामे (भ्वा०आ०३८८) दह भस्मीकरणे (भ्वा०प०
१०१६) । अत एव दशेति निपातनात यङ्लुकि नलोपः-दन्दशीति । । गृ निगरणे (तु०प०१३०) तुदादिः । ग शन्दे (क्या०प०२६) क्रयादिः ।
Page #350
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे णिजन्तप्रकरणनिरूपणम् । ३४२ तत्र अदन्तविकरणसाहचर्याचदादेरेव ग्रहणमित्येके। द्वयोरपीत्यन्ये । गर्हितं लुम्पति लोलुप्यते । सासद्यते। चञ्चूर्यते । "चरफलोश्च" (पा० सू०७-४-८७) इति नुक "उत्परस्यातः" (पासू०८-४-८८) "हलि च" (पा०सू०९.२-७७) इति दीर्घः। जाप्यते । जञ्जभ्यते। दन्दह्यते । दन्दश्यते। जपादीनां चतुर्णामभ्यासस्य "जपजभदहदशभञ्जपशाच" (पासू०७ . ४-८६) इति नुक् । निजेगिल्यते । "ऋत इद्धातोः" (पा०सू०७-१-१००), रपरत्वं, द्विवचनम् , अभ्यासस्य गुणः, जेगिर य इति स्थिते "ग्रो य. डि" (पा०सू०८-३-२०) इति लत्वम् । न च परत्वात् हलि च' इति दीर्घः, तस्यासिद्धत्वात् । लत्वे कृते तु न विहतनिमित्तत्वाहीर्घः । भा. वेति किम् ? साधनगहोंयां मा भूत-मन्त्रं जपति वृषलः । अत्र उर. वर्णादिभ्रंशाभावाद् गहीं नास्ति । काख्यसाधनं तु गहित शुदस्य वेदे अनधिकृतत्वात् । नित्यग्रहणमवधारणार्थमिहानुवर्तते । तस्य व्याख्यानं च पूर्ववत् । __ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादि. भ्यो णिच् (पासू०३-१-२५)॥ एभ्यो णिच् स्यात् । सत्यादिभ्यश्चूर्णान्तेभ्यः प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे सत्यस्यापुगर्थ वचनम् , अन्येषां प्रपश्चार्थम् , मालिन्या उपश्लोकयतीत्यादौ सापेक्षादुत्पत्त्यर्थ च । धात्वर्थे इत्यविशेषोक्तावपि स्वभावलभ्योऽर्थविशेषो वृत्तिकारा. दिभिनिदिश्यते । तद्यथा-सत्यमाचष्टे सत्यापयति । सत्यं करोतीति तु भाग्यम् । ___अर्थवेदसत्यानामापुरवक्तव्यः (कावा) ॥ आपुग्वचनसामा . हिलोपो न । अर्थापयति । पुकैव सिद्धे आकारोच्चारणमन्यतो विधा. नार्थ, तेन लिखापयतीत्यादि सिद्धमिति कश्चित् । तन्न, 'पुगेव करित प्यते' इति भाष्यविरोधात् । तस्माल्लिखापयतीत्यपप्रयोग एवेत्याहुः ।
पादौ प्रक्षालापयतीति गृहप्रयोगस्तु छन्दोवषयः कुर्वन्तीति स. माधेय इति हरदत्तादयः । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायति उपवीणयति । तूलेनानुकुष्णाति अनुतू. लयति तृणाप्रम् । अनुकुष्णाति अनुघट्टयतीत्यर्थ इति हरदत्तः। श्लो. कैरुपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति, "उप. सर्गात्सुनोति" (पा००८-३-६५)इति षत्वम् । अभ्यषेणयत् , "प्राक् सि. तादड्व्यवायेऽपि"(पा००८-२-६३ इति षत्वम् । त्वच संवरणे (तु०प० २१) "पुंसि सशायाम्" (पासू०३-३-१९८) इति घः। त्वचं गृह णाति त्वचयति । टिलोपस्य स्थानिषत्त्वादुपधावद्धिर्न । उक्कादेव
Page #351
--------------------------------------------------------------------------
________________
३४२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेधातोः क्विपि हलन्तात् "तत्करोति" (ग०१०) इति णौ वाच यति' इत्युपधावृद्धिर्भवत्येष । “प्रकृत्येकाच्" (पासू०६-४-१६३) इति टिलोपामावः । तस्मात्सुत्रे त्वचत्यकारो विवक्षितो न तु सत्यापेतिवदुच्चारणार्थ इत्यवधेयम् । वर्मणा सन्नाति संवर्मयति । वर्ण गृणाति संवर्णयति । चूर्णैरवध्वंसयति अवचूर्णयति । चुरादिभ्यः स्वार्थ, चोरयति । चिन्तयति ।
हेतुमति च (पा०प०३-१-२६)॥ हेतुः कर्ह न्योजकः, तद्वधापारः प्रवर्तनारूपो हेतुमान् , तस्मिन्वाच्ये धातोर्णिम् ..।। पाचयति देव. दत्तो यादत्तेन । यज्ञदत्तनिष्ठविक्लित्त्यनुकूलव्यापारविषयिणी प्रवर्तना देवदसाश्रयेत्यर्थः । प्रवर्तनाउनेकधा-प्रेषणमध्येषणं तत्समर्थाचरणं वेति । भृत्यादेनिकृष्टस्य प्रवर्तना प्रेषणम , आक्षेत्यर्थः । गुर्वादेराराध्य. स्य प्रवर्तना अध्येषणम् , प्रार्थनेत्यर्थः । तत्समर्थाचरणमपि बहुधा अनुमतिरुपदेशोऽनुग्रह इति । तत्र यस्यानुमति विना क्रिया न निष्प. घते सोऽनुमतिमात्रे प्रयोजकः । यथा राजादिः । वैद्यादिस्त ज्वरितः कषायं पिबेदिति उपदेशमात्रेण प्रवर्तकः । यस्तु केनचिद् जिघांसितं पलायमानं रुणाद्ध सोऽपि हन्तुरनुग्राहकत्वात् प्रयोजक एव। तदिह अर्थप्रकरणादिगम्या अमी विशेषाः । सर्वानुगतं प्रवर्तनासामान्य तु णिचोऽर्थः । स च णिचः शक्य इति मुख्यः पक्षः । द्योत्य इति पक्षा. स्तरमप्याकरे स्थितम् । यद्यपि हेतुशब्दस्य ससम्बन्धिकत्वात हेतुमा नियुक्त यं प्रति प्रयोजकत्वं स एव लभ्यते, यथा पितृमानित्युक्ते पुत्रः, तारशश्ह कर्ता कारकाधिकारे हेतुसंसोक्त क्रिया च, तथाच पक्तुः पाकस्य वा हेतुमत्वं युक्तम्, तथापि करणे इत्यधिकारात् नेह की गृह्यते, प्रकृत्यैवोक्तत्वाच न पाकः, किन्तु पाकपक्रपेक्षया यो हेतुस्त. दीयव्यापार एव स्वभावतो लोके णिजयतया प्रसिद्धो हेतुमच्छब्देनो. च्यते इति सिद्धान्तः । एवं चहेतोरित्येव स्त्रं युक्तम । हेतोः करणे व्यापारे णिजित्यर्थः । तथा तु न कृतमित्येव । इह यद्यपि फलव्यापार योर्धातुषाध्यत्वानिक्लिस्यनुकूलव्यापारत्वस्य च प्रेषणादावपि सुल. भत्वातस्यापि पच्यर्थतामाश्रित्य णिचो द्योतकतेति धणितं भाण्यादौ, तथापि प्रतिवादमात्रमेतत् । तथाहि, अधिश्रयणादिरखे व्यापारवि. शेषः परयः। न तु ततः प्राचीनोऽपि क्रयणाचवस्थायां पचतीत्यप्र. योगाव , अन्यथाऽतिप्रसाव . क्वाचिकप्रयोगस्य माकस्वेनाप्युपप. तेच, पचतिपाचयत्योरर्थवैलक्षण्यस्य अनुभवसिद्धत्वाच्च, अणौ कर्तुणों कर्मत्वमित्यादिम्यवस्थाभ्युपगमाच्च, 'प्रणाययति' 'अमिषाव.
Page #352
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे णिजन्तप्रकरणनिरूपणम्। ३१ यति' इत्यादी उपसर्गस्य प्रकृत्यर्थगतविशेषद्योतकत्वे णत्वषत्वे स्तः, णिचा सम्बन्धे तु नेत्यष्टमे स्फुटत्वाच्च । अतोऽत्र पक्षे नातीवामिनि वेष्टव्यम् । स्यादेतत् , प्रवर्तनामात्रस्य णिजर्थत्वे णिचो लोडादीनाञ्च पर्यायप्रसङ्गः। ततश्च पृच्छतु मां भवानिति वक्तव्ये णिजपि प्रयुज्यते. ति चेत् ? कर्तुः प्रयोजको हि हेतु', प्रैषविषयस्तु नाद्यापि कर्तृत्वेना. वधारितः । तथाच प्रयोज्यप्रवृत्युपहिता प्रवृत्तिर्णिजर्थः। केवला तु लोडर्थ इति विवेकः । उक्तं च
द्रव्यमानस्य तु प्रेषे पृच्छादेलोड् विधीयते ।
सक्रियस्य प्रयोगस्तु यदा, स विषयो णिचः ॥ इति । किच प्रयोक्तृधर्मः प्रयुक्तिोंडर्थः । अनियतकतका तु णिजः । पचेति हि वक्तुरेव प्रेरणागम्यते । पाचयतीत्यत्र तु वक्तृभिनस्य।
तत्करोतीत्युपसंख्यानं सुत्रयत्याद्यर्थे (कावा) ॥ गणपाठसिद्ध एवायमर्थ उपसंख्यानेनापि प्रदर्शितः । इह करोतीत्यत्र प्रकृत्यर्थमात्र विवक्षितं न प्रत्ययार्थः, तेन ण्यन्तात् भावकर्मणोः भूतभविष्यतोः द्वित्वब. हुत्वयोश्च लः सिध्यति । अयं णिच् प्रातिपदिकादेव न तु सुवन्तादिति माधवः । युकश्चैतत् , सुप इत्यधिकारस्येह विच्छिन्नत्वात् । किञ्च चु. रादिषु हवं पठ्यते-"प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (गसू०) "तत्करोति तदाचष्टे' (गसू०) "तेनातिकामति" (ग०४०) "कर्त करणाद्धात्वर्थ(गसू०) इति । अस्यार्थः प्रातिपदिकाद्धातोरवि. शेषरूपे वाच्ये णिच् स्यात् इष्ठनीव चास्मिन् बहुलं कार्य स्यादिति । कूलमुल्लचयति उत्कृलयति । अस्यैव प्रपश्चः-तत्करोतीत्यादिः । एवञ्च प्रातिपदिकादित्युपक्रमानदं सुबन्ताद्विधायकम् । तथा च प्रकृ. तवार्तिकमपि तत्समानार्थकत्वात्तथैव । “तेनातिकामति" (कावा०) इत्येतच कर्तृकरणादित्यस्यैव प्रपञ्चः । कर्तृग्रहणञ्च करणस्यैव विशेष ण करणत्वेन लोके प्रसिद्धानां चक्षुरादीनामेव ग्रहणमितिशङ्काव्युद. सनाय । अन्यथा चक्षुषा पश्यति चक्षयतीत्यादाघेव स्यान तु करि. भिरबध्नाति अवकरयतीत्यादौ । एवञ्च, तत्तेनतिशब्दो कर्मकरणयोरु. पलभकी। करणस्य कर्मणश्च समर्पकात्प्रातिपदिकादित्यर्थः। सुबन्ता. दत्पत्ती तु हस्तिनाऽतिकामति प्रतिहस्तयतीत्यादौ णौ सुपो लोपे टिलोपे व कृते अन्तर्वर्तिविभक्त्या पदत्वाजश्त्वं स्यात न.च टिलो. पस्य स्थानिवन्त्वम् , अझलादेशत्वात् । हरदत्तस्तु सुबन्ताणिचमः भिप्रैति । यदाह-तदिति द्वितीयान्तोपलक्षणमिति । न चास्मिन्पक्षे पद.
Page #353
--------------------------------------------------------------------------
________________
३४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेकार्यप्रसङ्गः, इष्टवदित्यतिदिष्टया भसंचया पदत्वस्य बाधात् । अत एव हि पटिष्ठ इत्यादौ सुबन्तादिष्ठनि जश्त्वादिपदकार्याप्रवृत्तिः । किञ्च स्रग्विणमाचष्टे जयतीत्यादौ माधवमतेऽप्येषैव गतिः। सुबन्तादुत्प. त्रयोविन्मतो कि तत्प्रकृतेः सुबन्तत्वात्प्रत्ययलक्षणेन पदकार्यप्रसा स्य स्पष्टत्वात् । तदिह मतभेदेन प्रातिपदिकात्सुबन्ताद्वा णिजिति स्थितम् । आद्यपक्षेऽपि यथाकथञ्चित् प्रातिपदिक ग्रहणे लिङ्गविशिष्टः ग्रहणाद् ड्याबन्तादपि भवति । अत एव णाविष्ठव दित्यत्र भाष्ये इष्ठवदित्यतिदेशस्य "पुंवद्भावटिलोपयणादिलोपविन्मतो गर्यम्' इति पुंवद्भावोऽपि प्रयोजनतयोक्तः । इदश्च दिमात्रं न तु परि गणनमिति षष्ठ एवाकर स्पष्टम् । उदाहरणानि तु प्रपञ्चयामः-एनी. माचष्टे एतयति। हरिणीमाचष्टे हरितयति । न चात्र पुंवद्भावस्य इष्ठनि विशिष्याविधानात्कथमतिदेश इति वाच्यम्, विशेषातिदेशे सामान्यस्याप्यतिदेशात् । वसिष्ठवदत्र वर्तितव्यमित्युक्त हि ब्राह्मण. त्वं सामान्यनिबन्धनमप्यतिदिश्यत एव । तथेह भसंशानिमित्ततद्धित. स्वप्रयुक्तः पुंवद्भावोऽपात्यदोषः । नन्वेतयतीत्यादौ टिलोपेन ङीपि निवृत्ते तत्सन्नियोगशिष्टत्वानकारोऽपि निवर्त्यताम् । तथा च टिलोपेनैव गतार्थत्वे किमर्थ पुंवद्भावोऽपि पृथक् प्रयोजनतया भा. प्ये गणित इति चेत् ?
अत्र कैयटः, "सनियोगशिष्ट' (प०भा०८८) परिभाषाया अनित्य विज्ञापनायेदम् । तेन 'ऐनेयः श्यैनेयः' इत्यत्र “यस्य' (पा०स०६-४-४९) इति लोपे कृतेऽपि नकारो न निवर्तते इत्याह । हरदत्तस्तु फलान्त रमपि मतान्तरत्वेनाह-इडबिडमाचष्टे ऐडबिडयति । दरदं दारद. यति । इडबिडशब्दो जनपदस्य क्षत्रियजातेश्च वाचकः । तस्मात् "ज. नपदशब्दात् क्षत्रियाद" (पा०४०४-१-१६८) दरच्छब्दात् "वयम गध" (पासू०४-२-१७०) इत्यण । अञणोस्तद्राजसंज्ञा "ते तद्राजाः" (पासू०४-१-१७४) इति सूत्रेण । अनादीनामापादपरिसमाप्तेस्तद्विधा. नात् "अतश्च" (पा०सू०४-१-१७७) इति लुक् । अकाररूपस्य तद्राज प्रत्ययस्य स्त्रियां लुगिति हि सूत्रार्थः । ततश्च इडबिट्, दरत् स्त्री । ऐडबिडो दारदश्च पुमान् । पुंवद्वचनेन च स्त्रीशब्दस्य पुंशब्देऽति. दिष्टे सिद्धमिष्टम् । न चैवं गोत्रत्वेन जातित्वात् "जातेश्च' (पासू० ६-३-४१) इति पुंवद्भावनिषेधः शङ्ख्यः, औपसंख्यानिकस्य नायं निषेध इति वक्ष्यमाणत्वात् । न चैवमप्यजादी गुणवचनादेवेत्युक्तरिष्ठन एवा. भ्यामसम्भवेन कथं तद्वदित्यतिदेश इति वाच्यम्, नहीपनि दृष्टस्यैवा.
Page #354
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
૧
तिदेशः किन्तु सम्भावितस्य । अन्यथा अतिराजयतीत्यादौ टिलोपो
न स्यात् ।
नम्वस्मिन्पक्षे 'पेनेयः' 'इयैनेयः' इति कथं सिद्ध्येदिति चेत् ? अत्र माधवः -- अनन्यथासिद्धमपि पेडबिडयतीत्याद्युदाहृत्य एतय. ति श्येतयतत्युिदाहरन् भाष्यकारः “सन्नियोगशिष्ट" (१० भा०८८) परि भाषाया अनित्यत्वं ज्ञापयतीत्याह । वस्तुतस्तु पुंवद्भावस्यैकाक्षु टिलोपस्याभाषितपुंस्केषु च चारितार्थेऽपि एतयतीत्यादावन्तरङ्गत्वेन पुंवद्भाव एव शाप्यः "सिद्धश्च प्रत्ययविधौ” इत्युक्तत्वेन प्रत्ययोत्पत्तः पूर्वमेव प्रवृत्तत्वात् । अत एव नकाररहितप्रयोगसिद्धिः । न चात्र टिलोपेऽपि सन्नियोगशिष्ट न्यायेन नकारनिवृत्तिः सुलभेति वाच्यम्, उक्त न्यायेन नकारनिवृत्तौ कर्तव्यायाम् "अचः परस्मिन्" (पा० सु०१-१-५७) इति स्थानिवद्भावस्य दुर्वारत्वात् । अत एव 'पञ्चेन्द्राण्यो देवता अस्येति पञ्चेन्द्रः' इत्यादौ स्थानिवद्भावेनानुगादिश्रवणे प्राप्ते स्थानिवद्भावनिषेधार्थे "क्विलुगुपधा" इतिवातिके लुग्ग्रहणमिति भाष्यवार्त्तिकादी स्पष्टम् । अत एवाभ्यासे कारसहित मैतदिति रूपं सिद्धम् । टिलोपे तु प्रक्रियादशायां परिनिष्ठिते रूपे वाऽवर्णपरत्वाभा वेन स्थानिवद्भावानतिपत्तावुक्तरूपासिद्धिः । नचाल्लोपस्यापि स्थानिवद्भावः, तस्य डीनिमित्तत्वेऽपि णिजनिमित्तत्वादिति ध्येयम् ।
पृथुमाचष्टे प्रथयति । चङि वृद्धेः पूर्वे टिलोप इति पक्षे अग्लोपि त्वात् "सन्वल्लघुनि” ( पा०सु०७-४-९३) इत्यस्याप्रवृत्तेः - अपप्रथत् । परत्वाद् वृद्धी आवादेशात्पूर्वे टिलोपे अनग्लापित्वात् अपिप्रथत् । पक्षइयमपीदं " मुण्डमिश्र" (पा०सु०३-१२१) इति सूत्रे प्रपञ्चितम् । एवं मृदुमाचष्टे ब्रदयति । अमम्रदत्, अमिम्रदत् । भ्रशयति, क्रशयति, द्रढ यति । एषां चङि सर्वथाऽप्यग्लोपित्वात् -- अब भ्रशत्, अन्यक्रशत्, अदद्रढत् इत्येकमेव रूपम् । परिव्रढयति । अत्रोपसर्गस्य पृथक्करणास्पर्यत्रढयत पर्यववदत् ।
9
पृथं मृदुं भृशं चैव कृशं च दृढमेव च ।
परिपूर्वे वृदञ्चैव षडेतान् रविधौ स्मरेत् ॥
कवि पहुं वा आचष्टे कवयति, पटयति । अचकवत, अवीकवत् । अपपठत् अपपिठत् । कुमारीमाख्यत् अचुकुमारत । अत्र एकमेव रूपम्, “सन्वल्लघुनि” ( पा०सू०७-४-९३) इति "दीर्घा लघोः" (पा० सू०७-४-९४) इति च सुत्रे चङ्परे णौ परे अचा अव्यवहितं यल्लघु त स्मिम्परे बोऽभ्यासः तस्येति कैयटादिसम्मते सूत्रार्थे यत्राभ्यासात्परं
"
Page #355
--------------------------------------------------------------------------
________________
३४६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेलघु न तच्चपरणिपरमिति दीर्घत्वस्याप्रसङ्गात् , चपरे णो यद. अन्तस्य योऽभ्यासो लघुपरः तस्येति हरदत्तादिपक्षेऽपि कुमारीशब्द. स्य पुंवद्भावेन वृद्धावप्यग्लोपित्वात् । नदीमाख्यत् अननददित्यादि । ननु कैयटमते "येननाव्यवधानम्" इतिन्यायेन एकव्यञ्जनव्यवहिते अजीहरदित्यादौ सन्बद्भावोऽस्तु नाम, अचिक्षणदित्यादौ तु कथमिति चेत् ? असस्मरदित्यादावित्वाभावार्थम् "अस्मृहत्वर" (पा०म०७४-९५) इति अत्वविधानेन संयोगव्यवधानेऽपि भवतीति शापनात् । ऊढमाख्यत् औजढत् । ढिमाख्यत् औजिढत् । कर्तारमाचष्टे करयति। भर्तारं भरयति । दोग्धारन्दोहयति । "तुश्छन्दसि' (पासू०५-३-५९) इति तृशब्दलोपोऽपि णावतिदिश्यन इत्यके । अन्य तु छन्दस्युपदिष्टो. ऽसौ णावपि छन्दस्येवातिदिश्यतां नाम । भाषायान्तु कथं भवेत् ? तस्माडिलोपे कर्तयतात्यायेव रूपमित्याहुः । त्वां मां वा आचष्टे त्वा. पयति, मापयति । इह "प्रत्ययोत्तरपदयोश्च" (पा००७-२-९८) इति एकार्ययोयुष्मदस्मदोर्मपर्यन्तस्य त्वमौ । “मतो गुणे" (पासू०६१.९७) इति पररूपात्पूर्व नित्यत्वाहिलोपे वृद्धौ पुगित्येकं मतम् । वस्तु: तस्तु परादप्यन्तरणस्य बलीयस्त्वात्पररूपत्वे "प्रकृत्यैकार" (पा० सू०६-४-१९३) इति टिलोपामावादुपघावृद्धौ त्वादयति मादयतीत्येव रूपमिति बहवः । “प्रकृत्येकाच्” (पा०सु०६-४-१६३) इत्येतत्प्रत्या. ख्यानभाज्यन्तूदाहरणविशेषेऽन्यथासिद्धिरित्यताधमात्रपरम् । तद्य. था-वृत्तिकारोदाहतेषु मध्ये प्रेष्ठादय आभात्सूत्रेण सिद्धाः। तस्यागे. ऽपि ज्येष्ठवदकारोच्चारणसामर्थ्यात् ।
इष्ठेमेयास्वनेकाचोऽप्यवशिष्टस्य नेप्यते। टिलोपो भाग्यकारेण प्रवृत्ते विन्मतोलुंकि ॥ लुकोऽपवादभूतस्य तस्मिन्पक्षे प्रवर्तनात् ।
कनिष्ठादाविदं तुल्यं तृलोपस्य प्रवर्तनात् ॥ कैयटमाघवादिप्रन्थाश्चैहानुकूला इति वक्ष्यामः । "अनवृत्तं" (पा० भा०९४) परिभाषया वृद्धिमकृत्वा त्वदयति मदयतीत्यन्ये प्रतिपनाः । युवामावां वा आचष्टे युज्मयति अस्मयति । "युवावौ द्विवचने (पा. सू०७-२-९२) इत्यत्र यद्यपि द्विवचने इत्पर्यग्रहणं तथाऽपीह युवापी न स्तः, विभक्तिपरत्वाभावात् । प्रातिपदिकादेव हि णिजिति माधवा. दयः। सुबन्तादिति हरदसपक्षेऽपि "अन्तरङ्गानपि" (प०मा०५२)इति न्यायेन विभक्के कापहारात । वामतिकान्तमतिकान्तौ वा मतित्वाम् । मतिकान्तान् अतित्वान । माचष्टे अतित्वयति, मतिमयति । युष्मद
Page #356
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
રૂડ
स्मदोरेकार्थत्वेन "प्रत्ययोत्तरपदयोश्च" (पा०सू०७-२-१८) इति त्वमौ । अन्तरङ्गत्वात्पूर्व रूपं, ततष्टिलोप इति माधवः । तच्चिन्त्यम्, उपसर्गस्य पृथक्करणेव " प्रकृत्यैकाच्" (पा०स्०६ - ४ - १६३) इति प्रकृतिभावात् । तस्मादतित्वादयति अतिमादयतीत्येव बोध्यम् । अत्रापि पर• रूपात्पूर्वे नित्यत्वाट्टिलोप इति मते अतित्वापयति अतिमापयति ! न्युवामावां युग्मानस्मान्वा अतिक्रान्तमतिक्रान्तावतिक्रान्तान्वा आचटे अतियुष्मयति अत्यस्मयति ।
इदानीं ण्यन्तात्क्विपि कश्चिद्विशेष उच्यते । तत्र त्वां मां वा आचष्ट इति आख्येयैक्ये त्वाप् माप्, त्वाद् माद्, त्वद् मद् इति प्रागुक्तमत• भेदेन त्रिधा प्रातिपदिकानि । युवामावां युष्मानस्मान् वा आचष्ट इति आख्यस्थानेकत्वे त्वमयोरभावाण्णौ टिलोपे, क्वौ, णिलोपे, केश्वा पृलेोपे युष्म् अस्म इति मान्ते प्रातिपदिके भवतः । ततः स्वादयः । तत्र प्रातिपदिकाष्टकादपि विभक्तीनां यथायथं "डेप्रथमयोरम्" ( पा० सू०७-१-२८) "शसो न" (पा०सू०७-१-२९ ) " भ्यसोऽभ्यम्" (पा० सू०७-१-३०) "पञ्चम्या अत्" (पा०सु०७-१-३१) "एकवचनस्य च " ( पा०सु०७-१-३२) " युष्मदस्मद्भ्यां ङसोऽश्" (पा०सु०७-१-२७) “साम आकम्" (पा०सु०७-१-३३) इति सूत्रसप्तकेन विहिता आदेशा भवः ति । एवं "युष्मदस्मदोरनादेशे" (पा०सू०७-२-८६) "द्वितीयायाञ्च" ( वा०सू०७-२-८७ ) " प्रथमायाश्च द्विवचने भाषायाम्" (पा०सु०७-२.८८) इति त्रिया विद्दितमात्वं "योऽचि " ( पा०सू०७-२-९८) इति यत्वं च भवत्येव । " शेषे लोप: " (प्रा०सू०७-२-९०) तु आत्वयत्वनिमित्तेतविभक्तौ परतो ऽन्त्यलोप इति व्याख्याने भवत्येव । शेषशब्दस्य मा. कन्वाच्छेषपरत्वमाश्रित्य टिलोप इति व्याख्याने तु न भवत्येवाख्येयस्यानेकत्वे । तत्र हि शेषेलोपेनापहार्य मान्तात्परं णाविष्टवदित्यति दिष्टेन टिलोपेनैवापहृतम् । आख्येयैक्ये तु भवत्येव, प्राक् टिलोपा भावात् । 'टिलोपं स्त्रीकृत्य पुका पान्तत्वम्' इति मते तु न भवत्ये
| मजादौ यत्वविधानादात्वं हलादावेव पर्यवस्यति । "त्याही सौ" ( पा०सु०७-२-९४) "यूयवयौ जसि" ( पा०स्०७-२-९३) "तुझ्य महाकवि (पा०सू०७-२-९५ ) " तवममौ ङास (पा०सु०७-२-९६) इति चतुःसूत्रीविहिताः प्रकृत्यादेशास्तु माख्येयैक्ये न भवन्स्येष, मपर्यन्ताभाषात्। यद्वित्वबहुत्वयोस्तु वैकल्पिकाः । तथाहि "मपर्यन्तसा" (पा०स०७-२-१९) इत्यत्र मान्तस्येत्येव सिद्धे परिग्रहण लामयद्युष्मदस्मदोर्मान्तस्वावस्थायां नादेशाः इत्येकं मतम्। परिग्रहणा•
99
•
Page #357
--------------------------------------------------------------------------
________________
३४८
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिक
भावे प्रान्तस्यैव स्यात , सति तु तस्मिन् मान्ते ततोधिके च भवति इति मतान्तरम् । उभयमिदं तस्मिन्नेव सूत्रेव्युत्पादयिष्यते । मतभेदाशे. ह फलितो विकल्पः । तत्र आख्येयद्वित्वे सुजस्ङङस्सुपरत्वात् त्वाहादि. प्रवृत्तावपि 'औ' 'अम्' इत्यादिषु वचनान्तरेषु विभक्तिपरत्वाद्युवावौ एकस्मिन्मते स्त एव,मतान्तरे तु न त्वाहादयो नापि युवौ इति विवेकः ।
अथ रूपाणि-आख्येयैक्ये सौ त्वां, माम् । 'वृद्धिन' इतिवादिना. न्तु शेषे लोपे त्वम्, मम् । शेषेलोपष्टिलोपः, स चाचक्षाणे न प्रवर्तत इति पक्षेऽप्याख्येयैक्येऽस्त्येव दान्तयोरित्युक्तम् । पान्तयोस्तु पक्षे त्वापम् , मापम्, । इत्थं सङ्कलनया त्रीणि । औङि 'स्वां, माम्' इत्येकमेव । "प्र. थमायाश्च द्विवचने"(पासू०७-२-८८) इत्यात्वम्। जसि साविव त्रीणि, शेषे लोपस्य पान्तयोः पाक्षिकत्वात् । अमोटो:-वां, माम् । शासस्वान् , मान्।"द्वितीयायाच" (पा०सू०७-२-७७) इत्यात्वम् । आडित्वाया, माया । अवृधौ तु-त्वया, मया । त्वाभ्यां, माभ्याम् । स्वामिः, माभिः । ङयि अम् , शेषे लोपः (पा०स०७-२-९०) । वृद्धिपक्षे "आतो धातो"(पासू०६-४-१४०)इत्यालोपः त्वम्,मम् ।पक्षेत्वापम् , मापम्। स्वाभ्याम्,माभ्याम् । स्वाभ्यम्, माभ्यम् । भ्यमि शेषे लोपः। अभ्यमा. देशपक्षे तु शेष लोपे आल्लोपेच त्वभ्यम मभ्यम् । अवृद्धिपक्षेऽप्येवम् । पान्तपक्षे त्वापभ्यम् , मापभ्यम् । तत्र भ्यमि "अङ्गवृत्त" (प०मा०९४) परिभाषया "बहुवचने झल्येत्” (पासू०७-३-१०३) इत्येत्वं न । त्वत , मत् । शेष लोपे वृद्धिपक्षे आल्लोपः । त्वापत् , मापत् । त्वाभ्याम, माभ्याम् । त्वत्, मत् । त्वापत् , मापत् । त्व, म । स्वाप, माप । त्वा. योः, मायोः । अवृद्धौ तु-स्वयोः, मयोः । त्वाकम् , माकम् । त्वापाकम, मापाकम् । त्वायि, मायि । स्वायो, मायोः । अवृद्धौ तु-स्वयि मयि । त्वयोः, मयोः । त्वासु, मासु । एवञ्च
आख्येयैक्येऽत्र सुजसोश्चतुर्यो भ्यसि च त्रयम् । टौङिदाम्भ्यस्सु रूपे द्वे निश्चिनुवैकमत्यतः ॥ इदं त्ववधेयम् । कृतः कर्तर्यसंशायामितिविशेष्यनिघतोकेराच माणस्य क्लीबत्वे सुजसोरसर्वनामस्थानत्वेन भत्वात "आतो धातोः" (पा०स०६-४-१४०) इत्यालोपे त्वम् , मम् इत्येव रूपम् । अवृद्धिवादिनां सम्बोधने "एहस्वात" (पा०स०६-१-६९) इति हलमात्रलोपे हे त्व, हे म । स्त्रीत्वे तु टाप् प्राप्तः "सनिपात" (१०मा०८७) परिभाषया समाधेयः । यत्तु केवले समाधानद्वयम् “अलिकत्वाहिलोपावा"ति तदिह न भवतीति दिक।
Page #358
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
३४९
अथाख्येयद्वित्वे रूपाणि-सौ त्वम्, अहम् ; प्रकृत्यादेशाभावे युषम्, असम् ; शेष लोपस्याप्यभावे युष्मम्, अस्मम् । इत्थं त्रीणि । युवाम् , आवाम् ; युषाम् , असाम् । जसि-यूयं, वयम् ; युषम् , असम्; युप्मम , अस्मम् । जम्औटोः-युवाम, आवाम् ; युषाम्, असाम्; युवान् , आवान् ; युषान्, असान् । युवया, आवया; युष्या, अस्या। युवाभ्याम्, आवाभ्यां युषाभ्याम्, असाभ्याम् । युवाभिः, आवाभिः; युषाभिः, असाभिः । तुभ्यं, मह्यम्; युषम् असम् । युष्मम्, अस्मम् । युवाभ्याम, आवाभ्याम् ; युषाभ्याम, असाभ्याम्--युवभ्यम् , आव. भ्यम् ; युग्मभ्यम्, अस्मभ्यम् । भ्यमादेशपक्षे तु-युष्मभ्यम् । अत्र संयोगान्तलोपोन, भाज्ये "झल" इत्यनुवर्तनात् । अननुवृत्तिपक्षे तुयुभ्यम् । अस्मदस्तु "स्कोः" (पा०सू०८-२-२९) इति सलोपे अम्भ्य म् । शेषे लोपे तु-भोभ्यम् । युवत्, आवत् ; युषत्, असत्; युप्मद, अस्मत् । युवाभ्याम, आवाभ्याम् । युषाभ्याम् , असाभ्याम् । भ्यसि उसिवत श्रीणि । तव मम; युष, अस; युग्म, अस्म । युवयोः, भावयोः; युष्योः, अस्योः । युवाकम्, आवाकम्यु षाकम्, असाकम् । युप्माकम् , अस्माकम् । युवयि, आवयि; युष्यि, अस्यि । युवयोः, आष. यो, युप्योः, अस्योः । युवासु, आवासुः युषासु, असासु । एवश्व
चतुर्य्या भ्यसि चत्वारि व्याख्याने द्वे तथाऽन्यतः।
सुजङङसिभ्यस्सु आमि च त्रीणि निश्चिनु । अथाख्येयबहुत्वे रूपाणि-स्वम्, अहम् ; युषम् असम् ; युष्मम् , अस्मम् । युषाम, असाम् । यूयं, वयम् । युषम्, असम , युप्मम् , भस्मम् । युषाम्, असाम् । युषान् , असान् । युष्या, अस्या । युषाभ्याम्, असाभ्याम् । युषाभिः, असाभिः । तुभ्यं, मह्यम; युषम्, असम्; युष्मम्, अस्मम् । युषाभ्याम्, असाभ्याम् । युषभ्यम्, असभ्यं, युमभ्यम्, युभ्यम्, अम्भ्यम्, ओभ्यम् । युषद, असत् । युष्मत, अ. स्मत् । युषाभ्याम, असाभ्याम् । युषत् , असत् ; युष्मत्, अस्मत् । तव, मम; युष, अस; युष्म, अस्म । युष्योः, अस्योः । युषाकम् , असाकम; युज्माकम् , अस्माकम् । युधि, अस्थि । युग्योः, अस्योः। युषासु, असासु । एवञ्च
उसिभ्यसाम्सुढे रूपे चतुर्या भ्यसि तु त्रयम् ।
सुजस्डेङस्सु च तथाऽऽख्येयभूम्न्येकमन्यतः॥ इह सर्वत्र प्रकृत्यादेशयत्वात्वशेषेलोपेषु कर्तव्येषु णिलोपो न स्थानिवत, क्वौ लुप्तत्वादिति दिक् ॥
Page #359
--------------------------------------------------------------------------
________________
३५० शब्दकौस्तुभतृतीयाध्यायप्रथमपारे द्वितीयाहिके__ श्वानमाचष्टे शावयति 'श्वन् 'इति स्थिते णाविष्ठवदित्यतिदेशेन द्वौ टिलोपो प्राप्तौ "टे:"(पामु०६-४-२४३) इत्येकः, "नस्तद्धिते"(पा० सू०६-४-१४४) इत्यपरः । तत्र "प्रकृत्यैका" (पा०स०६-४-१६३) इति प्रकृतिभावो येननाप्राप्तिन्यायेन "टे" (पासू०६-४-१४३) इत्यस्यैवेति तस्मानिवृत्ते ऽपि नस्तद्धिते" (पासू०६-४-१४४) इति भवत्येव । -तत इष्ठवदित्यतिदिष्टया भसंशयैव वकारस्य सम्प्रसारणे वृद्धावावा. देशः । न च 'दविष्ठः' इत्यादौ इष्ठनि “ओर्गुणः" (पा००६-४-१४६) पूर्वस्य दृष्ट इति इहाप्यतिदिश्यतेति वाच्यम्, तस्मिन्कर्तव्ये सम्प्रसारणटिलोपयोः "असिद्धवदत्र' (पासू०६-४-२२) इत्यसिद्धत्वात् । अन्ये तु 'ब्रह्मिष्ठः' इत्यादौ नान्तलक्षणाहिलोपात्पुरत्वात "टेः" (पा० स०६-४-१५५) इत्येव प्रवर्चते । तह प्रकृतिभावेन निवृत्तम् । "नस्त. द्धिते" (पा०म०६-४-१४४) इति तु ष्ठनि क्यापि न दृष्टमिति तस्ये. हानतिदेशात सम्प्रसारणपूर्वस्वयोः 'शुनयति' इति रूपमाहुः। न च टिलोपयोराभीयत्वेन अन्योन्यस्यासिद्धत्वात्कथं विप्रतिषेध इति वा.
सम, विप्रतिषेधे आभीयमसिद्धत्वं नास्तीति वक्ष्यमाणत्वात् । विदा समावष्ट इत्यत्र णौ टिलोपे विद्वयतीति दौर्गाः । अत्र संप्रसारणाभा. वचिन्त्य इत्यात्रेयः । “अङ्गवृत्त" (प०भा०९४) परिभाषया चिन्त्योद्धा. रो बोध्यः। संप्रसारणे वृद्धावावादे च 'विदावयति' इत्येके । अन्ये तु 'विदयति' इत्याहुः। तथाहि, नित्यत्वाडिलोपाप्राक् संप्रसारणं ततो. अन्तरकत्वात्पूर्वरूपे पश्चाटिलोपः। न च टिलोपस्यापि नित्यत्वम्, शन्दा. न्तरप्राप्त्या अनित्यत्वात् । ननु सम्प्रसारणमात्रेण न शब्दान्तरप्राप्तिः किन्तु पूर्वरूपेण, “यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनि. त्यम्"(१०मा०४८) इति चेत् ? न, यस्य चेत्यस्य असार्वत्रिकताया हर. दञ्चाद्रिभिरुतत्वात् । उदश्चमाचष्टे उदीचयति । अत्र उपसर्गस्य पृथ. करणात् लुप्तनकारादच्छन्दाण्णिच । "प्रकृत्यैकाच (पा०सू०६-४-१६३) इतिःटिळोपाभावे इष्ठवदित्यातिदेशेन भत्वे"अचः" (पा०स०६-४-१३८) इत्यल्लोपे प्राप्ते तदपवाद "उद ईत्" (पा००६-४-१३९) .इतीत्वम् । पाकितु उदैविचत । मत्र णिलोपस्य "विवंचनेऽचि" (पा००१-१५९) इति स्थानिवत्त्वात् "अजादेर्द्वितीयस्य" (पा०स०६-१-२) इति वि. शन्दस्य द्वित्वम् । अङ्गस्याऽट, वृद्धिः । ल्यपि लघुपूर्ववाभावेन अया. देशामावाणिलोपे उदीच्य । प्रत्यश्चमाचष्टे प्रतीचयति । अत्र "अचः" (पा०प०६-४-२३८) इत्यल्लोपः "चौ" (पा००६-३-१३८) इति पूर्वप. दस्य दीर्घः । चङि चिशब्दात्पूर्वमटि यणादेशे प्रत्यचिचत् । "इकोऽस.
Page #360
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
३५१
,
वर्णे (पा०सु०६-१-१२७) इति प्रकृतिभावपक्षे प्रति अचिचत् । व्यपि प्रतीच्य ! सम्यञ्चमाचष्टे समीचयति । चङि - सम्यचिचत्, समि अखि वत् । समीच्य । तिरोऽञ्चतीति तिर्यङ् । “तिरसस्तिर्यलोपे " (पा०सु०६३-९४) इति तिर्यादेशः । तमाचष्टे तिराययति । इष्टवद्भावेन टिलोपेनातेरपहारे वृद्धपायौ । न चात्र अञ्चलपात् तिरसस्तिरिः कथमिति वाच्यम्, अलोपे इति हि "अचः " (पा०सु०६-४-१३८) इति विधीयमाने लोपे तिर्यादेशो वार्यते, तस्यैवानन्तरत्वात् । इह तिरेरिकारस्य वृद्धयांयोः कृतयोरकृतयोर्वा लोपः प्राप्तः "अङ्गवृत्त" (प०मा०९४) परिभाषया न भवति । यद्वा चिणोलुङ्न्यायेन प्रथमप्रवृत्तटिलोपस्य " असिद्धवदत्र" (पा०सु०६-४-२२) इत्यसिद्धत्वात् पुनष्टिलोपो न । अत एव तिरे: स्थानिवत्वेनाव्ययत्वात् "अव्ययानां भमात्रे" (का०बां०) इति प्राप्तोऽपि टिलोपो न भवति । एवं "यस्य" (पा०सू०६-४१४८) इति लोपोऽपि न भवति, परंया वृद्धघा बाधाद्वा । चङि मंग्लो पित्वेन उपधाह्रस्वो न, अतितिशयत् । संह अञ्चतीति सनङ्, "ल हस्य सधिः" (पा०सू०६-३-९५) । सभ्यश्चमाचष्टे सभ्राययति । अससभ्रायत् । पूर्ववत्पुनष्टिलोपो न ।
स्यादेतत्, यदि तिरिसच्योरिकारे टिलोपस्याप्रवृत्तौ चिणो. लुङ्न्यायेनासिद्धस्वं मूलम्, तहिं कुमारीमाचष्टे 'कुमारयति' इति न सि. अध्येत तत्रापि दृष्टवद्भावेन प्रवृत्तस्य पुंवश्वस्य तेनैव कुमाराकारलोपे असिद्धत्वापत्तेरिति चेत ? मैवम्, “अतिदिश्यमानानाङ्कार्याणामुत्पत्ति. देशं पव देशः" इत्यभ्युपगमात् पुंवत्त्वस्य च "मस्याढे तद्धिते" (का० वा० ) इति आभयेभ्यः प्रागवोत्पत्तेः । अत एव भाष्यकारेण 'लोहिनी' माचष्टे लोहितयति' इत्युदाहृतम् । विश्वन्द्यमाचष्टे विष्वद्वाययति । देवद्रधञ्चमाचष्टे देवद्राययति । " विष्वग्देवयोश्च" (पा०सू०६-३-९२) प्रति चकारात् सर्वनाम्नोऽद्रयादेशे सर्वद्राययति । अदसोऽन्धादेशे अमुमुख यति, अदमुआययति, अदद्वाययति । चङि अजादित्वात् द्वितीयस्य द्वि त्वम् | मग्लोपित्वान्नोपधान्हस्वः । आमुमुमुखायत्, आददमुआयत, आ. ददद्रायत् । आद्ये "पूर्वत्रासिद्धीयमद्विर्वचने" इति मुत्वस्यासिद्धत्वा भावः । इमाचष्टे आययति, " प्रकृत्यैकाच्" (पा०सू० ६-४-१६३) इति प्रकृतिभावाट्टिलोपाभावे वृद्धौ आयादेशः । चङि उपधाद्द्रस्वे द्विती यस्य द्वित्वे मामवान् अयियत् । न च द्वित्वे कर्तव्ये "णौ कृतं स्थानिवत्" इति वृद्ध्यादेः स्थानिवत्त्वं शक्यम्, स्थानिरूपस्य यत्र द्विर्वचनं लस्यते तत्र हि तत्, इह तु णेरेव द्विर्वचनमिति माधवः ।
Page #361
--------------------------------------------------------------------------
________________
३५२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके
वस्तुतस्तु अचिकीर्तदित्यत्र अतिव्याप्तिं वारयितुम् "मोः पुयण जि" (पा० सू०७-४-८०) इति तापकस्य सजातीयविषयतामाश्रित्य अवर्णवदुत्तरखण्ड एव स्थानिवद्भावप्रवृत्तिरिति "द्विवंचनेऽचि" (पा० स०-१-१-५९) इतिसुत्र एवावोचाम | स्पष्टश्चैतदेवम् "उरत्" (पासू० ७-४-६६) इति सूत्रे रक्षितपदमार्यादिप्वपि । उत्तरखण्डस्यावर्णव. सापि न प्रयोगपर्यवसायिन्येवेत्याग्रहः किन्तु प्रक्रियावस्थागताऽपि । तेन 'औजिढत"अपीप्यत्' इत्यत्र द्विवचनोत्तरकालं टिलोपेन "लोपः पि. वतेः' (पा०स०७-४-४) इत्यनेन च उत्तरखण्डे अवर्णापहारेऽपि न क्षतिः। भुवमाचष्टे भावयति । चङि-अबीभवत् । णौ कृतस्य स्थानिव. त्वात् भशब्दस्य द्वित्वम् । पुनरुत्तरखण्ड वृद्धावी, हस्वः। ततः सन्व. दावे "ओः पुयजि' (पा०सू०७-४-८०) इतीत्वम् । “दी| लघोः" (पासू०७-४-९४) इति दीर्घः। नन्विह भू इत्यस्य द्वित्वे सत्युत्तरख. ण्डे दृष्यावहस्वत्वानि प्रवृत्तानि, एवञ्च अभ्यासस्यानादिष्टादचः पूर्व स्वात् तस्य सन्वद्भावेन पुयलक्षणे इत्वे कर्तव्ये "णौ चङि"(पा० सु०७-४-१) इति इस्वस्य "अचः परस्मिन्" (पा००१-१-५७)इति स्थानिवत्त्वे अलघुपरत्वात्कथमित्वमिति चेत् ? उच्यते, "मोः पुराण जि" (पा०स०७-४-८०) इतीत्वस्य सन्वदतिदेशस्य च भारम्भसा. मात स्थानिवद्रावस्येहाप्रवृत्तेः । भ्रुवमाल्यत् अबुम्रवत् । अत्र यः अवर्णपरो यण , नासावभ्यासात्परः । यच परः पर्वर्गः, नासा. ववर्णपर इति इत्वाभावः । मशिधयत् । णौ कृतस्य स्थानिवत्त्वेन त्रि. शब्दस्य द्वित्वम् । शब्दमाख्यत अजीहयत् । गाम् अजूगवत रायम् गरीरयत् । नाधम् अनूनषत् । स्वश्वम् स्वाशश्वत् । स्वराचष्टेस्वयति । "अध्ययानां ममात्रे" (का०या०) इति टिलोपः। “प्रकृत्यैकाच्" (पा० सू०६-४-१६३) इति प्रकृतिभावस्तु "येननाप्राप्ति" (प०भा०५९)ग्या. येन आनन्तर्याय "टेः" (पासू०६-४-१५५) इत्यस्यैव टिलोपस्य ना. न्यस्येत्युक्तम् । णो कुतत्वेन टिलोपस्य स्थानिवत्वात् स्वर्शब्दस्य द्वित्वे असस्वदित्येके। अजादेशस्यैव स्थानिवत्वम्, अयं त्वज्झलादेश इति स्थानिवत्स्वाभावात् स्विशब्दस्य द्विवचने असिस्वादिस्यन्ये । बहू नाचष्टे भावयति । अत्र "इष्ठस्य यिट् च" (पा०९०६-४-१५९) इति इष्ठनिविहितत्वाद् बहोभूभावः । यिडागमस्तु न भवति 'णो' इत्युपमेये सप्तमीश्रवणेन "ष्ठवत्" इति उपमानादपि सप्तम्यन्ताद्वतिः। तेन इष्ठनि परे पूर्वस्य यत्कार्य तस्यैवातिदेशो न त्विष्ठनः कार्यस्यापीति सिद्धान्तात् 'प्रातिपदिकस्य' इति वचनस्य प्रत्ययकार्यानतिदेशा
Page #362
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे जिन्तप्रकरणम् । स्वाश्च । "टे"(पासू०६-४-१५५) इति सूत्रे. कैयटेत भाषाई इन्युवाहत्यः यिट्सवियोगांशष्यत्वाद् भूभावस्य डिमाघे अस्याप्यथा बात्.. 'बहयति'.इत्येकीयमतत्वेनोपन्यस्तम् । न तु सोपपति करघासत्रैष प्राबल्यमिति मन्यमानेन 'ब'३' इति स्वपक्षत्वेनोक्त्वां भव्यतीस्यकीयमतमोकम् । अत एव पुरुष कोरेगति भावयतीति चि. त्यमित्युक्तम। ___ वस्तुतस्तु कैयटपक्ष एवं प्रबलः । तथा च इष्ठषदिति कार्याति. देशाकार्यस्यैव प्राधान्यात् । तथा च ष्ठषवचनमेव प्रकृती दृष्टाना. मिह विधायकमिति तदेव भूभापं विधत्त । तथा च सन्नियोगामाका स्पष्ट एव । चान्द्रकौमारशाकटायनेषु तु इष्टनि युग्वेति बहोरेष युकं विधाय भूषयति इति स्वीकृतम्। स्थलमाचष्टे स्थवयति।दुरं दवयति। युवानं यस्यति । हस्षयति । क्षेपयति । सोदयति । अत्राधषु गुणः स्थ "अचो णिति" (पा०स०७-२-१९५) इति वृद्धि प्राप्ता "मनः वृत (पभा०९४) इति वा "प्रातिपदिकाद्धात्वर्थ बहुलम् (ग)इति बालग्रहणाद्वा न.भवति । युवतिशब्दावपि इष्टनि “लिङ्गविशिष्ट"(५० मा०७३), परिभाषया "स्थूलदूर"(पा०स०६-४-११६) इति यणादिपरलोपावे। सत्वाण्णावपि तदतिदेशात् यषपतीत्येव रूपम् । यहा पुंष. दावे छते यणादिपरलोपातदेव रूपम् ।
शीकरव्यतिकरमरीचिभिदूरयत्यपनते विवस्वति । इति कालिदासप्रयोगस्तु चिन्त्य इति सुधाकरादयः । वस्तुतस्तु दूरमयतेदात् तं करोतीति समाधेयम् । स्रग्विणमाचष्टे ब्रजयति । मत्रातिदेशाद्विनो लुक् । “प्रकृत्येकाच्" (पासू०६-४-१६३) इति टि. लोपो न । “अत उपधायाः"(पासू०७-२-११६) इति वृद्धिस्तु ."म वृत्त"०मा०९४) इति न भवतीति भाग्ये स्थितम । गोमन्तमाचष्टे गावयति, मतुबलुकि "अचो णिति" (पासू०७-२-११५) इति वृद्धिः । चङि अग्लोपित्वात्सन्वदित्वदीर्घत्वयोरभावे-असनजत् , अजुगवत् इत्यादि । युवानमल्पं वाऽऽचष्टे कनयति,"युवाल्पयोः कनन्य. तरस्याम्"(पासू०५-३-६४) । पक्षे यवयति । युवतिमल्पां वेति विग्रहे. ऽप्येवम् । अन्तिकमाचष्टे नेदयति । बाढमाचष्टे साधयति । “अन्तिक बाढयोर्नेदसाधौ' (पासू०५-३-६३)। प्रशस्यमाचष्टे प्रशस्ययति । इह "प्रशस्यस्य श्रः""ज्य च'' (पासू०५-३-६०,६१) इति श्रज्यो न भवतः, उपसर्गस्थ पृथक्करणादिति माधवः। यस सुधाकरेण 'श्रापयति'इत्युदात्दृतम्, यव शाकटायनेन 'श्रयति"ज्ययति इति, तत्सर्व भाष्यविरोधा.
शब्द. द्वितीय. 23
Page #363
--------------------------------------------------------------------------
________________
३९४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाम्हिफेदुल्यम् । वृद्धमाबले ज्यापयति । अयश ज्वादेशः वर्षादेशेन सह विकल्पते । "प्रियस्थिर"(पासू०६-४-१५७) इति प्रादयः। प्रियमा. चष्टे प्रापयति, स्थिरं स्थापयति, स्फिरं स्फापयति, उरुम् वरय. तिइति सुब्धातौ माधवः । ऊर्जुधातौ तु वृद्धि ल एवोदाजहार । बहुलं बहयति। गुरु गरयति । वृद्धं वर्षयति । तृपं दुःखं, तदाचष्टे अपय. ति । दीर्घ द्राघयति । वृन्दारकं वृन्दयति ।
इति इष्ठवडाधोदाहरणपक्षः। प्रकृतमनुसरामः-सूत्रकरोति सुत्रयति । इह व्याकरणस्य सत्र रोनोति वाक्ये द्रव्यरूपं सत्र सत्रशब्देनोच्यते । लस्यलक्षणसमुदा. यश्व व्याकरणशब्दार्थः । तयोरंशांशिभावात षष्ठी। वृत्तातु "स्त्रशम्दो ऽमर्थकः करोत्यर्थपरो वा इति पक्षयेऽपि त्रस्य पदार्थकदेशवाद ज तेन व्याकरणं सम्बध्यते, किन्तु करोत्यर्थेनैव, इवि 'व्याकरणं वय. ति'हति द्वितीयैव भवति । तत्रापि सम्बन्धसामोन्यविषक्षायां 'भातुः स्मरति' इतिवत् षष्ठी मवत्येवेति दिक् । - "आस्यानाकृतस्तदाचष्टे इति णिच् कल्लुक प्रकृतिप्रत्यापति तिवा कारकम् (काबा) - आस्थावत इत्याख्यानम् , पालका कर्मणि ल्युट । आख्यानन्देन तदमियायी शबो गृखते, अ कृदन्तत्वासम्भवादिति प्राश्वः।
वस्तुतस्तु फरणे ल्युत् । सवधमाचष्टे कसं पातपति ।ह छद् ग्रहणे मतिकारकर्वस्यापि प्रहणात् (प०मा०२८) सवधा इति छपस्त बाल्यावर तो शिवीयान्तात्प्रातिपविकावा मिना तो अप्रत्ययस्य लुक। तस्यैव या प्रकृतिः 'हन्' इति तस्मा विकारपरि त्यागेन स्वेनैव रूपेणाधस्थानम् । पद्यपि छतो लुकि कृते तत्सभियो। गशिष्टस्य वधादेशस्थ निधिः सिचव, "हनश्च वधः" (पाम.३-.. ७६) इति सूत्रेण हि अप्रत्ययवधादेशी सबियोगथिौ । तथापि 'सीसायोगमाचष्टे सीतया योजयति' इत्यत्र कुत्यस्यासभियोगशिन्धन तमित्यर्थ प्रकृतिप्रत्यापत्तिषचनमिति कैयटहरदत्तमाधवादयः ।
वस्तुतस्तु "निमित्तापाष" (०मा०५७) न्यायनेत बत्सिद्धस्तस्या. नित्यत्वज्ञापनार्थमिदम् । “नहीदं वचनं, नापि न्यायः" इति बदहि रपि “अकृतव्यूह" (प०मा०५७) परिभाषायाः तत्स्थानापनाया पुर. स्कृतत्वातस्या एवानित्यत्वमनेन झाप्यत इति निष्कर्षः । इव"अचः परस्मिन्" (पासू०१-२-५७) इति सूत्र एक अपश्चितमस्माभिः । एव. 'कसहन्-' इति स्थिते मङ्गसंशा धातुसंशा च फसविशिष्टस्यैव
Page #364
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे जिजसप्रकरणम् । माप्ता, ततश्चाद्विर्वचनयोर्दोषः स्यात् , मत उक्तं "प्रकृतिवच्चकारका म्" इति । अस्यार्थः-प्रकृतिहेतुमण्णिचः प्रकृतिः, षष्ठयन्ताहतिः, बधादेः कृदन्तस्य यत्कारकं कंसादिकं तस्य कृत्प्रकृतेर्हन्यादेः हेतुम. ण्णो धातावनम्तर्भूतं द्वितीयान्तं यदूपं तदेव भवतीति । मत एवं 'राजागमनमाचष्टे राजानमागमयति'इत्यत्र नकारश्रवणमप्युपपनम् । अनेन चातिदेशेन कारकस्य धातावनन्तर्भावे लब्धे तद्वयतिरिकाः धादेरेव णिच् । एतेन 'कंसमजीघता' इत्यद्विवचने यथामिमतं सिध्यतः। नन्वेवमपि "हो हन्तेः'(पा०९०७-३-५४) इति "हनस्तोऽचि. ज्णलोः"(पासू०७-३-३२) इति च कुत्पत्वे न प्राप्नुतः, "धातोः स्वरूपाहणे तत्प्रत्यये कार्यविज्ञानात्" (प०मा०९०) इति चेत् ?
अत्र हरदन्तमाधवादयः-"प्रकृतिवच्च" इति चकारो भित्रकमः, 'कारकम्' इत्यस्यानन्तरं द्रष्टव्यः । कार्यशब्दश्चाध्याहार्यः । हेतुम. ग्णिप्रकृतौ यारशङ्कारकं तथेहापि, याश तत्र कार्य अद्विवचन. तत्यकुत्वादि तदपीह तथैवेत्यर्थः ह च अद्विर्वचने अतिदेशवयेनापि सिध्यतः । असकीर्णोदाहरणन्तु द्वितीयादिकं कुत्वतत्वादिकश्चेति वि. वेकः । इह कंसवधसुभद्राहरणादिनिरूढोपाख्यान . एव णिजिति ना. प्रहा, किन्तु प्रतिपादनमात्रे । तेव रानागमनमाचष्टे पजानमागमय. ति । यद्यपीह कृत्प्रकृती 'राजा' कर्तासीत्, तथापि गमेहेतुमण्णी "गशिबुद्धि"(पासू०१-४-५२) इति कर्मीभूतः, तइन्चेहापि । 'राजा. नम्' इत्यस्य प्रकृतिभागो यद्यपि अन्तर्वर्तिम्या षष्ठया प्रत्यवलक्षणेन पदम, तथापि नकारश्रवणं भवत्येव, रूपातिदेशवलाद । 'देवदत्रपाक. मावष्टे देवदत्सेन पाचयति इति तृतीयैव भवति । "पतिबुद्धि"(DR. १-४-५२) इति नियमेन कर्मत्वापहारे कर्तृत्वस्यैव सिधतेरिति रिक।
सभ्यर्यायां च प्रवृत्तौ (काभ्वा०)। मृगाणां रमणं मूगरमणम् । कत. षष्टया समासः । तदाचष्टे मृगान् रमयति । या प्रतिपाद्यकर्तवदर्शना र्थमाख्यातं तदेव णिजिप्यते नान्यदेत्येतदर्थ वचनम् । येयमारपातका इतिः सा यदि श्यर्थः । तेन 'स्वयं मृगरमणमनुभवम् अन्यस्मै दर्श यितुमाचले' हत्यस्मिन्विषये 'मृगान् रमयति' इति प्रयोगः । यातु बरपेई मगरमणं प्राममेत्याऽस्यस्मा पाचष्ठे-'पवं सत्र मगा. रमन्ते इति, तस्मिघाख्याते बोधनीये 'मुगरमणमाच'इति वाक्यमेव भवति ।
मत्र कैयबदमा-श्वर्थायामेव'इति नियमो मृगरमणादिविषयक एव, न तु सार्वत्रिकः । तेन सजागमनादौ श्यप्रकृस्यभावेऽपिवि. ज् भवत्ववेत्याहुः ।
Page #365
--------------------------------------------------------------------------
________________
३५६ शन्दकौस्तुभतशीयाध्यायप्रथमपादे द्वितीयान्हिके
लोप कालात्यन्तसंयोगे मर्यादायाम् (का०वा०)। इह माख्याना दिति न सम्बध्यते । शेषं पूर्ववत् । सन्निहितया आख्यानक्रियया सह कालस्य साकल्येन सम्बन्धे बोधनीये णिच, मर्यादावचनस्याडो लोपश्चे त्यर्थः । उदाहरणन्तु विवसनं विवासः अतिक्रमणं, घ, रार्विवास इति कर्तृषष्टया समासः । ततः "आङ् मर्यादाभिविध्योः" (पासू०२-१-१३) इत्याला सहाव्ययीभावः । रात्रिविवासमाचष्टे रात्रि विषासयति । यावद्रारतिक्रमणं तावत्कथाः कथयतीत्यर्थः । वसिक्रियायां कर्तृभूता. या रातुमण्णौ तावत्कर्मत्वं वसेरकर्मकत्वासवदत्रापि जो कर्मत्वं 'रात्रिम्' इत्यस्य लुप्तषष्ठयन्तत्वेन प्रकृतिभागस्य पदत्वे "इकोऽसवणे" (पा०सू०६-१-१२७) इति पाक्षिकः प्रकृतिभावः प्राप्तः पूर्ववद्रूपातिदे. शानिवर्चते । इहाख्येयं णिच्प्रकृत्या अनुपातमपि अर्थादम्यते । तद्वा. चकस्तु 'भारतकथाम्' इत्यादिः शब्दो नेह प्रयोक्तव्यः । तत्सममिव्या. हारे हि सति णिजेव नोत्पद्यते, अनभिधानात् । अत्र च प्रमाणं वक्ष्य. माणं भाग्यकारीयं प्रत्याख्यानमेव । नहि फलभेदे प्रत्याख्यानं सम्भ वति । प्रत्याख्यानपक्षे च 'कथाम्'इत्यादेर्यथा न प्रयोगस्तथा प्रत्यास्या. नावसर एव स्फुटीभविष्यति । तथा 'प्रकृतिवच्च कारकम्' इत्यस्य पूर्वोके विपरीतकमाध्याहारव्याख्यानेऽपि भाग्यकारीयप्रत्याख्यानं प्रमाणमिति दिक् ।
चित्रीकरणे प्रापि (का०या०)॥ आख्यानादिति विहाय शिष्टुं स. म्बध्यते । कृदन्तादाश्चर्यकरणे गम्यमाने प्राप्नोत्यर्थे णिच् स्यात् , छ. ल्लुगादि पूर्ववत् । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्रमनं प्राप्नोति सूर्यमुद्रमयति । इह उजयिन्या माहिष्मती दूरदेशस्थेति तावतो देश स्य प्रागुयादतिक्रमणमाश्चर्यकरणम्। प्रकृतिवश्व कारकम्" इति सूर्यस्य पृथग्भावः। सङ्कामयतेरेव सोपसर्गादित्युक्तरुच्छब्दस्यापि पृथक्कर. णम् । सूर्यस्य हेतुमणौ कर्मत्वात् इहापि कर्मत्वे सूर्यमुदगमय. दित्यादि। ___ नक्षत्रयो शि (का०वा) ॥ नक्षत्रयोगवाचिन: कृदन्ताजानात्यर्थे णिच् , शेषं प्राग्वत् । पुष्वेण योगः कर्तृकर्मकः योग इत्यर्थः । पुग्यो हि चन्द्रमसं युनक्ति सम्बध्नाति । इह कर्मणोऽपि गम्यमानत्वाद “उभयप्राप्तो' (पा०४०२-३-६६) इति नियमाकर्तरि षष्ठपनावे तृती. या "अन्तों येनादर्शनमिच्छति" (पासू०१-४-२८) इतिवत् । पुष्य. योग जानाति पुष्येण योजयति। युजेः कर्तुः पुण्यस्य गत्यादिकर्तृव. नन्तर्भावण हेतुमण्णो न कर्मता किन्तु कर्तृत्वमेवेति इहापि तथा, तेन
Page #366
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
३५७
तृतीयैष । इदश्च "आख्यानाकृतः" (काका) प्रभादि धार्तिक जातं भाष्यवार्तिकयोरेव प्रत्याख्यातम् , तदीयलबासस्टः भारोणापि सुपपादत्वात् । तथाहि, कंसं घातयतीति तावदारोषः । ये हि संसा. घनुकारिणां नटामा व्याख्यानोपाध्यायाः ले कंसानुकारिणं न सामाजिकैः कंसबुद्ध्वा गृहीतं ताशेनैव धासुदेवेन घातयन्तीय । येऽपि चित्रं व्याचक्षते इयं मथुरा, अयं प्रासादः, अयं भगवान् वासुदेवः प्रवि ष्टः इत्यादिक्रमेण, तेपि तथैव । येऽपि ग्रन्थं वाचयन्तः कंसवधमाचक्ष. ते प्रन्थिका नाम तेऽपि तत्तत्पदार्थविषयकनिश्चयोत्पादनाचास्ताः क्रि. या निवर्तयन्तीव । तथाच स्पष्ट आरोपः । किञ्च 'गन्छ हन्यते कंसः' 'गच्छ घानिष्यते' किंगतेनेह तेन हतः कंसः' इत्यादिषु निकढेषु व्यव. हारेषु तवाप्येषैः गतिः। नत्र णिविधिः किश्चिदुपकरोति, उको. दाहरणेषु णिच्प्रवेशाभावात् । उक्तञ्च
शब्दोपहितरूपांश्च बुद्धर्विषयताङ्गतान् ।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥ इति । वं राजानमागमयति' इत्यादावपि बोध्यम् । 'राजानमानयति' इत्यादौ हि णिजमावातवाप्येषैव गतिः। 'रात्रि विवासयति' इत्यत्रा. पि विचित्रकथाsऽख्यानेन रात्रिरनेनैव गमितेति आरोपः । 'निशानिनाय' इत्यादौ च तवाप्येषैव गतिः । 'सूर्यमुद्रमयति' इत्यत्रापि प्रयो। ज्यप्रयोजकभावाध्यारोपः, तदालम्बनन्तु 'माहिष्मत्यां सूर्योद्मनं लभे. या इत्येवंरूपस्य देवदत्ताभिप्रेतार्थस्य निर्वृत्तिरेव । यो हि यस्य प्रव. यः स तस्याभिप्रेतं निवर्तयति । तत्र स्वभूत्यर्थ प्रवर्तमाना अपि शि. ज्यादयो गुर्वभिप्रेतमपि उहिशन्त्येव । सूर्यस्तु न देवदत्ताभिप्रेतोद्देशेन प्रर्तित इति वैषम्यम् । तथापि अभिप्रेतार्थसम्पत्तिमात्रेण आरोपे न काचित क्षतिः । एवं "पुष्येण योजयति' इत्यत्रापि ज्योतिःशास्त्रपरि शीलनेन पुण्ययोगस्य सर्वान्प्रत्याविष्करणात् योजयतीवेत्यारोपः । इति श्रीशब्दकौस्तुभे तृतीयस्याध्यायस्य प्रथमपादे द्वितीयमाह्निकम् ॥
फण्ड्वादिभ्यो यक (पा०सू०३-१-२७) ॥ एभ्यो धातुभ्यो यक् स्थात्स्वार्थे । कण्डूञ् (क० उ०१) कण्डूयति । कण्डूयते । न च कण्ड्वा . दीनि प्रातिपदिकान्येवेति वाच्यम् , गुणनिषेधार्थेन यकः किरवेन तेषां धातत्वसिबेन चैवं धातोरित्यनुवृत्यर्थ्यमिति वाच्यम् , प्राति. पदिकानां वारणीयत्वात् । न चैते धातव एवेति वाच्यम् , कण्ड्वादिषु केषांविहीर्घपाठेन प्रातिपदिकत्वसिद्धेः । यदि हि धातव एव ते स्यु. स्तर्हि वाग्रहणं निवर्त्य नित्यो यगिति तावदास्थ्यम् , अन्यथा नाया
Page #367
--------------------------------------------------------------------------
________________
३९८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे तृतीयान्हिकेवो 'कण्डपति' इत्याद्यनिष्टरूपप्रसङ्गात् । एवं स्थिते हस्वान्तावपि यकि 'मन्तूयति' इत्यादिवत् "अकृत्सार्व" (पा०स०७-४-२५) इति दधित्वे 'कण्डूयति' इत्यादिसिद्धेः किं दीर्घपाठेन ? तस्मात् कित्त्वदीर्घाभ्यां शापकाभ्यां धातवः प्रातिपदिकानि चेति द्विविधाः कण्ड्वादय इति स्थितम् । उक्तञ्च भाग्ये
धातुप्रकरणाद्धातुः कस्य चासअनादपि ।
आह चायमिमं दीर्घ मन्ये धातुर्विभाषितः ॥ इति । तत्र धात्वधिकारात धातुभ्य एव प्रत्ययः । स च नित्य इति सिदान्तः। __स्यादेत, एषां प्रातिपदिकत्वमेवास्तु, त्यज्यतां दीर्घपाठः प्रत्ययस्य किस्वच । नचैवम् "अकृत्सार्व" (पा०सू०७-४-२५) इति दीर्घः क्षिति विधीयमान इह न स्यादिति वाच्यम्, तत्र "ङ्किति" इत्यस्य निवृत्तेः । न चैवम 'उरुया' 'धृष्णुया' इत्यादापतिप्रसङ्गः, तस्य छान्दसत्वात् । न च यको नित्यत्वे 'कण्डूः' इति न सिद्धयेदिति वाच्यम्, कण्डूयश. ब्दात्सम्पदादित्वाद्भावे क्वौ अल्लोपे "लोपो व्योः" (पा०सू०६-१-६६) इति यलोपे च तत्सिद्धेः । न च यलोपेऽल्लोपस्य स्थानिवत्वं शङ्कयम्, "न पदान्त' (पा०सू०१-१-५८) इति निषेधात् । न चैवमल्लोपस्य स्था. निवस्वादुवङ् स्यादिति वाच्यम, सति स्थानिवत्वे अकारान्तस्यैव धातुतेति पूर्वदले उवङोऽप्राप्तेः । तर्हि यण स्यादिति चेत् ? अस्तु, तस्य ऊठ करिष्यते । न च ऊठि कर्तव्ये अल्लोपस्य स्थानिवत्त्वेन क्वि. प्परत्वं नास्तीति वाच्यम्, वकारस्य आदिष्टादचः पूर्वत्वात् । ननु स्थानिद्वारकमनादिष्टादचः पूर्वत्वमस्त्येव। न च तस्याशास्त्रीयत्वान्नाति. देश इति माधवोक्तं युक्तम, अनादिष्टादचः पूर्वत्वमाश्रित्य कर्तव्यस्य "अचः परस्मिन्"(पा०सु०१-१-५७) इत्यतिदेशस्य शास्त्रीयतया "स्था. निवत्"(पासू०१-१-५६) सूत्रेण अतिदेशातिदेशस्य दुर्वारत्वात् । अन्यः था "न पदान्त" (पासू०१-१-५८) इति सूत्रे सवर्णग्रहणस्य वैया . पत्तेरिति चेत्?न, स्थानिद्वारकस्य अनादिष्पादचः पूर्वत्वस्य असार्वत्रिक. तायाः प्रागेव निर्णीतत्वात् । अत एव ऊठि कृतं पुनरुवड न । यद्वा, "क्वौ लुप्तं न स्थानिवत्" (कावा०) इति निषेधाद्यणेव मास्तु । नन्वेवमपि 'कण्ड्वौ ' इत्यादौ सयोगर्वकत्वेन "ओः सुपि" (पा०स० ६-४-८३) इत्यस्याप्रवृत्ती उवङ् स्वादिति चेत् ? अस्तु, क्विपः प्रत्य. यलक्षणनोठं करिष्यामः । तस्मात् प्रातिपदिक न्येवैतानि दीकित्त्वे व निष्फले इति चेत् ? मैवम् , उवङो बहिरङ्गवेनासिद्धतय! मठो दुई
Page #368
--------------------------------------------------------------------------
________________
wযকামিজই খালি । ২ लत्वात् । किशोकरीया हि कन्डू पनिषत् 'मन्तू त्यादि स्वात् , 'मन्तु इत्यादि च न सिध्येत् । अथ "धातो कर्मणः" (पासू०३-१७) इत्यतो वाग्रहणमनुवर्तेत, तर्हि यद्यपि 'मन्तुः' स्यापि इस्वं सिवं, तथापि 'कण्डू'इतिवदल्लोपयलोपाभ्यां 'मन्तू' इत्यपि स्मात् । तथा पगनुस्पचिषक्षे 'मन्तु इत्यादिवत् 'कण्दुः' इत्यपि स्यात् । किश्श सुखा. विभ्यो वनस्पये सस्य अनार्वधातुकत्वादतोलोपाभाचे "अरसार्व" (पान्व००-२५) इति वर्षे 'सुखापति' इत्यादि स्यात् । 'मुग्यति' इत्यादि चेन्यते । अष हलन्तमेव पठ्यत, ताई 'मुख' 'दुःखम्' इत्यः कारान्त , सिध्वेत् । तस्माद्यथाबासमेव मनोरमम् ।
मन्मेषमपि प्रातिपदिकै कण्डपी' 'मन्तुहायादि यद्यपि सिखं, तथापि वमन्तेभ्यः क्वौ अनिष्ट स्थादेव । तद्यथा-कण्ड्यः कण्वुवा, कण्डवः । मन्तूयतेः मन्तूः । सुखादेः सुक् इत्यादि इल-तम् । नैष दोषः, अगन्तेभ्यः क्विप एवानुत्पत्तेः । उक्तं हि भाये-"नैतेभ्यः क्विप् इत्यवे" इति । कन्तर्हि कण्डूयतेरप्रत्ययः कण्डूः इति "नपदान्त" (पा००१-१-५८) ने उक्तमिति चेत् ? क्यजन्तात्विवपीत्यवेहि । ताच 'कण्डौ'त्युवडिष्ट एव । एवं प्रातिपदिकादाचारविचन्ता. स्प ताar किन्यपि बोध्यम्।
स्यादेतत् , कण्ड्वादयः प्रातिपदिकान्येव, बधाग्यासं दीर्घाश्च सन्तु, ककारस्तु त्यज्यतां, पाग्रहणशानुवर्यताम् , यगन्ताक्विपो. ऽनभिधानश्च आवयोस्तुल्यं, तम्कि कण्ड्वादीनां धातुत्वेनेति चेत् ? उक्तरीत्या 'मुख्यति' इत्याद्यसिद्धः। प्रातिपदिकात्प्रत्यये तस्यानाबंधातुकत्वेन 'सुखायति' इति स्यादिति हि स्पष्ट एव दोषः । यनु कौमुचाम्-छअर्थे यक् स्यात्, धातवः प्रातिपदिकानि चेति कण्ड्वादयो द्विविधाः, कण्डूं करोति कण्डूयते, नामधातुत्वाद्यथेष्ट द्वित्वे प्राप्ते कण्ड्यादेस्तृतीयस्य इत्युकं; तदेतत्सर्वमाकरविरुद्धमनेकदोषग्रस्तश्च । तथाहि, कृार्थ इतिव्याख्यानेन 'करणे' इत्यस्यानुवृत्तिलभ्यते । तर व्य. थम् ,धात्वर्थमात्रस्यानुवृत्ति विनाऽपि लाभात । ततोऽतिरिक्तस्य चा. नन्वयात्। एवञ्च 'कण्डूं करोति'इति विग्रहप्रदर्शनमध्ययुक्तम्। नामधातु त्वादिति च सुतरामशुद्धम्, धात्वधिकाराद्धातुभ्य एव यगिति सि. द्धान्तात् । अथ प्रातिपदिकादेव यकमभ्युपैषि, तर्हि लडादौ 'कण्डवति' इत्यादि स्यात । अथ प्रातिपदिकान्येव कण्ड्वादीनीत्यभिप्रेषि, तर्हि 'सुख्यति' इत्यादि न सिध्ये "द्विविधाः कण्ड्वादयः" इति स्वो. तिविरोधश्च । आकरनिरोस्त स्पष्ट रवेत्यास्तां तावत।
Page #369
--------------------------------------------------------------------------
________________
३६० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे तृतीयाम्हिके
माम्यास्तु अनेकदोषदुष्टमपीमं प्रक्रियाप्रघट्टकंकचित् समर्थयन्ते । सप्रथा-प्रातिपदिका कण्ड्वादयः, तेभ्यश्च वैकल्पिको य इति प्रक्षेणायं प्रथः । अत एवोक्तं 'कृञर्थ' इति । विगृहीतच 'कण्डूं करो: ति' इति च । नहि धातुभ्यो यकि प्रातिपदिकेभ्यो वा नित्ये यकि अ. यं विग्रहः सम्भवति । पब मामधातुत्वादित्यापि सम्यगेध । कथ. ताहि वैविध्यमुक्तमिति चेत् ? यगन्ताः सन्तो धातवः । केवलास्तु प्रा. तिपदिकानीत्याशयात् । यद्वा, यगन्तधास्ववयवेषु तेषु धातुशब्दो गौ. णः । प्रत्ययसदसद्भावाभ्याम् अवस्थाभेदाद् द्वैविध्यम् । न चैवं 'सुल्यति'इत्यादौ "अतो लोप" (पासू०६-४-६४) न स्यादिति वा. च्यम्, यकः किरवेन आवश्यकत्वाल्लाघवाच्चाघातुकत्वस्यैव शाप. मात् । अत एव 'द्विविधा' इत्येवोक्तं न तु धातुभ्य एष यगिति । तदि. दं भाज्यादिविरुद्धमपि लभ्ये विसंवादामावादस्तु कथञ्चित् ।
अथोदाहरणानि-१ कण्डू गाविघषणे । अवयवे कृतं लिङ्गं स. मुदायं विशिनष्टि । एवमप्रेऽपि । कण्डूयति, कण्डूयते । २ मन्तु अपराधे रोष इत्येके । मन्तूयति । चन्द्रस्तु भितं पठित्वा मन्तूयते इत्यप्याह । १ घल्गु पूजामाधुर्ययोः । वल्गूयति । तबल्गुना युगपदुन्मिषितेन ।४ असु उपतापे । अस्यति । असूयुः । “मृगय्वादयश्च" (उ०स०३९) इत्युप्रत्यय इति माधवः । एतेन
___ सन्तः प्रणयिवाक्यानि गृह्णन्ति ह्यनसूयवः ।
इति भडिप्रयोगो व्याख्यातः । केचित्तु 'अस्' ५ 'असुम्' इति पठित्वा आधस्य सान्तस्य 'अस्यति' द्वितीयस्य दीर्घान्तस्य 'असूयति' 'असूयते' इत्याहुः । ६ लेट् ७ लोट् धौत्य, पूर्वभावे, स्वप्ने च । लेट्यति, लोट्यति । लाटता, लोटिता । अल्लोपयलोपौ। केचित् लेट्लोटौ दीप्त्यर्थावाहुरिति माधवः । पूर्वभावः पूर्वत्वम् ।। __ अत्र केचित् पूर्वशब्दं प्रकृतिनिर्देशार्थमाश्रित्य 'पूर्व्यति' इत्युदाह. रन्ति । तथा चान्तःकरणवृत्तिवर्गे भट्टमलेनोक्तम्
ते द्रायति निद्राति सस्ति स्वपिति पूर्व्यति। निद्रायते संविशति निद्रायां संस्ति मन्दते ॥ इति । अस्यार्थों धातुचन्द्रोदये उक्तः। शेतप्रभृतीनि दाख्यातानि नि. द्रायाम् । षस स्वप्ने (अ०प०६८) अदादिः। 'षसि शयने' इत्येके पेटुरिति तत्रैव क्षीरस्वामी । पूर्व्यतीति कण्ड्वादियगन्त इत्यादि । तथा देवे. नाप्युकम्
पूर्व्यतीति तु यत्स्वप्ने तत् कण्डवादिषु दर्शनात इति ।
Page #370
--------------------------------------------------------------------------
________________
मत्ववाधिकारे कण्ड्वादिप्रकरणम् । पसाच्च अमेघायां शाकटायनधातुकृत्तौ अर्थनिर्देशरहिते गणपाठे शूर्वस्व पाठाभावादयुक्तमिति पुरुषकारैरेष दूषितम् । चुक्तञ्चतत्, जवा. दित्येनापि 'लेट्"लोट्' इत्येव पाठात् , हरदसेन च घौ] पूर्वभावे स्वप्ने खेति तद्विवरणात् । एतेम बुद्धिवर्ग
मनसागोचरीकारे मनस्वित्वे मनस्यति । इति भट्टमल्लोक्तिरपि प्रत्युक्ता,न्यायसाम्यात्। जयादित्येन हि 'अ. सु' इत्येव निर्दिष्टम् । हरदत्तेन तु अथ कण्ड्वादीनामर्थनिर्देश इत्युप. क्रम्य कण्ड्वादीन् विवृण्वता'असु'इति प्रतीकमुपादाय 'मानस उपता' इति विवृतम् । अत एव 'असु मनस उपतापे' इति पठतामपि 'मनस' इति षष्ठयन्तमुपतापविशेषणम् , न तु प्रकृतिनिदेशः वृत्तिपदमा. यादिविरोधात। धातुचन्द्रोदयकारस्य तु 'मनस्यति इति कण्ड्वादियग. न्तम्'इति भूयसा ग्रन्थसन्दर्भण व्याचक्षाणस्यापि तत्रापरितोषोऽ. स्त्येव । अत एव 'मनस्यते' इति पाठमाश्रित्य मनाशब्दावत्तिविषये तवति वर्तमानात् क्यञ्चोक्त्वा 'इदं शोभतेतराम्' इत्युपसाहार ।
८ लेला दीप्तौ । “ध्यायतीव लेलायतीच" इति श्रुतिः। ९हरस् १० इरज ११ इरईर्ष्यायाम्। दरस्यति । इरज्यति । ईयति, ईर्यते।"इलिच" (पासू०८-२-७७) इति दीर्घः । एषां प्रयाणां यथायथमन्येऽप्याः स. न्ति । तथाहि-"हरज्यनग्ने प्रथयस्व जन्तुभिः" इति मन्त्रे दीप्त्यर्थोऽ. यमिति भट्टभास्करादयः। "इरज्यन्तावसव्यस्य भूरेः" इति मन्त्र ऐश्व. यार्थ इति । ईर्थतिर्मार्गावस्थानेऽपि । उक्तशामरेण-"वर्या त्वीर्या पथि. स्थितिः"(अ०को०२-७-३८)इति । १२ इयर ऐश्वर्ये' इति गणरत्नमहो। दधौ । यस्यति । १३ उषस् प्रभातीभावे । उषस्यति रात्रिः । १४ वेद धौत्य स्वप्ने च । वेद्यति । १५ मेधा आशुग्रहणे । मेधापति । १६ कुषु. भ क्षेपे । कुषुभ्यति । १७ मगध परिवेष्टने । नीचदास्य इत्यन्ये । मग. ध्यति । १८ तन्तस् १९ पम्पस् दुखे। तन्तस्यति । पम्पस्यति । २० सुख २१ दुःख तक्रियायाम् । तच्छब्देन सुखदुःखार्थो । सुखदुःखरूपायां क्रियायामित्यर्थः। सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । २२ सपर पूजायाम् । अकारान्तोऽयं महोदधौ। सपर्यति । २३ अरर आ. राकर्मणि । आरा प्रतोदः । अरर्यति । २४ भिषज चिकित्सायाम् । भिष. ज्यति । २५ भिष्णज उपसेवायाम् । भिष्णज्यति । "सरस्वती त्वा मध. वन भिष्णक। छान्दसो लुक् । २६ इषुध शरधारणे । इषुध्यति । २७ चरण २८ वरण गतौ । चरण्यति।वरण्यति । २९ चुरण चौर्ये । चुरण्यति। ३० तुरण त्वरायाम् । तुरण्यति। ३१ भुरण धारणपोषणयोः। ,
Page #371
--------------------------------------------------------------------------
________________
२२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे तृतीवाहिकेरणधारणयोरित्यन्ये । भुरण्यति । ३२ गढ़द वाक्स्खलने । गद्यति । ३३ एला ३४ केला ३५ खेला विलासे । पलायति। केलायति । खेलाय. ति । ३६ एला स्थाने ! ३७ इलेत्यपरे । इलायति । ३८ लेखा स्खलने । लेखायति । अकारान्तोऽयमित्यन्ये । तत्रातोलोपः, लेख्यति । ३९ लिट अल्पकुत्सनयोः। लिटपति । ४० लाट जीवने । लाट्यति । ४१ हणीङ् रोषणे लज्जायाच । कथं नपत्या धरणी हृणीयते' इति श्रीहर्षः । ४२ मही पूजायाम् । अत्र पूजा पूज्यमानकर्तृका तेनायमकर्मकाम. हीयते । पूजामधिगच्छतीत्यर्थः । “मातापितरौ चास्य स्वर्ग लोके म. हीयेते" इति भाष्यम् । ४३ रेखा श्लाघासादनयोः। आसादनं प्राप्तिः प्रा. रणं वा । रेखायति । श्लाघामनुभवत्यनुभावयति घेत्यर्थः । ४४ द्रवस परितापपरिचरण योः। द्रवस्यति । ४५ तिरम् अन्त? तिरस्यति। ४६ अगद नीरोगत्वे । अगद्यति । ४७ उरस् बलार्थः । उरस्यति, बलवान् भवतीत्यर्थः। ४८ तरण गतौ । तरण्यति । ४९ पयस्प्रसृती। पयस्यति । ५० सम्भ्य स् प्रभूतभावे । सम्भूयस्यति । ५१ अम्बर ५२ संवर संभ. रणे । सम्बयंति। संवर्यति । गणरत्नमहोदधौ आकृतिगणत्वात् षषला. दिभ्यो यकि रायति धवल्यतीत्याधुक्तम् । कण्ड्वादीनां तृतीयस्य में इति वक्ष्यते । तेन सनि 'कण्डूयियिषति'इत्यादि।
गुपधूपविच्छिपणिपनिभ्य आयः (पा०सू०३-१-२८)॥ पम्य आ. यप्रत्ययः स्यात् स्वार्थे । गुपू रक्षणे (भ्वा०प०३९५) । गोपायति । धूप सन्तापे (भ्वा०प०३९६)। धूपायति । विच्छ गतौ (तु०प०१४३) विच्छा. यति । विच्छेस्तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो न तु . शप् । तेन 'विच्छायन्ती'विच्छायती इति ।"आच्छी"(पास-७-१-८०) इति नुविकल्पः । अन्ये तु तुदादिपाठसामर्थ्यात्सार्वधातुकेऽप्यस्य आयप्रत्ययो वैकल्पिक इत्याहुः ।
पण व्यणहारे स्तुतौ च, पन च(भ्वा० आ०४४०,४४१) 'पणपन'इति पठनीये 'पन च' इति पृथपाठसामर्थ्यात् स्तुतावेवायम्, तत्साहच. त्पिणेरपि स्तुतावेवायप्रत्ययः । अनुबन्धस्य केवले चरितार्थत्वादाय. प्रत्ययान्तानात्मनेपदम् । पणायति । पनायति । स्तोतीत्यर्थः । व्यव. हारे तु-शतस्य पणते' इति जयादित्यादयः । अन्ये तु व्यवहा. रार्थादप्यायामिच्छन्ति । तथा च मट्टिः-"न चोपलेभे वणिजां प. णायाम्" इति । अस्मिन्नपि पक्षे 'पणिज्यते' 'पणायिष्यति' इत्यादी अनुबन्धः केवले चरितार्थ एव । अत एव पनेरपि आय. प्रत्यये परस्मैपदमेव ।
Page #372
--------------------------------------------------------------------------
________________
प्रत्यधिकारे आयादिविधानप्रकरणम् ।
३६३
ऋतेरीयड् (पा०सू०३-१-२९ ) ॥ ऋतिः सौत्रः तस्मादीयङ् स्यात् । ऋतीयते । ईयङो ङिश्वस्य गुणनिषेधेन चरितार्थत्वेऽपि धातोर्डि दन्तत्वाद्यङन्तादिवात्मनेपदम् । यथा चैतत्तथा "अनुदात्तङितः" ( पा०सू०१-३-१२) इति सूत्र एवावोचाम ।
ऋनेश्छङिति सिद्धे ईयङ्ग्वचनं धातुप्रत्ययानामायन्नादयो नेति शापनार्थम् । तेन शमेः खः 'शङ्खः' इत्यादि सिध्यतीति वृत्तिकारादयः । हरदत्तस्तु “द्विचवनविभज्योपपदे तरप्छसुनौ” इति वक्तव्ये ईयसुन्वचनमधातुप्रत्ययेष्वपि आयनाद्यभावं शापयेदिति प्रतिबन्दिनमाह । तत्र ईयसुन्वचनं प्रक्रियालाघवार्थमेव न तु ज्ञापनार्थम्, आयन्नादीनां निर्विषयतापत्तेः । न च विनिगमनाविरहः, "ण्यक्षत्रिय" (पा०सु०२-४ -५८) इत्यादि सौत्र निर्देशानामेव विनिगमकत्वादिति समाधानं बोध्यम् । ऋतिः सौत्रो घृणायां वर्त्तत इति वृत्तिः । यद्यपि घृणाशब्दो नानार्थः "घृणा जुगुप्सा कृपयोः" इतिवचनात् तथापीह जुगुप्सार्थ एव, ऋतीयाशब्दस्य बीभत्सा पर्यायतया निघण्टुषु पाठादिति हरद चादयः । भट्टमल्लस्तु आख्यातचन्द्रिकायां वृतयिकाण्डे नानार्थवर्गे "ऋतीयते धिग्घृणयोः" इति पठन् नानार्थतामियेष |
"
"अर्तनं च ऋतीया च हृणीया च घृणार्थकाः " ( अ० को३-२-३२) इति वदन्नमरोऽप्यत्रानुकूलः । यदि हि जुगुप्सामात्रार्थत्वमिच्छेतर्हि "हणीया च जुगुप्सने" इत्येव स्पष्टं पटेत् । नानार्थे घृणा · शब्द प्रयुञ्जानस्तु ऋनेरपि तथात्वमभिप्रतीति पदचन्द्रिकाव्याख्याने धातुचन्द्रोदये कृष्णप्रबोधः । आर्धधातुकविवक्षायान्तु ईयङभावपक्षे शेषत्वात्परस्मैपदमेव । आनर्त । नर्तितासि । अर्तिष्य. ति । आर्तीत् । आर्विष्यत् । अत्रात्मनेपदं समुदाहरन् प्रसादका· रस्तु भ्रान्त एव ।
कमेर्णिङ् (पा०सू०३-१-३० ) ॥ स्वार्थे । कामयते । नन्विह "अत उपधायाः" ( पा०सू०७-२-११६ ) इति वृद्धेः "ङ्किति च" ( पा०सू०१-१-५) इति निषेधः प्राप्नोति । न च णित्त्वसामर्थ्यादुखि, "णेरनिटि" ( पा००६-४-७२) इति विशेषणेन चरितार्थत्वात् । न चरितार्थ इति च ङकारोऽप्यात्मनेपदेन वाच्यम्, तावता प्रतिषेधस्य बलीयस्त्वानपायात् । न च कमेर्मिसंज्ञाप्रतिषेधार्थं "न कम्यमिचमाम्' ( ग० सु० ) इतिवचनं वृद्ध्यभावे व्यर्थे सत् वृद्धिमिह शापयतीति वाच्यम्, णिङन्ताच्चिरणमुलीः कृतयोः "चिष्णमुलो दोघी ऽन्यतरस्याम्' (पा०सु०६-४-९३ ) इति
Page #373
--------------------------------------------------------------------------
________________
३६४ शब्दकौस्तुभवतीयाध्यायप्रायसपाचे वृतीवाहिकेबैकल्पिके दीर्घ प्राप्त तनिवृत्त्या मित्वप्रतिषेधस्य सार्थक्यात् । न च तत्र दीर्घग्रहणं परित्यज्य प्रकृतो इस्व एव विकल्प्यताम् , तथाच क. मेर्मित्संहाप्रतिषेधोऽपि मास्त्विति वाच्यम् , णिजन्ताद्यङताद्वा णिचि सति ततश्चिण्णमुलो:-अशमि, अशामि; शमं शमम् , शामम् शासम्; अशंशमि, अशंशामि; शंशम शंशमम, शंशाम शंशामम् इति रूपद्धयः स्य दधिग्रहणं विना अनिर्वाहात् । दीर्घविधिस्प्रति हि णियोर्लोपस्य न स्थानिवत्वं, "न पदान्त' (पा०स०१-१-५८) इति निषेधात् । इस्वविधिम्प्रति तु स्थानिवत्वे सति चिण्णमुल्परस्य णिचः णियः भ्यां व्यवधाने हस्वविकल्पो न प्रवत । यथाश्रुतस्त्ररीत्या चेदम् । पूर्वत्रासिद्धीयेनेत्युत्का सवर्णानुस्वारादिग्रहणं न कर्तव्यमिति पक्षे तु णिजन्ताणिचि ण्याछतेरैक्यात् सिद्धम् । 'शंशाम शंशामम्' इति तु यङ्लुगन्ताण्णमुलिति "न पदान्त' (पा०स०१-१-५८) सत्र एवा. वोचाम । अस्मिनिष्कृष्टपक्षेऽपि “चिण्णमुलो"(पा०स०६-४-९३) इति सवे दीर्घग्रहणं कर्तव्यमेव । तथाहि, हेड अनादरे' घटादिः। (१)एच इक्, हिडयति । अत्र चिण्णमुलोः कृतयोः हस्वे विकल्प्यमाने 'अहिडि, अहे. डि' इति स्यात् । दीर्धे तु अहिडि, अहीडि'इति भवति । एवञ्च कमेरपि चिषणमुलोः दीर्घविकल्पे प्राप्ते तद्यावृत्त्वा कृतार्थो सित्त्वनिषेधो वृद्धिं शापयितुं नालम् । किश्व-"आयादय आर्द्धधातुके वा"(पासू०३-१-३१) इति णिङभावे णिचि कृते वृद्धौ सत्यां"मितां इस्वः"(पासू०६-४-९२) इति इस्वं वारयितुं मित्संज्ञाप्रतिषेधः सर्वथाऽपि नायं वृद्धापकः । तस्मात् "हिति " (पा०प०१-१-५) इति निषेधं वारयितुं कश्चिदु. पायो वक्तव्य इति चेत् ? सत्यम् , उक्त एवासौ तद्धितकाम्योरिकप्र. करणादिति । _ आयादय आर्धधातुके वा (पासू०३-१-३१) ॥ आर्द्धधातुकविः वक्षायामायादयो वा स्युः । जुगोप, गोपायाकार । आनर्त, ऋतीया. अके। कामयाश्चके, चकमे । इह 'आर्द्धधातुक'इति यदि परसप्तमी स्यात् तदा प्रवृत्ता आयादय आद्धधातुके परे पक्षे निवर्तन्त इत्यर्थः स्यात् । तत्र बहवो दोगः। तथाहि-आयप्रत्ययान्तात् स्त्रीभावविवक्षायाम् "अ प्रत्ययात्" (पा०स०३-३-१०२) इत्यकारप्रत्यये . ते आय. निवृत्तिपक्षे 'गोपा' इत्यनिष्टं स्यात् 'गुप्तिः इति चेष्टं न सिध्येत् । तथा ऋतीयशब्दाल्लिटि प्रत्ययान्तत्वेनामि ईयप्रत्ययस्य निवृत्ती 'ऋताञ्चकार' इति स्यात् , 'आनत' इति च न स्यात् ।
(१! 'मिता हस्वः' इत्यनेन ।
Page #374
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे सनाधन्तानां धातुत्वविधिप्रकरणम्। ३६५ तथा अतितासि, अतिप्यति, ऋन्यात् , आत् इत्यादौ परस्मैपदं न स्यात् । तथा तास्यादेरार्दधातुकस्य ईयनिवृत्तिं प्रति निमित्तत्वेन "न धातुलोप" (पा००१-१-४) इति निषेधात् तन्निमित्तो गुणो न स्यात् ।
अयोच्येत-'नानेन निवृत्तिर्विकल्प्यते किन्तु प्रवृत्तिरेव' इति । तत्रापि आयाविविधिभिः सहास्यैकवाक्यता भिन्नवाक्यता वा? माघे गुपादि. भ्य आर्द्धधातुके परे आयो वेत्यर्थः स्यात् । एवमुत्तरत्रापि । ततश्च आ.
धातुक एव विकल्पनायादयः, सार्वधातुके तु नैव स्युः। ___ अयोधेन-गुपादिसूत्र एव आर्धधातुके वेति वक्तव्ये आयादय इति न कर्तव्यमिति लाघवे स्पष्टे सति गौरवं सोया "मायादय आर्धधातुके वा"इति पृथक्सूत्रकरणसामा व्यापारभेदेनैकवाक्यता। ततश्चाय. मर्थ:-गुपादिभ्य आयादयो नित्यं भवन्तीत्युत्सर्गः, आर्द्धधातुके परे तु वा भवन्तीति । एवञ्च विकरणवत प्रत्यये परे आयादयः प्रवर्तरन् । त. तश्च गुपेः क्तिनि आयपक्षे अल्लोपयलोपयोः 'गोपानिः' इत्यनिष्ठं स्यात 'गोपाया' इति चेष्टं न सिध्येत् । तस्माद् दुष्ट एवात्र परसप्तापक्षः।
सनाद्यन्ता धातवः (पा०सु०३-१-३२) ॥ सनादयो णिङन्ताः प्र. स्यया अन्ताश्चरमावयवा येषान्वे संघाता धातुसंशाः स्युः । जुगुप्स. ते । कामयते । “सुप्तिस्तम्" (पासू०१-४-१४) इत्यत्र अन्तग्रहणेन "संक्षाविधी प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तते" (५०भा० २७) इति तत्प्रतिप्रसवार्थमिहान्तग्रहणं न त्वयमपूर्वविधिः, गौरवात् 'देवदत्तश्चिकीर्षति'इत्यादौ देवदत्तादेः समुदायस्य संक्षाप्रसङ्गाच्च । प्रतिप्रसवे तु लाघवमुक्तदोषाभावश्चेति स्पष्टमेव । भूवादयः" (पा. सू०१-३-१) इत्यस्यातन्तरमेव "सनाद्यन्ताश्च" इति न सात्रितं, सना. दीनामियत्तानवगमाताणिङो कारण प्रत्याहारमाश्रित्य "सङस्तान" इति कुतो न सत्रितमिति चेत् ? चादिष्वपि उकारसत्वेन सन्देहा. पत्तेः। इहैव "सनाद्यन्ताः" इत्यस्यानन्तरं "भूवादयश्च" इति त्रयि. तुमुचितं, तथा न कृतमित्येव ।
एतत्सूत्रं भाग्ये प्रत्याख्यातम् । तथाहि-जहत्स्वार्थायां वृत्ती चिकीर्ष जिहीर्ष इत्यादिसाता एवार्थवन्तः तदवयवा अनर्थकाः, "सर्वे सर्वपदादेशाः" इत्यत्र च अर्थवत्येव स्थान्यादेशभावविश्रान्तेः। "ए" (पासू०३-४-८६) इत्यादौ तेस्तुरिति पर्यवस्यतीत्युकम् । एवशेहा. पि करणविशिष्टेप्यर्थस्येषेः प्रसङ्गे चिकीर्षशब्दः, तथा हरणविशिले. व्यर्थवृत्तेः प्रसने जिहीर्षशब्दः, गुपेः प्रसने गोपायशब्दः, पुत्रविशिष्टे. च्छावृत्तेरिषेः प्रसङ्गे पुत्रीयशन इत्यादिपर्यवसाने स्थानिवद्भावेन
Page #375
--------------------------------------------------------------------------
________________
३६६
शब्दकौस्तुभतृतीयाध्यायप्रथमपा तृतीयाहि के
सिद्धं घातुत्वम्, जग्ध्यादिवत् 'पचतु'इत्यत्र तोस्तित्ववच्च ।
स्थादेतत्, स्थानिवत्सूत्रे आदेशशम्देन चिकीर्षादयो प्रहीतुं न शक्यन्ते, आदेशशब्दस्य षष्ठीनिर्दिष्टस्थानिनिवर्गकेग्वेष रूढत्वादिति चेत ? न, स्थानिवदित्युक्त्यैव आदेशस्य लाभे पुनस्तब्रहणसामध्यन अनुमीयमानस्य तेस्तुरित्यादेरिव 'आदिश्यते' इति यौगिकार्थपुरस्को. रेण चिकीर्षादेरपि सुप्रहत्वात । न च पुत्रीयादिरादेशः सुबन्तस्यैव न विषेरिति वाच्यम्, "अणुरपि विशेषः" इति न्यायेन प्रधानसमर्प कस्य इषेरेव तदभ्युपगमात् । "वा क्यष:"(पा०सू०१-३-९०) इत्या. दिलिजैरपि धातुत्वस्यावश्यकत्वे स्थिते तनिहाय इच्छायामाचारे। मुवीत्यादिक्रियासमर्पकाणामेव स्थानित्वनिर्णयाच्चति दिक् ।
स्यतासी ललुटोः (पा०सू०३-१-३३) ॥ ल इति लालटोः सामान्य. ग्रहणम् । धातोः ल इत्यस्मिन् लुटि च परे यथासायं स्यतासी प्रत्ययों स्तः । अकरिष्यत, करिष्यति । श्वः कर्ण । तासेरिकार इत्संबक इति जयादित्यः। तथाहि, 'मन्ताहन्ता' इत्यत्र 'मन् तास मा 'हन् तास आ इति स्थिते टिलोपे कृते डाप्रत्ययम्प्रति तान्तमहं तस्य उपधानकारः, तस्य "अनिदिताम्" (पा००६-४-२४) इति लोपः प्राप्त, वारयितुं तासेरिदित्वमेषितव्यम् । न चाभीयत्वेन टिलोपस्यासिद्धत्वात नकार उपधा नेति वाच्यम्, "आभात्' (पा०पू०ए०६-४-२२) सूत्रस्य भाणे प्रत्याख्यानात् । सूत्रमतेऽपि आभीयस्य असिद्धत्वस्य अनित्यत्वा तत्र च "भलोरलोपः" (पा०स०६-४-१९९) इति तपरकरणं लिहमः। तद्धि 'मास्ताम्' 'आसन् इत्यादी मा भूदित्येवमर्थम् । तत्राटोऽसिद्ध स्वादेव लोपाप्रसको तपरत्वं व्यय सद् असिबत्वस्यानित्यतांशापयति। तेन 'देभतुः 'देभुः' इत्यत्र धन्धिप्रन्थिदम्भिस्वजीनां लिटः कित्त्वाबलोपे तस्यासिद्धत्वाभावाद् एत्वाभ्यासलोपोस्तः । एषशेहापि टिलोपस्या. लिवताविरहे प्राप्तो नलोप इदिवन वायते । न चैवं नुमविधौ धातुः ग्रहणस्य तासिव्यावृत्त्या कृतार्थत्वेन धातूपदेशावस्थायामेव नुम् मव. तीत्ययमों न साधितः स्यादिति वाच्यम्, "नुविधावुपदेशिवचनं प्रत्ययसिध्यर्थम्" इति वचनस्यैव शरणीकरणात, धिन्विन्यो " (पासू०३-१-८०) इति सनुम्कनिर्देशाज शापकाहा । वामनस्तु 'ता. सेरिकार उच्चारणार्थ' इत्याशयेन "इदितो नुम् धातोः" । (पास.. ७-१-५८ ) इति धातुग्रहणं धातपदेशावस्थायामेव नुम् यथा स्यादि. त्येवमर्थ मन्यते । तन्मते 'मन्ता' 'हन्ता' इत्यत्र टिलोपस्यासिद्धावा. मलोपो नेति बोध्यम्।
Page #376
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे स्यादिधिकरणविधिप्रकरणम्। ३६७ इदमिदानी विचार्यते-लकारं निमित्तत्वेनाश्रित्य विधीयमामाः स्यादयो विकरणाः किं लावस्थायामेव स्युः, उत लादेशेषु कृतेवि. ति । आधे पक्षे लावस्थायां तासौ कृते तस्य प्रत्ययायुदात्तत्वे कृते लादेशाः स्युः, ततश्च तेषां स्वरः सतिशिष्टः । ततश्च तासे परस्य लसार्वधातु कस्यानुदासवचनमप्राप्तषिधिरेव स्यात् । एव 'सतिशि. ष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते' इत्यस्यार्थस्य शा. पकमेतदिति बाष्ठः सिद्धान्तो भज्येत । ततश्च-"या दम्पती समनसा सुनुते" इत्यत्र सतिशिष्टस्य विकरणस्वरस्य बलीयस्त्वापत्ती मध्यो. दात्तं तिङन्तं स्यात् । इप्यते स्वन्तोदात्तम् । एवं "प्रीणीताश्वान्" "हिन्वन्ति सूरम्' इत्यादिवपि स्पष्टो दोषः।
द्वितीये तु पक्षे तासिस्वरः सतिशिष्ट इति शेषनिघातेनैव लसा. धातुकानुदात्तत्वे सिखे तासिग्रहणं झापकमिति सिध्यति । किन्तु गमिष्यति' 'पठिष्यति' इत्यादि न सिध्यति । तथा हि, "सार्वधातुके यक्(पासू०३-१-६७) उत्सर्गः, तस्यापवादाः शबादयः स्यादयश्च । तत्र शबादीनामवकाश:-'गच्छति' 'पठति' । स्यादीनान्तु 'गस्यते' 'पठिप्यते' इति । 'गमिष्यति' 'पठिष्यति' इत्यत्रोभयप्रसङ्गे परत्वा. न्छप प्राप्नोति। __ अयोच्येत-यकः शबादीनाच नोत्सर्गापवादभावः, विविक्तवि. षयत्वात् । यग्विधौ हि भावकमग्रहणमनुवर्तते । तच्चावश्यमनुवर्य. म् , 'पचति' 'पठति' इत्यादौ शपि परे यङ् मा भूदिति । एवमपि 'गमिष्यति' 'पठिष्यति' इत्यादि सिध्यतु नाम, यक्पोरुत्सर्गयोः स्यादिभिरपवादैर्वाधसम्भवात् । किन्तु 'देविष्यति' 'सेविष्यति' इत्या. दिन सिध्येदेव । तथाहि, विकरणानां यशपावुत्सौ, तदपवादा: श्यनादयः स्यादयश्च । श्यनादीनामवकाशः-'दीष्यति' 'सीव्यति'। च्यादीनान्तु 'पक्ष्यते' । 'देविष्यति' 'सेवियति' इत्यत्रोभयप्रसङ्गे पर. त्वात श्यनादयः स्युरिति।
अत्र बहुधा समाहितं भाग्ये । तथादि, शबादेशाः श्यनादयः करिष्यन्ते, "दिवादिभ्यः” (पा०स०३-१-६९) इति पञ्चम्या अनुवृ. तायाः कर्तरि शबिति प्रथमायाः षष्ठीप्रकल्पनात् । एवच दिवादिभ्यः स्यादिविषये शबेव नास्ति, स्यादिभिरपवादैर्वाधात् । तदादेशाः श्य. भादयस्तु दुरापास्ता एव । अथवा "दिवादिभ्यः श्यन्' (पा०स०३१-६९) इत्यादिषु स्यादयोऽनुवर्तियन्ते । दिवादिभ्यः श्यन् भवति ललटोस्तु स्यतासी भवतः । दिवादिभ्य इत्येव । एवमप्रेऽपि । एतेन
Page #377
--------------------------------------------------------------------------
________________
३६८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे एतीनलिकेलावस्थायामेष प्राप्नुवन्तः स्यादयः सार्वधातुकोत्पत्ति किमये प्रती. शन्ताम्, ततश्च कथं तासेलसार्वधातुकानुदात्तवाचवस्य उकार्य: झापकत्वं सनाच्छतामिति दृषणं प्रत्युकम्, “सार्वधातुके य' (पा० सु०३-१-६७) इत्यादी अनुवृत्तिवलादेव सार्वधातुकोत्पचे प्रतीक्षणी. पत्वात । अथवा श्यनादयः शबादेशा मा भूषन् मा बानुपर्सन्तान सरत्र स्यादयः । किन्तु देविष्यति' इत्यादौ स्यादान बाधिस्या पर स्वातावल्लादेशाः । म चानिस्यास्ते, आतृतीयाध्यायसमात्विधिना. रार स्थादिभिव्यवधाने धातोः परस्य लस्यामाधेन आदेशाप्रातरिति पाध्यम, धातोर्षिहितस्य लस्येति विहितविशेषणाश्रयणेन लादेशानां नित्यत्वात । एव कृतेषु लादेशेषु उभये प्रसकाः,स्यादवः श्यमादयंश्च । तत्रान्तरात्वात्स्वादय एव भविष्यन्ति न तु श्यन्नादयः, सार्वधातु. कत्वं कर्तरीत्यर्थविशेषच अपेक्षमाणानान्तषी बहिरकत्वात्।।
सिम्बहुलं लेटि (पासू३-१-३४)॥ घात: सिप्प्रत्ययो बहुलं स्यात् लेटि परे । जोषिषत् । जुषी प्रीतिसंवयोः (तु०ioc)। अनुदात्तत् । व्यत्ययेन परस्मैपदम् । लिपट । "लटोऽडाटो" (पा० सू०३-४-९४) इति तिपोऽट् । “इतश्च लोप (पासू०३-४-९७) इती. कारलोपः । बहुलग्रहणानेह-पताति विद्युत् ।
सिब्बहुलन्छन्दसि जिद्वक्तव्यः (का०या० ) ॥ "प्रण मायूषि तारिषद" "मयामिषां सविता साविषत् णिस्वादिः । "देवस्य हेडोऽवयासितीष्ठा" इह यातेरवपूर्वालिङ । बहुलवचनात् सिप् थास् सीयुट् सुद् इट् । “एकाच उपदेशेऽनु दाचात्" (पा०स०७-२-१०) इति निषेधस्तु न भवति, सिपा व्यवधा. नात् । सीयुटः सस्य षत्वाभावश्छान्दसः । “तिङ्कतिक" (पा०स० ८-१-२८) इति निघातः । यच्छब्दयोगे तु 'यासिष्ठिाः ' इति पदमा धुदात्तमेवेष्यते । यद्यपि प्रत्ययस्वरेण यास उदासत्वादन्तोदा पद. म्प्राप्तं, तथापि सूत्रभनेन सिपन्त्यक्त्वा सबयं कर्तव्य इति भाग्योक्तः सपि छते अदुपदेशात् परत्वेन "छन्दस्युभयथा" (पासू०३-४-१९७) इति सार्वधातुकत्वेन च लसार्वधातुकानुदाचत्वादिष्टसिद्धिः। सपः पिस्वाभावे उदासनिवृत्तिस्वरेण इट उदात्तत्वं स्यात् । तस्मा. दिह सपः पित्वादन्तत्वे स्वराथें इति स्थितम् । यथाश्रुतसुत्ररीत्या तु पित्वं व्यर्थमेव । तथाच वार्तिक-"पित्करणानर्थक्यं चानच्कत्वा. त् । इटोऽनुदात्तार्थमिति चेत् ? मागमानुदासत्वात्सिद्धम्" इति ।
"कास्प्रत्ययादाममन्त्रे लिटि' (पासू०३-१-३५) मधातोः
Page #378
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे आमुविधिप्रकरणम् ।
प्रत्ययान्तेभ्यश्च आम् स्याल्लिटि न तु मन्त्रे । कास्ट शब्दकुत्सायाम् ( भ्वा०आ०६२४ ) | कासाञ्चके । लोलूपाञ्चक्रे । अमन्त्रे किम् ? कृष्णो नोनाव | अच्छन्दसीति तु नोक्तम्, ब्राह्मणे इष्टत्वात् । " पुत्रमा मन्त्रयामास" । "अथ ह शुनः शेप ईक्षाञ्चके" (ऐ०ब्रा७ - ३) इत्यादि ।
कास्यनेकाच इति वक्तव्यं चुलुम्पाद्यर्थम् (का० वा० ) । चुलु उपाचार | चुलुम्पतिर्यात्तिककारवचनबलात्साधुः । इहाव्याप्यः तिव्याप्तिपरिहाराय प्रत्ययग्रहणमपनीय तत्स्थाने अनेकाग्रहणं कर्त: व्यमिति प्रागेव व्याख्यातम् । चकासाञ्चकार । दरिद्राञ्चकार । "आत औ पलः " ( पा० सू० ७ - १ - ३४ ) इत्यत्र ओकारे विधातव्ये औकार विधानं "दरिद्रातेरार्धधातुके लोपः" (का०वा० ) इत्याकारस्य लोपेऽपि भकारस्य श्रवणार्थम् । तेन 'ददरिद्रो' इत्यपि भवतीत्याहुः ।
ऊर्णीतेस्तु न भवति, नुवद्भावातिदेशात् । न चैवमपि "इजादेः ? ( पा० सू० ३-१-३६ ) इत्युत्तरसूत्रेणाने काचत्वनिरपेक्ष आम स्यादेः वेति वाच्यम्, “आमश्च प्रतिषेधार्थम्" इति नुवद्भावफलेषु पाठसामर्थ्या. तस्या अध्यप्रवृत्तेः भाष्यकारेण संहितया सूत्रपाठ माश्रित्य 'अनृच्छो: दयायासः' इत्यत्र अनृच्छ उ इत्युकारप्रश्लेषण उकारान्तस्यामुनिषेधाः था । नन्वेवमुशब्दादाचारविवपि " इजादेः " इत्याम पूर्वोदाहृतो माधवाः दिसम्मतश्चानेन भाष्येण विरुध्येतेति चेत् ? न, प्रथमपक्षेण तत्सम्भ वात् । द्वितीयपक्षे तु मा भूदाम्, यथालक्षणमप्रयुक्त इत्यभ्युपगमात् । यद्वा-उश्चासौ उश्वेति प्रश्लिष्टनिर्देशेन उदन्तस्यैव गुरुमतः पर्युदासः । स च “इजादेः "ति सुत्रस्यैव शेषः । तेन वल्गु फल्गुप्रभृतिभ्यः विबन्तेभ्योऽनेकाच्त्वप्रयुक्त आम् भवत्येवेति सर्व सुस्थम् । अत्र काशिका -
३६९
आमोऽमित्वमदन्तत्वादगुणत्वं विदेस्तथा । आस्कासोरामूविधानाश्च पररूपं कतन्तवत् ॥
अस्यार्थः- मित्त्वाभावोऽमित्वम् । आमो मकारस्य " हलन्त्यम्" (प्र०सु०१-३-३) इतीत्संज्ञा न भवति कुतः ? अत् अन्ते समीपे यस्य तथात्वात् । सूत्रे विधानवेलायां समीपे अकारवत्त्वादिति यावत् ।
प्रसङ्गादाह - विदेशमि गुणाभावोऽपि तथा । मदन्तत्वादेवेत्यर्थः । "उषविदजागृभ्यः " ( पा०सू०३-१-३८) इति सूत्रे हि आम्प्रत्ययसनि योगेन विदेदन्तत्वं निपात्यते । तत्रालोपस्य स्थानिवत्त्वात् गुणो न भवति । यदि तु 'विद ज्ञाने' इति धातुपाठ एव अकारो विवक्ष्यते तक्ष 'वेत्ति' इत्यादि न सिध्येत, अकारश्रवणप्रसङ्गात् । इदानीमाम्प्रत्ययस्व
शब्द द्वितीय 24.
Page #379
--------------------------------------------------------------------------
________________
३७० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे तृतीयान्हिकेमास्तवमनीकृत्यापि मिस्वामावे ज्ञापकमाह-आस्कासोराम्विधाना. ऐति । आमः अमिस्वमित्यनुषङ्गः । "दयायासश्च" (०१०३-१-३७) "कास्प्रत्ययात्" (पासू०३-१-३६) इति सुत्राध्यामारकासाराविधा नादमिन्धमामोऽनुमीयते । सति हि मिश्वे आस्कासोराम् मेष अखामम्यादाकारात्परः स्यात् । तथा च सवर्णदीर्घत्वे सति अकि. शिकर स्यादिति भावः । नन्वन्तत्वपक्षे आमामात्र इति निम् स्थादत माह-पररूपमिति । यथा “सर्वत्र लोहितादिकतन्तेभ्यः" (पासू०४-१-१८) इति सूत्रे पररूपं निपातनात् , शकरावादिस्वाहा, पवमिहापीति भावः।
जादेव गुरुमतोऽनृच्छः (पासू०३-१-३६) ॥ इजादियों धातु गुरुमान् ऋच्छतिस्विस्तस्मादाम् स्यालिटि नतु मन्त्रे । हाश्चक । जहाज । इजादेरिति किम् ? तक्ष । गुरुमतः किम् ? इषिय । नन्विहं गुणे ते गुरुमा यस्त्येवेति चेद ? सत्यम् । गुरुमबहने सति "सन्निपात १०भा०८७) परिभाषया इहाम्न, लिडानम्तहे। तुकवाद गुरुमचायाः । यद्वा, 'लिटि' इति विहितविशेषणम् । जा. देणूलमती विहितो यो लिट् तस्मिन्निति । तेन लिणनिमित्ता या गुरुम.
तस्मान भविष्यति । अनुज्छः किम् ? आनच्छ, आनछतु, मान. छुः । अनुच्छ' इति शक्यमकर्तुम् , ऋच्छत्यृताम्" (म०७-४११) शति लिटि परे गुणविधानाल्लिकादेव मामोऽप्रवृत्तः । चत्र 'अच्छति' इत्यनेन अर्तेरेव रितपा निर्देश इति वाच्यम, "ऋच्छत्यताम्।" (पा००७-४-११) इति सवर्णदीर्घण स्वरूपेणैवाः प्रषाद प्रस पेच बहुवचनं प्रमाणम् । अत्र श्लोकवार्तिकम्
वाच्यमूर्गोगुंवद्भावो यप्रसिद्धिः प्रयोजनम् ।
आमश्च प्रतिषेधार्थमेकाचवेडुपमहात् ॥ अत्र यङि भावातिदेशः । आमिटोस्त्वभावातिदेशः, नौ तमो. रंभापा ।इपग्रहपटप्रतिषेधः । "विभाषाऽगुणे" पा०स०२-३-२९) इति पशमी । फलस्थ चात्र हेतुत्वम् 'अध्ययनेन वसत्ति इतिपद। 'एकाच इति वर्तमामे "श्न्युकः किति'' (पा०स०७-२-११) इति य इप्रतिषेधः ततोऽपि हेतोवद्रावो वाच्य इत्यर्थः । प्रोोंनूबते । प्रो. jनाव । प्रोणुतः । प्रोगुंतवान् ।
दयायासश्च (पा०स०३-१-३७) ॥ एभ्य माम् स्यालिटि श्य दानगतिरक्षणेषु (भ्वा००४२) अय गती (भ्वा०मा०४७५)। मास उपवेशने (अआ०११ । प्रयोऽप्यनुदात्तेतः । दयाश्चके । पलायाश
Page #380
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे कृभ्वस्त्यनुप्रयोगप्रकरणम् । ३७२ के । “उपसर्गस्यायतो" (पा०स०८-२-१९) इति लत्वम् । आसाञ्चके ।
उषविदजागृभ्योऽन्यतरस्याम् (पा०सु०३-१-३०) ॥ एभ्य आम् । स्याल्लिटि । उष दाहे (भ्वा०प०६९८)। विद शाने (अ०प०५४)। सत्तावि. चारणार्थयोस्तु आत्मनेपदिनोलाभार्थस्य चोभयपदिनो नेह ग्रहणम्, परस्मैपदिभ्यामुषजागृभ्यां साहचर्यात् । ओषाञ्चकार, उवोष । विदेरिह भाम्सन्नियोगेनादन्तत्वनिपातनाद् गुणो न, विदाञ्चकार, विवेद । जागराधकार, जजागार ।
भीन्हीभृदुवां श्लुवञ्च (पा०सू०३-१-३९) ॥ एभ्यो लिस्याम्वा एर्ण लाविव कार्य च । किं पुनस्तद: द्वित्वमित्वञ्च । बिभयाञ्चकार, बि. भाय । जिन्हयाञ्चकार, जिहाय । बिभराञ्चकार, बभार । जुहबा. अकार, जुहाव । इह द्वित्वम् सर्वेषाम, इन्स्वन्तु बिभः, "भृक्षामित्" (पा०स०७-४-७६) इति श्लौ विधानात् ।
का चानुप्रयुज्यते लिटि (पा०सू०३-१-४०)॥ आमः पश्चात लिड परः कृम प्रयुज्यते । कृषिति प्रत्याहारः "कभ्वस्ति' (पा०स०५-9५०) इत्यतः "को द्वितीय" (पासू०५-४-५८) इति अकारेण । क्षेत्र कभ्वस्तयो प्राहाः।
अत्रच प्रमाणम्-"आम्प्रत्ययवकृमोऽनुप्रयोगस्य" (पासु०१३-६३) इति सूत्रे कृग्रहणम् । अनुप्रयोगसामर्थ्यावस्ते भावो न । अन्यथा हि "भ्वनुप्रयुज्यते” इत्येव ब्रूयात् । याचयांचकार । वाच. पाम्बभूव । याचयामास । इहानुप्रयुक्तस्यास्ते वकर्मणोस्त । तत्र एशि इटि च रूपे विप्रतिपद्यन्ते । तथाहि-उभयत्रापि "ह पति" (Te स०७-४-५२) इति हादेशे कृते 'ईक्षामाहे' इति केचित् । तासिसा. हनादिव्येव हत्वमित्यन्ये । तत्साहचर्यादेव सार्बधातुक एवं पति हत्वम् । तेनोभयत्रापि 'ईक्षामासे' इति रूपमित्यपरे। ___ स्यादेतत्, आमन्तमेतदनभिव्यकपदार्थकं, नह्यस्मात् कारकवि. शेषः सत्याविशेषो वाऽवगम्यसे । तम विशेषसमर्पणाय न्यायत पला. नुप्रयोगलाभात्किमनेन सूत्रेणेति चेत् ।
भत्रोच्यते-क्रियामावविवक्षायां कारकतत्सययोश्चापिक्स पाकप्रेरणा आतेत्यादिप्रयोगास्तावत्सर्वसम्मताः। तत्र तथैव पाया. मइत्येतावन्मात्रप्रयोगे प्रसक्ते तं वारयितुमिदम् । किश्वास्तिभवत्यो. रिव विद्यतरपि प्रयोगे न्यायता प्रसके तमपि वारयितुमेतत् । किश निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिचि सामान्यवाचकानुप्रयोगार्थ सा. सेतत् । अपिच पश्चादेव प्रयोगो यथा स्यात् न तु पूर्वमिति । तेन
Page #381
--------------------------------------------------------------------------
________________
३७२ शब्दकौस्तुमतृतीयाध्यायप्रथमपाद तृतीयान्हिकेचकक्षाम्' इत्यादि न भवति । अपिच अव्यवहित एव पश्चा दावो मुख्यः । तथा च व्यवहितनिवृत्त्यर्थमपीदम् । तेन 'ईमा राजा चक्रे' इत्यादि न भवति । कथन्तर्हि बव्हचब्राह्मणे-"तान् ह राजा मदः यामेव चकार" (ऐ०ब्रा०६) इति ? छान्दसत्वादित्यवेहि । कथन्तर्हि भष्टि काव्ये-"उशाम्प्रचक्रुर्नगरस्य मार्गान्" "बिभयाम्पचकारासौ" इति, कथश्च रघुकाव्ये-"तं पातयां प्रथममास पपात पश्चात" "प्रदंशयां यो नहुषञ्चकार"इति ? प्रमाद एवायम, "विपर्यासनिवृत्यर्थ, व्यवहिः सनिवृत्यर्थच"इति वार्तिकविरोधादित्याहुः।
इहाम्प्रकृतेः कृभ्वस्तीनाञ्च सामान्यविशेषवचनतया तदर्थयो. रमेदान्वयो बोध्यः । अत एव प्रत्याहारेऽन्तर्भूतस्यापि सम्पदोऽनुप्र. योगो न भवति, अनन्वितार्थकत्वात् । यत्तु "सनाद्यन्ता" (पा०सू० ३-१-३२) इत्यतो धात्वधिकारात् धातूपसर्गसमुदायस्य नानुप्रयोग इति । तन्न, एवमपि योऽत्र धातुः पदिः तन्मात्रस्य उक्तरीत्यैव वारणी. यत्वात् । एवञ्च सामान्यस्य सन्निहिते विशेष पर्यवसानात् तद्वतसा. धनादिविशेषाभिधानम् आमन्तगतविशेषाभिधानमेवेति सम्पद्यते । अत एव अनुप्रयुज्यमानयोवस्त्योरामन्तवशेन सकर्मकत्वात् ताभ्यां कर्मणि लिट् । तथाच माघ:-"तस्यातपत्रं बिभरांबभवे" इति । श्रीहर्षश्च
अपर्तुपूर्वावपि नेदसाम्भरा विभावरीभिर्बिभराम्बभूविरे । इति ।
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् (पा०पू०३-१-४१) ॥ वेर्लोट्याम् , मुणाभावः, लोटो लुक्, लोटपरस्य कृतोऽनुप्रयोगश्च वा निपात्यते । इतिशब्दः सर्वेषां लाड्वचनानामुपलक्षणार्थः । सूत्रे प्रथमपुरुषबहुव चनप्रयोगस्तु प्रचुरप्रयोगत्वमात्रेण । विदाङकरोतु । विदाकुरुताम् । विदाकुर्वन्तु ।
अभ्युत्सादयाम्प्रजनयाश्चिकयांरमयामकः पावयाक्रियाविदामक. निति च्छन्दसि (पा०प०३-७-४२) ॥ एते छन्दसि वा निपात्यन्ते । सदिजनिरमीणां प्यन्तानां लुड्याम्प्रत्ययः । चिनोतेरपि शुद्धस्य लुब्धाम् , द्विर्वचनं, कुत्वञ्च । 'अकः' इत्यनुप्रयोगः प्रत्येक चतुर्भिः सम्बध्यते । पवतेः पुनातेर्वा ण्यन्तस्य आशीर्लिङि आम्, क्रियात्'इत्यः नुप्रयोगश्च । विदेर्लुङयाम, गुणाभावः, 'अकन्' इत्यस्यानुप्रयोगश्च । 'अंकः' इति को लुङितिप् । “मन्त्रे घस" (पासू०२-४-८२) इति ग्लेलुकि तिपो "हल्यादि'' (पा०स०६-१-६८) लोपः । 'अन्' इति तत्रैव बहुवचनम् । अभ्युत्सादयामकः। अभ्युदसीषद पति पश्चेभाषायां
Page #382
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे ब्लिविधानप्रकरंगे ।
। प्रजनयामका, प्राजीजनत् । चिकयामकः, अत्रैषीत् । रमयामकः) अरीरमत । पावयांक्रियात, पाव्यात् । विदामकन्, अवेदिषुः। इति श्रीशब्दकौस्तुभे तृतीयाध्यायस्य प्रथमे पादे तृतीयमान्हिकम् ॥
लि लुङि (पा०४०३-१-१३) ॥ धातोश्लिप्रत्ययः स्यात् लुङि परे । इकारो.लेरिति सामान्यग्रहणार्थः । चकारः स्वरार्थ इत्युत्तरसूत्रे स्फुटीभविष्यति । अस्यादेशाः सिजादयो वक्ष्यन्ते । नन्वेवं किं.लि. प्रत्ययेन ? सिजेवोन्सर्गः प्रत्ययोऽस्तु, तदपवादाश्च क्सादयः सन्तु । न च-"मन्त्रे घस"(पासू०२-४-८२) इतिसूत्रेसर्वधातुषुलेरित्येकेनैव नि. पोहे लाघवार्थ चिलः कर्तव्यः । अन्यथा हि घस्नगमर्थमङो ग्रहणम् । आकारान्तेषु धेटोऽन्तर्भावाचदर्थ चङो ग्रहणम् । तस्य हि "विभाषा धेटश्योः " (पा०९०३--१-४९) इति चङस्ति । धात्वन्तरार्थ सिचो प्रहणम । यदि तु जनेः “दीपजन" (पा०सु-३-१-६१) इति विहितस्य विणो लुक् छन्दसि दृश्यते ततस्तस्यापीत त्रीणि चत्वारिं वा प्रह। पाशनि कर्तव्यानि स्युरिति वाच्यम, ग्लिपक्षेऽपि "लि लङि" "कले: सिच्" (पा०पू०३-१-४३,४४) "मन्त्रे घस" (पा००२-४-८१) इति सत्रेषु मिलित्वा चिलच्लेर्लेरिति त्रयाणां ग्रहणस्य तुल्यत्वात् । न चो. करीत्या साम्येऽपि ग्लिपक्षे लाघवान्तरमस्ति, "गातिस्था" (पा०स० २-४-७७) इति सूत्रे 'सिच' इत्यपनीयतस्थाने 'ले' इत्यभिा च्य - म. मेघसादिसत्रे तस्येवानुवर्तनादिति वाच्यम्, एवं हि वदन् अकृतेम्वेव सिजाद्यादेशेषु तदपवादो लेरेव लुमित्यभिप्रेषि, किंवा आदेशेषु कृतेषुः स्थानिवद्भावो नेति ?
नाद्यः, 'अगु' 'अस्थुः' इत्यादौ सिचः परत्वाभावेन "सिजभ्यस्त" पा०स०३-४-१०९) इति जुसोऽप्रवृत्तिप्रसङ्गात् । न च "आतः" (पा० सु०३-४-११०) इति जुस्, तत्रापि 'सिच' इत्यस्यानुवृत्तेः।।
अथोच्येतं, “आतः" इति सत्रे सिग्रहणं नानुवर्तते, तथाच 'अगुः' इत्यादौ विध्यर्थ तत् न तु नियमार्थम् , व्यावाभावात् । न च 'अभूवन्' इति व्यावर्त्यम्, तत्र जुसः प्राप्तेरेवाभावात । न च "सिजभ्य. स्त" (पासू०३-४-१०९) इति प्राप्तिः, लावस्थायामेव लुगिति पक्षस्य इदानी परिगृहीतत्वात् । न चैवम् 'अवान्' इत्यत्रापि "आतः" (पा सु०३-४-११०)इति नित्यो जुस् स्यादिति वाच्यम्, "लङः शाकटायनः स्यैव" (पासू०३-४-१११) इति नियमाद्विकल्पोपपत्तेरिति । एवमपि 'मा हि गानां" मा हि स्याताम' इत्यादिषु आदिःसिवोऽन्यतरस्याम'
Page #383
--------------------------------------------------------------------------
________________
३७४
शब्दकौस्तुभ तृतीयाध्यायप्रथमपादं चतुर्थान्हिके
तस्माल्लावस्थायां
(पा०सु०६-१-१७८) इत्येष स्वरो न सिद्धयेत् । लोप इति प्रथमः पक्षो दुष्ट एवेति स्थितम् ।
"
न द्वितीयः एवं हि सति "विभाषा घ्राधेट्" (पा०सु०२-४-७८) इति सूत्रेणापि च्दयादेशानामेव लुक्, इति घेटश्वङोऽपि स स्यात् । तत्र यदा "विभाषा धेट्योः " (पा०सू०३-१-४९) इति बने विकल्पितत्वेन पक्षे सिचि कृते तस्य लुगलुकौ, तदा अ. धात्, अधासाम्, अधुः । अधासीत्, अवासिष्टाम् अधासिषुः इति सिद्धमिष्टम् । चङोऽपि लुगभावपक्षे अवधत्, अदधताम्, अदधन् । इति सिद्धम् । लुकपक्षे तु "न लुमता" (पा०सू०१-१-६३) इत्यङ्गाधिकारनिर्देश इति मते प्रत्ययलक्षणेन द्विर्वचने 'अदधात्' इत्यपि चतुर्थ रूपं स्यात् । "न लुमता" (पा०सू०१-१-६३) इति नाङ्गाधिकारनिर्देशः, किं त्वाङ्गमनाङ्गं वालुमता लुप्ते प्रत्यये परे पूर्वस्य प्राप्तं सर्वे निषिध्यत इति मुख्यपक्षे तु बड़े लुकि द्वित्वाप्रवृत्तौ सिज्लका तुल्यमेव रूप• मिति 'अधात्' इत्यादौ यद्यपि न दोषः, तथापि बहुवचने 'अघान् 'हस्यनिष्टमपि चतुर्थं रूपं स्यादेव, इष्यते तु त्रैशन्द्यम् 'मधुः, अधाखिषुः, अधन् इति । न च चो लुकि "आतः" (पा०सु०३-४-११०) इति जुम् भविष्यतीति वाच्यम्, तत्र 'सिचः' इत्यस्यानुवृत्तेः । अन्यथा ता नियमार्थताऽनुपपत्तौ 'अभूवन्' इत्यत्र प्रत्ययलक्षणेन "सिजभ्यस्त" (पा०सु०३ -४ -१०९) इति जुस्प्रसङ्गात् । ननु "ब्ल्यभ्यस्तविदिभ्या" इति वक्ष्यामि । एवञ्च चङ्लुक्यपि च्लेः परत्वाज्जुस् भविष्यति । "आवः” (पा०सु०३-४ -११०) इति सुनेऽपि लिग्रहणानुवृत्यैव बिय मात् 'अभूवन्' इत्यत्र जुस् न भविष्यति । 'मा हि गाताम्' इत्यादौ "आदि। सिखः” (पा०सू०६-१-१८७) इति स्वरोऽपि सिद्धः । एवञ्च कृतेष्वादेशेषु लुगिति पक्षो निर्बाध पवेति चेत् ? न, यदि "ब्ल्यस्वस्त" इति ब्रूने सर्दि फ्साङ्चङ्क्षु दोषाप्रत्तेः। अधुक्षन्, अवोचन्, अश्धन्, अत्रापि हि जुस् प्राप्नोति । तस्मात्सिजभ्यस्तेत्येव वक्तव्यम् । "आतः” ( पा०सु०३-४११०) इत्यत्र च सिग्रहणमनुवर्त्तनीयम् । एवञ्च बङ्लुकि बहुवचने 'अधान्' इति प्राप्नोतीति दोषः स्थित एव । तस्मात् "मातिस्था" (पा०
:
०१-४-७७ ) इत्यत्र सिच इत्येव वक्तव्यम् । ततश्च च्लिपक्षे ऽपि फिलचले. हैसित त्रयाणां ग्रहणं तुल्यमेवेति स्थितम् । प्रत्युत कलेरकरणे महल्लाघवम् | "मन्त्रे घस" (पा०सु०२-४-८१) इत्यादिसूत्रे हि अरु एष प्रह णं कर्तव्यम् । सिच् तु "गातिस्था" (पा०सू०२-४-७७ ) इति सुत्रादनु वर्त्यः । धेटो जनेश्च चत्रिणो वैकल्पिकों, तत्र यानि लगुदाहरणानि
Page #384
--------------------------------------------------------------------------
________________
प्रत्ययाधि कारे ब्ल्या देशविधानप्रकरणम् ।
तानि सिव एव लुका सिद्धानि । न चैवम् "आदिः सिचो ऽन्यतरस्याम्" (पा०६-१-१८७) इति स्वरः स्यादिति वाच्यम्, चड्चिणोग्रहणेऽपि पाक्षिकस्य तस्य दुर्वारस्यात् । तस्मात् "च्लि लुङि" इति सूत्रं व्यर्थमेवेति चेत् ! अत्राहुः, असति ब्लौ " मन्त्रे घस" (पा०सू०२ - ४ -८१ ) इत्यत्र येभ्यः सिचो लुक् तेषाम् "आदि। सिनः" (पा०स्०६-१-१८७) इति• स्वरः स्यात् । सति त्वस्मिन् 'ले:' इति लावस्थायामेव लुकि सिजमा. बाद्यथायथं स्वरः । किञ्च आकारान्तेभ्यः सिचो लुकि जुस प्राप्नोति लेस्तु लुकि अन्तिभाव एव भवति । अपि च, "शल इगुपधात्" (पा०
०३ - ४-४५) इति सूत्रे अनिष्टः इत्यमेन डिलं विशेषयतुमपि लिरेचुम्बः । असति हि ब्लौ 'अनिदः' इति धातोरेव विशेषणं स्यात् । ततः इच 'अघुसव' इति न सिद्ध्येत् । मनूदित्वादिविकल्पे पाक्षिकेण्डमा वेन अनिडेवायमिति चेत् १ तर्हि नित्यं क्सः स्वात् । ततख 'अमुहीत' इति न सिद्ध्येत् । 'अनिटः' इति कलेर्विशेषणे तु यदा ब्लिरमिट् तक्ष क्सः, यदा खेट् तदा सिजिवि सिद्धमिष्टम् । तस्मात् यथावयं स्वरोतिचागुडीदिति ब्लेः फलमिति स्थितम् ।
३७५
भाष्ये तु चिलः प्रत्याख्यातः । यत्तूतम्, "आदिः सिचः " (वा०सु० ६-१-१८७) इति स्यादिति, तन, तस्य वैकल्पिकतया इष्टस्वरस्य मि.
त्यात्, सर्वविकल्पानां छन्दसि व्यवस्थितत्वेन अनिष्टस्या नापाद्यत्वात् । यदपि आकारान्तेभ्यो जुन स्यादिति । तदपि भ, मन्त्रे ताशस्वोदाहरणस्याभावात् । अत्र च भाष्यकारीयप्रत्याख्यानमेव प्रत्राणम् । यदपि 'अगुहीत्' इति न सिद्धेयदिति । तदपि न, गुहादयो विकल्पितेद टो भावाऽभावाभ्यां भिद्यन्ते । तत्र ये सेटः तेभ्यः सिच्, अनियस्तु क्स इति भगवद्भाष्यकाराशयस्य कैयटेन वर्णितत्वात ।
ब्लः सिच् (पा०सू०३-१-४४) ॥ च्लेः सिजादेशः स्यात् । इकार उच्चारणार्थ इत्संज्ञको वेति पक्षद्वयमपि "हनः सिच् (पा०सू०१ -२-१४) इत्यत्र प्रतिपादितम् । चकारः स्वरार्थः । मा हि लावीत् । अत्र हि "आगमा अनुदात्ता" इति इटोऽनुदात्तत्वं प्राप्तं स्थानिन्यादेशे द्विचित्करणाद्वाध्यते । यतु केचित्-प्रत्ययस्वरस्य द्वावपवादों आगमा
दासत्वं चित्स्वरा । तत्र माद्यं यासुद्विधौ ज्ञापितं तद्देशम्, चि. त्वरस्तु षाष्ठः। तत्रापवादविप्रतिषेधे परत्वाच्चित्स्वर एव सिद्ध्यति सकि सिचचित्वेनेति । तन्न, आगमानुदात्तत्वं हि मानुगादिषु प्रकृत्यागमेष्वपीष्यते । कुण्डिनजादीनाश्च चित्स्वरः, तत्कथमिमी प्रत्यय
Page #385
--------------------------------------------------------------------------
________________
३७६ शब्द कौस्तुभ तृतीयाध्याय प्रथमपादे चतुर्थान्हिके
स्वरस्यापवादौ स्याताम् ? किञ्च इह चित्स्वरस्य परत्वमपि नास्ति, स्थानिवदित्यस्य कार्यातिदेशत्वात् । तस्मादागमानुदात्तत्वेन अविशेबात्सर्वः स्वरो बाध्यत इति तद्बाधनाय सिचश्चित्त्वम् । न च च्लेश्चित्त्वसामर्थ्यादेव तद्वाधः, "मन्त्रे घस" (पा०सु०२- ४८१ ) इति सूत्रे 'ले:' इति सामान्यग्रहणेन तस्य चरितार्थत्वात् । अन्यथा हि निरनुबन्धकस्वादस्यैव ग्रहणं स्यात्, न लिटः । ततश्च "आमः" (पा०सु०२-४-८१) इति सूत्रे निरनुबन्धकस्य लेरसम्भवात् लेरिति नानुवर्त्तेत । ततश्च परस्वादन्तरङ्गत्वाच्च निबादिषु पश्चाल्लुकि 'कारयाम्' इत्यस्य प्रत्ययलक्षणेन तिङन्तत्वात् 'देवदसः कारयाञ्चकार, इत्यत्र आमन्तस्य निघा तः ततः परस्य चानिघातः स्यात् । तस्मात् "आम:" इत्यत्र 'ले:' इत्य. नुवर्त्यमेव । तदर्थञ्च पूर्वत्र सामान्यग्रहणं वाच्यम्, तदविघाताय च्ले. अकारश्चरितार्थः । च्लेः प्रत्याख्यानपक्षे तु सिच एव वित्त्वनानन्यान मागमानुदात्तत्वं बाध्यते ।
स्पृशमृशकृपतृपसृपः सिज्वेति वक्तव्यम् (का०वा० ) ॥ स्पृश स्पर्शने (तु०प०१४२), मृश आमर्शने (तु०प०२४५), कृष विलेखने (स्वा०५०१० १५) एभ्यः कसे प्राप्ते तृप प्रीणने, टप हर्षविमोचनयोः (दि०प०८९, ९०) माभ्यां पुषादित्वादङि प्राप्ते सिजपि पक्षे अभ्यनुज्ञायते । अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत् । अम्राक्षीत्, अमार्क्षीत्, अमृक्षत् । अक्राक्षीत्., काङ्क्षत, , अकृक्षत् । अत्राप्सीत्, अतासीत्, अतृपत् । अद्राप्सीत, अदालत, अपत् । प्रक्रियाकौमुद्यान्तु प्रकृतवार्त्तिके सृपिमपि प्रक्षिप्य 'अस्रासीत्, 'असासीत्,' इत्यपि रूपद्वयमुदाहृतम् । तन्तु अप्रामाणिकत्वादुपेक्ष्यम् ।
अका
1
शल इगुपधादनिटः क्सः ( पा०सू०३-२-४५) ॥ शलन्त इगुपधा यो धातुः तस्मात्परस्य अनिटइचलेः क्लः स्यात् । दुह्-अधुक्षत् | लिहूअलिक्षत् । शलः किम् ? अभैत्सीत् । इगुपधात्किम् ? अधाक्षीत् । अनिटः किम् ? अकोषीत् । च्लेः प्रत्याख्यानपक्षे तु 'अनिटः' इति धातोरेव विशेषणमिति प्रागेवोक्तम् । यद्यपि अकृत एव कसे लावस्थायां गुणः प्राप्नोति, तथापि इगुपधादिति विशेषणसामर्थ्यान्न भवति । न च कृते . ऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सोऽस्त्विति वाच्यम्, कित्करणवैयर्थ्यापत्तेः । न च " क्सस्याचि" (पा०सु०७-३-७२ ) इत्यत्र विशेषणार्थं तत्, “सस्याचि" इत्येव सिद्धेः । न चैवं वृतृवदिहनिकमिकषिभ्यः से 'वत्से' 'वत्सा' इत्यत्र प्रसङ्गः स्यादिति वाच्यम, "लुग्दा दुह" (पा०स्०७ - ३-७३ ) इत्यत्रापि हि 'सस्याचि' इत्यतः 'स
Page #386
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे ज्यादेशविधानप्रकरणम् ।
३७७
स्य' इत्यनुवर्तते । एवञ्च दुहादिषु यस्य सम्भवः तस्यैव पूर्वसूत्रेऽपि प्रहणमिति सुवचत्वात्। तस्मारिकत्करणसामर्थ्याद् गुणो नेतिस्थितम् ।
श्लिष आलिङ्गने (पासू०३-१-४६) ॥ अत्र योगा विभज्यतेश्लिषः ॥ श्लिषः परस्य अनिटश्च्लेः क्सः स्यात् । पूर्वेणेव प्राप्त. स्य क्सस्य पुषाद्यका बाधे प्राप्त इद मारभ्यते । पुषादिपाठसामर्थ्यात्पक्षे अङ् । एवञ्च अङ्लयोः सर्वत्र विकल्प प्राप्त आलिङ्गनानालिक. नयोरविशेषेण क्से च प्राप्ते नियमार्थ द्वितीयो योगः
आलिङ्गने ॥ शिलषः परस्यानिटश्लेयोऽयं क्सादेशः स आलिङ्गने एव, न त्वर्थान्तरे । एवं चार्थान्तरे सावकाशोऽङ् आलिङ्गने क्सेन बाध्यते । अश्लिक्षत् कन्यां देवदत्तः । आलिङ्गन एवेति किम् ? समाश्लिषजतु काष्ठम् । इह अव । प्रत्यासत्तौ हत्र शिलषिर्वर्तते न तूपगूहनपरिष्वङ्गापरपर्याये आलिङ्गने । उपाश्लिक्षातां जतुना काष्ठ । नन्विह "शल इगुपधात्" (पासू०३-१-४५) इति क्सो दुर्वारः । आलिङ्गने एवेति नियमेन हि 'अनन्तरस्य' (पा०भा०६३) इति न्यायन श्लिष इति या प्राप्तिः अबाधनार्था सैव नियम्यते न तु ततः प्राचीनमपीति चेत् ? न, योगविभागसामर्थ्येन सर्वस्याः क्सप्राप्तेः नियमनात् । आत्मनेपदं च अडोऽप्राप्तेः सिजेव पर्यवस्यति । नन्वेवमपि आलिङ्गनएवेति आदेशनियमोऽयमिति कुतः, अर्थनियम एवायं किं न स्यात् आलिङ्गने कप्त एवेति । ततश्चालिङ्गने अङ् मा नाम भूत् । आत्मनेपदे तु अनालिङ्गनऽपि पूर्वेण सो दुर्वार एवेति चेत् ? सत्यम, उभयथेह नियमसम्भवेऽपि प्रत्ययानयम एवाश्रीयते, लक्ष्यानुरोधात् विधयवि. भक्तिनिर्देशन प्रधानत्वाद्वा भाष्यकारोक्तव्याख्यानाद्वेति न कश्चिद्दो. षः। श्लिष इति योग अनिटः किम् ? 'श्लिष आलिङ्गने' (दि०प०८०) इत्यस्यैव ग्रहणं यथा स्यात् । 'श्लिषु पृषु प्लुषु दाहे' (भ्वा०प०७०३) इत्यस्य सेटो ग्रहणं मा भूत् । सानुबन्धकत्वादेव तदग्रहणे तु 'अनि. टः' इति नावश्यकामिति दिक् ।
श्लिष इति योगविभागसिद्धश्च कसः "पुरस्तादपवाद" (प०भा० ६१) न्यायेन अङमेव बाधते न तु चिन्तन 'समाश्लेषि कन्या देवद. त्तन' इति चिणेव भवति । __ न दृशः (पासू०३-१-४७)। हशः च्लेः क्लोन स्यात् । अदर्शत् । अद्राक्षीत् । "इरितो वा'' (पासू०३-१-५७) इत्यपक्षे "ऋदृशोऽङि' (पा०सू०७-४-१६) इति गुणः । सिच्पक्षे "सृजिहशाझलि" (पा० सू०६-१-५८) इत्यम् ।
Page #387
--------------------------------------------------------------------------
________________
३७८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाहिके
णिश्रिद्रुषुभ्यः कर्तरि चङ् (पासू०३-१-४६) एभ्यश्च्लेश्व स्यात् कर्तृवाचिनि लुङि परे । 'णि' इति णिणिचोः सामान्य प्रह णम् । अचीकमत । अचीकरत् । अशिधियत् । अदुद्रुवत् । असुत्रवत् । करि किम् ? अकारयिषातां घटी देवदत्तेन । चङो कारो गुणनिषे. धार्थः । चकारचङीति विशेषणार्थः । अङीत्युच्यमाने "अस्यतिव. कि" (पासू०३-१-५२)इत्यङि "षिद्भिदादिभ्यः" (पासू०३-३-१०४) इति चाङि अतिप्रसनः । यदि तु "णिश्रि" (पा०९०३-१-४८) इत्यादौ एष क्रियेत तदा शक्यं चित्वमकर्तुम् ।
कमेरुपसंख्यानम् (काभ्वा०) || "मायादय आर्द्धधातुके पा"इति पदाणिङ् नास्ति तदर्थमिदम् । अचकमत । अत्र भाग्यम्
नाकमिष्ट सुखं यान्ति सुयुक्तैर्वडवारथैः ।
अथ पत्काषिणो यान्ति येऽचीकमत भाषिणः॥ अस्यार्थः । अचकमताचीकमतेति शब्दयोः साधुत्वे तुल्येऽपि 'अ. चकमत' इत्यस्य विशेषलक्षणसापेक्षतया तत्प्रयोगे क्लेशाधिक्यात्फलाधिक्यम् । तेन कमेटुंङि कि रूपमिति पृष्टे 'अचकमत' इति ये ब्रयु. स्ते सुयुक्तैः रथैः स्वर्ग यान्ति । यैस्तु 'अचीकमत' इत्युक्तं ते पादौ कषन्तीति पत्काषिणो यान्ति । "हिमकाषिहतिषु च" (पासू०६-३५४) इति पादस्य पदादेशः। ____ अन्ये तु व्याचक्षते । अकमिष्टेति यैरुक्तं ते एवोपचारादक. मिष्टशब्देनोच्यन्ते । तेऽमी सुयुक्तैर्वडवारथैर्गच्छन्तोऽपि मुखं न प्राप्नुवन्ति, अपशब्दोच्चारणात । अचीकमतभाषिणस्तु पत्का. षिणोऽपि सुखं यान्ति ।
विभाषा धेट्रव्योः (पा०सू०३-१-४९.) ॥ आभ्यां च्लेश्वङ् वा स्यात् । अदधत् । सिच्पक्षे "विभाषा घ्राधेट' (पा०सू०२-४-७८) इति वा लुक् । अधात् । अधासीत् । अशिश्वियत् । पक्षे "जस्तम्भु" (पासू०३-१-७८) इत्यङ्। "श्वयतेरः" (पासु०७-४-७८) अश्वत् । सिचि वृद्धेः प्रतिषेधे गुणः । अश्वर्यात । कर्तरीत्येव, अधिषातांगावी वत्सेन । कर्मणि द्विवचनम् । “स्थाध्वोरि" (पासू०१-२२७) इति कित्त्वेत्वे।
गुपेश्छन्दसि (पासु०३-१-५०) ॥ गुपेः परस्य ब्लेश्चङ् वा स्यात् छन्दसि । आयप्रत्ययाभावस्थल एवेदम्, मूत्रे केवलस्योच्चार णात् । इमानो मित्रावरुणो गृहानजूगुपतं युवम् । गुप् रक्षणे (भ्वा० प०३९५) लुङ् थसस्तम् । "तुजादीनां दीर्घोऽभ्यासस्य" (पा०म०६
Page #388
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे ब्ल्यादेशविधानप्रकरणम् । १-७) इति अभ्यासदीर्घ इति हरदत्तः । कल्पसूत्रेषु तु प्रायेण -हस्व एव पठयते । पक्षे अगोप्तम्, अगोपिष्टम् । ऊदित्वादिडभावे "पदवः ज" (पा०सू०१-२-३) इति वृद्धिः । "झलो झलि" (पा०म०८-२-२६) इति सिचो लोपः । इट्पक्ष "नेटि" (पासू०७-२-४) इति वृद्धिनिषेधः, गुणः । आयप्रत्ययपक्षे-अगोपायिष्टम् । इति चत्वारि छन्दसि । भाषाया. न्तु चङन्तं वर्जयित्वा त्रीणि रूपाणि ।
नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः (पा०सू०३-४-५१) ॥ एभ्यो ण्यन्तेभ्यः च्लश्च न स्यात् छन्दसि । “मा त्वायतो जरितुः का. मननयीः" । त्वायतस्वामिच्छनो जरितुः स्तोतुः मम काममभिलाषं मा उनयोः ऊनं मा कार्षीरित्यर्थः । 'मा ऊननः' इति भाषायाम् । ऊन परिहाणे (चु०प०३५६)। चुरादावदन्तः । णिच् सिप चङ् णो कृतस्याल्लोपस्य स्थानिवद्भावात् 'अजादेर्द्वितीयस्य" (पासू०६-१-२) इति नशब्दस्य द्विवचनम् । अग्लोपित्वान्न सन्वद्भावदीर्घोपधाह्रस्व. स्वानि । इह वृत्तिपदमार्योः प्रायेण औनिनत हति पाठः । तत्र अभ्यासे इकारः प्रामादिकः । इदञ्च "द्विर्वचनेऽचि'' (पा०सू०१-१-५१) इति सूत्रे म्फुटीकृतमस्माभिः । “मा त्वाग्निर्श्वनयीद धूमगन्धिः"। ध्वन शु. ब्दे (चु०प०३५७) चुरादिरदन्तः । घटादिनान्तश्च । भाषायां तु अग्लोपित्वान्न सन्वत् । अदध्वनत् । घटादेस्तु अनग्लोपित्वात् अदिध्वनत् । ऐलयीत् । ऐलिलत् इति भाषायाम् । इल प्रेरणे (चु०प०१२७) चुरा. दिः। आर्दयात् । आर्दिदत् इति भाषायाम् । अर्द गती याचने च (भ्वा०प०९२७) अर्द हिंसायाम् (चु०उ०२९६) हेतुमण्ण्यन्तौ । इह सूत्रे 'छन्दसि' इत्यस्यानुवृत्तिवृत्त्यादिमहाग्रन्थसंमता । तथा च भट्टिः___अजिग्रहत्तं जनको धनुस्तद्येनार्दिददैत्यपुरं पिनाकी । इति ।
प्रक्रियाकौमुद्यां तु द्वयमपि लोके इत्युक्तम् । छन्दसीति नानुव. र्सते, विभाषेति चानुवर्तत इति तदाशयः । इदश्चाशुद्धम्, सूत्रे नमओ यापत्तेः सकलमहाग्रन्थविरोधाश्त्यास्तान्तावत । __ अस्यतिवक्तिख्यातिभ्योऽङ् (पा०सू०३-१-५२) । असु क्षेपणे (दि. १०९३); वच परिभाषणे, (अ०५०५२) बूझो (अ०उ०३४) वचिश्च ज्या प्रकथने (अ०प०५०), चक्षिङः (अ०आ०७) आदेशश्चेति प्राचः । वस्तुतस्तु सार्वधातुकमात्रविषयः ख्यातिः । इह त्वादेशस्यैव प्रहणम् । एभ्यश्च्लेरङ् स्यात् कर्तृवाचिनि लुङि परे। अस्यतेः पुषादिपाठादेव अङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम् । पर्यास्थत, पर्यास्थताम, पर्यास्था त। "उपसदस्यत्युह्योर्वावचनम्" (काभ्वा०) इत्यात्मनेपदम् ।
Page #389
--------------------------------------------------------------------------
________________
३८० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थादिकेअङ्। अस्यतेस्थुक् । कर्मकर्तरि तु प्रत्यये परत्वाश्चिण , अन्यत्र अझ् । पासिं, पर्यास्थताम, पर्यास्थन्त । अवोचत, अवोचताम, अवोचन् । "वच उम्" (श०स०७-४-२०) । अख्यत्, अख्यताम् , अख्यन् “आतो लोपः" (पासू०६-४-६४) कर्तरीति किम् ? कणि मा भूत्, चिण्. सिचावेव यथा स्याताम् । निरासि, निरासिषाताम्।
लिपिसिचिवश्च (पा०सू०३-१-५३) ॥ एभ्यश्च्लेरङ् स्यात् । लिप उपदेहे (तु०उ०१५३) अलिपत् । षिच क्षरणे(तु०उ०१५४)। असिचत् । व्हे स्पर्द्धायां शब्दे च (भ्वा०उ०१०३३)। अव्हत् । “अस्यतिवक्तिख्याति. लिपिसिचिव्ह" इति तु नोक्तम् , एकसूत्रत्वे हि अस्यत्यादीनामपि उत्त. रस्त्रे अनुवृत्तौ विकल्पः स्यात् । ___ आत्मनेपदेवन्यतरस्याम् (पा०४०३-१-५४) ॥ पूर्वेण नित्ये प्राप्ते विभाषेयम् । अलिपत , अलिप्त । असिचत, असिक्त । अङभावे सिन् । "झलो झलि” (पासू०८-२-२६) इति सलोपः। “लिङ्सिचौ' (पा० सू०३-७-५३) इति कित्वाद् गुणाभावः । अव्हत, अव्हास्त ।
पुषादिद्युतालदितः परस्मैपदेषु (पासू०३-७-५५) ॥ श्यन्वि. करणपुषादेर्युतादेलादेतश्च परस्य च्लेरङादेशः स्यात्परस्मैपदेषु। पुष पुष्टी, शुष शोषणे, (दि०५०७६,७७) इत्येवमादिरादिवादिगणसमाप्तः पुषादिः । यन्तु मध्ये 'ष्णिह प्रीती (दि०प०९४) वृत् इति वृत्करणं तद्र धादिसमाप्त्यर्थम् । "अस्यतिवक्ति"(पासू०३-१-५२) इति सूत्रे "अस्य. तिग्रहणमात्मनेपदार्थ पुषादित्वात्" इति वार्तिककारवचनं चात्र प्रमा. णम् । अपुषत् । अशुषत् । यस्तु भूवादिःपुष पुष्टी, श्रिषु श्लिषु प्रुषु प्लुषु दाहे (भ्वा०प०७१,-७५) इत्येवमादिः, सोऽत्र न गूहाते, द्युतादीनां पृथक्करणाज्ज्ञापकात् । ते हि तत्र पुर्षरुत्तरत्र पठ्यन्ते । योऽपि पुष पुष्टी, मुष स्तेये (क्या०प०५७,५८) इति क्रयादिषु पठितः, सोऽप्यत्र न गृह्यते । तत्र हि चत्वार एव धातवः । यदि च ते जिघृक्षिताः स्युल. दित एव ते क्रियेरन् । यन्तु स्वरितेत्त्वादेरपि तेनैव सिद्धत्वादिति हरदननोक्तम्, तत्र तेषां निरनुबन्धकत्वात् ग्रहः स्वरितत्त्वेऽप्यादिश. ब्दार्थालाभात् । अङ आदिशब्दार्थन्वे तु अपिशब्दार्थालामादिति दिक् । ___ अथ सिद्धान्तेऽपि पुषादयो द्युतादयश्च लादेत एव कुतो न पठिता इति चेत ?न, प्रत्येक लकारपाठे विपरीतगौरवापत्तेः।न चानुसन्धा. स्तरेण लकारो निमातुं शक्यः, तत्तकार्यानिर्वाहप्रसङ्गात् । आदिता. मीदितामुदितामूदिताञ्च तत्र सस्वा । तद्यथा-पुषादिषु निविदा पत्रप्रक्षरणे (दि०५०८२), मदी हर्षे (दि०प०१२)। शमु उपशमे, (दि०५०
Page #390
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे कल्यादेशविधानप्रकरणम् ।
३८१
९५) विधू राठी (दि०प०८६) इति पठ्यन्ते । द्युतादिष्वपि शिवता वर्णे; ञिमिदा स्नेहने, ञिष्विदा स्नेहनमोचनयोः (स्वा०आ०३४३, -३४५), स्रंसुध्वंसु अवस्रंसने ( वा०आ०३५५.३५६), स्पन्दू प्रस्रवणे, कृपू सामर्थ्ये (स्वा०आ०७६२,७६३) इति पठ्यन्ते । अद्युतत । अश्वितत् । "शुद्भ्यो लुङि” (पा०सू०१-३-९१) इति पाक्षिकं परस्मैपदम् । गम्ल (स्वा०प०१००७) अगमत् । परम्मैपदेष्विति किम् ? अद्योतिष्ट । इह "नन्दिग्रहिपचादिभ्यः " ( पा०सु०३-१-१३४) इतिवत् पुषद्युतादीत्येक एवादिशब्दः पठितुं युक्तः । तथा तु न कृतमित्येव ।
सर्तिशास्त्यर्तिभ्यश्च ( पा०सू०३ - १ - ५६) || एभ्यश्च्लेरङ् स्यात् । शासु अनुशिष्टौ (अ०प०६५) अस्यैव ग्रहणम्, सत्र्त्यर्तिभ्यां परस्मैपदिभ्यां साहचर्यात् । न तु 'आङः शासु इच्छायाम्' (अ०आ०१२) इत्यात्मनेपदिन इह ग्रहणम् । अर्तिसत्यरपि "क सृ गतौ” (जु०प०१६,१७ ) इति जौहोत्यादिकयोरेवेह ग्रहणम्, अविद्यमानशपा शासिना साहचर्यात् । तेन भौवादिकयोः सिजेब । चकारेण 'परस्मैपदेषु' इत्य नुकृष्यते । तच्चो त्तरार्थं न त्विहान्वेति पृथग्योगकरणसामर्थ्यात् । अन्यथा हि "पुषादि घुताद्द्लदित्सर्तिशास्त्यर्तिभ्यः" इत्येव पठेत । एवं हि पृथग्विभक्तिनिर्देशश्चकारश्व न कर्त्तव्यो भवति । अथवा मण्डूकप्लुत्या उत्तरत्रैव पर स्मैपदग्रहणं सम्भन्त्स्यते । यद्वा 'इहानुकृष्टं सत् परस्मैपदे दृष्टो यःशासि' इति व्याख्येयम् । “शास इदहलोः " ( पा०सू०६-४-३४) इति सूत्रे कैयटग्रन्थोऽप्येवं नेयः । सर्ति-असरत् । 'ऋदृशोऽङि" (पा०सु०७-४ १६) इति गुणः । अशिषत् । " शास इदहलोः " ( पा०सु०६-४-३४) "शासिवसि” (पा०सू०८ - ३ - ) इति षत्वम् । आरत । समन्यवो यत्समरन्त सेनाः । " समो गभ्युच्छिभ्याम्" ( पा०सू०१-३-२९) "अर्त्तिरशिभ्यश्च" (का०वा० ) इति वार्त्तिकेनात्मनेपदम् । " बहुलं छन्दस्यमाङ्योगेऽपि” (पा०सू०६-४-७५ ) इत्यडभावः ।
इत्यत्र
समारन्त ममाभीष्टाः सङ्कल्पास्त्वय्युपागते ।
इति भट्टिः । यन्तु “समो गम्यृच्छि” (पा०सू०१-३-२९) इत्यत्र भाष्ये सिजुदाहरणं तद्भवादिकस्येति तत्रैवावोचाम ।
इरितो वा (पा०सू०३-१-५७ ) ॥ इरितो धातोश्च्लेरङ् वा स्यात् परस्मैपदेषु । अभिदत् । अभैत्सीत् । परस्मैपदेषु किम् ? अभिप्त । स्वरितत्त्वात्तङ् ।
जस्तम्भु म्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ( पा०सु०३-१-५२ ) ॥ एभ्यइब्लेरङ् वा । अजरत्, भजारीत् । स्तम्भुः सौत्रो धातुः ।
Page #391
--------------------------------------------------------------------------
________________
३८२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाहिकेअस्तभत् , अस्तम्भीत् । म्रुचु म्रुचु गतौ (भ्वा०प०१९५।१९६) अम्रु. चत -अम्रोचीत् । अम्लुचत, अम्लोचति । ग्रुचु ग्लुचु, स्तयकरणे (भ्वा०प०१९७-१९८)। अग्रुचत्, अग्रोचीत् । ग्लुञ्चु षस्ज गतौ (भ्वा०. प०२०१-२०२) । अग्लचत,अग्लुश्चोत् । अश्वत्, अश्वयीत् । अशिश्वि. यत् । “विभाषः धेश्योः " (पा.सु.३-१४१) इत्यत्र व्युत्पादितमेतत् । ग्लुचुग्लुश्चोरेकतरोपादानेनापि रूपत्रयं यद्यपि सिद्धयति , तथापि ग्लु चावुपाते 'अग्लुचत् 'अग्लुंगत्' इति द्वयम् । ग्लुचेस्तु सिचि अग्लोचीत्। तथा ग्लुचावुपाते तस्याग्लुचत्, अग्लोचीत् । ग्लुचस्त्वग्लुचीदिति । तथापि अर्थभेदात्सुत्रकृता उभावुपातौ । भाष्यकृता तु धातूनामने. कार्थत्वेनेष्टसिद्धिमाश्रित्य अभ्यतरो न कर्त्तव्य इत्युकम् । एतेन द्वयोरु. पादानसामर्थात् ग्लुश्चेरनुनासिकलोपो न भवति जयादित्यापन्य. स्तङ्केषां चिन्मतं परास्तम, भाग्यविरुद्धत्वात् ।
कृमृडरुहिभ्यश्छन्दसि (पा०स०३-१-५१)॥ एभ्यश्च्लेरङ् वा स्याच्छन्दसि । अकरत् । अमरत् । गत्ययेनेह परस्मैपदम् । अदरत् । यत्सानोः सानुमारुहत् । यत्तु ऋग्माये इमामृचं व्याचक्षाणरुक्तम्-रुहे लङितिपि शपि "संशापूर्वको विधिरनित्यः" (प०भा०२५) इति लघु पधगुणो न भवतीति, तत्प्रौढिवादमात्रमित्यवधेयम् । लोके तु-अका. र्षीत् । अमृत । अदारीत् । अरुक्षत् ।
चिण्ते पदः (पासू०३-१-६) ॥ पद गती (दि०आ०६०) अस्मात् ब्लश्चिण स्यात् तशब्दे परे । आत्मनेपदैकवचनमेवात्र गृह्यते न तु "तस्थस्थमिपाम्"(पासू०३-४-११) इति विहितः वातोरात्मनेपदित्वेन तस्यहासम्भवात् । वेति निवृत्तम् , उत्तरत्र अन्यतरस्यांग्रहणात् । उद. पादि सस्यम् । समपादि भैक्षम् । त इति किम् ? उदपत्साताम् । उदपत्सत ।
दीपजनबुधपूरितायिष्यायिभ्योऽन्यतरस्याम (पा०सू०३-१-६१) । एभ्यश्च्लेश्चिण वा स्यात्ते परे । अदीपि, अदीपिष्ट । अजनि, अजनिष्ट । अबोधि, अबुद्ध । अपूरि, अपरिष्ट । अतायि, अतायिष्ट । अप्यायि, अप्यायिष्ट । । जनी प्रादुर्भावे (दि०आ ४३), बुध अवगमने इत्यनयो. दिवाद्योरिह ग्रहणम् । यत्तु जन जनने (दि०मा०६६) भ्वादिः, बुध बोधने (भ्वा०५०८८३) बुधिर् बोधने (भ्वा०3०१००) भ्वादी, तेषां नह प्रहणं नित्यात्मनेपदिभ्यां दिवादिभ्याञ्च दीपिपरिभ्यां साहर्चेयण ताह. शयोरेव जनिवुध्योग्रहणात् । यन्तु अकर्मकसाहचर्यादकर्मकयोरेवेति माधवेनोकम् । तचिन्त्यम् , "क्रमादमुं नारद इत्वबोधि सः" "अबोधि
Page #392
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे च्ल्यादेशविधानप्रकरणम्।
३८३
तजागरदुःखसाक्षिणी" इत्यादिप्रयोगविरोधात् । अयश्च विकल्पः कर्तर्येव । भावकर्मणोस्तु नित्यश्चिण, परत्वात, इह कर्तरीत्यनुवृत्ते । ___ अचः कर्मकर्तरि (पासू०३-१-६२) ॥ अजन्ताद्धातोश्लोश्चिण वा स्यात्कर्मकर्तरि तशब्दे परे। प्राप्तविभाषेयम् । अकृत मा कटः स्वयमेव । अलावि अलविष्ट वा केदारः स्थयमेव । अच इति किम् ? अभदि काष्ठं स्वयमेव । कर्मकर्तरीति किम् ? अकारि कटो देवदत्तेन ।
दुहश्च (पासू०३-१-६३) ॥ दुहश्च्लेश्चिण वा स्यात्कर्मकर्तरि तशब्दे परे । अदोहि अदुग्ध वा गौः स्वयमेव । चिण भावे, "लुग्वा दुह" (पासू०७-३-७३) इति क्सस्य वा लुक् । पक्षे अधुक्षत । कर्मकर्तरीति किम् ? शुद्धकर्मणि चिव यथा स्यात् । अदाहि गौर्गोपालकन । अप्राप्तविभाषेयम्, "न दुहस्नुनमा यचिणी" (पासू०३-१-८२) इति चिणः प्रतिषेधात् । तत्र दुहिग्रहणं यक्प्रतिषेधार्थम् । चिण्ग्रह. जन्तु स्नुनमर्थम् ॥
न रुधः (पा०सू०३-१-६४) ॥ रुधश्च्लेः कर्मकर्तरि चिण न । अरुद्ध गौः स्वयमेव । शुद्ध कर्मणि तु-अरोधि गौगोपालकेन । रुधिर आवरणे (रु००१) इत्यस्यैवात्र ग्रहणं न तु अनो रुध कामे इत्यस्य, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात् । __तपोऽनुतापे च (पा०स०३-१-६५) ॥ ब्लश्चिण न स्यात कर्मकर्तरि मनुतापे च । अनुतापः पश्चात्तापः, तस्य ग्रहणमकर्मकर्षर्थम् । तत्र हि भावकर्मणोगपि प्रतिषेधो भवति । "कर्मवत्कर्म"(पा०सू०३-१-८७) इति कर्मवद्भावातिदेशस्थलेऽपि-अतप्त तपस्तापसः, तप आर्जिजदित्यर्थः । अत्र "तपस्तपःकर्मकस्यैव" (पासू०३-१-८८) इति कर्मवद्भावातिदे. शात्प्राप्तिः । अनुतापे-अन्वतप्त पापेन । पूर्व यत्पापं कर्म कृतं तेन पश्चा. दभ्याहत इत्यर्थः । शुद्ध कर्मणि लकारः । पापेनेति कर्तरि तृतीया । कर्माविवक्षायां शोकार्थे वा तपो भावे लकारः। हेतौ तृतीया । यदा तु अभ्याहननार्थस्य तपेः कर्मस्थभावकस्य कर्मफर्ता विवक्ष्यते तदा "कर्मवत्कर्मणा' (पासू०३-१-८७) इत्यतिदेशादात्मनेपदम् । तदापि हेतो तृतीया ।
चिण भाषकर्मणोः (पासू०३-१-६६) ॥ धातोग्लोश्चिण स्यात् भाव. कर्मवाचिनि तशब्दे । अशापि भवता । अकारि कटस्त्वया। चिण. प्रहणं स्पष्टार्थम्, "चिण ते पदः" (पा०सू०३-१-६०) इत्यतस्ते इत्य. स्येव चिणग्रहणस्याप्यनुवृत्तेः। यन्तु “दीपजन" (पासू०३-१-६०) इस्यत्र अन्यतरस्यांग्रहणं, तत् "न रुधः" (पा०९०३-१-६४) इत्यत्रैव
Page #393
--------------------------------------------------------------------------
________________
३८४
शब्द कौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाह्निके—
निवृत्तम् । अन्यथा नञो वैयर्थ्यापत्तेः । न च प्रतिषेध एव इहानुवर्त्ततेति वाच्यम्, तस्य प्राप्तिपूर्वकत्वात्, भावकर्मणोश्च केनापि चिणः प्राप्तेरभावात् । न च "श्लिषः" इति विभक्तेन योगेन विधीयमानः क्लः पुत्राद्यङमिव इमं चिणमपि बाधेत, अतोऽत्र चिणेव यथा स्यात् क्लो मा भूदित्येतदर्थे पुनश्चिण्ग्रहणमिति प्रकृतसूत्रे भाष्यारूढं प्रयोजनम स्त्येवेति वाच्यम्, तस्यापि पाक्षिकत्वात् । समुदायापेक्षायां ह्येतदु· तम् । अवयवापेक्षायां पुरस्तादपवादन्यायेन श्लिषेः क्सोऽङमेष बा धते न तु चिणमिति प्रागेवोक्तम् ।
सार्वधातुके यक् (पा०सू०३-१-६७ ) ॥ भावकर्मवाचिनि सार्वधा तुके परे धातोर्यक् स्यात् । आस्यते । शय्यते त्वया । "अयङ् यि ङ्किति" (पा०सु०७-४-२२) इति शङिऽयादेशः । क्रियते कटः ।
६६ कर्मणि यक् भवतीत्यस्यावकाशः शुद्धं कर्म - पच्यते ओ. दनः । कर्तरि शपोऽवकाशः शुद्धः कर्ता । कर्मकर्तर्युभयप्रसङ्गे— यग्विधाने कर्मकर्तर्युपसंख्यानम् तर्हि कर्तव्यम् । न कर्तव्यम् । कार्यातिदेशात्सिद्धम् । कर्मवत्कर्तरीत्यनेनैव हि यगात्मनेपदादीनि विधीयन्ते इति यगेव परः 1 शास्त्रातिदेशपक्षेऽपि "न दु. हस्नुनमां यचिणौ ” ( पा०सु०३-१-८९) इति ज्ञापकात् कर्मकर्तरि यगेव भविष्यति ।
अत्रेदमवधेयम्, भावकर्मकर्त्तारो लकारार्थाः । “लः कर्मणि च भावे चाकर्मकेभ्यः' (पा०सू०३-४-६९) इति सूत्रात् । तत्र हि चकारेण 'कर्तरि' इत्यनुकृष्यते । तश्च वाच्यार्थसमर्पकमिति पूर्वसूत्रे स्थितम् । उत्तरत्रापि “तयोरेव कृत्य " ( पा०सू०३ - ४ -७० ) इत्यत्र तथैवेति सन्दंशास्प्रायपाठाच्च मध्येऽपि वाच्यसमर्पकतैवोचिता प्रधानभूतधात्वर्थाश्रयः कर्ता, फलाश्रयश्च कर्म, फलव्यापारयोश्च धातुनैवोपात्तत्वात् । अःश्रयमात्रं लकारार्थः, अनन्यलभ्यस्यैव शब्दार्थत्वात् । ततश्च तिङामपि स एवार्थः तेषां लादेशत्वात् स्थान्यर्थाभिधानसमर्थस्यैव चादेशत्वात् । विकरणास्तु द्योतकाः । तत्रापि शबादयो धात्वर्थे व्यापारे आश्रयस्थ विशेषणतां द्योतयन्ति यचिणौ तु फले । ननु विपरीतमेवास्तु, "कर्तरि शप्" ( पा०सु०३-१-६८) इत्यादेरप्यनुशासनस्य स्वरसेन शबादय एव वाचकाः, लकारास्तु द्योतका इतीति चेत् ? न, आशीलिर्डि लिटि च अदादिजुहोत्यादिषु च शबाधभावेऽपि तत्प्रतीतेः । यद्यपि —
क्वांचीचङामभावेऽपि प्रतीयन्ते त्रयोऽप्यमी ।
Page #394
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे विकरणविधानप्रकरणम् ।
३८५
नशाम्यकारिगच्छेति चिणशप्सन्निधिमात्रतः॥ अधोगविभरित्यादौ घातुमात्रेऽपि कर्तृधीः । तथाप्यासत इत्यादौ धात्वभावेऽपि कर्तृधीः ॥ तथापि तत्र परमते लुप्तस्मृतं बोधकम् । अस्माकन्तु यः शिष्यते स लुप्यमानार्थाभिधायीत्युक्ताभ्युपगमात सर्व सुस्थम् । तत्र कर्तृक. मणी पवन तिङ् तनिष्ठां सङ्ख्यामपि प्रतिपादयतीति कर्तृकर्मणोद्वित्वे बहुत्वे च द्विवचनबहुवचने भवतः । भावे लस्तु असत्त्वावस्थापनां धा. स्वर्थभूतां क्रियामेव अभिधत्ते द्योतयति वेति तत्र प्रथमपुरुषेकवच. नमेव भवति, न मध्यमोत्तमौ, युष्मदस्मत्सामानाधिकरण्याभावात् । नापि द्विवचनबहुवचने, द्वित्वबहुत्वयोरप्रतीतेः । एकवचनन्तु उत्सर्गः करिष्यत इति भाप्याद्भवति । अत्र बहुवचनेत्यप्युत्सर्गः, 'उष्ट्रासि. का आस्यन्ते' 'हतशायिकाः शय्यन्ते' इत्यत्र भाष्ये तदभ्युपगमात् । उष्ट्राणां हि आसिकाः स्वरूपत एव विलक्षणाः, हताश्च नानाप्रकारं शेरते उनाना अवताना विकीर्णकेशा विस्रस्तवस्त्रा इत्यादि । त. साम्यादाख्यातवाच्यस्यापि भावस्य स्वरूपंगतभेदावभासादहुवचनं भवत्येव । विशब्दप्रयोगमन्तरेणापि इवावगतिर्भवति, परत्र परश. दः प्रयुक्त इति न्यायात । तदयमर्थः-'यादृशानि हतानामनेकप्रका. राणि शयनानि ताशानि देवदत्तादिभिः क्रियन्ते' इति । एवश्वेह 'आसिका 'शायिकाः' इति द्वितीयाबहुवचनान्तं, क्रियाविशेषणत्वेन कर्म. स्वातन चैवं क्लीबत्वमेकवचनं च स्यादिति वाच्यम्,"स्त्रियां तिन्" (पासू०३-३-९५) इत्यधिकारात् स्त्रीत्वावधारणेन "सामान्ये नपुं. सकम्" (कावा०) इत्यस्याप्रवृत्तेः, बहुत्वावधारणेन च एकवच. नाप्रवृत्तरिति दिक्।
के चिन्तु 'कर्मण्ययं लकारः' इति मन्वाना आसिकाशायिकाशब्दो प्रथमान्तावित्याहुः । तथाहि, आसिकाशायिकयोर्भावतया कालभावाध्वगन्तव्य इति कर्मत्वे 'गोदोहः सुप्यते' इतिवत् कर्मणि लः। उष्ट्रासिकाहतशायिकयोध आख्यातप्रकृत्युपस्थिते आसनशयने प्रति परि। च्छेदकत्वेनान्वयः, गोदोहस्येव स्वापे । परिच्छेदकत्वं च आसिकाशा यिकयोः सादृश्यद्वारकं, गोदोहस्य तु कालोपाधिनेत्यन्यदेतत् । एतच विवक्षान्तरे भवत्येवेति कैयटादयः। ___ भाष्यकारैस्तु भावेऽपि लविधाने बहुत्वं स्वीकृतमित्युक्तम् । न चैवमाख्यातषाच्यस्य भावस्य असत्वावस्थापनतेति सिद्धान्तो भज्ये. तेति वाच्यम्, लिङ्गायोगस्य करणादिकारकायोगस्य चेह असत्वाध.
शब्द. द्वितीय. 25.
Page #395
--------------------------------------------------------------------------
________________
३८६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाहिकेस्थात्वेन विवक्षितत्वात् । अत एव पचति भवति, पच्यते भवति, पश्य मृगो धावति' इत्यादौ वाक्यार्थभूतायाः क्रियायाः क्रियान्तरं प्रति कर्तृत्वकर्मत्वाभ्यामन्वयेऽपि न काचित् क्षतिः । न चैताव. ता घनादिसाम्यं, घत्रादिवाच्यो हि भावः सलिङ्गा यथायथं सकल. कारकान्वितश्चेति वैषम्यस्य स्पष्टत्वात् । अत्र वैषम्ये अनुभवबलक ल्प्यः शब्दशक्तिस्वभाव एव नियामकः। तदेतदुक्तम्-"कृदभिहितो भा. वो द्रव्यवत्प्रकाशते" इति । कृत्स्वपि तुमुनादौ न सत्त्वार्थकत्वम् । एतच "अव्ययकृतो भाव" इति वार्तिके स्फुटीभविष्यात । अनव्ययकृत्स्वपि 'शयितव्यं भवद्भिः' इत्यादौ एकत्वसंख्याया एवान्वयः, न तु द्वित्वादेरि त्यादि यथानुभवं यथाकरश्च विवेकव्यम् ।
करि शप् (पा०सू०३-१-६८) ॥ कर्तृवाचिनि सार्वधातुके परे धातोः शप स्थात् । पकारः स्वरार्थः ङित्वप्रतिषेधार्थश्च । शकार सार्वधातुकार्थः "शपश्यनोः"(पा०सू०७-१-८१) इत्यादौ विशेषणार्थश्च । पचति । पठति । कर्तृग्रहणं "कर्मवकर्मणा" (पासू०३-१-८७) इत्यत्रो; पयोक्ष्यते । इह तु सार्वधातुके शए भवतीति सामान्यविधानेऽपि न क्षतिः, भावकर्मणोर्यगादेरपवादत्वात् कर्तर्येव शपः. पर्यवसानात् । न च यग्विधौ भावकर्मग्रहणं नानुवर्चत इति वाच्यम् , 'पचति' इत्यादी शबादिमेव निमित्सत्वेनाश्रित्य यकः प्रसङ्गात् ।
दिवादिभ्यः श्यन् (पा०सू०३-१-६९) ॥ शपोऽपवादः । दीव्यति । सीव्यति । मृग अन्वेषणे (चु० आ०३६८) इति चुरादाबदन्तेवात्मनेपदी पठ्यते। तस्य
पयःपारावारं परमपुरुषोऽयं मृगयते ।
इत्यादि भवति । दिवादिष्वपि पाठात् 'मृग्यति' इति.साधुः । कण्ड्: वादिषु वा मृगशब्दो द्रष्टव्यः' इति हरदचादयः।
वा भ्राशभ्लाशभ्रमुकमुषलमुत्रसित्रुटिलषः (पा०स०३-७-७०) ॥ एभ्यः श्यन् वा । टुभ्राशु टुझ्लाश दीप्तौ (भ्वा०आ०८४९,८५०) । भ्रमु अनवस्थाने (दि०प०९९) भ्रमु चलने (भ्वा०प०८६५) द्वयोरपि ग्रहणम् । क्रमु पादविक्षेपे (भ्वा०प०५७४) ।लम् ग्लानौ (दि०५०१०१)। त्रसी उद्वे. गे(दिपा०११) । त्रुटी छेदने (तु०प०९५) । लष कान्ता (भ्वा०उ०९१३)। इह अनवस्थानार्थो भ्रमिः क्लमित्रसी च दिवादयः। त्रुटिस्तौदादि कः । इतरे भौवादिकाः । अत उभयत्र विभाषेयम् । भ्राश्यते, भ्राशते । भ्लाश्यते, भ्लाशते । भ्राम्यति, भ्रमति । देवादिकस्य भ्रमेः "शमामः ष्टानां दीर्घः श्यनि" (पासू०७-३-७४) इति श्यनि दीर्घः । भौवादिक.
Page #396
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे विकरणविधानप्रकरणम् । ३८७ स्य तु न भवति, अशमादित्वात् । काम्यति, कामति । "क्रमः परस्मैप. देषु' (पा०सू०७-३-७६) इति दीर्घः । अयश्च शिति' इत्यनुवृत्तेः शपि श्यनि च भवति । कौमुद्यान्तु 'क्रमो दीर्घः स्याच्छपि' इति व्याख्या. य श्यनि हस्व एवोदाहृतः। तदशुद्धमेव । क्लाम्यति, क्लामति । "ष्टिवु. क्लमुचमां शिति" (पा०स०७-३-७५) इति दीर्घः। क्लमेर्दिवादिपाठः पुषादिकार्यार्थः । कौमुद्यान्तु भौवादिकस्य तु 'क्लमति' इत्युक्तं तदपाणिः नीयमेव । त्रस्यति, सति । त्रसेर्दिवादिपाठे फलं चिन्त्यमिति हरदत्तः । त्रुट्यति, त्रुटति । लष्यति, लषति ।
यसोऽनुपसर्गात् (पासू०३-१-७१) ॥ अनुपसर्गाचसेः श्यन् वा स्यात् । यस्यति, यसति । अनुपसर्गात्किम् ? आयस्यति । प्रयस्यति । इह नित्यं श्यन् , यसु प्रयत्ने(दि०प०१०४) इत्यस्य देवादिकत्वात् ।
संयसश्च (पासू०३-१-७२) ॥ सम्पूर्वाधसेः श्यन्वा । संयस्यति, संयसति । इह “यसः संयसश्च" इत्येव वक्तुं युक्तम् , सोपसर्गाश्चेत् संयस एव न तु प्रयसादेः" इति नियमेनेष्टसिद्धः। __ स्वादिभ्यः श्नुः (पासू०३-१-७३) ॥ स्पष्टम् । सुनोति । षिञ् ब. न्धने (स्वा०उ०२,क्षां०उ०५) इत्यस्य स्वादो क्रयादौ च पाठात् 'सि. नोति, सिनाति' इत्युभयं भवति ।
श्रुवः शच (पा०सू०३-१-७४) ॥ श्रुवः श्नुः प्रत्ययः स्यात्तत्सन्नि. योन 'शृ' इत्ययमादेशश्च । शृणुतः, शृण्वन्ति ।
अक्षोऽन्यतरस्याम (पा०सू०३-१-७६)॥ अक्षु व्याप्तौ (भ्वा०प०६५५) भौषादिकः । अस्मात् श्नुर्वा स्यात् । अक्ष्णोति, अक्षति ।
तनूकरणे तक्षः (पा०स०३-१-७७) । नुर्वा स्यात् । काष्ठं तक्ष्णो. ति, तक्षति वा । तनूकरणे किम् ? सन्तक्षति, वाग्भिर्भसंयतीत्यर्थः।
तुदादिभ्यः शः (पासू०३-१-७५) ॥ तुदति। नुदति । 'तुद-ति' नुद्-ति' इति स्थिते परत्वात्प्राप्तं गुणं नित्यत्वाच्छो बाधते ।
रुधादिभ्यः श्नम् (पासू०३-१-७८) एभ्यः इनम् प्रत्ययः स्यात्। मित्वादन्याचः परः। तक्रकौण्डिन्यन्याऐनायं शपं बावते । शकार "श्नानलोपः" (
पासू०६-४-२३) इति विशेषणार्थः। "नानलोपः" इत्युच्यमाने 'यज्ञाना' 'यत्नानाम्' इत्यत्रापि स्यात् । न च "नाभि (पा०स०४-४-३) इति दीर्घत्वे कृते "नात्" इति व्यपदेशामावान भ. विष्यतीति वाच्यम् , एकदेशविकृतस्यानन्यत्वेन सत्यपि दीधै 'नात' इति व्यपदेशसम्भवात् । किञ्च परत्वालोपेनैव भाव्यम् । न च ततोऽपि परत्वात् "सुपि च" (पासू७-३-१२) इति दीर्घोऽस्त्विति पाध्यम्,
Page #397
--------------------------------------------------------------------------
________________
३८८
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थानिक
"सन्निपात' (५०भा०८७) परिभाषया तस्य नाम्यप्रवृत्तेः न चैवं रा. माणामित्यादौ "नामि" (पा००६-४-३) इति दीर्घोऽपि न स्यादेवेति वाच्यम्, आरम्भसामाधामीति दीर्घे कर्तव्ये सन्निपातपरिभाषाया अप्रवृत्तः । "सुपि च" (पासू०७-३-१०२) इति दीर्घस्तु “रामाभ्याम्' इत्यादौ चरितार्थः सन्निपातपरिभाषां बाधितुं नेष्टे। यन्तु हरदपेनो. कं 'कष्टाय' इति निर्देशात्सामान्यपेक्षशापकाहीघों भविष्यति, एवमपि तस्य पूर्वस्माद्विधी स्थानिवत्वानशब्द एवायमिति नलोपा स्यांदेवेति । तच्चिन्त्यम् , सामान्यापेक्षेण हि सापकेन परिभाषायाःका. चित्की अप्रवृत्तिरिति लक्ष्यानुरोधासिध्यतु. नाम, औत्सर्गिकी तत्प्रवृ. तिः किमर्थमिह त्याज्या । 'यत्नानाम्' इत्यादिलक्ष्यसियर्थमेवेति चेत? सत्यपि दीधै लक्ष्यं न सिध्यतीति समनन्तरमेवाक्तत्वात् स्वयमपि ल. स्यासिद्धर्वक्ष्यमाणत्वाश्च । किञ्च "पूर्वस्माद्विधौ" इति अतिस्थवीयः, तस्य हि पूर्वस्मानिमित्तत्वेनाश्रितादित्यर्थः स्थितः। पञ्चहामादि. ष्टादचः पूर्व नकारव्यञ्जनमात्रं न तन्निमित्तत्वेनाश्रितम , यच्च निमि. सं नकाराकारसंघात: नासावनादिष्टादचः पूर्व इति, यत्किश्चिदेतत् । तस्मात्प्रागुक्तविधया एकदेशविकृतस्यानन्यत्वात्प्राप्तिः । दीर्घात्यागेष ऐति विशेषणार्थःशकारः । न चैवमपि 'विश्नानां 'प्रश्नानाम्' इत्यः प्रातिप्रसङ्गः, अनर्थकत्वात् । न च विकरणेऽप्येवमेवेति वाच्यम् , एक. देशिमते तस्य वाचकत्वात । मुख्यमतेऽपि द्योत्येनार्थनार्थवत्वात् । मत एव प्रत्ययसंक्षाया अन्वर्थत्वेऽपि श्नमि तत्प्रवृत्तौ "लशकु" (पासू० १-३-८) इति शस्येत्संज्ञा सिध्यति । किञ्च "लक्षणप्रतिपदोक' (१० मां०९९५) परिभाषयाऽपि 'विश्नाना' इत्यादौ नातिप्रसङ्गः । तस्मात "श्नाबलोपः" पा००६-४-२३। इति विशेषणार्थः इनमः शकार इति स्थितम । न चार्धधातुकसंज्ञानिवृत्यर्थोऽपि सोऽस्तु, सत्यां हि तस्यां मनक्ति, भनक्ति, अतो लोप: स्यात् । रुणद्धि, भिनत्ति, गुणः स्यात् । हिनस्ति, तृणढि, इडागम: स्यात् । “नेड् वशि" (पासू०७-२-८) इति तु नेह प्रवर्तते, अकृत्त्वादिति चेत ? न, सत्यप्यादधातुकत्वे. त्यभावात् । न च लोपो गुण इड् वेति त्रितयं स्यादित्युकमिति चेत् । न, त्रितपस्याप्यागमत्वात् , इनमः पूर्वभागस्य चामरवाव। तथाहि, "यस्मात्प्रत्ययविधिः" (पा०स०१-४-१३) इत्यस्यायमर्थ:-प्रत्यये बि. धीयमाने यत्पतम्या निर्दिष्टं धातोः प्रातिपदिकादित्यादि तदादि 8.
परत मिति । इह तु यत्पञ्चमीनिर्दिष्टं रुधादिभ्यो धातुभ्य इति, म तस्मात् प्रत्ययः परः, यस्मा पूर्वभागात्प्रत्ययः परः, नासी तस्मि.
Page #398
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे विकरणविधानप्रकरणम् ।
विधीयमाने पञ्चम्या निर्दिष्ट इति दिक् ।
रुणद्धि । भिनत्ति। तनादिभ्य उः (पा०सू०३-१-७९) ॥ मनादिभ्यः कश्च उप्रत्यः या स्यात् । तनोति । करोति । कृऽग्रहणं भाग्थे प्रत्याख्यातं, तनादि. त्वादेव सिद्धेः । ननु तनादिकार्यापेक्षनियसाथै तदस्तु । तेन "तनादि. भ्यस्तथासो" (पासू०२-४-७९) इति वैकल्पिकस्य सिज्लुकोऽप्रवृ. सौ'अकृत' 'अकृया' इत्यत्र वैरूप्यं न भवतीति चेत् ? मैवम् , सत्य. पि लुग्विकल्पे तदभावे "हस्वादकात्" (पासू०८-२-२७) इति लोपेने. टसिद्धः। न च विकल्पेन नित्यस्य बाधः, विकल्पं प्रति नित्यस्यासि. खत्वात् । न च तनादिपाठसामादपवादो पचनप्रामाण्यादिति न्या. येनासिद्धस्यबाधनाद्विकल्पन नित्यस्य बाधः, तनादिपाठस्य विकरण. विधी चरितार्थत्वात् । विकल्पोऽपि 'अतथाः' इत्यादी चरितार्थः। प्रत्युत क्रियमाणे कृग्रहणे तनादिषु कृमः पाठस्य अन्यार्थत्वात् “येनना. प्राप्ति" (१०भा०५९) न्यायेन विकल्पो नित्यविधि बाधेत । कृग्रहणन्तु विकरणविधौ तनादिषु पाठश्चरितार्थो मा भूदित्येवमयं स्यात् । त. साकग्रहणपरित्याग एवोचितः॥
धिन्विकण्व्योर च (पासु०३-१-८०)॥ धिवि प्रीणने (भ्वा०प० ५९४) वि हिंसाकरणयोः (भ्वा०५०५९९ ) अनयोरकारोऽन्तादेशः स्थादुप्रत्ययश्च । शपोऽपवादः । “मतो लोपः" (पा०सू०६-४-४८)। तस्य स्थानिवद्भावालघूपधगुणो न । धिनोति । कृणोति । नुमनुषक्त. योहणं मुमविधिवपदेशावस्थायामेव प्रवर्तत इति नापनार्थम् । तेन नुमविधावुपदेशिववचनं प्रत्ययसिमर्थमिति वचनं न कर्तव्यं ते । सिचस्तालेश्कार उच्चारणार्थ इति पसे नुम्बिधौ धातुग्रहणमपि न कर्तव्यं भवति, ताप्यस्यानेनैव मापनात् ।
क्रयादिभ्या था (पा०प०३-१-८१)॥स्पष्टम् ।क्रीणाति । प्रीणाति। स्तम्भुस्तम्भुस्कम्भुस्कुम्भुस्कुश्म्याश्नुभच (पासू०३-१-८२)॥ आद्याचं स्वार सौत्रा स्कुम् आप्रवणे (कथा उ०६)। एभ्यः श्रा स्यात् नुश्च । स्तनाति, स्तभ्नोति । हो शानच्-स्तभान, स्तभ्नुहि । स्तुभ्नाति, स्तुभ्नोति । स्कम्नाति, स्कभ्नोति । स्कुम्नाति, स्कुभ्नोति । स्कुना. ति, स्कुनीते । उदित्करणसामर्थ्यात्सौत्राणामपि धातूनां त्विं, न त्वेतद्विकरणमात्रविषयत्वम् । __हलः श्नः शानज्झौ (पासु०३-१-८२) ॥ हलः परस्य श्नाप्रत्ययः स्य शानच् स्याद्धौ परे । पुषाण । मुषाण । लोट्, सिप, तस्य हिः ।
Page #399
--------------------------------------------------------------------------
________________
३९०
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाह्निके
"क्रयादिभ्यः इना" (पासू०३-१-८१) । तस्य शानन्, चित्वादन्तो. दात्तः । “सनिपात'' (प०भा०८७) परिभाषाया अनित्यत्याद्धलक् । हलः किम् ? कोणीहि । हो किम् ? पुष्णाति । इनः' इति स्थानिनि. श आदेशत्वलाभाय । इतरथा हि प्रत्ययान्तरमवेदं स्यात् । ननु तथै. वास्तु को दोष इति चेत् ? न, 'पच' 'पठ' इत्यादावपि शपं बाधित्वा शानच्प्रसङ्गात् । न च "क्रयादिभ्यः" (पासू०३-१८७) इति अनुवर्तत इति वाच्यम् , 'स्तभान' 'स्तुभान' इत्यादिचतुर्णामसिद्ध्यांपत्तेः । न च स्तम्भवादयोऽप्यनुवर्तीयतुं शक्याः, बिशेषविहितेन शानचा श्न इव श्नोरपि बाधे 'स्तभ्नुहि' इत्यादेरसिद्धिप्रसङ्गात् । न च 'इनुश्च' इत्यप्यनुवय॑म् , क्रयादेरपि श्नुप्रसङ्गात् । न च स्तम्भ्वादिभ्य एव अनुः, शानच तु तेभ्यः क्रयादिभ्यश्चेत्यत्र प्रमाणमस्ति । तस्माद्यथा. न्यासमेवास्तु । शानचः शित्करणे प्रयोजनं चिन्त्यम् , स्थानिवद्भावे. नैव सिद्धरिति हरदत्तः । ____अत्रेयं चिन्ता, अनुबन्धकार्येऽपि कचिदनल्विधाविति निषेधःप्र. वर्तत इति शापनार्थमिदम् । तेन वार्तिकमते'ब्रूतात्' इत्यत्र ईन । भाष्य. मते तु 'भविषीष्ट' इत्यत्र ङित्वं नित्यं न भवति । एतच्च "दिति च" (पा०सू०१-१-५) इति सूत्रे स्फुटीकृतमस्माभिः।
छन्दसि शायजपि (पा०सू०३-१-८४) ॥ अपिशब्दाच्छानच हौं अहो च । गृभाय जिव्हया मधु । बधान देवसवितः । "हग्रहोर्भश्छ. न्दसि" (कावा०) इति गृहातेहकारस्य भकारः । “अनिदिताम्" (पा० सू०६-४-२४) इति वधनाते लोपः। यो अस्कभायदुत्तरम् । अ. स्कन्नादित्यर्थः।
व्यत्ययो बहुलम् (पा०सू०३-१-८५)॥विकरणाः प्रक्रान्ताः, तेषां छन्दसि बहुलं व्यत्यय: स्यात । व्यतिगमनं व्यत्ययः । व्यतिपूर्वादि. णो (अ०१०३५) भावे एरच् । क्वचिदन्योन्यविषयावगाहनम् । क. चित् द्वौ विकरणौ । कचित् त्रयः । आण्डा शुष्णस्य भेदति । शुष्णस्या. ण्डानि भेदति । 'भिनत्ति' इति प्राप्ते । न हास्या अपरश्चन जरसा मः रते पतिः । 'म्रियते' इति प्राप्ते ।
जीवचामरवासाधो व्याधमाजीवमामरः । इत्यपि पुराणादो छान्दसदर्शनात्समाधेयम् । इन्द्रो वस्तेन नेषतु । नयतेर्लोटि तिपि शप्सिपो हो विकरणौ । इन्द्रेण युजा तरुषेम वृ. प्रम् । 'तरेम' इत्यर्थः । तरतर्विध्यादौ लिङ्, मस् , उः, सिप् , शप इति अयो विकरणाः । धातोर्गुणः । तरुष मस् इति स्थिते "नित्य
Page #400
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे विकरणविधानप्रकरणम् ।
डिता' (पासू०३-४-११) इति सलोपः। थासुट् । “अतो येयः' (पा. सू०७-२-८०)यलोपः।"आद् गुणः' (पा०सू०६-१-८७)। बहुलग्रहणं स. विधिव्यभिचारार्थम् । तथा च भाग्यम
सुप्तिकुपग्रहलिङ्गनराणां कालहलस्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकदेषां सोऽपि च सिद्धति बाहुलकन ॥ सुपणं व्यत्ययः-युक्तामातासीद् धुरि दक्षिणायाः । दक्षिणस्याम् इति प्राप्ते । तिङ-चषालं ये अश्वयूपाय तक्षति । 'तक्षम्ति, इति माप्ते । लादेशव्यङ्ग्यः क्रियासाधनविशेषरूपः स्वार्थपरार्थत्वादिश्वोप. ग्रहशब्दस्य वाच्यः । यथोक्तम्
य आत्मनेपदाद्भदः क्वचिदर्थस्य गम्यते । अन्यतश्चापि लादेशान् मन्यन्ते तमुपग्रहम् ॥ इति ।
आत्मनेपदादिति लादेशादिति च हेतौ पञ्चमी । इह तु तत्प्रती. तिनिमित्से परस्मैपदे आत्मनेपदे च उपग्रहशब्दो लक्षणया वर्तते । ब्रह्मचारिणमिच्छते । 'इच्छति' इति प्राप्ते । प्रतीपमन्य ऊर्मियुध्यति । 'युध्यते' इति प्राप्त । मधोस्तृप्ता इवासते । मधुन इति प्राप्त । भाषायान्तु यद्यप्यर्द्धर्चादित्वादुभयलिङ्गो मधुशब्दोऽस्ति तथापि अर्थविशे. ष एव । तथा--
मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः ।
अर्द्ध दिगणे पाठात् पुनपुंसकयोर्मधुः ॥ इति शाश्वतकोशात् । अमृते तु नपुंसक एव । अत एव व्यत्ययो. दाहरणं दत्तम् । माघस्तु--
सरसमकरन्दनिर्भरासु प्रसवविभूतिषु विरुधां विरक्तः । ध्रुवममृतपनामवाञ्छयासामधरमधुं मधुपस्तवाजिहीते ॥ इत्यत्रामृतवाचकमधुशब्दं पुल्लिङ्गं प्रयुञ्जानश्चिन्त्यः, शाश्वतको. शात् । नरः पुरुषः । अधासवीरैर्दशभिर्वियूयाः । 'वियूयात्' इति प्रा.
। यु मिश्रणे (अ०प०२३) विपूर्वः आशिषि लिङ्ग । कालवाची प्रत्य: यः कालः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लट् । हल्-त्रिष्टुः भौजः शुफितमुग्रवीरम् । शुभ शुम्भ शोभार्थे (तु०प०४१,४२) भका. रस्य फकारः आश्वलायनसूत्रे । तैत्तिरीये भकार एव पठ्यत इति हरदत्तः । वस्तुतस्तु आश्वलायनसूत्रेऽपि भकार एव पठ्यते । हल्ल्यत्य योदाहरणन्तु सुहितमिति प्राप्त इति भाष्यानुरोधेन स्पष्टम् । अचउपगायन्तु मां पत्नयो गर्भिण्यः। दीर्घस्य ह्रस्वः स्वरव्यत्ययः"परादिश्छ. न्दसि बहुलम्" (पा०सू०६-२१-९९) इत्यत्र वक्ष्यते । कर्तृशब्दः कारकमा
Page #401
--------------------------------------------------------------------------
________________
३९२ शब्द कौस्तुभ तृतीयाध्यायप्रथमपादे पञ्चमाह्निके
त्रस्योपलक्षणं तद्वाचिनीनां विभक्तीनां व्यत्यय इंति हरदन्तः । एवन्तु सु. तिङ् इत्येव गतार्थता स्यात्, तस्मात्कारकवाचिनां कृत्तद्धितादीनामपि व्यत्यय उदाहार्यः । तथा च "कर्मण्यण्" (पा०सू०३-२- १) सूत्रे भाग्यम्अत्रादायेति च कृतां व्यत्ययश्छन्दसीति । तश्च तत्रैवस्फुटीकरिष्यामः । यङिति प्रत्याहारः यको यशब्दादारभ्य "लिङयाशिष्यङ्” (पा०स्० ३-१-८६) इति ङकारेण । तेषां व्यत्ययः प्रागेवोदाहृतः । एवं सुप्तिङ्प्रभूतानां व्यत्ययं शास्त्रकृत्पाणिनिरिच्छति । सच बाहुलकेन सिध्य ति । बहूनर्थान् लात्यादत्त इति बहुलं तस्य भावो बाहुलकम् । मनोशादित्वाद् वुल् ।
I
लिङया शिष्यङ् (पा०सु० ३-१-८६ ) ॥ छन्दसि घातोरङ् प्रत्ययः स्यात् आशिषि लिङि परे । स्थागागमिवचिविदिश किरुहिष्वेधायमङ्· प्रायेण दृश्यते । उपस्थेयं वृषभन्तुप्रियाणाम् । उपपूर्वातिष्ठेदेराशिषि लिङ् मिपोऽम, यासुद्, "छन्दस्युभयथा" ( पा०सु०६-४-८६ ) इति सार्वधातुकसंज्ञाया अपि सत्वात् “लिङः सलोपो ऽनन्त्यस्य " ( पा०सु० ७-२-७१) इति सलोपः । अङि "आतो लोपः" (पा०सु०६-४-६४) "अतो येयः' (क०सू०७ - २ - ८० ) । सत्यमुपगेयम् । गमेम जानतो गृहान् । मन्त्रं वोचेमाग्नये । "वच उम्' (पा०सू०७-४-२०) विदेयमेनां मना से प्रविष्टाम् । व्रतं चरिष्यामि तच्छकेयम् । अस्रवन्तीमा रुहेमास्वस्तये । दृशेरग् वक्तव्यः (का०वा० ) । पितरञ्च दृशेयं मातरा । अङि तु सति "ऋदृशोऽङि' (पा०सु०७-४ -१६) इति गुणः स्यात् । अथ कथं 'उपस्थेयाम शरणं बृहन्त' इति ? स्थेमेति हि प्राप्नोति ।
1
I
अत्र भाष्यम् - सार्वधातुकत्वाल्लिङः सलोप आर्द्धधातुकत्वादेत्वमिति । "पलिंडि" (पा०सु०६-४-६७) इतिसूत्रेणेति भावः । अङ् चात्र न कार्यः, बाहुलकात् ।
·
इति श्रीशब्द कौस्तुभे तृतीयाध्यायस्य प्रथमे पादे चतुर्थमान्हिकम् ।
लकारः ।
कर्मवत्कर्मणा तुल्यक्रियः (पा०स्०३-१-८७) ॥ कर्मशब्देन स्वनि. ष्ठा क्रिया लक्ष्यते । कर्मस्थया क्रियया तुल्यक्रियो लकारवाच्यः कर्त्ता कर्मवत् स्यात् । "व्यत्ययो बहुलंल्लिङयाशिष्यङ् ” ( पा०सु०३-१८५,८६) इति द्विलकारको निर्देशः । लुप्तनिर्दिष्टो वा लोपस्तु "संयोगान्तस्य " ( पा०सु०८-२-२३ ) इति “हलो यमामू” ( पा०सू०८-४-६४ ) इति वा । तच्च लग्रहणमिहानुवृत्तं षष्ठ्या विपरिणम्येत, लुप्तषष्ठीकं वा, षष्ठ्यर्थश्च वाच्यत्वम् | 'कर्त्तरि श” ( पा०सू०३-१-६८ ) इति सूत्रात्कर्तृग्रहणमनुवृत्तं प्रथमया विपरिण
Page #402
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे कर्मकर्तु प्रकरणम् ।
३९३
यते । तेनाभिमतार्थलाभः । यगात्मनेपदचिणचिण्वद्भावाः प्रयोज नम् । भिद्यते काष्ठं स्वयमेव । अभेदि काष्ठं स्वयमेव । कारिष्यते कटः स्वयमेव । आत्मनेपदस्य त्रीण्यपि इमान्युदाहरणानि । यचिश्चि वद्भावानां तु क्रमेणेति विवेकः ।
निवृतप्रेषणं कर्म स्वक्रियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ॥
अस्याञ्चावस्थायामकर्मकत्वात् कर्त्तरि भावे च लकाराः । तत्र या कर्तरि तदा शुद्धे कर्त्तरीव रूपेषु प्राप्तेषु पूर्वावस्थायां भिदेः कर्मी. भूते काष्ठे यादृशी क्रिया द्विधाभवनरूपा, करोतेः कर्मणि च कटे उत्प तिरूपा, तया तुल्यक्रियोऽयं भिदिकृञोः कर्त्ता लकारवाच्यश्चेत्यतिदे शाधगादिचतुष्टयप्रवृत्तिः । यथा निवृत्तप्रेषणस्याकर्मकत्वं यथा च क्रि. यायाः कचित्कर्मस्थत्वं, कवचिन्न, तथा "णेरणी" (पा०सु०१-३-६७) इति सूत्रे व्युत्पादितम् । कर्मणेति किम् ? करणाधिकरणाभ्यां तुल्यक्रिये मा भूत् । साध्वसिश्विनति । साधु स्थाली पचति । नन्विह कर .णाधिकरणत्वावस्थायामसि स्थाल्योर्व्यापारो वस्तुतः सन्नपि धातुना नोपादीयत इति चेत् ? किं ततः ? नास्मिन् सुत्रे सादृश्यप्रतियोगि· भूतायाः क्रियाया धातूपाचत्वं शब्देनाश्रितं, येन कर्मग्रहणं विनाऽप्य. तिप्रसङ्गो न भवेत् । किञ्च कर्तृस्थक्रिया अप्यस्यैव व्यावर्त्या । गच्छ ति प्रामः स्वयमेव, आरोहति हस्ती स्वयमेवेति ।
अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । इत्यादि ।
>
नम्वेषं करोत्यर्थस्य यत्नस्यापि ज्ञानेच्छादिवत्कर्तृस्थत्वात् कारिच्यते कटः स्वयमेवेति कथमुदाहृतमिति चेत् ? न करोतेरुत्पादनार्थत्वस्य प्रागेव वर्णितत्वात् । लकारवाच्यः किम् ? भावे लकारोत्पचौमा भूत् भिद्यते कुलेन । इह सत्यतिदेशे कुसूलाद् द्वितीया स्यात् । किञ्च लकारवाच्यत्वविशेषणाभावे कृत्याः खलर्थाश्च अस्मिन् कर्तरि स्युः - भेतव्यः कुसूलः स्वयमेवेति । ईषद्भेदः कुसुलः स्वयमेवेति । इष्यते तु भाव एव भेतव्यं कुसुलेन कुसूलस्य वा । " कृत्या· नां कर्त्तरि वा" (पा०सू०२ - ३-७१) इति वा षष्ठी । ईषद्भेदं कुसुलेन । यत्विह वार्त्तिके "कृत्यक्तखलर्थेषु प्रतिषेधः" इत्युक्तम्, तत्र क्तग्रहणमविवक्षितम्, अन्यत्र सह पाठात्त्विह पठितम् । भवत्येव हि एम्योऽकर्मकत्वात "गत्यर्थाकर्मक" (पा०सू० ३-४-७२ ) इति सूत्रेण कर्त्तरि कः । तथा च "सिनोतेग्रसकर्मकर्तृकस्य" : (का०वा० ) इंति निष्ठानत्वे "सिनो प्रासः स्वयमेव" इति कर्तरि क उदाहरिष्यते !
१०
Page #403
--------------------------------------------------------------------------
________________
३९४
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे पञ्चमान्हिके
अन्ये त्वाहुः-कग्रहणं विवक्षितमेव, 'गवा दुग्धं पय' इत्युदाहरण. सम्भवात्। अत्र हि गोः कर्मकर्तृत्वात् तत्र कर्मवदतिदेशे सति क्तः स्यात् । नात्र सिद्धान्ते “गत्यर्थाकर्मक" (पासु०३-४-७२) इत्येत. त्प्रवर्त्तते, पयोरूपेण कर्मणा सकर्मकत्वात् । न चैवं सकर्मकत्वादेव कर्मवदित्यतिदेशो न भविष्यतीति वाच्यम , दुहिपच्योर्षहुलं सकर्म कयोरिति प्रतिप्रसवात् । न च बहुलग्रहणादेव प्रवृत्तिः, तस्य भाष्ये प्रत्याख्यातत्वादिति दिक् ।
वतिग्रहणन्तु शक्यमकर्तुम् । तथाहि, लकारवाच्यस्य कर्तुः कर्मः संज्ञवास्तु । न च कर्मसंशया कर्तृसंज्ञाया बाधः, एकसंशाधिकाराद न्यत्र संज्ञानां समावेशात् । न चैवं सकर्मकत्वाभावे लो न स्यादिति पाच्यम् , आनुपा सिद्धत्वात । कर्मसंज्ञा हि लकारोत्पतिं प्रतीक्षते, लकारवाच्यस्यैव कर्तुस्तद्विधानात् । ततः प्राक् चाकर्मकत्वानपायेन "भावे चाकर्मकेभ्य"(पासू०ए०३-४-६१)इति भावे कर्तरि च लविधेर• प्रत्यहत्वात् । नन्वेवमपि यगात्मनेपदे न स्यातां, शुद्धयोः कर्मकों: सावकाशयोर्यशपोः परत्वात् शप्प्रसङ्गात , "भावकर्मणोः" (पा० सु०१-३-१३) इत्यात्मनेपदस्य "शेषात्कर्तरि" (पासु०१-३-७८) इति परस्मैपदस्य च विप्रतिषेधेन परत्वात्परस्मैपदप्रसङ्गाच्चति चेत्न, "भावकर्मणोर्विहितेन यका अपवादभूतेन आक्रान्तविषयं परिहत्य सार्वः धातुके शबिति उत्सर्गस्य प्रवृत्तिसम्भवात् करिशबिति सूत्रे कर्तृग्र. हणमतिरिच्यते । तस्यैतत्फलं-"कव यः कर्ता तत्र शबादयो यथा स्युः कर्मकर्तरि मा भूवन्" इति । नन्वस्मिन् हरदत्तपक्षे "न दुह" (पासू०३-१-८९) इत्यादिना यकि निषिद्धे शप् न स्यात् । तथा च लिलिटोरिव निर्विकरणप्रयोगापत्तिरिति चेत् ? एवं तर्हि कर्तरीति योगो विभज्यते, भावकर्मणोरित्यत्रापि भावे, कर्मणि चेति । ततः कर्मः णीत्यनुवर्त्य कर्मणि कर्तरि यक् भवति शपोऽपवादः। न दुहेत्यादौ अपवादाभावात्पुनरुत्सर्गस्य स्थितिः। एतच्च व्याख्यानं यग्विधावेव भाष्ये स्थितम् । एवन्तावद्यक सिद्धः, न दुहस्नुनमामिति लिङ्गाच। तथा "कर्तरि कर्म" (पासू०१-३-१४) इत्यतः "कर्तरि" इत्यनुवर्त्य "कतेवः यः कर्ता तत्र परस्मैपदं, न तु कर्मकरि"इति व्याख्यानादात्म. नेपदम् । तस्मादत्करणे त्यक्तेऽपि सर्वमिष्टं सिद्धयतीति स्थितम् । क्रियमाणे तु वत्करणे अतिदेशोऽयमिति स्पष्टमेव । स च षोढा-रूप. निमित्ततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदादिति "स्थानिवत्" (पा०स०१-१-५६) सूत्रे व्युत्पादितम् । इह तु आदितस्त्रयाणामसम्भ.
Page #404
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे कर्मकर्तृप्रकरणम् ।
३९५
वः । व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते । तत्र वत्करणं व्यर्थम् अतो द्वावेव शिष्येते । तत्रापि शास्त्रातिदेशे यगात्मनेपदसिद्ध्यर्थे पूर्वो यत्न आस्थेय इति क्लिष्टता । प्रधानं च कार्य तदर्थत्वादतिदेशान्तराणाम् । अतः कार्यातिदेश एवायम् । न चास्मिन्पक्षे द्वितीयाऽप्यतिदिश्येत, तथा च भिद्यते कुसुलेनेति भावे लकारे कर्तरि द्वितीया स्यादिति वाच्यम्, "लवाच्यस्यैव कर्तुः कर्मवदतिदेशः" इत्युक्तत्वात् । न चैवमपि 'भिद्यते कुसूलः' इत्यत्र दोषापत्तिः, अभिहितत्वेन द्वितीया · या अप्रवृत्तेः । नन्विह अनभिहिताधिकारो नास्तीति चेत् ? सत्यम् । तथापि वत्करणसामर्थ्यात् यथाऽनभिहिते कर्मणि प्रत्ययः तथैवानभि हिते कर्तर्यपि लभ्येत, तेन अभिधानमस्तीत्युक्तमेव । ननु निवृत्त प्रेष णा लुनातिभिनश्यादयोऽकर्मकाः द्विधा भवतीतिवत्, तत्कथं तत्कर्तुः कर्मणा तुल्यक्रियत्वम् इति चेत् ? न, नह्यस्मिन्प्रयोगे यत्कर्म तेन तु· ल्यक्रियतां ब्रूमः, किं तर्हि प्रयोगान्तरे यत्कर्म तेन । नन्वेवं पचत्योदनं देवदत्तः' 'राध्यत्योदनः स्वयमेव' इत्यादावतिप्रसङ्ग इति चेत् ? अत्र वार्तिकम् -
"
कर्मदृष्टश्चेत्समानधातौ (का०वा० ) ॥ इति । न्यायसिद्धं चेदं धातो. रिति ह्यनुवर्तते कर्तृकर्मणी च धातोरन्यत्र न सम्भवत इति सामर्थ्या देव सिद्धे तदनुवृतिरेकत्वविवक्षार्था । यस्मिन्नेव घातौ यत्कर्म तेन तुल्यक्रियस्तस्यैव कर्तेति । तेन धातुभेदे न भवति ।
स्यादेतत्, एकस्यापि रूपभेदेन कर्तृत्वं कर्मत्वं च दृश्यते, 'आत्मानमात्मना वेत्सि' इति यथा । एवं च 'ओदनः पच्यते' इत्यादावपि प्राकृते कर्मण्येव लकारोऽस्तु तकि निवृतप्रेषणत्वाश्रयणेन किञ्च कर्मवदित्यतिदेशेन ? न चैवं 'भिद्यते कुसुलेन' इति भावे लो न स्या दिति वाच्यम्, इष्टापत्तेः । कर्मण्येव हि सोऽस्तु ।
अत्राहुः, एवं सति "न दुहस्नुनमाम्' (पा०सू०३-१-८९) इत्यादिना यक्चिणोः प्रतिषेधस्य विषयविभागो न लभ्येत । अपि च 'नमते दण्डः"कारयते अचीकरत वा कटः' इत्यादौ यक्चिणोः प्रतिषिद्धयोरपि शन्चङौ न स्याताम्, अकतुत्वात् । किं च 'पचत्योदनः' इत्यपि प्रयोगः प्रसज्येत । तस्मान्निवृत्तप्रेषणतामाश्रित्यातिदेशसूत्र मारन्धव्यमेवेति ।
करणेन तुल्यक्रियः कर्त्ता बहुलं कर्मवदिति वक्तव्यम् (का०वा० ) ॥ परिवारयति कण्टकैर्वृक्षम् । परिवारयन्ते कण्टका वृक्षम् । अत्रात्मनेपदं सिध्यति । न च " णिचश्च" (पा०स्०१-३-७४) इत्यनेन तत्सिद्धि:,
Page #405
--------------------------------------------------------------------------
________________
३९६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे पञ्चमान्हिकेक्रियाफलस्य कर्तृगामित्वे सत्येष तत्प्रवृत्तेः । इह तु तदभावेऽव्यात्म. नेपदस्येष्यमाणत्वात् । बहुलग्रहणान्नेह-साध्वसिरिछनाति । __ सकर्मकाणां प्रतिषेधो वक्तव्यः (काभ्वा०)॥ अन्योन्यमालिप्यतः। अन्योन्य स्पृशतः । एतच्च न्यायासिद्धम् । तथाहि, कर्मस्थया क्रिय. या तुल्या क्रिया यस्य कर्तुरित्युक्त सन्निधानादिदं गम्यते-यकि. यावेशादसौ कर्ता सैव चेत्कर्मत्वोपयोगिनीति । न चैतदिहास्ति, स्व. यमनाश्लिप्यतोऽपि परेणाश्लिप्यमाणस्य कर्मत्वसम्भवात् । परसमवे. तसंयोगाख्यफलानुकूलव्यापारयोश्चलनात्मकयोरेकधातूपातयोरपिस्व. रूपेणात्र भेदात् । एतेन 'भिद्यमानः कुसलः पात्राणि मिनति' इत्यपि व्याख्यातम् । द्विधाभवनस्य देवगत्या कुसलनिष्ठत्वेऽपि पात्रनिष्टकर्म. तायामप्रयोजकत्वात् । स्वयमभिद्यमानोऽपि हि कुसूलः उपरि पतन पात्राणि मिनन्त्येव । नन्वेवमपि पचिरुधादीनां द्विकर्मकाणामेकस्य क. मणः कर्तृत्वेऽप्यपरेण सकर्मकत्वावस्थायां कर्मवद्भावः प्राप्ता, तनिषे. दुधु सकर्मकाणां प्रतिषेधवचनं कर्तव्यमेवेति चेत् ? योगविभागारिस. द्धम् । तथाहि,
तपेः । तपेरेव सकर्मकस्य न त्वन्यस्य । ततः, तपः कर्मकस्यैव । तपेरित्यनुवर्तते । यद्वा वार्तिके योगविभागः करिष्यते
दुहिपच्योबहुलं सकर्मकयोः (का०वा०)॥ अत्र"दुहिपज्योः सकर्म. योः" इत्येकं गक्यं नियमार्थ-दुहिपच्योरेव न स्वन्येषाम्' इति । दुग्धे गौः पयः । तस्मादुदुम्बरः सलोहितं फलं पच्यते ।। गौरदुम्बरश्चात्र कर्मकर्ता । "अकथितं च" (पासू-७-४-५१) इति सूत्रे दुह्यादिपरि। गणने पचिरपि बोध्य इत्युकं प्राक् । तत्रेदं वार्तिकमुपष्टम्भकमित्यवधेयम् । __ ओदनं पचतीत्यादापतिप्रसङ्गनिवारणाय "बलम्' इति वि. तीयं वाक्यम् । तच्च प्रत्याख्यातं भाष्ये । दुहिपच्योरिति हि कर्मकर्द. विषयकम् , कर्मस्थया क्रियया तुल्यक्रिय एव विधायकं नियामकंवा! उभयथाऽपि 'ओदनं पचति' इत्यादौ प्रसङ्ग एव नास्तीति नकर्मः कर्तयेव परस्मैपदार्थ बहुलवचनं, तस्यानिष्टत्वादिति दिक।
सुजियुज्योः श्यंस्तु (कावा) ॥ अनयोः सकर्मकयोः कर्ता बहुल कर्मघद्वतीति वक्तव्यम् । यगपवादश्च श्यन् । __ सुजेः श्रद्धोपपने कर्तर्येवेति वक्तव्यम (कावा०), सृज्यते नजं भका, श्रद्धया निष्पादयतीत्यर्थः । असार्ज, भदया निष्पादितवान् । युज्यते ब्रह्मचारी योगम् । श्यनि मति प्रकृतरायुदात्तत्वं भवति । यांके
Page #406
--------------------------------------------------------------------------
________________
प्रत्ययाधिकारे कर्मकर्तृप्रकरणम् ।
तुलसर्विधातुकानुदात्तत्व यक एवोदात्तत्वं स्यात् । कौमुद्यां तु "श्रद्धा. वकर्तृकात् सजेयक्चिणी कर्तरि इति के चित्" इत्युक्तम् । तत्र यगि. त्यशुद्धम् , आत्मनेपदानुक्केश्च न्यूनतेति दिक् । __भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात् (काभ्वा०)।भूषावाचिनां किरादीनां सन्नन्तानां च यचिणौ न भवत इति वक्तव्यामित्यर्थः । अलं कुरुते कन्या स्वयमेव । अलमकृत । भूषाफलस्य शोभाख्यस्य कर्मणि दर्शनात् कर्मस्था भूषा । ण्यन्तानां तु भूषार्थानां वक्ष्यमाणेनापि यक् चिणोः प्रतिषेधेन सिद्धत्वानेह मुख्योदाहरणता-भूषयते कन्या स्वय. मेव । अबुभूषत कन्या स्वयमेव । किरादि-अवकिरते हस्ती स्वयमे. वा अवाकीट हस्तिनं कश्चित् । पांस्वादिनाऽवकिरति । तत्र सौकर्यात् हस्ती कर्तृत्वेन विवक्ष्यते। गिरते। अगीष्ट । किरादिस्तुदाद्यन्तर्गणः। सन्--चिकीर्षते कंटः स्वयमेव । अचिकीर्षिष्ट । इहेच्छायाः कर्तृस्थ. त्वेऽपि करोतिक्रियापेक्षं कर्मस्थक्रियत्वम् ।
तपस्तपःकर्मकस्यैव (पा०सू०३-१-८८) । तप सन्तापे (भ्वा०प० १०१०) । अस्य कर्ता कर्मवत्स्यात स च तपकर्मकस्यैव नान्यकर्मक स्य । क्रियामेदाद्विध्यर्थमेतदिति वृत्तिः । तथाहि, उपवासादीनि तपां. सि तापसं तपन्ति, दुःखयन्तीत्यर्थः। तथा च तापसस्य कर्मत्वे तपे. दुःखनमर्थः । कर्तृत्वे तु अर्जनमर्थः । तापसस्तप्यते, तपोऽर्जयतीति यावत् । नन्वेवमपि शरीरसन्तापलक्षणक्रिया अवस्थाद्वयेऽपि तुल्या, नहि शरीरसन्तापादन्यत् अर्जनं नाम तापसस्य व्यापारोऽस्ति। तथा च भाष्यसम्मतं नियमार्थत्वमेव वृत्तिकृता कुतो नाहतमिति चेत् ?
मत्राः, बस्तुतश्शरीरसन्तापस्य सत्वेऽपि शब्दान्न तत्त्वेन भानं किं त्वर्जनत्वेनैव । अन्यथा तपसः कर्मत्वानुपपत्तेः । तथाच तुल्यक्रि. यत्वाभावाद विध्यर्थतवेति । लुङि-अतप्त तपस्तापसः । “तपोऽनुता. पेच" (पासू०३-१-६५) इति चिणः प्रतिषेधात्सिच् । तस्य "झलो झलि" (पासू०८-२-२६) इति लोपः। तपाकर्मफस्योति किम' ? उत्तपति सुवर्ण सुवर्णकारः । एवकारस्तु व्यर्थ एव । श्रुतस्य तस्य अन्वयो वता य इति चेत् ? सत्यम् , वाक्यं भिस्वा कथंचिदन्वयः प्रदर्शित एव ।
न दुहस्नुनमा यचिणी (पासू०३-१-८९) ॥ एषां यचिणौ न स्तः। कर्मवदतिदेशेन प्राप्तयोरयं निषेधः, "अनन्तरस्थ" (०भा० ६३) इति स्थायात् । तेन शुद्ध कर्मणि भावे स्त एव । दुहेरनेन यक् निषिध्यते । चिण तु "दुहश्च" (पा०सू०-३-१-६३) इति सूत्रेण प्रागेव विभाषितः, दुग्धे गौः स्वयमेव । अदुग्ध, अदोहि गौः स्वयमेव । यकि
Page #407
--------------------------------------------------------------------------
________________
३९८ शब्द कौस्तुभतृतीयाध्यायप्रथमपादे पञ्चमान्दिके
प्रतिषिद्धे शप्, अदादित्वात्तस्य लुक्, “दादेः” (पा०सु०८-२-३२) इति घः, "झबस्तथोः " ( पा०सु०८-२-४० ) इति धत्वम्, जय्त्वम् । अप्रधाने दुहादीनामिति यस्मिन्कर्मणि लकारस्तस्य कर्तृत्वविवक्षा, प्रधानं कर्म तु कर्मैव ।
'स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसुपमानस्य वसूनि मेदिनी' । इतिवत् । चिणभावे क्सः, लुग्वादुहेति लुक् । प्रस्नुते । प्रास्नोष्ट चिणि प्रतिषिद्धे सिच् । नमते दण्डः स्वयमेव । अनंस्त । अन्तर्भावि तण्यर्थोऽत्र नमिः । तत्र यथा 'नमयति दण्डं देवदत्तः' 'नमयते दण्डः स्वयमेव' इति ण्यन्तस्य कर्मस्थक्रियत्वम्, एवमस्यापि द्रष्टव्यम् ।
-
यक्षिणोः प्रतिषेधे हेतुमणिश्रिञामुपसंख्यानम् (का०वा० ) | कारयते कटः स्वयमेव । अचीकरत । उच्छ्रयते दण्डः स्वयमेव । उद शिश्रियत । ब्रूते कथा स्वयमेव । अवोचत । वचनं शब्दप्रकाशनफल. त्वात्कर्मस्थम् । भारद्वाजीयाः पठन्ति -
I
णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम् ॥ इति णीति णिणिचोः सामान्यग्रहणम् । णिजुदाहृतः । णिङ: - पुच्छमुदस्यति उत्पुच्छयते गौः । अस्यान्तर्भावित प्रर्थताथाम् - उत्पुच्छयते गाम् । पुनः सौकर्यातिशयेन कर्तृत्वविवक्षायाम् — उत्पुच्छयते गौः स्वयमेव । उदपुपुच्छत । इह ण्यन्तात् यक्चिणोः प्रतिषिद्धयोः शच ङौ भवतः । कौमुद्यां तु कर्मकर्तरि चङ् नेत्याह । अकारयिष्टेत्युदाहृतं तदशुद्धमेव । श्रन्थ ग्रन्थ सन्दर्भे (चु०प०३०५,३०६) । चुरादावाधृषीयौ । तयोर्णिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थं देवदत्तः । श्रन्थति में खलाम् । ग्रन्थते ग्रन्थः स्वयमेव । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्रयादावपि इमौ पठ्येते, तयोरपीह ग्रहणम् । श्रथ्नीते प्रश्नीते स्वयमेव । आत्मनेपदविधावकर्मका ये धातवो निर्दिष्टास्ते यदाऽन्तर्भावितण्यर्थाः पुनश्च निवृत्त प्रेषणास्त इहोदाहरणम् । तद्यथा-"वेः शब्दकर्मणः" "अककाच्च" (पा०सु०१-३-३४,३५) । विकुर्वते सैन्धवाः, वल्गन्तीत्यर्थः । तान्विकरोति, वल्गयतीत्यर्थः । पुनः सौकर्याकर्तृत्वे विकुर्वते सैन्धः वाः स्वयमेव । व्यकृषत । यत्तु वृत्तौ पठ्यते 'आइन्ति माणवकम्, आहते माणवकः स्वयमेव' इति, तदयुक्तम्, 'आहन्ति माणवकम्' | इत्यस्य सकर्मकत्वादात्मनेपदाभावाश्चेति हरदत्तः ।
अन्ये त्वाहुः - आत्मनेपदाकर्मकेति धातूपलक्षणं, हन्तिश्चायम् "मा. ङो यमहनः" (पा०सु०९ - ३ - २८) इत्यत्र यदा कर्माविवक्षया अकर्मकः, तदा आत्मनेपदस्य निमित्तम् । तस्यात्र सकर्मकत्वेऽपि मविरुद्धमुदाहरणमिति ।
•
Page #408
--------------------------------------------------------------------------
________________
३९९
धावधिकारे कृत्प्रकरणम्। कुपिरजोः प्राचां श्यन् परस्मैपदं च (पासू०३-१-९०)॥ कुष निष्कर्षे (क्या०प०४६) । रज रागे (भ्वा००१०२४) । अनयोर्धात्वोः कर्मकर्तरि यक् न स्यात् किन्तु श्यन् परस्मैपदश्च । आत्मनेपदापवादः। कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । प्राचाहणं विक. रूपार्थम् । कुप्यते । रज्यते । "न दुह' (पा०स०३-१-८९) इति सूत्रात् घक नेत्यनुवर्य तस्मिन्नेव स्थले श्यन् विहितः। तत्सन्नियोगशिष्टं च परस्मैपदम् । तेन आशीर्लिक्लिटोः स्यादीनां च विषये श्यन् परस्मैपदे न भवतः। कोषिषीष्ट पादः स्वयमेव । रङ्गीष्ट वस्त्रं स्वयमेव । चुकुषे ।ररञ्ज। कोषिष्यते । रक्ष्यते । अकोषि । अरजि इत्यादि । श्यन्यको स्वरे नुमि च विशेष:-कुण्यन्ती जडा । श्यनि "शप्श्यनोनित्यम्' (पा०सू०७-१-८१) इति नुमागमः, निस्वादाधुदात्तश्च । यकि तु "आच्छीनद्योः" (पासू० ७-१-८०) इति नुविकल्पः लसार्वधातुकानुदात्तत्वेन यक एवोदा. त्तत्वं च स्यात
धातोः (पा०सू०३-१-९१) ॥ आतृतीयसमातेरधिकारोऽयम् । यद्य. पि "धातोरेकाचो, हलादेः" (पासू०३-१-२२) इति सूत्राद्धातुग्रहणमा नुवर्तत एव, तथापि आर्द्धधातुकसंवाया आश्रितशब्दव्यापारत्वला. भाय पुनर्धातुग्रहणम् । अन्यथा 'लुभ्याम' 'पृभ्याम्' इत्यादी भ्यामादे. रिट् प्रकृतेर्गुणश्च स्यात् । धातोरित्येवमविधानानु न भवति । तथा कृत्संज्ञा उपपदसंशा चास्मिन्नेव धात्वधिकारे यथा स्यादित्येवमर्थम पीदम् । अन्यथा पूर्वत्रापि स्यात , सतश्च 'करिष्यति' इत्यत्र स्यप्रत्य. यस्य कृत्संज्ञायां कृदन्तस्य प्रातिपदिकत्वे सोरुत्पत्तिः स्यात् , एकव. चनस्यात्सर्गिकत्वात् । “प्रातिपदिकार्थ" (पा०सु०२-३-४६) इति सचे वचनग्रहणाच । तथा "चिल लुङि' (पासू०३-१-४३) इत्यस्य लङते उपपदे ग्लिरित्यर्थः स्यात् । वासरूपविधेश्च पूर्वत्र प्रवृत्ती सादिभिः सिचः समावेशः स्यादिति । तस्मात् धातोरिति कर्तव्यमिति स्थितम् । एतच्च शक्यं प्रत्याख्यातुम् । तथाहि,"शमि धातोः"(पा०स०३-२-१४) इति यद्धातुग्रहणं तदेव द्वितीयं सार्वधातुकार्द्धधातुकसंशयोरनुवर्तिप्यते। कृदुपपदसंखे वासरूपविधिश्च अधिकारेणैव व्याख्यास्यन्ते । "प्रत्ययः', "परश्च" (पा०सु०३-१-१,२) इत्यादिवत् । तेन पूर्वत्र न तत्प्रसङ्गः ।
तत्रोपपदं सप्तमीसम् (पा०पू०३-१-६२) ॥ सप्तम्यन्ते पदे "कर्मः णि" इत्यादौ प्रतिपाद्यत्वेन स्थितं कुम्भादिकं सप्तमीशं तद्वाचकं पद. मुपपदसंशं स्यात् , तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् , महासं. शाकरणसामर्थ्यांत । पदमत्र संचि । तेन समर्थपरिभाषा व्याप्रियते । संक्षाप्रदेशा "उपपदमति" (पासू०२-२-१९) इत्यादयः ।
Page #409
--------------------------------------------------------------------------
________________
शब्दकौस्तुभतृतीयाध्याय प्रथमपादे षष्ठन्हिके
कृदतिङ् (पा०स्०३-१-९३) । अस्मिन् धात्वधिकारे तिभिन्नः प्रत्ययः कृत्सञ्ज्ञः स्यात् । कर्तव्यम् । करणीयम् । अतिङ् किम् ? चीया. त् । सङ्ग्राप्रदेशाः कृतद्धितसमासाश्वेत्येवमादयः । "अतिङ्” इति शक्यमकर्तुम् । कथं चीयादिति ? छापकात्सिद्धम् । "अकृत्सार्वधातुकयोः " ( पा०सु०७-४-२५) इति सूत्रे अकृदित्येव सिद्धे पुनः सार्वधातुकग्रहणं ज्ञापयति 'न तिडां कृत्सञ्ज्ञा भवति' इति । न चयनि वृत्त्यर्थे सार्वधातुकग्रहणमिति वाच्यम्, दिवादिषु हस्वान्तस्य दीर्घा • ईस्याभावेन व्यावप्रसिद्धेः । भाष्ये तु तिडां कृत्सञ्यायामिष्टापतिः । कृता । न चैवं तिङन्तस्य प्रातिपदिकत्वात्स्वाद्युत्पत्तिः स्यादिति वा च्यम्, तिङा एकत्वादेरुक्तत्वात् । न च वचनग्रहणादुक्तेऽपि तदाप• चिः एकः' इत्यादौ चरितार्थत्वात् । "अतिशायने तमविष्ठनौ ” "तिङा" (पा०सु०५ -३ - ५५,५६ ) इत्यनेन तिङन्तानामसुबन्तत्वाप नात् । न चैवमपि 'पचति' 'पठति' इत्यत्र "हस्वस्य पिति कृति" (पा० सू०६-१-७१ ) इति तुक्प्रसङ्गः, तुग्विधौ "घात्वादेः" (पा०सु०६-१-६४ ) इति सूत्रात् धातुग्रहणानुवृत्तेः । एवमपि 'चिकीर्षति' 'जिहीर्षति' इत्या दौ स्यादिति चेत् न, शपा व्यवधानात् । एकादेशे कृते नास्ति व्यव धानमिति चेत् ? न, एकादेशस्य पूर्वविधौ स्थानिवद्भावात् । न च स्थानिवद्भावं बाधित्वा परत्वादन्तवद्भावः, तस्य प्रत्याख्यास्यमानत्वात् । न चैवमपि "अतिङ्” इति प्रत्याख्यायमाने 'पचेरन्' इत्यत्र प्रातिपदिकान्त`त्वान्नलोपः स्यादिति वाच्यम्, "झस्य रन्" (पा०सू०३-४- १०५) इति नकारोच्चारणसामर्थ्यादेव लोपाप्रवृत्तेः । इह तहिं 'चीयात्' इति कृद्यकारत्वाद्दीर्घो न स्यादिति चेत ? नैष दोषः सार्वधातुकप्रतिषेधो ज्ञापयति "अकृतीति प्रतिषेधः तिङ्क्षु न प्रवर्तते" इति । न चैवमपि तिसमासे कृदुत्तरपदस्वरः स्यादिति वाच्यम्, इष्टापत्तेः, 'यो जात एव पर्यभूषात्' इत्यादौ तथैव पाठस्य निर्विवादत्वात् गतिकारको पपदात्कुत्" (पा०सू०६ - २ - १३९) इति सूत्रे कृग्रहणस्य प्रत्याख्यास्यमानत्वाच्चेति दिक् ।
इति श्रीशब्द कौस्तुभे तृतीयाध्यायस्य प्रथमे पादे पञ्चममाह्निकम् ।
४००
वाऽसरूपोऽस्त्रियाम् (पा०सु०३ - १ - ९४ ) ॥ परिभाषेयम् । अस्मिन्धात्वधिकारे त्र्यधिकारव्यतिरेकेण यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते । एवञ्च " ददातिदधात्योर्विभाषा ( पा०सु०३-१-१३९ ) इत्यादिवद्वैकल्पिकत्वेनैव अपवादे शास्त्रात्प्रमिते तद्वदेव पक्षे उत्सर्गः प्रवर्तते । इगुपधज्ञाप्रीकिरः कोऽपवादः तद्विषये ण्वुल्तृचावपि भवतः ।
Page #410
--------------------------------------------------------------------------
________________
धास्वधिकारे कृत्प्रकरणम् ।
४०२ विक्षेपका, विक्षप्ता, विक्षिपः। नचैवम् "आतोऽनुपसर्गे कः' (पासु०३२-३) इति कस्य विषये "कर्मण्यण" (पा०सू०३-२-१) इत्यपि पक्षे प्रव. तेत । सरूपोऽसाविति चेत् ? किं ततः ? गुणवृद्धिशास्त्रेश्विकपदस्थेव कविधी वेति पदस्य उपस्थितिर्हि शातैव । अन्यथा ज्वुलादेरपि दुर्ल. भत्वात् । सत्याञ्च वेत्यस्योपस्थितौ कथं सरूपस्यापि पक्षे प्रवृत्तिन भवेदिति चेत् ? सत्यम् , असरूपग्रहणसामर्थ्यात् यम्प्रत्यसरूपता तं प्रत्येवास्य पाक्षिकता, अन्यं तु प्रति बाधकतैवेति न कश्चिहोषः । तत. श्व असरूपोऽपवादप्रत्यय उत्सर्गस्य वा बाधकः स्यादिति फलितोऽ. थः । अस्त्रियां किम् ? चिकीर्षा । अत्र क्तिन्न भवति । स्त्रीग्रहणं स्वर्यते । स्वरितेनाधिकारगतिभवतीति "स्त्रियां क्तिन्” (पा०स०३-३-९४) इत्यः धिकारे विकल्पो नेति सिद्धान्तः । यदि तु खियामभिधेयायां नेत्युच्ये. त तदा 'विक्षेपिका' विक्षप्त्री' इति कविषये ण्वुल्तृचौ न स्याताम् । अथापि 'स्त्रियाम्' इत्यवंशब्दमुखार्य विहित निषेधः इत्युच्येत, तर्हि 'व्यावक्रोशी' 'व्यावक्रुष्टिः' इति कर्मव्यतिहारेणचो विषये क्तित्र स्यात् । द्वयोरपि 'स्त्रियाम्' इत्युच्चार्य विधानात् । __अत्र केचित्-उत्सर्गापवादयोद्वयोरपि स्यधिकारनिवेशितत्वे सति प्रतिषेधोऽयमित्याहुः। अन्ये तु अपवादमात्रस्यापीति । तत्रार्थ मते "पासना 'मास्यास्याधिकारविहितेनापियुचाऽपवादेन सह ऋहलो.
य॑तः (पासू०३-१-१२४) समावेशः सिध्यति । घनस्तु क्तिनादिनाऽन. भिधानान समावेशः। द्वितीयपक्षे तु घनः तिनादिभिरसमावेशः सि. ध्यति । 'मास्या' इत्यत्र तु "कृत्यल्युटो बहुलम्" (पा०४०३-३-११३) इति ण्यदिति विवेकः । नन्विह सारूप्यं प्रयोगे उपदेशे वा? नाधा, 'प्रामणी' 'ग्रामयः' इति क्विबादिविषयेऽणादीनामप्रवृत्तिप्रसङ्गात् । न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानात् । नान्त्यः, अनुब. धभिन्नेषु कणप्रभृतिष्यतिप्रसङ्गादिति चेत् ? न, अनुबन्धानामनेकान्त. त्वेन द्वितीयपक्षे दोषाभावात् । एकान्तत्वेऽपि"नानुबन्धकृतमलारूप्यम्" (पभान्ट) “ददातिदधात्योर्विभाषा" (पा०पू०३-१-१३९) इति लिङ्गात्। अन्यथाऽनुबन्धकृतादसारूप्यादेव 'दद: दधः इति शविषये 'दायः"धायः' णोऽपि इतिभविष्यतीति कि विभाषाग्रहणेन? नित्येयं वासरूपपरि. भाषा "अर्हे कृत्यतृचश्च" (पासू०३-३-१६९) इत्यत्र कृत्यतृग्रहणाल्लि. ङ्गात् । तेन "क्तल्युटतुमुन्खलर्थेषु वाऽसरूपविधिन भवति"(प०भा०७०) इति सिद्धान्तः। हसितं हसनं छात्रस्य । अत्र क्तल्युविषये घञ् न । तु. मन-इच्छति भोक्तुम । अत्र "इच्छार्थेषु लिलोटौ"(पासू०३-३-१५७) शब्द. द्वितीय. 26.
Page #411
--------------------------------------------------------------------------
________________
४०२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठाहिकेइति लोन भवति । लिङ्तु भवत्येव,"
लिच"(पासू०३-३-१५९) इति वचनात् । एवं चास्मादेव नियमादिह लोट् सुपरिहरः। अतोऽत्र तु. मुन्ग्रहणमापाततः । स्खलर्थः-आतोयुच्, ईषत्पानः। अत्र खल् न भवति। ननु रुयधिकारादूर्व "वाऽसरूप" (पासू०३-१-९४) न्यायो नास्ती त्येवाश्रीयताम् । मैवम्, 'मासित्वा भुङ्क्ते' 'मास्यते भोक्तुम्' इत्याच. सिद्धिप्रसङ्गात् । इह हि भोजनार्थवादासनस्य पूर्वकालता गम्यते । क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे तत्रैव च लकार इति समानविषय. त्वाद्वाध्यबाधकभावः स्यात् । “भैषातिसर्ग" (पासू०३-३-१६३) इति सुत्रे "स्त्रियां तिन्" (पासू०३-३-९५) इत्यत ऊ वासरूपविधेर. मावादिति कौमुर्दानन्यस्तु आकरविरुद्ध इति दिक्।
कुस्याः (पासू०३-१-९५) । अधिकारोऽयम् । अवधिविशेषस्तु शापकास्सिद्धः। "अहे छत्यतृचश्च" (पासू०३-३-१६९) इति सत्रे 'कुस्याः' इत्येव वक्तव्ये तृग्रहणं योगापेक्षं झापकम-'ण्वुल्तृचावित्येत. द्योगात्प्राक् कृत्यसंशाऽधिक्रियते' इति । संक्षाप्रदेशा:-"कृत्यानां क. तरि वा" (पासू०२-३-३१) इत्यादयः । बहुवचनमनुक्कसमुच्चयार्थम् । तेन "कलिमर उपसंख्यानम्" (कावा०) इत्यादि सूत्रेणैव सूचितं भवति । अत्र सूत्रे वृत्तिकारः "प्राङ्ण्वु लः" इति प्रचिक्षेप ।
तव्यत्तव्यानीयरः (पासू०३-१-३६) ॥ धातोरवैते प्रत्ययाः स्युन तकाररेफौ स्वरार्थो । कर्तव्यम् । करणीयम् ।
वसेस्तव्यत्कर्तरि णिव (कावा०)॥ वस निवासे (भ्वा०प०१०३०) इत्यस्य ग्रहणम्, न तु वस आच्छादने (अ०आ०१३) इत्यस्य लुग्विकरणस्य । तयोरेवेति वचनात् कर्तरि न प्राप्नोतीति वचनम् । वसती. ति वास्तव्यः । तद्धितान्तो वा । वास्तुनि भवो वास्तव्यः ।.दिगादि. वाद्यत् । 'अवास्तव्यः' इत्यत्र स्वरभेदोऽपि नास्ति । तव्यत्प्रत्यये हि "कृत्योकेष्णुञ्चार्वादयध, (पासू०६-२१६०) इत्यन्तोदात्तत्वम् । यत्प्र. त्यये तु“ययतोश्चातदर्थे (पासू०६-२-१५६) इत्यनेनेति ।
केलिमर उपसंख्यानम् (काभ्वा०) ॥ कृत्या इति बहुवचनेनैतत्पति. तमित्युक्तम् । ककारो गुणवृद्धिनिषेधार्थः। रेफः स्वरार्थः। पचेलिमा माषाःपिकव्याः। भिदेलिमाः सरलाः । भेत्तव्याः । शुद्ध कर्मणि प्रत्ययो भाष्ये स्थितः । वृत्तिकारस्तु कर्मकर्तरि चायमिन्यते इत्याह । तद्भाग्य निरुद्धम् । __ अचो यत् (पासू०३-१-९७) ॥ अजन्ताद्धातोर्यत्स्यात् । चेयम । जेयम । ननु पूर्वसूत्रे एव यदपि निर्दिश्यताम् ,अग्रहणं च मास्तु, हल.
Page #412
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
४०३
ताण्ण्यतं वक्ष्यति, परिशेषादजन्तेभ्य एव यद् भविष्यति इति चेत् ? अजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थमिदम् । दित्स्यं धित्स्यम् । इह हि दात्र धाञश्च सन्नन्तस्य 'दित्स' 'चित्स' इति स्थिते आर्द्धधा तुके इति विषयसप्तममाश्रित्य सनोऽतो लोपे कृते साम्प्रतिकं हलन्त त्वमस्तीति प्रयत्स्यात् । अज्ग्रहणान्तु भुतपूर्व मजन्तत्वमाश्रित्य यद्भयति । तेन, "यतोऽनावः " ( पा०सु०६-१-२१३) इत्याद्युदात्तत्वम् । ण्यति तु. कृते तिस्स्वरितत्वं स्यात् । 'चिकीर्ष्यम्' इत्यादौ तु ण्यद्यतोर्विशेषो नास्ति । "बतोऽनावः इत्यत्र द्वयग्रहणानुवृत्तेः । "आर्द्धधातुके " इत्यस्य परसप्तमीत्वे तु इहाग्रहणं न कर्त्तव्यमेव ।
1
तकिशसिचतियतिजनीनामुपसंख्यानम् (का०वा० ) ॥ तक इसने (स्वा०प०११७) । शसु हिंसायाम् (स्वा०प०७२८ ) : । चते याचने (भ्वा० उ०८९०) । यती प्रयत्ने (स्वा०आ०३०) । जनी प्रादुर्भावे (दि०आ०४३) । तक्यम् । शख्यम् । चत्यम् । यत्यम् । जन्यम् । अत्र जनेर्यद्विधानं "य. तोऽनावः" (पा०सू०६-१-२१३) इति स्वरार्थे "जनिवध्योश्च" (पा०सु० ७-३-३५) इति वृद्धिनिषेधेन व्यत्यपि रूपे विशेषाभावात् । इह शं. सिमपि केचित्पठन्तीति हरदत्तः । तेन "तद्वान्नराशंस्यं राध्यं च " मत्रायुदान्तः सिध्यति । अपाठपक्षे तु ण्यन्तादयो यति सिध्यतीति बोध्यमिति वदन्तिः । तदेतत्सर्वम् "ईडवन्द" ( पा०सु०६-१-२१४) त्यादिसूत्रविष्मरणसूल करादुपेक्ष्यम् ।
हनो वा वधा (का०1०) ॥ हन्तेर्वा यद, तत्सनियोगेन च वधा" देशो वकवयः इत्यर्थः ॥ वरुयः 1. घात्यः । यदभावे व्यव, "हनस्तोऽचि. बंगलो: " (प्रा०७-३-३२) इति तत्वम् । "हो हन्तेः " (पा०सू०७-३५४) इति कुत्वम् । यद्यपि 'बधमईतीति षध्यः' इति रूपं यदित्यनुवर्तमाने "दण्डादिभ्यः (पा०स्०५-१-६६) इति तद्धितेन यताऽपि सिध्यवि तथापि 'असिवध्येः' 'मुसलषध्यः" इत्यत्र समासो न सिध्येत् । कृति पुनः कर्तृकरणे कृता" (पा००१-१-३२) इति सिध्यति । न च मसिषधमईतीति विग्रहे कृतसमासादेव तद्धितोऽस्त्विति वाच्यम, दण्डादिषु केवलस्य वधशब्दस्थ पाठात् । तदन्तविधेश्व प्रतिषेधात् स्वरे मेदाच्च । असिवधशब्दाद्यति हि "तित्स्वरितम्" (पा०सु०६१-१८५) इति स्वरितः प्रसज्येत । कृदन्तेन समासे तु कृदुत्तरपदप्रकृ तिस्वरेण वध्यशब्द आद्युदात्तः । अत एव वध्यशब्देन तद्धितान्तेन सद्द "सुप्सुपा" (पा०स्०२-१-४) इति समास इत्यपि न वाच्यम्, अ. न्तोदात्तप्रसङ्गात् । वध्यशब्दे कुनद्धितान्ते प्रकारकृतविशेषस्य सत्त्वा
a
Page #413
--------------------------------------------------------------------------
________________
४०४
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठाहिक
च । एतेन "गिरौ डश्छन्दसि' (कावा०) इति वार्तिकप्रत्याख्यानपरं भाग्यमप्यपास्तम् । अत एव "कृतलब्धकीतकुशलाः" (पा०स०४-३३८) इत्यादीनां चारितार्थ्यमिति दिक् । __ अत्रत्यभायादिपर्यालोचनया असमस्तवध्यशब्दे विशेषाभाव हति लभ्यते । तथा च दण्डादिभ्य इत्येव सूत्रं, यच्चानुवर्तते । दण्डा. दिभ्यो य इति निरनुबन्धपाठस्तु प्रामादिक इति माधवो हन्तिधातौ स्फुटीचकार । हरदत्तग्रन्थपर्यालोचने तु इदं च वचनं यद्विधौ भाष्यादौ पठितमपि क्यविधौ " मृजेर्विभाषा" (पा०स०३-१-११३) इत्य. स्याप्रे एव पाठ्यमित्येव भाज्यतात्पर्य युक्तम् , विकल्पाकरणेन लघु, त्वादिति लभ्यते । तस्मिन्नपि पक्षे वध्यशब्दो धातुस्वरेणाघुदाता, क्यप्तुपित्वादनुदात्तः । न च नअसमासे "ययतोधातदर्थ (पासू०६२-१५६) इत्यस्य प्रवृत्त्यभावेन स्वरे दोष इति वाच्यम, "कृत्यांग्णुचादियश्च" (पासु०६-२-१६०) इत्यस्य प्रवृज्येष्टसिद्धेः। असमस्ते एव विशेषाभावस्य प्रतिपाद्यत्वाच ।
पोरदुपधात (पा०स०३-१-९८) ॥ पवर्गान्तादकारोपधात् घातो. र्यत स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । पोः किम् ? वाक्यम् । "चोः कु घिण्ण्यतोः" (पासू०७-३-५२) इति कुत्वम् । अदुपधा. स्किम् ? कोप्यम् । तपरकरणं किम् ? आप्यम । कुप कोपने (दि०१० १२७) आप्ल व्याप्ती (स्वा०प०१४) आभ्यां ण्यति तित्स्वरः। यति तु "यतोऽनावः" (पासू०६-१-२१३) इति स्यात् ।
शकिसहोश्च (पासू०३-१-९९) ॥ स्पष्टम् । शक्यम्, सह्यम् ।
गदमदचरयमश्चानुपसर्गे (पा०स०३-१-१००) ॥ व्यत्ययेन पञ्चम्यर्थ सप्तमी । एभ्योऽनुपसर्गेभ्यो यत्स्यात् । गद्यम् । मद्यम् । चर्यम् । य. म्यम् । अनुपसर्ग किम् ? "न नैषधे कार्यमिदं निगाद्यम्' । प्रमाद्यम् । प्रचार्यम् । यमेः पूर्वेणैव सिद्ध नियमार्थ वचनम् "अनुपसर्गादेव यथा स्यात सोपसर्गान्मा भूत्" इति । कथं तर्हि "सेन न ता भवेद्विनियः म्यम्" "अनियम्यस्य नायुक्तिः" "स्वया नियम्या ननु दिव्यचक्षुषा" इत्यादि ? प्रमादपाठ एवायम् । 'विनियाम्यम्' इत्यादि . दीर्व एव तु पठनीय इति हरदत्तः। नियमे साघुर्नियम्य इति"तत्र साधुः" (पासक ४-४-९८) इति यदित्यन्ये । केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे।
चरेराकि चागुरी (का०वा०) ॥ सोपसर्गार्थ वार्तिकम् । भाषयों देशः । गन्तव्य इत्यर्थः । अगुरौ किम् ? पाचार्यों गुरुः ।
अवयंपण्यवर्या गर्हापणितम्यानिरोधेषु (पा.१-१-१०१) बब.
Page #414
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
४०५
द्यादयस्त्रयो यथासंख्यं गर्ह्यादिष्वर्थेषु निपात्यन्ते । तत्र वदेर्नीि उपपदे "वदः सुपि कयपू च" (पा०सु०३-१-१०६) इति यत्कयपोः प्राप्तयोर्यदेव यथा स्यात, सोऽपि गर्दायामेव यथा स्यादित्युभयार्थ निपात नम् । अवद्यं पापम् । अवचनार्हत्वात् । गर्ने किम् ? अनुद्यं गुरुनाम | तद्धि न गर्ह्य वचनाई तु न भवति,
आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयात् ज्येष्ठापत्यकलत्रयोः ॥
इति स्मृतेः । अत्र "वदः सुपि" (पा०सु०३-१-१०६) इति क्यबेव भवति । यजादित्वात् सम्प्रसारणम् । “नलोपो नञ." " " तस्मान्नुडचि" ( पा०सु०६-३-७३,७४) । पर्व्यवहारार्थात् ण्यति प्राप्ते यत् विधीयते । पण्यः कम्बलः । पण्या गौः । पाण्यम् अन्यत् । स्तुत्यर्हम् इत्यर्थः । 'पणितव्य' शब्दस्य साधारणत्वेऽपि निपातनस्य रूढ्यर्थत्वात् पण्यशब्दस्य व्यवहर्तव्ये एव रूढत्वादर्थनियमो लभ्यते । उक्तञ्च - धातुसाधनकालानां प्राप्यर्थे नियमस्य च । अनुबन्धविकाराणां रूढ्यर्थं च निपातनम् ॥ इति ।
वृङ् सम्भक्तौ (कन्या०आ०३७) अस्माद्यत् अप्रतिबन्धे । शतेन सहस्रेण वर्या कन्या । शतसहस्रशब्दावनियतवचनौ, कन्याया वरणे वरयितॄणां नि- यमो नास्तीत्यर्थः । 'वृङ' एवेदं निपातनम, तत्रैव अनिरोधसम्भवात् । तेन 'वृञ् वरणे' (स्वा० उ०८) इत्यस्मात् "पतिस्तुशास्" (पा०सु०३१-१०९) इत्यादिना क्यबेव, वृत्या । इह सुत्रे अवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जलन्तस्य निर्देश: । तेन 'वर्या' इति स्त्रियामेव निपात्यते । अस्त्रियान्तु "ऋहलोः " ( पा०सु०३-३१२४) इति ण्यदेव - वार्या ऋत्विजः, इति वृत्तिकारमतम् । न चात्र "एतिस्तु" (पा०सू०३-१-१०९) इति क्यप् शङ्खयः, तत्र 'वृञ' एव ग्रहणं न तु 'वृङ' इति वक्ष्यमाणत्वात् ।
भट्टिस्तु द्वन्द्व जसा निर्देशं मन्वानः पुल्लिङ्गेऽपि यतं प्रायुङ्कसुग्रीवो मम वर्योऽसौ भवता चारुविक्रमः । इति ।'
पुरुषोत्तमादयोऽप्येवम् ।
वह्यं करणम् (पा०सू०३-१-१०२ ) ॥ वह्यं निपात्यते करणं चेद्भ• वति । वहस्यनेनेति वहां शकटम् । करणे किम् ? वाह्यम् अभ्यत्, वहन कर्मेत्यर्थः ।
अर्यः स्वामिवैश्ययोः (पा०सू०३-१-१०३) ॥ ऋ गतौ (स्वा०प०९६१) अस्मात् ण्यति प्राप्ते यत् निपात्यते । अयः स्वामी वैश्यो वा । स्वाति
Page #415
--------------------------------------------------------------------------
________________
४०६ शब्दकोस्तुभतृतीयाध्यायंप्रथमपादे षष्ठाहिकेवैश्ययाः किम ? आर्यों ब्राह्मणः । प्राप्तव्य इत्यर्थः। अत्र माध्ये 'स्वामि. न्यन्तोदात्तत्वञ्च'इत्युक्तम् । वैश्ये तु "यतोऽनावः" (पा०९०६-१-२१३) इति आद्युदात्तमेव । मथ यो वैश्यः स्वामी च तत्र कथमिति चेत ? वैश्यत्वविषक्षायामाधुदात्तम, स्वामित्वविवक्षायामन्तोदात्तम् । अत एव 'अर्यः स्वाम्याख्या चेत्' इति फिट्स्त्रे आख्याग्रहणं कृतम् । तथा चेहशे विषये युगपदर्थद्वयधिवक्षा न कर्तव्यैवेति फलितोऽर्थः।
उपसर्या काल्या प्रजने (पासू०३-१-१०४)उपपूर्वात्सृधातोभौवा. दिकात जौहोत्यादिकाय बत् : निपात्यते प्रथमगर्मग्रहणे प्राप्तकाला चेत । उपसर्या गौर, गर्भाधानार्थ वृषमेणोपगन्तुं योग्या इत्यर्थः । काल्याप्रजने इति किम उप्रसार्या शरनि मधुरा, प्राप्तव्या, इत्यर्थः । कर्मणिं ण्यत् । हाल्वात्यत्र सदस्यप्राप्तम्' इति वर्तमाने "कालाधन" (पासू०५-१-१०७) इति यत् । प्रजननं प्रजना, भावे घ। जनिः वध्योश्च" (पासू०३-३९) इति वृद्धिनिषेधः।।
अजय सङ्गतम्पा०स०३-१-१०५)॥निश्पूजीर्यतेः कर्तरि यनिपात्यते सङ्गतं चेव विशेऽयम् 1: संजतम्' इति नपुंसके भावे का। न जीर्यतीत्यजय सतां सकतम् । इह 'अजर्यम्' इति समुदायस्य सावं वाच्यम् इत्यर्थो न प्राह्यः, उदाहरणे सहप्रयोगानुपपत्तेः । तच 'घटः कलश' इतिवत् व्याख्यानपरतया सहप्रयोगः;
तेन सङ्गतमार्येण समाजय कुरु द्रुतम् । इति भट्टिप्रयोगात् ।
मृगैरजर्य जरसोपदिष्टमदेहबन्धाय पुनर्वबन्ध । इति कालिदासप्रयोगस्तु 'सङ्गतम्' इत्यध्याहत्य व्याख्येयः। सङ्गतं किम् ? अजरिता कम्बलः । कर्तरि निपातनम् इत्युक्तत्वात् भाषे सङ्गतकर्तृकेऽपि ण्यदेव भवति । 'अजाये सजतेन' इति ।
वदः सुपि क्यप् च (पा०स०३-१-१०६) । 'अनुपसर्ग इति वर्तते' इति वृत्तिकृत् । वदेर्धातोरनुपसर्गे सुप्युपपदे क्यप् स्यात् चाचत् । ब्रह्मोद्यम्, ब्रह्मवयम्, भावे क्यप् पूर्ववत्सम्प्रसारणम् । ब्रह्म घेदा, तस्य वदनमित्यर्थः । ननु सकर्मकादावे कृत् प्रत्ययो दुर्लमः, "भावे चाकर्मकेभ्यः" "तयोरेव कृत्यकललाः " (पासू०३-४-६९,७०) इति वक्ष्यमाणत्वादिति चेत् ? सत्यम्, उत्तरसूत्रादिह भावग्रहणस्यापक. र्षणानोक्तदोषः । इह सूत्रे अनुपसर्गग्रहणस्यानुवृत्तिर्यधपि वृत्तिमा प्यादिषु स्थिता, तथापि सा नावश्यकी, "सत्मद्विष" (पा०सू०३-२६१) इति सूत्रे उपसर्गग्रहणं बापकम्-'अन्यत्र सुग्रहणे उपसर्गप्र.
Page #416
--------------------------------------------------------------------------
________________
धास्वधिकारे कृत्प्रकरणम् ।
४०७
हणं न' इति वक्ष्यमाणेन गतार्थत्वात् । 'सर्वथाऽप्युपसर्गेन' इति फलं निर्विवादम् । तेनेह प्यदेव-प्रवाद्यम, अनुवाद्यम, अपवाद्यम् ! यत्तु भट्टवार्तिके 'अनूद्यम्' इति प्रयुक्तं व्याकरणाधिकरणे, तत्र निश्चम..
नुशब्दे उपपदे क्यपं विधाय नसमासे सति कथञ्चित्समाधेयमिति न्यायसुधायामेव स्पष्टम्।
भुवो भायें (पासू०३-१-१०७) ॥ भवतेरनुपसर्गे सुप्युपपदे क्यप् स्यात् माघे । यत्तु नानुवर्तते, पूर्वसूत्रे चानुकृष्टत्वात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुपि इत्येव-भव्यम् । अनुपसर्गे इत्येव-प्रभव्यम । ननु अनुपसर्ग भवतिरकर्मकः, तस्माद्भाव एव भविष्यति, तर्तिक भावना हणेनेति चत् ? मैवम् , प्राप्त्यर्थात्कर्मणि प्रसङ्गात्सत्तार्थकादपि काला. दिकर्मणि प्रसङ्गात् उत्तरार्थत्वाच्च । ____हनस्त च (पा०स०३-१-१०८)॥ हन्तेर्धातोरनुपसर्गे सुबन्ते उपपदे भावे क्यप् स्यात् तकारश्चान्तादेशः। ब्रह्महत्या । एतत्सुत्रविहित. क्यप्प्रत्ययान्तस्य स्वभावात् स्त्रीलिङ्गत्वमेव लोके । छन्दसि तु क्लीब. तापीप्यते । सनादेव दस्युहत्याय जशिषे ।।
छन्दसि त्रियां क्यप् चिद्वक्तव्यः (काभ्वा०) ॥ तरति ब्रह्महत्यां योऽश्वमेधेन यजते । सुपीति किम् ? घातो वर्तते । ण्यत्तु न भवति, सकर्मकाद्भावे विधानाभावात् । कर्माविवक्षायामकर्मकत्वेऽपि न भवति, अनभिधानात् । अनुपसर्ग इत्येव । प्रघातो वर्तते ।।
एतिस्तुशास्वृजुषः क्यप् (पासू०३-१-१०९)।सुप्यनुपसर्गे भाष इति निवृत्तम् । एभ्यः क्यप् स्यात् । 'पति' इति इण एव ग्रहणं नेडिकोः, तयोरधिपूर्वयोरेव प्रयोगांत 'एति' इति निर्देशानुपपत्तेः । तथा च "रक्षार्थ वेदानामध्येयं व्याकरणम्"इति भाज्ये यदेव प्रयुक्तः। केचित्त "हण्वदिक इति वक्तव्यम्" (का०वा०) इति वचनादधीत्यमि. त्युदाहरन्ति । इत्यः। कथन्तर्हि उपेयमिति ? ईङ् गतौ (दि०आ०३७) इति देवादिकाद्यत् । स्तुत्यः। शिष्यः, "शास इदहलोः" (पा०स०६४-३४) इति इत्वम्, "शासिवसि" (पासू०८-३-६०) इति षत्वम् । 'माङ शासु इच्छायाम्" (अ०आ०१२) इत्यस्यापि ग्रहणम्, अविशे. षात् । तेन 'आशास्थम्' इति धातुस्वरेण मध्योदातं पदं भवति । ण्यति तु "गतिकारकोपपदात्कृत्" इति अन्तस्वरितत्वं स्यात् । के. चित्तु "शासु अनुशिष्टौ" (म०प०६५) इत्यस्यैव ग्रहणमिच्छन्ति । '' इति वृनो ग्रहणं न वृङः पूर्वोत्तरसाहचर्येणोभयपदिनो ग्रहणा शाप. कात् । यदयं "ईडवन्दवृशंसदुहां ण्यतः" (पा०पू०६-१-२१) इति वार्याः ।
Page #417
--------------------------------------------------------------------------
________________
૨૦૮ शब्द कौस्तुभ तृतीयाध्यायप्रथमपादे षष्ठाह्निके
शब्दस्याद्युदात्तत्वं शास्ति । तत्र हि इंडिवन्दिभ्याम् अकारवद्विकरणप्रकृतिभ्यां साहचर्यात आत्मनेपदिनो वृङो ग्रहणम् । वृत्यः । दृत्यः । जुष्यः । 'क्यप्' इति वर्तमान पुनः क्यष्ग्रहणं बाधकबाधनार्थम् । तेन "ओरावश्यके" ( पा०सू०३-१-१२५) इति ण्यतं बाधित्वा क्यदेव भवति । तथाहि इह सूत्रे स्तौतिग्रहणस्यावकाश आवश्यकाविवक्षायां स्तुत्य इति, " ओरावश्यके" इत्यस्यावकाशो 'अवश्यलाव्यम्' | 'अवश्य स्तुत्य ः ' इत्यत्र उभयप्रसङ्गे परत्वात् ण्यत् स्यात् पुनः क्यष्ग्रहणात् क्य. बेव भवति ।
शसिदहिगुहिभ्यो वेति वक्तव्यम् (का०वा० ) ॥ शस्यम्, शंस्यम् | दुह्यम्, दे।ह्यम् । गुह्यम्, गोद्यम् । एतच्च वृत्तावेव स्थितम् । भाष्ये तु नास्ति तत्र "प्रशस्यस्य श्रः " ( पा०सु०५-३-६०) "इंडवन्दवृशंसदुहां ण्यतः " ( पा०सु०६-१-२१४) इति सूत्रद्वयप्रामाण्यात् शंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् ।
आङ्पूर्वादज्जेः संज्ञायामुपसंख्यानम् (का०वा० ) || अज्जू व्यक्ति क्षणादिषु (रु०प०२१) । अस्मात् बाहुलकात्करणे क्यप् । “अनिदितां हल" (पा०सु०६-४-२४) इति नलोपः, आज्यम् । ननु ण्यत्येव नलोपः कस्मानोक्त इति चेत् ? न, कुत्वप्रसङ्गात्, तित्स्वरप्रसङ्गाच्च । तस्मात्क्यबन्त एवायम् । नन्वेवमवग्रहः प्राप्नोति न चेष्टापत्तिः, आ ज्यं किमासीत्परिधिः क आसीत्" इत्यादौ पदकारस्तदकरणात् । इति चेत् ?
60
अत्र भाष्यम्(--न लक्षणेन पदकारा अनुवर्त्यः पदकारैस्तु लक्ष णमनुवर्त्त्यमिति । अयमाशयः -- संहितैव नित्या पदविच्छेदस्तु पौरुयः । अत एवार्थविनिश्चयाभावान्नावगृह्णन्ति । यथा 'हरिद्रव' इति । अत्र किं हरिशब्द इकारान्तः; उत हरिच्छन्दस्तकारान्त इति सन्देहः, किञ्च "वनेन वायः" इति मन्त्रे " वेति चय इति च चकार शाकल्यः" . इत्युपन्यस्य "उदात्तं त्वेवमाख्यातमभविष्यत्" इति अधायिशब्दे अट्श्वरप्रसङ्गेन दूषयित्वा वेरपत्यं 'वाय' इत्येकपद्येन सिद्धान्तं कुर्वन् यास्कः पदविभागस्य पौरुषेयत्वं स्पष्टमेवाचष्टे । अपि च सति पदत्वे अवग्रहः, असति तु न, इति द्वयमपि प्रायोवादमात्रं सम्प्रदायानुरोधादुभयस्यापि बहुधा परित्यागो दृश्यते एव, "गोभिर्मदाय" “गोभ्यो गातुम्" इत्यादी अवग्रहाभवात् "ईयिवांसमतिस्त्रिधः" "देवयन्तो यथामतिम्" इत्यादाववग्रहाचवेति दिक् ।
प्रक्रिया कौमुद्यान्तु अज गतौ क्षेपणे च' (स्वा०प०२३०) इत्यस्य
Page #418
--------------------------------------------------------------------------
________________
पारपधिकारे प्रकरणम् ।
४०१ 'आज्यम्' इत्युक्तं, तत्तु भाज्यविरुषम् , अर्थाननुगुणश, इति मामा. णिकैरुपेक्ष्षमेष ।
ऋदुपधाच्चाक्लपितेः (पा०स०३-१-११०)॥ऋकारोपधाद्धातोः क्यप् स्यात् क्लापिचती वजयित्वा। वृत्-वृत्यम् । वृध-वृध्यम् । अक्ल. पिचतेरिति किम् ? कृपू सामर्थ्य (भ्वा०आ०७६३) कल्प्यम् । कृपेलत्व. स्यासिद्धत्वात् ऋकारलकारयोः सवर्णसंशाविधानाच्च ऋदुपघत्वम् ।
ति हिंसाग्रन्थनयोः (तु०प०४४) चवंम् । तपरकरणं किम् ? कृत संशब्दने (चु०प०१२०), णिजभावे ण्यदेव भवति । कीर्वम् । इदमेव च तपरकरणं लिङ्गम् , “अनित्यण्यन्ताश्चुरादयः" इत्यत्र । णिजन्ता. तु णिलोपे कृते चाहते च दित्स्यमितिवद्यदेव । तेन "यतोऽनावा" (पा०स०६-१-२१३) इत्याधुदात्तता भवति ।
ईच खनः (पा०स०३-१-१११) । खनः क्व स्थात् इंकारखान्तादेशः । दीघनिर्देशः प्रश्लेषार्थः । तत्र द्वितीय इकारो "ये विभाषा' (पा० सु०६-४-४३) इत्यात्ववाधनार्थः । अन्यथा “ये विभाषा" इत्यस्यावका श:-'खायते' 'खन्यते' । इत्वस्वावकाशः बस्मिन्पक्षे आत्वं नास्ति । आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात् । “ये विभाषा' शांत विषयसप्तमी । तथा च यकारादी बुद्धिस्थे एव भवदात्वमन्तर. कम् । अयंत्विकारः क्यपा सह विधानाद्वहिरङ्गः । तदित्यम्-"ये वि. भाषा" इति विषयसप्तमीति पक्षमाश्रित्य सूत्रकृता दीर्घोच्चारणं कृ. तम् । भाष्यकृता तु परसप्तमीमाश्रित्य प्रत्याण्यातम् । तथाहि, परस. समीपक्षे इत्वमन्तरङ्गम् , परनिमित्तमनपेक्ष्य विधानात् । क्यप्सन्नियो. गशिष्टं हि तत् । तथाच तदेवात्वस्य बाधकम् । ननु हस्वादेशे तस्य पूर्वेण सह आद् गुणे सत्यपि “षत्वतुकोरसिद्धः" (पा००६-१-८६) इति एकादेशस्यासिद्धतया "इस्वस्प पिति कृति तुक्" (पासू०६१-७१) इति तुछ स्थात् अतो दीर्घ एव विधेयः इति चेत् । न, पदान्तपदाधारकादेशस्तुग्विधावसिद्धः, न त्वन्योऽपिइति वक्ष्यमाण. त्वात् । अन्यथा 'वृक्षे छत्रम्' इत्यत्र डी आद्गुणस्वासिद्धत्वात् "छ च' (पासू०६-१-७३) इति हस्वाश्रयो नित्यस्तुक् स्यात् , इण्यते तु "दीर्घात" "पदान्तावा (पा०सू०६-१-७५,७६) इति दिक् । खेयम् । ___ भृतोऽसंशायाम् (पासू०३-१-११२) ॥ क्यप् स्यात् । भृत्याः कर्मकराः, भर्तव्या इत्यर्थः । तथा च क्रियाशग्दोऽयं, न तु संक्षा।
समश्च बहुलम् (का०वा०) ॥ असंज्ञायामेव । सूत्रेण नित्यं प्राप्तस्व क्यपो विकल्पार्थमिदं वार्तिकम् । सम्भृत्याः, सम्भार्याः । असंज्ञायां
Page #419
--------------------------------------------------------------------------
________________
शब्द कौस्तुभतृतीयाध्याय प्रथमपादे षष्ठाह्निके
४१०
किम् ? भार्यो नाम क्षत्रियः ।
संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति ॥ अथवा बहुलं कृत्याः संज्ञायामिति व स्मृतम् । यथा पत्यं यथा जन्यं यथा भित्तिस्तथैव सा ॥ अस्यार्थः- ते तव सूत्रकारस्य भार्याशब्दो न सिध्यति, ण्यतं बाधिस्वा "संशायां समजनिषद" (पा०सु०३-३-९९) इत्यादिना क्यपः प्रस ङ्गात् । ननु 'भृञो ऽसंज्ञायाम्" (पा०सु०३-१-११२ ) इति प्रकृतसूत्रे संज्ञायां निषेधसामर्थ्यात् "संज्ञायां समज" (पा०सु०३-३-९९) इत्यादिसुत्रान्तरप्राप्तोऽपि क्यप् भृञः संज्ञायां न भविष्यति । न चैवं तत्र " संज्ञायाम्” इत्थस्य वैयर्थ्ये, धात्वन्तरेषु चरितार्थत्वात् इत्याशङ्कयाह-संचायामि. त्यादि । प्रतिषेधस्येति शेषः, 'असंज्ञायाम्' इत्वस्य प्रतिषेधस्य पुंसि 'भार्थो नाम क्षत्रियः' इत्यत्र दृष्टत्वात् चरितार्थत्वात् । तथा च सामयै नास्तीति भावः । तस्मात् भार्याशब्दो न सिद्ध्यतीति चोद्यं सुस्थम् ।
उत्तरमाह - स्त्रियां भावाधिकारोऽस्तीति । ननु " संज्ञायां समज'' ( पा०सु०३-३-९९) इति सूत्रे वृतिकृद्रक्ष्यति भावे इति न स्वर्यते पूर्वएवाधिकार इति । युक्तं चैतत्, 'समजन्ति तस्यामिति समाज्या' 'निषीदन्ति तस्यामिति निषद्या' इत्यादिदर्शनात् । तत्कथमुच्यते ' स्त्रियां भावाधिकारोऽस्तीति ? सत्यम् । स्त्रियां - स्त्रीप्रकरणे "संज्ञायां समज" इत्यादिना क्यपि विधीयमाने भावस्याधिकारः अभिधेयत्वापगमलक्षणो व्यापारोऽस्ति । शब्दशक्तिस्वाभाव्याद्भाव पत्र क्यप् न तु कर्मणीत्याशयः ।
"
एतदपरितोषादेवाह - अथवेति । न पतन्त्यनेनेत्यपत्यम् । अजन्तात् भावकर्मणोर्विधीयमानोऽपि यत् हलन्तात्करणे च भवति । 'जन्यम्' इत्यत्रापि हलन्ताद्यत्, मिति:' इत्यत्र “षिद्भिदादिभ्योऽङ्” (पा०सु० ३-३-१०४) इत्यङो विषये किन् । सर्वमिदं यथा बाहुलकाद्भवति, एवं भार्याशब्दे क्यविषये ण्यद्भवतीत्यर्थः । अथवा इत्थं समाधेयम् - क्य. विधौ भृञ् भरणे (स्वा०३०९२३) इति स्वादिरेव गृह्यते न जौहोत्यादिको सुभृञ् (जु०3०५), ह्यनुबन्धकत्वात् । एवश बिभतेर्वा 'मृज्मरणे' (कन्या०प०१९) इति दीर्घान्तात् क्रयादेर्वा ण्वति भार्याशब्दो निर्वाध एवेति ।
सृजेर्विभाषा (पा०सू०३-१-११३) ॥ ऋदुपधत्वान्नित्यं क्यपि प्राप्ते विकल्पार्थ सूत्रम् । परिमृज्यः । परिमार्ग्यः । व्यत्पक्षे "मृजेर्वृद्धिः" (पा० ०७-२-११४) 'चजो:' ( पा०सू०७३-५२) इति कुत्वम् ॥
Page #420
--------------------------------------------------------------------------
________________
घावधिकारे सरप्रकरणम् ।
४११
राजसूयसुर्यमृषोद्यरुच्यकुप्वकष्टपच्यापथ्याः (पा०स०३-१-११४)। एते सप्त क्यवन्ता निपात्यन्ते । अभिषिक्तः क्षत्रियो राजा तेन सोत. व्योऽभिषवद्वारेण निष्पादयितव्य इत्यर्थे कर्मणि क्यप् । दीर्घत्वञ्च निपात्यते एव्यर्थम् । पदालतात्मकः सोमो राजा, “राजानं कोणन्ति" इत्यादौ दर्शनात् । स सूयते कण्ड्यते अत्र इत्ययें अधिकरणे क्यए । निपातनं रूढ्यर्थम् । तेन आद्यपक्षे अश्वमेधादौ द्वितीयपक्षे ज्योतियोमा. दौ च नातिप्रसङ्गः। राजसुयशदश्च पुनपुंसकलिङ्गोऽर्धर्चादित्वात् । सरत्याकाशमार्गे इति सूर्यः । 'मृ गतौ' (भ्वा०प०९६०)। कर्तरि क्यप् निपातनादुत्वं, रपरत्वं, "हलि च" (पाखु०८-२-७७) इति दीर्घः । यद्वा ' प्रेरणे' (तु०प०१२८) तुदादिः । सुवति-कर्मणि लोकं प्रेरयति इत्यर्थे कर्तरि क्यपि कृते क्यपो रुडागमश्च निपान्यते । मृषोपपदाद्वदेः कर्मणि क्या । पक्षे यति प्राप्त नित्यं क्या निपात्यते। विशेष्यमि. नोऽयम् ।
भवन्ति नोहामगिरां कवीना.
मुच्छ्रायसौन्दर्यगुणा मृषोद्याः। (मा०का०४-१०) इति माघः । रोचते असौ रुच्यः । कर्तरि क्वा ।
गुपेरादेः कुत्वश्च सहायाम् । कुप्यम् । सुवर्णरजतातिरिकस्य धनस्येवं संज्ञा । कष्टे स्वयमेव पच्यन्ते कृष्पच्याः । कर्मकसरि निपात. नम् । इहान्तोदात्तत्वमपि निपात्यते । शुद्धे तु कर्मणि 'कृष्टपाक्यः' इत्येव भवति । न व्यथते अन्यथ्यः, कर्तरि क्या । अत्र वार्तिकानि
स्यरुच्यन्यथ्याः कर्तरि (कावा) ॥
सूसर्तिभ्याश्च सर्तरुत्वम् (काभ्वा०)। सुबतेर्वा रुडागमः (काभ्वा०) ॥ कुप्यं संक्षायाम् (काभ्वा०) इति ।
भिद्योधौ नदे (पासू०३-१-१९५) ॥ भिदेरुज्झेच कर्तरि क्या ड. ज्झर्धत्वच । भिनति कूलं भिधः। उन्झत्युदकम् उद्धयः । नदे किम् ! भेवा । उन्झिता।
पुष्यसिध्यौ नक्षत्रे (पासू०३-१-११६) । पुषेः सिधेश्च अधिकरणे क्यप निपात्यते नक्षत्रे अभिधेये। पुण्यन्त्यस्मिनारब्धा अर्था इति पु. प्यः । सिध्वन्त्यस्मिनिति सिध्यः । नक्षत्रे इति किम् ? पोपणं, सेष. नम् । पुष्यसिध्यशब्दौ पर्यायौ । स्वरूपपरत्वात सूत्रे बन्दः । 'पुण्ये तु सिध्यतिज्यो' (म०को०३-२४) इत्यमरः । तत्र तुष तुष्टौ (दि०प०७८) इत्यस्मात् बाहुलकादधिकरणे पति "सर्यतिष्य" (पा००६-४-१४९) पति निपातनादुकास्येकार इत्येके । 'तिप्या पुष्ये कलियुगे (मको
Page #421
--------------------------------------------------------------------------
________________
४१२
शब्दकौस्तुभत्तीयाध्यायप्रथमपादे पष्चाविक
३-३-१५५) इत्वमरव्याख्याने क्षीरस्वामी स्वाह-त्वष दीप्तो (भ्वा० उ०१०२६) "अध्यादयश्च' (उ०स०५६१) इत्योणादिकवकप्रत्ययान्तः । निपातनाद्वलोपः।
विपूयविनीवजित्या मुञ्जकल्कहलिषु (पासू०३-१-११७) ॥ पूज नीञ्जिभ्यः क्यए निपात्यते यथासंख्यं मुजादिषु वाच्येषु । पृङ् पवन (भ्वा०मा०९९१) विपूर्वः । विपूयो मुखः । 'रज्ज्वाधिकरणाय शोधयितव्यः' इत्यर्थः । मुञ्जस्तृणविशेषः। विनीयः कल्कः। कल्कश. ब्दोऽयमस्ति पिष्टे औषधविशेषे । यथा
पथ्या शुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयाय । इति।
अस्ति च पापे, 'तपो न कल्कोऽध्ययनं न कल्कः' इत्युपक्रम्य 'ता. न्वेव भावोपहतानि कल्कः' इति महामारते दर्शनात् । इह तु प्रथ. मस्य ग्रहणमिति केचित् । अविशेषेणेति हरदत्तः। तथाच माघः प्रा. युक्त--'अविनीयसम्भ्रमविकासिभक्तिभिः' इति । जि अभिमवे (भ्वा०१०९७१) । जित्यो हलिः । 'बलेन क्रष्टव्यः' इत्यर्थः । महद्धलं ह. लिः। कृष्टसमीकरणाथै स्थलकाष्ठमुच्यते। विपव्यम् । विनेयम् । जेयश्चान्यत् । सर्वत्र "अचो यत्" (पा०सू०३-१-९७)।
प्रत्यपिभ्यां ग्रहः (पा०सु०३-१-११८)॥पप् स्यात् । मत्तस्य न प्र. तिगृह्यम् । तस्मानापिगृह्यम् ।
छन्दसीति वक्तव्यम्(कावा०) ॥ लोके तु-प्रतिग्राह्यम्, अपिग्राह्यम्।
पदास्वैरियाह्यापस्येषु च (पा०सु०३-१-११९) ॥ एषु चतुर्वर्थेषु गृहेर्धातोः क्व स्याएं । प्रगृह्यम्पदम् । बस्व प्रगृह्य. संशा विहिनेति वृत्तिः । यद्यपि पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा न तु पदस्य, तथापि अवयवधर्मस्य समुदाये उपचारो बोभ्यः । यद्वा यौगिकोऽयं पदशब्दः पठ्यते, गम्यतेऽनेनार्थ इति । असत्रिकर्षश्चात्र गृहेरर्थः, 'अग्नी अत्र' इत्यादौ हि प्रकृति भावात यणाद्यभावे कियताऽपि कालेन व्यवधानात् परस्परमचो न सशिष्यन्ते । तथा च बव्हचप्रातिशाख्यम्-स्वरान्तरं तु विवृत्तिः, सा वा स्वरभक्तिकालेति । स्वरभक्तिकालस्तु अईमात्रा पादमात्रा वा, द्राधीयसी सार्द्धमात्रेति तत्रैवोक्तत्वात । तथा चाचोरन्तरालस्य वित्तिसंघकस्य वर्णशून्यकालस्य क्वचिदद्धमात्रत्वं क्वचि. त्पादमात्रत्वं चेति फलितोऽर्थः । एतद्वयवस्था तु शिक्षासु बोधन्या । अवगृह्यं पदम् , यस्यावग्रहः क्रियते इति वृत्तिः । भवमहो विच्छेदः । अत्रापि मुहातेरर्थः प्राग्वत्, मात्रा हस्व
Page #422
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् |
४१३
स्तावदवग्रहान्तरमिति प्रातिशाख्यात् । अत्र पदकाले समासे पूर्वपदमेव गृह्णामिति हरदतः । उपलक्षणश्चतत्, 'हरिभिः' इत्या• देरपि सङ्ग्राह्यत्वात् । तस्मात् महापदसंज्ञाक्रान्ते य एकदेशः पदकाल विच्छिद्य पठ्यते, स सर्वोऽप्यवगृह्यमिति स्थितिः । स्वेनैव ईरितुं शी. लमस्व स्वैरी स्वतन्त्रः । अस्वैरी परतन्त्रः । गृह्यका इमे, 'गृहीतका इत्यर्थः । उभयत्रानुकम्पायां कन् । पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते ।
गृहासक्ताः पक्षिमृगाः छेकास्ते गृह्यकाश्च ते ।
I
( अ०को ०५ - ४६ ) इत्यमरः । बाह्यायाम - ग्रामगृह्णा, नगरगृह्या सेना । 'प्रामनगराभ्यां बहिर्भूता' इत्यर्थः। स्त्रीलिङ्ग निर्देशात्पुन्नपुंसकयोर्न भवति । पक्षे भवः - पक्ष्यः । दिगादित्वाद्यत् । वासुदेवगृह्यः । आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ।
विभाषा कृवृषोः (पा०सु०३-१-१२० ) ॥ क्यप् स्यात् । पक्षे ण्यत् । कृत्यम् | कार्यम् । वृषु सेचने (स्वा०प०७०७) । वृष्यम् । वर्ण्यम् ।
युग्यञ्च पत्रे (पा०स्०३-१-१२१) ॥ पतन्त्यनेन पत्रं वाहनम् । "दाम्नीशस" (पा०सू०३-२-१८२) इत्यादिना करणे छून । तस्मिन्नर्थे युजेः कर्मणि क्यप् कुत्वञ्च निपात्यते । युग्यो गौः । पत्रे किम् ? 'योग्यम्' अन्यत् । ण्यति "चजो" (पा०सू०७-३-५२ ) इति कुत्वम् ।
अत्र हरदन्तः - प्राग्घितीयेन यतेवं सिद्धम् " तद्वहतिरथयुगप्रासङ्गम्” (पा०सु०४-४-७६) इति । स्वरेऽपि नास्ति भेदः । क्यपि धातुस्वरः, यत्यपि "यतोऽनाव:" (पा०सु०६-१-२१३) इत्याद्युदात्तत्वम् । 'अयुग्यम्' इत्यत्रापि न स्वरभेदः । 'ययतोवातदर्थे” (पा०सू०६-२१५६) "कृस्योष्णुर्वादयश्व" (पा०स्०६-२- १६० ) इत्युभयत्रापि अन्तोदात्तत्वविधानात् । तस्मादिदं सूत्रं शक्यमकर्तुमिति ।
अत्रेदं वक्तव्यम् । 'युग्यो गौः' इत्यादिसिद्धावपि 'युग्यो हस्ती' इति वृचाइदाहृतं तद्धितेन न सिध्यति, नहि हस्ती युगं वहतीति । कृता तु सिध्यति युज्यते सम्बध्यते हासौ कुथादिनेति । किञ्च असत्यस्मि• पूत्रे ण्यत्प्रत्ययेन 'बोग्यो गौः' इत्यपि स्यात् । अपि च स्वरभेदोऽपि पाक्षिकोऽस्त्येव । " क्रतुर्भवत्युक्थ्यः" इत्यादौ तित्म्बरदर्शनात् । "यतोSनाथः” (०सु०६-१-२१३) इति सूत्रं यदन्ते यच्के एकाच्प्रकृतिक एव प्रवर्तत इति वेदभाष्यकारप्रतिपादिते पक्षे स्वरभेदस्य दुर्वारत्वादिति दिक् ।
समावस्वदन्यतरस्याम् (पा०सू०३-१-१२२) । अमाशब्दः सहार्थे
.
Page #423
--------------------------------------------------------------------------
________________
४१४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे पष्ठालिकेवर्तते, 'अमात्यः' इत्यादौ दर्शनात। तस्मिन्नुपपदे घसेर्धातोरधिकरणे ण्यत् तन्निमित्तायां वृद्धौ सत्यां पाक्षिको इस्वश्च निपात्यते । निपात. नादेव कालविशेष रूढिलभ्यते । अमा सह सन्निकृष्टौ बसतोऽस्यां चन्द्रार्को इस्यमावस्या, अमावास्या । एकदेशविकृतस्यानन्यत्वात "अमावास्याया वा" (पा०सु०४-३-३०) इति दीर्घमध्यमनूध विहित. स्तद्धितो इस्वमध्यादपि सिद्धधति । यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्ते 'अमावास्या' इत्याधिकरणे ण्यदेव तावद् दुर्लभः । अथापि बाहुलकाल्लभ्येत, एवमपि "अमावास्याया वा' (पा०स०४-३-३०) इत्यत्र ण्यदन्तग्रहणे यदन्वं न गृोत । किश ण्यत्पक्षे उपपदसमासो न स्यात् । मयूरव्यंसकादित्वाद्भविष्यतीति चेत् ? एवमपि "गतिकारकोपपदात" (पा०स०६-२-१३९) इति स्वरो न स्यात् , किं त्वन्तोदात्तः स्यात्, इन्यते तु तित्स्वर एव "अमावास्या. सुभगा सुशेव" 'यदारनेयोऽष्टाकपालोऽमावास्यायाम् इत्यादौ स्थाश. म्दे स्वरितत्वस्य शेषानेयातस्य च पठयमानत्वात् । तस्मात् "ण्यदन्तस्यैव वृद्धौ सत्यां पक्षे हस्वो निपात्यते" इति यथान्यास्थानमेवाद। व्यम् । तथा च भाष्यम्
अमावसोरहं ण्यतानिपातयाम्यवृद्धिताम् । तथकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति । इह व्यक्तिमेदाश्रयो द्विवचननिर्देशः । एकस्योति शेषः । ण्यतो:ज्यदन्तयोः । अमापूर्वयोर्वसोर्मध्ये एकस्य अवृद्धिता इस्वम् अहं निपातयामि । सत्रकारेणैक्यमापनस्येयमुक्तिः। तथा सति तयोः शब्दः योरेका तद्धितवृत्तिर्ययोः तत्ता सिध्यति एकदेशविकृतस्यानन्यवाद । एवं निपातयतो मे स्वरोऽपि सिध्यति । स च व्याख्यात एव । नच सिद्धान्तेऽपि उत्तरपदप्रकृतिस्वरो दुर्लभः, सत्रे सप्तम्यमावेन उपपदः संज्ञाया अप्रवृत्तौ उपपदात्परत्वाभावादिति वाच्यम्, 'अमाइति सप्त. म्या लुका निर्देशादिति भावः।
छन्दसि निष्टयंदेवाहूयप्रणीयोनीयोच्छिष्यमर्यस्तश्विर्यखन्यवान्यदेवयज्यापृच्छयप्रतिषाव्यब्रह्मवाद्यभाव्यस्ताव्यापचाय्यपृडानि (पा० सू०३-१-१२३) ॥ एतानि सप्तदश छन्दसि निपात्यन्ते । कृती छेदने (तु०प०१५५) अस्मात् मिस पूर्वाक्यपि प्राप्ते ण्वत्, आचन्तयोर्विप. र्यासः, निसः षत्वं च निपात्यते, निष्टय चिन्धीत पशुकामः । देवश. ब्द उपपदे व्हयतेजुहोतेर्वा क्यप् दीर्घत्वं तुगभावश्च, स्पर्धन्ते वा उ. देवहूये । पत्र प्रपूर्षादुरपुर्वाष नयः क्यए, प्रणीयः, उन्नीयः ।
Page #424
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
उत्पूर्वाच्छिषेः क्यप्, उच्छिष्यम् । सृङ् प्राणत्यागे (तु०आ०१२३), स्तृञ् आच्छादने ( स्वा० उ०६ ), ध्वृ हुछेने (स्वा०प०९६४) एभ्यो यत्, मर्यः, स्तर्या, स्त्रियामेवास्य निपातनम् । ध्वर्यः । खनेर्यत्ष्यतो, खन्यः, खाम्यः । देवशब्द उपपदे यजेर्यप्रत्ययः, शुन्धध्वं देव्याय कर्मणे देवयज्यायै | प्रत्ययस्वरेणान्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरः । स्त्रीलिङ्ग एवेदं निपातनम् । आङ्पूर्वात्पृच्छः क्यप्, आपृच्छ्यं धरुणं वाज्यर्षति । प्रतिपूर्वात्सीतेः क्यप् षत्वञ्च प्रतिषीव्यः । ब्रह्मण्युपपदे वदेत्, "बदः सुपि कयप् च' (पा०सु०३-१-१०६) इति प्राप्तयोः कषन्यतोरप वादः, ब्रह्मवाद्यम् । अथ कथं 'ब्रह्मोद्यं वदन्ति" (ऋ०श्रो०स्०२-४) इति ? छन्दसि विशेषविहितेन ण्यता लोके चरितार्थस्य "वदः सुपि” इति क्यपो बाधप्रसङ्गात् । न च "वासरूप" (पा०सू०३-१-९३) न्यायः सरू पत्वात, "नानुबन्धकृतमसारूप्यम्” (प०मा०८) इत्युक्तत्वात् । सत्यम्, कृद्वयत्ययोऽत्र बोध्यः । उक्तं हि, "कालहलच स्वरकर्तृयडां च" इति । तत्र हि कर्तृप्रहणं कृत्प्रत्यय परामेत्यवोचाम |
भवतेः स्तौतेश्च ण्यत्, भाव्यः, स्ताव्यः । उपपूर्वाचिनोतेर्ण्यत् आयादेशश्च निपात्यते पृडे उत्तरपदे । मृड सुखने, पृड च (तु०प०४७, ४८) । इत्येतस्मादिगुपधलक्षणः कः, उपचाय्यपृडम् |
हिरण्य इति वक्तव्यम (का०वा० ) ॥ उपचेयपृडमेवाम्यत् । अत्र बार्त्तिकम् -
निष्टकर्ये व्यत्ययं विद्यात् निसः षत्वं निपातनात् । यदायादेश इत्येतौ उपचाय्ये निपातितौ ॥
यदेकस्माच्चतुर्थः क्यप् चतुभ्वंश्च यतो विधिः । व्यदेकस्माद्यशब्दश्च द्वो क्यपौ ण्यद्विधिश्चतुः ॥
४१५
व्यस्वयमिति, माद्यन्तविपर्यासमित्यर्थः । 'चतुर्भ्यः' इति देवहूया - दिषु चतुभ्यो धातुभ्यः क्यप्, उपसर्गभेदान्नयतेर्भेदः । द्वो क्यपाविति, द्वाभ्यां धातुभ्वां द्वाविति भावः । ण्यद्विधिञ्चतुरिति सुजन्तम् । 'चतुरो वारान् यद्विधीयते' इत्यर्थः ॥
ऋइलोर्ण्यत् (पा०सु०३-१-१२४) ॥ ऋवर्णान्तात् धातोईलन्ताच्च ण्यत् स्वात् कार्यम्। हार्यम् । वाच्यम् । पाच्यम् । सुत्रे पञ्चम्यर्थे षष्ठी । 'ऋ'इति च अर्ग्रहणं न भवति, किन्तु वर्णग्रहणम्, हला साहचर्यात् । 'परङ्कार्यम्’(पा०सू०१-४-२ ) इति निर्देशात् । "ईडवन्दवृशंस दुहां ण्यतः " (पा०सु०६-४-२१४) इति लिङ्गाश्च । अत्र वार्तिकानि-
पाणी सृजेयं द्विधिः (का०वा० ) ॥ ऋदुपधत्वात्प्राप्तस्य क्यपोऽपवा
Page #425
--------------------------------------------------------------------------
________________
४१६ शब्दकौस्तुमतृतीयाध्यायप्रथमपादे षष्ठाहिकेदः । पाणिभ्या सृज्यते पाणिसर्या रज्जुः ।
समवपूर्वाञ्चेति वकव्यम (कावा०) ॥ समवसर्या ।
लपिदमिभ्याश्चेति वक्तव्यम् (का०वा०) ॥ अपलाप्यम् । अवदा. भ्यम् । आभ्यां "पोरदुषघात्" (पा०सु०३-१-९८) इति प्राप्तस्व यतोऽ पवादः । अत्र 'दभिः' धातुवपठितोऽपि वार्तिकवचनात् चुराधन्ते "बहुलमेतन्निदर्शनम्" (चुगलसू०) इति बहुलग्रहणाच्चुलुम्पादिव. साधुः । तथा च प्रयुज्यते-"न तानशन्ति न इभाति तस्करः" इति, "विष्णुर्गोपा अदाभ्यः" इति च । जयादित्यस्तु आधं वार्त्तिकद्वयम् "एतिस्तुशास्वृ' (पासू०३-१-१०९) इति सूत्रे पठित्वा तृतीयवार्तिको तयोर्धास्वोर्मध्ये लपिम्, "आसुयुवपि" (पासू०३-१-१२६ ) इति सूत्रे रपेरुपरि प्रक्षिप्य अनुक्कसमुच्चयार्थेन चकारण दभेः सङ्ग्रहमाह । तत्र धैरूप्यं निर्बीजमवेत्यवधेयम् । ___ ओरावश्यके (पासू०३-१-१२५) ॥ उवर्णान्तावातोपत् स्यात आवश्यके घोत्ये। अवश्यं भाव आवश्यकम्।मनोशादित्वाद् वुन् । “अन्य यानां भमात्र टिलोपः" (का०वा०)। लाव्यम् । पाव्यम् । धोतितार्थस्या. पि क्वचित्प्रयोगो दृश्यते, लाघवं प्रत्यनादरात् । अवश्यलाव्यम् । अत्रो. पपदसमासासम्भवेऽपि मयूरव्यंसकादेराकृतिगणत्वात्समासः । उत्त. रपदप्रकृतिस्वरत्वमपि तत्रैव निपातनाद्वोध्यम्। ___ आसुयुवपिरपित्रपिचमश्च (पा०सू०३-१-१२६) ॥ आपत्सुिनो. तेयुप्रभृतिभ्यश्च ण्यत् स्यात्। "अचो यत्""पोरदुपधात्"(पासू०३-१९७,९८) इति यथायोगं प्राप्तस्य यतोऽपवादः । अत्र रपेरुपरि लपित. तिकता प्रक्षिप्त इत्युक्तम् । षुन अभिषवे (स्वा००१) । आसाव्यम् । यु मिश्रणे (म०प०२३) । याव्यम् । 'युञ् बन्धने' (क्या०उ०७) इत्यस्य तु सानुबन्धकत्वान्नेह प्रहणम्। वाप्यम् । राप्यम् । अपत्राप्यम्। आचाम्यम्। ___ आनाय्योऽनित्ये (पासू०३-१-१२७) ॥ नयतेरापर्वात् ण्यदायादेशौ निपात्यते । रूत्यर्थमपि निपातनम् । तेन घटादौ न भवति । किन्तु दक्षिणाग्निविशेष एव भवति । तथाहि-दक्षिणाग्नेनिर्विकल्प्यते वैश्यकुलाद्वित्तवतः भ्राष्ट्राहा गार्हपत्याद्वेति । तत्र यो गाईपत्यादानी यते आहवनीयेन सहैकयोनिः, तत्रैवेदं निपातनं, तस्य चानित्यत्वम् , सततमप्रज्वलनात् । अत्र भाष्यम्
मानाय्योऽनित्यइति चद्दक्षिणानौ कृतं भवेत् । एकयोनौ तु तं विद्यादानेयो हन्यथा भवेत् ॥ बेदित्यस्यानन्तरं घटादिम्वतिप्रसङ्ग इति शेषः। भवेदिति सम्मा.
Page #426
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
४१७
वने लिङ्, निपातनादेव रुढिः सम्भाव्यत इत्यर्थः। एकयोनाविति । आहवनीयेन सहेति शेषः । आनेय इति । घटादावनित्ये भिन्नयोनौ च दक्षिणाग्नौ "अचो यत्" (पा०सू०३-१-९७) इति यदेव भवतीत्यर्थः ।
प्रणाय्योऽसम्मतो (पा०सू०३-१-१२८) ॥ सम्माननं सम्मतिः । श्री. तिविषयभावोपगमनं कर्मव्यापारोऽत्र विवक्षितः । तथा भोगविषय मादरोऽपि सम्मतिः । तन्त्रेणार्थद्वयं विवक्षितम् । तेन पूजानहें निष्का. मे च प्रपूनियतेः ण्यदायादेशौ निपात्येते। प्रणाय्यश्चोरः। ज्येष्ठाय पुत्राय पिता ब्रह्म प्रवयात् प्रणाय्यायान्तेवासिने नान्यस्मै कस्मै चन । ___ पाय्यसान्नाय्यानकाय्यधाय्या मानहविर्निवाससामिधेनीषु (पा० सू०३-१-१२९) ॥ यथासंख्यं चतुषु चत्वारो निपात्यन्ते । पाय्यं मानम् । मीयतेऽनेन मानम् । माङो ण्यत्प्रत्ययः करणे । "आतो युक् चिण्कृतोः". (पासू०७-३-३३) इति युक् । धात्वादेः पत्वञ्च निपातनात् । मेयम. न्यत् । सानाय्यं हविर्विशेषः। सम्यङ् नीयते होमार्थमग्नि प्रतीति । सम्पूर्वानयतेयंदायादेशौ उपसर्गदीर्घत्वञ्च निपात्यते । ऐन्द्रन्दध्यमा. वास्यायाम् ,ऐन्द्रंपयोऽमावास्थायामिति विहितयोधिपयसोःसंशेवम्।
माघस्तु यथाश्रुतग्राही हविर्मात्रे प्रायुतप्रतिशरणमीणज्योतिरन्याहितानां विधिविहितविरिन्धैः सामिधेनीरधीत्य । कृतगुरुदुरितोषध्वंसमध्ययुर्मुख्यै। इंतमयमवलीढे साधुलानाय्यमग्निः ॥ इति । (मा०का०११-४१)
नन्विदमपि दधिपयोविषवकमेव किं न स्यादिति वाच्यम्, च. न्द्रोदयास्तमयवर्णनपूर्वकं सूर्योदयं प्रक्रम्य पठितस्यास्य कृष्णप्रतिप. विषयत्वेन तत्र दधिपयोयोगस्यासम्भवात् । हविर्विशेषवाचकस्य सा. मान्ये विशेषान्तरे वा लक्षणेत्यपि बोध्यम् । निकाय्यो निवासः । निपू र्धाच्चिनोतरधिकरणे ण्यत् , आयादेशः, मादेः कत्वञ्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकमिति विग्रहः । निचेयमन्यत् । अत्रैवार्थे निः कायशब्दोऽप्यस्ति। स च "निवासचितिशरीरोपसमाधानेम्वादेवक" (पा०स०३-३-४१) इत्यत्र व्युत्पादयिष्यते । धाओ ण्यतप्रत्ययः सा. मिधेन्याम् । समिधामाधानी सामिधेनी। “समिधामाधाने घेण्यण" (का०या०)। "प्रवोवाजाः" इत्यादिका ऋचः सामिधेन्यः। अत्र च न सर्वा सामिधेनी धाय्यत्युच्यते, किन्तु समिध्यमानवन्ती समिदवन्ती चान्तरेण विकृतिषु प्रक्षिप्यमाणा "पृथुपाजा अमर्त्यः" इत्यादिकैव । सूत्रे सामिधे ग्रहणं प्रयोगविषयोपलक्षणार्थम् । तथा चासामिधे.
शब्द. द्वितीय. 27
-
Page #427
--------------------------------------------------------------------------
________________
४१८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठान्हिफेन्यामपि दृश्यते-धाय्याः शंसति । "अग्निता" "त्वं सोमक्रतुभिः" इति ज्योतिष्टोमे मरुत्वतीये शस्त्रविधानमेतत् । तत्र 'धीयते अनया समित्' इति करणे ण्यदिति हरदत्तग्रन्थः "पृथुपाजाः" इत्यादिविष. यः, 'धीयत इति धाय्या' इति कर्मणि ण्यदिति माधवग्रन्थस्तु "अ. ग्निता" इत्यादिसाधारण इति विवेकः । सर्वश्वायं विशेषो निपातन स्य कव्यर्थत्वाल्लभ्यते ।
क्रती कुण्डपारयसञ्चाय्यौ (पा०स०-३-१-१३०) ॥ एतौ निपात्येते कती वाच्ये । तत्र कुण्डशब्दे तृतीयान्ते उपपदे पिबतेर्धातोरधिक रणे यत् प्रत्ययो निपात्यते युक्च । कुण्डेन पीयते अस्मिन्सोम इति कुण्डपाय्यः क्रतुः। ननु अत्र ण्यदेव निपात्यतां प्रकृतत्वात् , एवश्व युक्न निपातनीयः, "आतो युक्" (पा०स०७-३-३३) इत्येव सिद्ध त्वादिति लाघवमपीति चेत् ? मैवम् , तित्स्वरप्रसङ्गात् । इयते तु “य. तोऽनावः' (पासू०६-१-२१३) इत्याधुदाचत्वम् , कृदुत्तरपदप्रकृति स्वरेण तस्यैव परिनिष्ठितत्वात् । तथा च प्रयुज्यते-“यस्ते शुक्रवषो नयात् प्रणपात् कुण्डपाय्यः" इति। सम्पूर्वाच्चिनोतेय॑त् आया. देशश्च निपात्यते । सञ्चीयते असौ सञ्चाय्यः क्रतुः। क्रताविति किम् ? कुण्डपानं, सश्वेयः। ___अग्नौ परिचाय्योपचाय्यसमूहाः (पा०सु०३-१-१३१) ॥ एते नि. पात्यन्ते अग्नावभिधेये । अग्निश्चेह न ज्वलना, किन्तु तद्धारणार्थमि. ष्टकाचयननिर्मितस्थलविशेषः, तत्रैव निरूढत्वात । परिपूर्वादुपपूर्वोच्च चिनोतेयंदायादेशौ निपात्येते-परिचाय्यः । उपचाय्यः, सम्पूर्वाद्वहेः सम्प्रसारणं दधित्वञ्च निपात्यते-समूह्यं चिन्वीत पशुकामः । अग्ना. विति किम् ? परिचेयम् । उपचेयम् । संवाह्यम् । इह सम्पूर्वात् “ऊह वितर्के' (भ्वा०आ०६४९) इत्यस्मादनेकार्थत्वाद्वरथे वर्तमानालन्तत्वापण्यति 'समृह्यम्' इति सिद्धम् । युक्तं चैतत् ; "समूचं चिन्वीत पशुकामः । पशवो वै पुरुषः। पशुनेवास्मै तत्समूहति" इति वहन ऊहिना ब्राह्मणे समूहशब्दस्य निरुतत्वात । उक्तश्च वार्तिककृता
'समूह' इत्यनर्थकं वचनं सामान्यकृतत्वात । वार्थमिति चेद्वहते स्तदर्थत्वात्सिद्धम् । ऊहिविग्रहाच ब्राह्मणे सिद्धमिति ।
चित्याग्निचित्ये च (पा०स०३-१-१३२)। चित्येत्यत्र कणि क्यप् निपात्यते । यतोऽपवादः। धातुस्वरेणादातं पदम्। चीयते असो चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । भावे यकारप्रत्ययस्तुक् च नि पात्यते, न तु क्यए । तेनान्तोदात्तत्वं भवति । इह सूत्रे 'अग्नौ' इत्यनु.
Page #428
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
કચ્
वर्त्तते, तच्च चित्यशब्दस्यैव विशेषणं, नाग्निचित्याशब्दस्य, तस्य भावे निपातितत्वात् । तेनाग्नेरन्यत्र 'चेयम्' इत्येव भवति ।
समाप्ताः कृत्याः ॥
ण्वुल्तृचौ (पा०सु०३-१-१३३) ॥ धातोर्म्युल्तृचौ स्तः । इतऊर्ध्वमध्यायपरिसमाप्तेरुत्सर्गतः "कर्तरि कृत्" ( पा०स्०३ - ४ - ६७ ) इत्यु• केः कर्तरि प्रत्ययाः । पाचकः । पक्ता । तृचश्चकारः सामान्यग्रहणा. विघातार्थः । " तुश्छन्दसि' (पा०सू०५-३-५९) "तुरिष्ठेमेयः सु" (पre सु०६-४-१५४) इति । एवञ्च "अन्तृन् " ( पा०सु०६-४-११) इति सुत्रे - ऽपि तृन्तृचोः इति पृथक्ग्रहणं विहाय 'अस्तृ स्वसृ' इत्येव ग्रहणमुचितम् ।
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा०सु०३-१-१३४) ॥ नन्यादे युः, ग्रह्मादेर्णिनिः, पचादेरच् स्यात् । नन्दिग्रहिपचादयश्च न धा तुपाठे सन्निविष्टाः संगृह्यन्ते । किन्तर्हि नन्दन रमण इत्येवमादिषु प्रा तिपदिकगणेषु ये प्रकृतिभागास्ते इह बुद्ध्या पृथक् कृत्य गृह्यन्ते । नन्वेवं किमनेन सुत्रेण, गणपाठादेव नन्दनादिशब्दानां साधुत्वोपपचेरिति चेत् ?
अत्र हरदत्तः--असत्यस्मिन्नष्टाध्याय्यां क्वचिदध्यनुपयोगात् गणपाठो नापेक्षिष्यते इति । तस्यायमाशयः -- एत एव साधव इति स्वरू पनियमपरं हि व्याकरणशास्त्रं तच्च "सूत्रेष्वेव हि तत्सर्वम्" इति न्यायेन सूत्रात्मकम् । तथा च यत्सुत्रैः कथमपि न विषयीकृतं, तस्य गाव्यादि. वदर्थादसाधुत्वं प्रसज्येतेति ।
नन्दिवाशिमदिदूषिसाधिवर्द्धि शोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायायाम् (ग०सू० ) ॥ हुनदि समृद्धौ ( स्वा०प०६७ ) । नन्दयतीति नन्दनः । वाट शब्दे (दि०आ०७७) । वाशनः । मदी हर्षे (दि० प०१०२) । मदनः । दुष वैकृत्ये (दि०प०७९) । " दोषो णौ " ( पा०सू० ६-४-९०) इत्यूत्वम्, दूषणः । राध साध संसिद्धौ (स्वा०प०१६,१७) । विप्रो यशस्य साधनः । ल्युः कर्त्तरीति पुंस्त्वम् । कथन्तर्हि 'होतुराहुतिसाधनं धेनुः' इति १ करणे ब्युटि सामान्ये नपुंसकं भविष्यति । वृधु वृद्धौ (भ्वा०मा०७६०) वर्द्धनः । शुभ शुम्भ शोभार्थे (तु०प०४१, ४२) शोभनः । रुच दोप्तौ (भ्वा०आ०७४६) । रोचनः ।
सहितपिदमः संज्ञायाम् (ग०सु० ) ॥ पह मर्षणे (भ्वा०आ० ८७७) सहनः । तप सन्तापे (स्वा०प०१०१०) तपनः । दमु उप. शमे (दि०प०९७) | दमनः । जप जल्प व्यक्तायां वाचि (स्वा० १०३९७,
Page #429
--------------------------------------------------------------------------
________________
शब्दकौस्तुभ तृतीयाध्याय प्रथमपादे षष्ठान्हिके
३९८) । जल्पनः । रमु क्रीडायां (स्वा०मा०८७८) रमणः । डप हर्षवि मोचनयोः (दि०प०९०) दर्पणः । ऋदि आव्हाने रोदने च (स्वा०प०७१) सकन्दनः। कृष विलेखने (स्वा०प०१०१५) सङ्कर्षणः । हृषु अलीके (स्वा०प०७१०) हर्षणः । गई हिंसायाम् (स्वा०प०५५) जनमर्दयतीति जनार्दनः । कर्मण्यणि प्राप्ते । एवमुत्तरत्रापि कर्मण्युपपदे द्रष्टव्यम्। यु मिश्रणे (म०प०२३) । यवनः । षूद क्षरणे (स्वा०मा०२५) । मधुर्नामा. ऽसुरस्तं सुदयतीति मधुसूदनः । त्रिभी मये (जु०प०२) । विपूर्वात् णिचि "मियो हेतुभये षुक् " ( पा०सु०७-३-४०) इति षुक्, विभीषणः । लुञ् छेदने (क्या०उ०११) । निपातनाण्णत्वम्, लवणः । णश अदर्शने (दि०प०८८), दमु उपशमे (दि०प०९७) । व्यन्तौ । वित्तं नाशयतीति वित्तनाशनः । कुलं दमयतीति कुलदमनः, शत्रुदमनः । इति नन्द्यादिः ।
ग्रह उपादाने (क्या०३०६१) । प्राही । वह मर्षणे (स्वा०आ०८७७) उत्साही । दसु उपक्षये (दि०प०१०७) उद्दासी । भस भर्त्सन दीप्त्योः (जु०प०१८) उद्भासी । तिष्ठतेः "बातो युक्" (पा०स्०७३-३३) । स्थायी । मत्रि गुप्तपरिभाषणे (चु०आ०९४६) चुरादिः, मन्त्री । अई हिंसायाम् (चु०३०२९६) । समदीं ।
रवशां नौ (ग०सु० ) | रक्ष पालने (स्वा०प०६५९) निरक्षी । श्रु श्रवणे (स्वा०प०९६७) । निधावी । डुबप् बीजसन्ताने (स्वा०ड०१०२८) निवापी । शो तनूकरणे (दि०१०३९) निशायी । च त्वारोऽमी निपूर्वाः ।
याचूव्याहसंव्याहृबूजवदवसां नञ्पूर्वाणाम् (ग०स्०) । दुवाचु या. ब्यायाम (भ्वा०३०८८८) । इल् हरणे (स्वा०३०९२४) । वज्र गतौ (स्वा० प०२५४) । वद व्यक्तायां वानि (भ्वा०प०१०३४) । वस निवाले (भ्वा०१०१०३४) । अयाची । अन्याहारी । असंव्याहारी । मवाजी । अवादी । अवासी ।
अचामचित्तवत्कर्तृकाणाम् (ग०स्०) । अजन्तानां धातूनाम् अचेतनकर्तृकाणां णिनिर्भवति । प्रतिषिद्धार्थानामेव । अकारी । अहारी । शीक् स्वप्ने (अ०आ०२२) विशयी, वृद्ध्यभावो निपातनात् । षिव् ब• न्धने (स्वा०ड०२) विषयी, वृद्धयभावः प्राग्वत् । इह षत्वमपि निपातनादिति गणरत्नमहोदधिव्याख्यायां वर्द्धमानः । 'विशयी विषयी देशे' इति वृत्तिः । अभिभावी भूते । अभिभूतवान् अभिभावी । राघ सं. सिद्धौ (स्वा०प०१६) अपराधी । रुधिर् आवरणे (रु०३०१) अवरोधी । उपरोधी । परिभावी । इह पाक्षिको वृद्धयभावो निपात्यते । इति श्रहादिः ।
Page #430
--------------------------------------------------------------------------
________________
धात्वधिकारे प्रकरणम् ।
.४२१
डुपचष्पाके (भ्वा०3०१०२१) बच परिभाषणे (म०प०५३) इत्यादि।
आकृतिगणोऽयम् । तथा च "शिवशमरिष्टस्य करे" (पा०स०४४-१४३) इति सूत्रे ओऽप्रत्ययः कृतः। "कर्मणि घटोऽउच्" (पा००० ५-२-३५) इति सूत्रे च घटेः । तथा “योऽचि च" (पा०९०२-४-७४) इति सूत्रेण अस्मिन्नन् प्रत्यये परे यङो लग्विहितः। भाष्ये च "अजपि सर्वधातुभ्यो वक्तव्यः" इत्युक्तम् । किमर्थं तर्हि पचाउनुक्रमणामिति चेत् ? नदट् इत्यादी अनुबन्धासअनार्थम्, कर्मोपपदानामिगुपधानांच बाधनार्थम् । अन्येषान्तु प्रपश्चार्थम् । तथाहि-नद, भषट्, प्लवट्, चरट्, गरट, तरट्, चोरट्, देवट, सदट् एते टितः । नद अव्यके शब्दे (भ्वा०प०५४), टो ङीषर्थः, नदः। नदी। भष भर्सने (भ्वा०प०६९५) भषी । प्लुङ् गतौ (भ्वा०मा०९८३) प्लवी। चर गती (वा०प०५६०) चरी । ग्रनिगरणे (तु०प०१३०) गरी। तृप्लवनतरणयोः (भ्वा०प० ९९४) तरी । चुर स्तेये (चु०प०१) चोरी। दिवु क्रीडादौ (दि०१० ७) देवी । सूदितकार्थः, सुदी । मिष स्पर्द्धायाम् (तु०प०७२) मेषः । कुप क्रोधे (दि०प०१२७) कोपः । सप्ल गती (भ्वा०प०१००८) सपः । इह विविप्रभृतिषु गुपधत्वात्कः प्राप्तः। दुभृञ् (जु०३०५) आर . विभीति जारभरा। श्वानं पचतीति श्वपचा। अनयोः कर्मण्यम् प्राप्तः ।न्यकादिषु श्वपाकशब्दस्य पाठात पक्षे "कर्मण्यम्" (. १०३-२-१) अपि भवतीति कैयटादयः। वृषमुक्मभृतीनान्तु पाठामा धार्थ एवेति विवेकः। . गुपक्षानीकिरः कः (पा०३-१-१३९) । गुपधेभ्यो जाना: प्री. जाते. किरतेश्व का प्रत्यय: स्यात् । विक्षिपः। विलिखः। विदुषः। कशः। जानातीति हः। "मातो लोप इटिच" (पा००६-५-७४) इत्यालोपः। प्री तर्पणे (क्यां०उ०२) इयडादेशः, प्राणातीति प्रियः। कृविक्षेपे (तु०५०१२९) "ऋतं इखातो" (पा०स०७-१-१००), किर. तीति किरः । सूत्रे तु इतरेतरयोगद्वन्वे व्यत्ययेन पञ्चम्येकवचने श. दस्य धात्वनुकरणस्वेन "प्रकृतिवदनुकरणम्" इत्यतिदेवात् ऋत इत्वं बोध्यम् । समाहारबन्वे तु नपुंसकत्वेन इस्वे सतीत्वं न स्यात् ।।
मातश्योपसर्ग (पासू०३-१-१३६) ॥ आकारान्ताखातोरुपसर्ग उप. पदे कप्रत्ययः स्यात् । "श्यायधा" (पा०स०३-१-१४१) इति प्राप्तस्य प्रत्ययस्थापवादः । प्रस्थः। सुग्लः । सुम्लः।
पाघ्राध्माघेशः शः (पासू०३-१-१३७) ॥ एभ्यः पञ्चभ्यः शप्र. त्ययः स्यात् । पिवतीति पिवः। जिघ्रः । धमः । धयः । स्त्रियान्तु टाप,
Page #431
--------------------------------------------------------------------------
________________
४२२
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठान्हिके
धया। यद्यपि धेटष्टित्वात् स्तनन्धयीत्यत्रेव इहापि डीप प्राप्नोति । तथापि "खशन्ते एव डीप न तु शप्रत्ययान्ते" इति "नासिकास्तन. यो' (पा०१०३-२-२९) इति सूत्रे हरदत्तः। इह सूत्रे 'उपसर्गे' इति केचिदनुवर्तयन्ति, तत्तु बहूनामसम्मतम् । तथा च प्रायुङ्ग श्रीहर्ष:फलानि धूमस्य धयानधोमुखानिति । श्रूयते च-यदा पक्ष्यः पश्यते रुक्मवर्णमिति । अत्र पिबतेरेव ग्रहणं न तु 'पा रक्षणे' (अ०प०४६) इत्यस्य, लुग्विकरणत्वात् ।
घ्रः सजायां प्रतिषेधः (कावा०)। अत्र च "व्याघ्रादिमिः'' (पासू०ए०२-१-५६) इति सौत्रनिर्देशो लिङ्गम् । व्याघ्रः। “मातश्चो. पसर्गे" (पासू०३-१-१२६) इति कः ।
अनुपसर्गाल्लिम्पविन्दधारिपारिवेादेजिचेतिसातिसाहिभ्यश्च (पा० ९०३-१-१३८) । अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययः स्यात् । लिम्प. तीति लिम्पः । विन्दतीति विन्दः। सूत्रे लिम्पविन्दति भाविना नुमा सनुम्कौ निर्दिष्टौ। तेन विकरणेतराणामग्रहणम् । लाभार्थस्यैव तु प्रहणम् । धृञ् धारणे (भ्वा०उ०९२५), धृङ् अवस्थाने (तु आ०१३२), ण्यन्तयोईयोरपि ग्रहणम् । धारयः। अथ कथं "न महामत्रोत्तरधारयस्य ते" इति श्रीहर्षः परत्वाद्धि सुत्रधारादिग्विव कर्मण्यणा भाव्यम् । तथा च वार्तिकम्-अकारादनुपपदाकर्मोपपदो विप्रतिषेधेन (का० वा०) इति । सत्यम् , कर्मणः शेषत्वविवक्षायामणोऽप्राप्त्या शे कुते शेषषष्ठ्यन्तेन समासो भविष्यति । एतेन गङ्गाधरभूधरजलधरादयो व्याख्याताः । पार कर्मसमाप्तौ (चु०प०३७९) पारयतीति पारयः। विद चेतनाख्यानादिषु (चु आ०१७५) चुरादिः । शानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्तः। वेदयतीति वेदयः । एज़ कम्पने (भ्वा०मा०१७३) प्यन्तः । उदेजयतीत्युदेजयः । चिति संज्ञाने (चु०प०२) चुरादिः। चेत. यतीति चेतयः । सत सुख्खे चुरादिण्यन्त इति बोपदेवः । सातिः सौत्रो हेतुमण्ण्यन्त इति हरदत्तः । सातयः । वासरूपन्यायेन विपि सात् । सम्पदादित्वाद्भावे किन्वा । एवञ्च एष एवानन्दयतीति श्रुतिबलाहा. नन्दपितृविज्ञानमानन्दमित्यादि श्रुतिबलादानन्दरूपं ब्रह्म साच्छ. ब्दार्थः। तदस्त्येषामिति सात्वन्तो भकाः । एतेन "सात्वतां पतये नमः" इत्यादि व्याख्यातम् । सदेव सात् इत्युक्त्वा आर्षत्वच वदन्तः प्रत्या. ख्याताः । 'पह मर्षणे' (भ्वा०आ०८७७) चुरादिहेतुमणान्तो वा, साह. यः । उदाहरणेषु लिम्पिविन्दिभ्यां "तुदादिभ्यः शः" (पा०१०३-१-७७) "शे मुचादर्दानाम्" (पा०सू०७ १-६९) इति नुम ! धारयादिषु शबगु.
Page #432
--------------------------------------------------------------------------
________________
४२३
धास्वधिकारे कृत्प्रकरणम्। णायादेशाः। अनुपसर्गादिति किम् ? प्रलिपः।
नौ लिम्पेरिति वक्तव्यम् (का०वा०) ॥ निलिम्पा नाम देवाः ।
गवादिषु विन्देः संज्ञायामिति वक्तव्यम् (काभ्वा०) ॥ गोविन्दः । अरविन्दः । चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अरः, त. दाकाराणि दलानि सादृश्यात्तच्छब्दभाजि लभत.इत्यर्थ कर्मण्यणो बाधनायेदम् ।
ददातिदधात्योर्विभाषा (पा०स०३-१-१३९) ॥ शः स्यात् । पक्ष "श्याघधा" (पा०सू०३-१-१४१) इति णः । ददः । दधः । दायः । धा. यः । अनुपसर्गादित्येव । प्रदः। प्रधः । दद दाने (भ्वा०मा१७) दध धा. रणे (भ्वा०आ०८) आभ्यामचि 'ददः' 'दधः' इति सिद्धम् । दाधाभ्यां णे 'दाय:' 'धायः' इति । सत्यम् , स्वरार्थमिदं सूत्रम् । अददः । अधः। अत्र नअस्वरेण आधुदात्तत्वं यथा स्यात् । अजन्तत्वे तु"अकावशको" (पासू०६-२-१५७) इति अन्तोदात्तत्वमिति महान् भेदः।
ज्वलितिकसन्तेभ्यो णः (पा०सु०३-१-१४०)॥ इतिशब्द आधर्थः। 'ज्वल दीप्तौ (भ्वा०प०८५६) इत्येवमादिभ्यो धातुभ्यः 'कस गतौ' (भ्वा० पं०८८५)इत्यन्तेभ्योणो वा स्यात्।ज्वलः, ज्वालः।चला, चालः। अनुपस. र्गादित्येव, प्रज्वलः। कसिमधीत्य वृत्' इति ये पठन्ति तेषां मते कसन्तप्रहणं चिन्त्यप्रयोजनम् । ज्वलधातुश्च यद्यपि घटादिषु परस्ताच्चेति वि पठ्यते तथापि द्वितीय एवेह गृह्यते, घटादिपाठस्य मित्संक्षायां चरितार्थत्वात् । इतरस्य चानन्यार्थत्वात् ज्वलादिषु 'भ्रमु चलने' (भ्वा०प०८७५) इति पठ्यते । तस्माण्णे 'भ्रमः' इति रूपं, नोदातोपदेश. स्य" (पा०स०७-३-३४) इति वृद्धिनिषेधात् । ज्वलादिपाठस्तु स्वरा. र्थः 'अभ्रमः' इत्यत्र "अच्कावशको'' (पासु०६-२-१५७) इति स्वरो मा भूदिति ।
नोर्ण उपसंख्यानम् (का०वा.)। अवतनोतीत्यवतानः। विभा. त्यनुपसर्गादिति च नात्र वार्तिके सम्बध्यते ।
श्याधधात्रुसंवतीणवसावहलिहश्लिषश्वसश्च (पासू०३-११४१) ॥ अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रे पुनरनुपसर्गग्रहणात ! एवश्व तत्सम्बद्धं विभाषाग्रहणमपि निवर्तते । श्यैप्रभृतिभ्यो णः स्यात् । श्यैङ् गतो (भ्वा०प्रा०९८८) अस्य मादन्तत्वादेव सिद्ध उपस. गें कं बाधितुं ग्रहणम् । अवश्यायः, प्रतिश्यायः । "आतो युक्"(पा०स० ७-३-३३) इति युक् । एतेनावस्यतर्ग्रहणं व्याख्यातम् । मात्-दायः, धायः । इह सूत्रे 'श्या आत्' इति प्रश्लेषो न तु शीङो यणावेशेन, नापि
Page #433
--------------------------------------------------------------------------
________________
४२४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठान्हिकेअततेः, अच्छब्दान्तानां वा यतिप्रभृतीनाम् । नाप्यकारान्तानाम् । अत्र च व्याख्यानमेव शरणम् । व्यध ताडने (दि०प०७५) व्याधः । त्रु ग. तौ (भ्वा०प०९६०) आडपर्वः सम्पूर्वश्च आनावः। संम्रानः । इण गतौ (पासू३५) अति पूर्वः । अत्यायः। षोऽन्तकर्मणि (दि०प०४१)। हुआ हरणे (भ्वा०३०९२४) । अवपूर्वः । अवसायः । अवहारः । लिह आ. स्वादने (अ००६) लेहः । क्लिष आलिङ्गने (दि०प०८०) श्लेषः । श्वस प्राणने (अ०प०५९) श्वासः । __ दुन्योरनुपसर्गे (पासू०३-१-१४२) ॥ दुनोते यतेश्च अनुपसर्गाण्णः स्यात् । दुनोतीति दावः । नयतिसाहचर्यात्सानुबन्धकस्य दुनो. तेरिह ग्रहणम् । निरनुबन्धकावतेस्तु पचाउच, दवः । करणसाधनोवा "ऋदोरए" (पासू०३-३-५७) इत्यवन्तः । “दवदावी बनारण्यवही" (अ०को०३-३-२१४) इत्यमरः । नयतीति नायः । अनुपसर्ग किम् ! प्रदधः। प्रणयः ।
विभाषा प्रहः (पारसू०३-१-१४३) । णः स्यात् । पक्षे अच् । व्यव. स्थितविभाषेयम् । तेन जलचरे-ग्राहः । ज्योतिषि-ग्रहः।
मवतेश्चेति वक्तव्यम् (कावा) ॥ भवो देवः संसारश्च । भाषा: पदार्थाः । एतद्वक्तव्यं भाष्यं नास्ति । 'भावाः' इति तु प्राप्त्यर्थाच्चुरा.. विण्यन्तादचि बोध्यम् ।
. गेहे कः (पासू०३-१-१४४) ॥ ग्रहः कः स्यात् गेहे कर्तरि । गृहा. वि धान्यादिकमिति गृहम् । तास्थ्याद् गृहा दाराः। गृहशब्दोऽध. धादिः । तत्र पुलिझो बहुवचनान्त एव । नपुंसकस्तु अभियवचनः । द्विविधोऽपि वेश्मनि मुख्यः । दारेषु गौणः। तथा च
न गृहं गृहमित्याहुहिणी गृहमुच्यते । इति वेश्मनि मुख्यतामभिप्रेत्यैव व्यवहरन्ति । वृत्तिकारस्तु तन्त्रा. वृत्योरन्यतराश्रयणेन सूत्रे गेहशब्देन अर्थद्वयं निर्दिश्य प्रत्ययंविधानाद दारेवपि गृहशब्दं मुख्यमेवेच्छन्ति । 'गेह' इति च प्रत्ययार्थस्य कर्तु विशेषणं न तूपपदं "गृहपतिना संयुके" (पा०स०४-४-२०) इति निर्देशादिति न्यासकारहरदत्तौ । गृह ग्रहणे (चु० आ०३६७) इति चुरा. दावदन्ताणिचि पचायचा भ्वादेरिगुपलक्षणेन कप्रत्ययेन वा गृहश. न्दस्य सिद्धौ निर्देशस्यान्यथोपपत्तेर्दुर्बलमिदं सापकम् । व्याख्यानादेव तु कर्तृविशेषणतेत्यवधेयम् ।
वस्तुतस्तूक्तरीत्यैव गृहशब्दसिद्धेः "गेहे कः" इति सत्रं शक्यम कर्तुमिति दिक् ।
Page #434
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
I
शिल्पिनि हुन् (पा०सु०३-१-१४५) ॥ धातोः वुन् स्यात् शिल्पिनि कर्तरि । क्रियाकौशलं शिल्पं, तदस्यास्तीति शिल्पी । पूर्वेण साहच र्यात् 'शिल्पिनि ' इत्यपि प्रत्ययार्थस्य विशेषणम् । अत्र भाध्ये "नृतिखनि रञ्जिभ्यः" इति परिगणनं कृतम् । नर्तकः । नर्तकी । खनकः । खनकी । "जनीसृष्पन सुरओऽमन्ताश्च" (ग०सु० ) इति मिस्वोक्तिशीपयति-रञ्ज रङित्यपि कचिदनुनासिकलोपो भवतीति न्यासकारहरदत्तादयः । एवञ्च "रजेण मृगरमणे" (का०वा० ) इति "रजकरजनरजस्सुपसङ्खयानम्” (का०वा० ) इति च वार्त्तिकं शापन सिद्धार्थानुवादकम् । रजकः । रजकी । षित्त्वान्ङीष् ।
भाष्यमते तु ङीष् न भवति । तथाहि - षष्ठे "रजकरजनरजःसुपसङ्ख्यानम्" इति वार्त्तिकं प्रत्याख्यातुं भाष्यकृतोकं "कित पंते ओणादिकाः" इति,
तत्र कैयटः - ' रजकः' इति "क्वन् शिल्पिसंशयोः " ( उ०स्०२००) इति क्वुन् । 'रजनम्' इति "रजेः क्युन्" ( उ०सु०२४६ ) इति क्युन् । 'रजः' इति "भूराञ्जभ्यां कित्" ( उ०सु०६६६) इत्यसुन्प्रत्ययः । 'रजकी' इत्यत्र तु पुंयोगलक्षणो ङीष् । अपुंयोगे तु ङीषा न भाव्यमिति भाष्यकाराभिप्राय इति । एवञ्च भाष्यमते नृतिसनिभ्यामेव वुन् न तु रखेरिति स्थितम् ।
४२५
गस्थकन् (पा० सू० ३-१-१४६ ) ॥ गायस्थकन् स्यात् शिल्पिनि कर्त्तरि । गायकः । गामादाग्रहणेष्वविशेषेऽपि 'गै शब्दे' (भ्वा०प०९४२) इति इह गृह्यते न तु 'गाड् गतौ' (भ्वा०आ०९७५) इति । थकन्प्रत्ययो हि गायत्यर्थाविषयमेव शिल्पिनमभिधातुं समर्थः ।
ब्युट् च (पा० सु० ३-१-१४७) ॥ गायतेर्व्युट् स्यात् शिल्पिनि क र्श्वरि । गायनः । गायनी । योगविभाग उतरत्रास्यैवानुवृत्त्यर्थः ।
हश्च व्रीहिकालयोः (पा० सू० ३-१-१४८) ॥ जहातेर्जिहातेश्च ण्युट् स्यात् व्रीहौ काले च कर्त्तरि । जहात्युदकमिति हायनो व्रीहिः । अम्बुनोऽधिकं वर्धनात् । जिहीते जलमिति वा विग्रहः । जलं प्रायेणापेक्षते इत्यर्थः । जाङ्गलदेशोद्भवा वीद्दिविशेषा हायना इत्याहुः ।
प्रलयावस्थायां जहाति भावानिति, जिहीते गच्छति परिच्छेदक. त्वेन व्याप्नोतीति वा हायनो वर्षम् । अत्रापि व्रीहिकालयोरिति नोपप• दम, "त्रिचतुर्भ्यां हायनस्य" (का०वा० ) इति लिङ्गात् ।
प्रसृत्वः समभिहारे वुन् (पा० सू० ३-१-१४९ ) ॥ एभ्यो वुन् स्यात् साधुकारिणि कर्त्तरि । समभिहारग्रहणेन साधुकारित्वं लक्ष्यते, भूयः
1
Page #435
--------------------------------------------------------------------------
________________
४२६ शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे प्रथमान्हिके
सहचारात् । यो हि यां क्रियां पुनः पुनरनुतिष्ठति स तत्र कौशलं लभते इत्युत्सर्गः । तेन सकृदपि यः सुष्ठु करोति तत्र भवति । बहुशोऽपि दुष्टं कुर्वति न भवति । प्रवकः । सरकः । लवकः । सुत्रे 'प्रसृल्वः' इति पञ्चम्याः स्थाने जस् ।
आशिषि च (पा०सू०३ - १ - १५० ॥ अप्राप्तप्रार्थनाविषयी भूतेऽर्थे वर्त्त मानाद्धातोर्बुन् स्यात्कर्तरि । जीवतात् जीवकः । नन्दतात् नन्दकः । आशीह प्रयोक्तृधर्मः । पित्रादिगतेच्छा विषयीभूतम्रोर्जीव ननन्दनयोः -कर्तरि पुत्रादौ पित्रादेरियमुक्तिः ।
इति श्रीशब्द कौस्तुभे तृतीयाध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ॥ पादश्च समाप्तः ॥
कर्मण्यण् (पा०सु० ३ -२ - १) ॥ कर्मण्युपपदे धातोरण प्रत्ययः स्यात् । कर्म च सप्तधेत्युक्तम् । तत्सर्वमविशेषादिह गृह्यते । निर्वत्येंकुम्भं करोतीति कुम्भकारः । त्रिकार्ये – काण्डलावः । प्राप्ये – वेदाध्यायः । यद्येवं 'प्रामं गच्छति "मादित्यं पश्यति "हिमवन्तं शृणोति' इत्यादी. प्राप्नोति ? सत्यम्, अनभिधानान्नेति भाष्यम् । तच्चानभिधानं यत्रा' भिन्नरुक्तं तत्रैव । अन्यत्र तु यथालक्षणं भवत्येव ।
1
यत्तु वृत्तौ 'त्रिविधं कर्मेह गृह्यते' इत्युक्तं, तस्यायमाशयः - 'आदित्थं पश्यति' इत्यादौ मा भूदित्येवमर्थे 'कर्मणि निर्वर्त्यमाने विक्रीयमाणे इति वक्तव्यम्' इत्याशङ्क्य वार्त्तिककृतोकम् - कर्मणि निर्वर्त्यमाने विक्रयमाण इति चेद्वेदाध्यायादीनामुपसङ्ख्यानमित्यादि । एवं स्थिते त्रिविधमपीह कर्म गृह्यते, न तु प्राप्यं न गृह्यत इति । एवञ्च त्रिविधमिति वृसिं दृष्ट्वा सूत्रान्तरोकं नेह गृह्यत इति न भ्रमितव्यम् । तथा च " दिवः कर्म च" (पा०सु०१-४-४३) इत्यत्र संज्ञा समावेशस्य प्रयोजनमुक्तम्- 'मन सा देवः' इत्यत्र कर्मत्वादणू, करणत्वात्तृतीयेति । एवञ्च 'वृक्षावासः " प. वतावासः' इत्याद्यपि यथाऽमिधानं भवत्येव ।
णस्य
शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वश्च (का०वा० ) u 'शील समाधौ' (भ्वा०प०५२४) । 'कमु कान्तौ' (स्वा०मा०४४४)। 'भक्ष अदने' (चु०प०२४) चुरादिष्यन्तः । चरिगंत्यर्थ आत्पूर्वः । णित्करणं चरेर्वृद्ध्यर्थम् । कृदुत्तरपदप्रकृतिस्वरं बाधितुं पूर्वपदेत्यादि । मांसं शीलयति मांसशील। । मांसकामा। मांसमक्षा । अत्र आणि सति ङीप्स्यात् । णेऽप्यणकार्यमिति तु ताच्छीलके एवेति वक्ष्यते । "मनेर्दीघेवञ्च (उ०सू०३५१ ) इति सप्रत्ययान्तत्वादन्तोदात्तो मांसशब्दः। कल्या
Page #436
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
४२७
णाचारा । कल्याणशब्दो "लघावन्ते' (फि०सू०४२) इति मध्योदात्तः।
इक्षिक्षमिभ्यां चेति वक्तव्यम् (काल्वा०) ॥ अत्रापि पूर्वपदप्रकृतिस्व. रत्वं चेति सम्बध्यत एव । वाक्यभेदस्तु वैचित्र्यार्थः । सुखप्रतीक्षा । बहुक्षमा ।
स्यादेतत् । यो मांस भक्षयति तस्य मांसं भक्षो भवति । तत्र भक्षयतेः कर्मण्येरजन्तस्य बहुव्रीहिणा सिद्धम् । एवमन्यत्रापि । यस्तु अण्यन्तस्तस्य घनन्तस्य बहुव्रीहिः । न च 'बहुभक्षः' इत्य.
"बहोर्नवत्" (पासू०६-२-१७५) इति उत्तरपदान्तोदात्तत्वं स्यादिति वाच्यम् , भावे अजन्तेन बहुषु भक्षोऽस्येति विग्रहोपपत्तेः । न ह्यत्र बहुस्वरप्राप्तिरस्ति, उत्तरपदार्थस्य बहुत्वाभावात् । एवञ्च वातिकद्वयमपि नारम्भणीयमिति चेत् ? मैवम् , कर्मण्यणं बाधितुं तस्याव. श्यारभ्यत्वात् ।
अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन (काभ्वा०) ॥ पचादि. भ्योऽच् अनुपपद अकारः, तस्यावकाशः-पचतीति पचः । कर्मोपप. दस्थावकाश:-काण्डलावो वजति । 'ओदनपाचः' इत्यत्र उभयप्रस. ले परत्वादणेव । तेनोपधावृद्धिः उपपदसमासश्च नित्यो भवति । अ. चि तु षष्ठीसमासो वैकल्पिकः स्यात् । कथं तर्हि गङ्गाधरः' 'श्रीधर वज्रधरः' 'भूधरः स्रग्धरः' इत्यादि ? __ अत्र केचित-युगपद्विवक्षायां हि भवतु विप्रतिषेधः, केवलप्र. कृत्यर्थविवक्षायान्तु अचि कृते पश्चात्कर्मसम्बन्धे सिद्धं रूपमिति । __अत्र हरदत्तः-एवं सति 'ओदनपचः' इत्यपि स्यात्, तच्चानिष्टम् । किञ्चोकरीतियायविरुद्धा, एकत्वात्प्रयोगस्य । न हि तस्मिन्नेव प्रयोगे विवक्षितं चाविवक्षितं च कर्म भवति । तस्मात् 'ओदनपच'इस्यसाधु. रेव । गङ्गाधरादयस्तु संज्ञाशब्दा इत्याह ।
अत्रेदं वक्तव्यम, परिनिष्ठिते प्रयोगे कर्मान्वयसस्वेऽपि प्रक्रियाद. शायां क्रमेण विवक्षायां न क्षतिः । कथमन्यथा शक्यश्चेत्यादौ अन्तरजः पदसंस्कारो बहिरङ्गनीत्वेन न विहन्ये तेत्यादि तत्र तत्रोच्यते । किश कर्मणः शेषत्वविवक्षयाऽपि गङ्गाधरादिशब्दानां सौष्ठवे सम्भव. ति रथन्तरादिवन केवलं संज्ञात्वमाश्रयितुं युक्तम् । आदनपचशब्दो. ऽपि उकरीत्या प्राप्नोत्येव । यदि त्वस्यासाधुत्वे प्रमाणमस्ति तहन. भिधानं शरणीक्रियतामित्यास्तां तावत् ।।
प्रकृतमनुसरामः-पचादिभ्य पवाजिति यथाश्रुतस्त्रमनुसृत्य विप्रतिषेध उदाहृतः । यदा तु 'अजपि सर्वधातुभ्यः' इति पक्षस्तदा
Page #437
--------------------------------------------------------------------------
________________
४२८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिकेअपवादत्वादेव तस्याण बाधको बोध्यः। किचेगुपधशाप्रीकिरः कोऽनुः पपदः । तस्यावकाशः-विक्षिपः' 'विलिखः' । कर्मोपपदस्य स एव । 'काष्ठभेदः' इत्यत्र परत्वादण् । तथा "अनुपसर्गाल्लिम्पविन्द" (पासू० ३-१-१३८) इति अनुपपदः शः । तस्यावकाश:-'लिम्पतीति लिम्प:' । कर्मोपपदस्य स एव । 'कुड्यलेपः' इत्यत्र परत्वादण् । तथा "आतश्चो. पसर्गे" (पासू०३-१-१३६) इति कः अनुपपदः 'सुग्ल:' 'सुम्लः ' इत्यत्र सावकाशः। कर्मोपपदस्तत्रैव । 'गोसन्दायः' इत्यत्र परत्वादणेव भवति।
व्हावामश्च (पासु०३-२-२)॥ एभ्यः कर्मण्युपपदे अण् स्यात् । कस्यापवादः । 'व्हे स्पर्धायां शब्दे च' (भ्वा०मा०१०३३)। स्वर्गव्हा. यः । वे तन्तुसन्ताने' (भ्वा०आ०१०३१)। तन्तुवायः। 'वा गतिगन्धन. योः' (अ०प०४०) इत्ययन्तु नेह गृह्यते, अकर्मकत्वाता भ्रमणार्थो ह्यसौ । यद्यपि सोपसर्गस्य सकर्मकत्वं दृश्यते "सर्वा दिश आवान्ति" "वात आवा तु भेषजम्" इति । तथापि तत्र पूर्वेणैवाण सिद्धः । “धाता वा. न्ति दिशो दश" इति तु प्रयोगश्चिन्त्यः । अथापि क्वचित्कशञ्चित् स. कर्मकत्वं निर्वाहते, तथापि व्हेजा सानुबन्धेन साहचर्यात् वेत्र एवं ग्रहणं, न तु वातेः । 'माङ् माने' (जु०मा०६,दि०मा०३६) 'मेङ् प्रणि. दाने (भ्वा०आ०९८६) उभयोरपि ग्रहणम् । धान्यमापः । 'मा माने' (अ०प०५२) इत्यस्य तु सम्भावनार्यस्थाकर्मकत्वादग्रहणम।।
आतोऽनुपसर्ग कः (पा०स०३-२-३) ॥ भावन्ताद्धातोरनुपस गांत कर्मण्युपपदे कप्रत्ययः स्यात् । अणोऽपवादः । गोदः। पाणित्रम् । अनुपसर्ग किम् ? गोसन्दायः । अत्र वार्तिकम्
कविधौ सर्वत्र प्रसारणिभ्यो डः (का०वा०) ॥ सम्प्रसारणमाजा प्रसारणिनः । 'ज्या वयोहानी' (क्या०प०२७)। ब्रह्म जिनातीति ब्र. ह्मज्यः । सर्वत्रग्रहणान्नेहैव "आतश्चोपसर्गे"(पासू३-१-१३६) आम्हः। प्रहः । अत्र के सति सम्प्रसारणं स्यात । 'आव्हा अ' इति स्थिते सम्प्रसारणे पूर्ववे च कृते उवङादेशे 'आहुवः' 'प्रहुवः' इति प्राप्नोति। एवं 'ब्रह्मजियः' इति प्राप्नोति । न च "एरनेकाच:" (पा०स०६-४-८२) इत्यनेन यण, अङ्गस्य एकाच्त्वात्। ननूभयत्रापि सम्प्रसारणे कृते मातो लोपः । तस्य स्थानिवद्भावादियकुवङो न भविष्यत इति चेत् ?
स्यादेवम् । यद्यातोलोपो लभ्येत । स तु दुर्लभः, अन्तरङ्गेण पूर्वत्वेन बाधात् । न च "वार्णादाझं बलीय(प०मा०५६), व्याश्रयत्वादान. न्वेवमपि व्यर्थमेव वार्तिकम्, प्रागेव सम्प्रसारणादातो लोपे कृते तस्य स्थानिवद्भावादसिद्धत्वाद्वा उवङोऽप्रवृत्ती यणादेशेन 'आव्ह' 'प्रहः'
Page #438
--------------------------------------------------------------------------
________________
धात्वधिकारे कृप्रकरणम् ।
४२९
इत्यादेः सिद्धत्वात् । तथाहि - नित्यं सम्प्रसारणम्, आतो लोपे कृते अकृते प्रसङ्गित्वात् । आल्लोपस्तु कृते च सम्प्रसारणे यद्यपि पूर्वत्वेन बाध्यते तथापि "यस्य च निमित्तं लक्षणान्तरेण न विहन्यते तदपि नित्यम्" इति नित्य एव । द्वयानित्ययोः परत्वादालोपः, ततः सम्प्र• सारणं, तत इयङ्ङुवङौ प्रसक्तौ आतो लोपस्य स्थानिवत्त्वान्न भविष्यतः। न च अनादिष्टादचः पूर्वश्वं नास्तीति वाच्यम्, स्थानिद्वारकस्य सत्त्वात् ।
यत्विह कैयटेनोक्तं शास्त्रीयकार्यसिद्धये स्थानिवद्भावो विधीयते न त्वनादिष्टादचः पूर्वत्वे लौकिके इति, तदापाततः, "अचः परस्मिन्" ( पा०सु०१-१-५७ ) इत्यतिदेशस्याशास्त्रीयतया तस्यैव "स्थानिवत्" ( पा०सु०१ - १ - ५६) सूत्रेणातिदेशः सम्भवतीति "न पदान्त" (पा०सू० १-१-५८) सूत्रीयसवर्णग्रहणाद्युपष्टम्भेन प्रागेव वर्णितत्वात् । किञ्चा कारलोपस्य आभीयत्वेनासिद्धत्वान्न दोषः । न चैवं 'जुहुवतुः' 'जुहुवुः' अत्राप्युवङ् न स्यादिति वाच्यम्, स्थानिद्वारकस्य अनादिष्टादचः पूर्वत्वस्य आभीयासिद्धत्वस्य च अनित्यत्वेनेहाप्रवृत्तेः । अथवा "स. म्प्रसारणाच्च” “एङः पदान्तातु" (पा०सू०६-१-१०८, १०९) इत्यत्र 'एङः' इति योगो विभज्यते । सम्प्रसारणादेङि परे पूर्वपरयोः पूर्व एकादेशो भवतीति । सम्प्रसारणाच्वेत्येव सिद्धे शापनार्थमिदम्-यत्र सम्प्रसारणात्पर एड् सम्भवति तत्र अनैमित्तिकत्वेनान्तरङ्गमप्यात्वमकृत्वा सम्प्रसारणं कर्तव्यमिति । तेन 'जुहुवतुः' इत्यत्र एङन्तादेव लिटि विहिते सम्प्रसारणं पूर्वत्वम् । ततश्च न स्थानिवत्त्वं नाप्यसिद्धत्वमिति सिद्धमिष्टम् । 'मह' 'प्रह्नः' इत्यत्र तु आकारान्तलक्षणः प्रत्ययो असत्यात्वे कर्तुमशक्यः । अतः पूर्वमात्वम् । ततः प्रत्ययः, आल्लोपः, सम्प्रसारणं, स्थानिवद्भावादसिद्धत्वाद्वा इयकुवङोरभावः । तस्मान्मास्तु वार्त्तिकमिति चेत् ? सत्यम्, इत्थं प्रत्याख्यातमेव भाष्ये, किन्तु अस्ति वार्त्तिकस्योतिसम्भवः । "आभात्" ( पा०सु०प०६-४-२२) सुत्रप्रत्याख्यानपक्षे हि स्थानिवत्त्वमेव शरणम् । तत्र च स्थानिद्वारकमनादिष्ठादचः पूर्वत्वमाश्रयणीयं तथा नित्यमिति ज्ञापयितुमिदं वा• र्त्तिकमिति । एतत्प्रत्याख्यातुं प्रवृत्तो भाग्यकारोऽपि स्थानिवद्भावमु. पन्यस्य दूषयित्वा असिद्धतां शरणीकुर्वन् स्थानिद्वारिकायाः अनादिष्टादचः पूर्वतायाः काचित्कतां ध्वनयति । तत्फलन्तु "मचः परस्मिन्" (पा०सू०१-१-५७) इति सूत्रे पवावोचामेत्यलं बहुना ।
सुपि स्थः (पा०सु०३-२-४) ॥ सुबन्ते उपपदे तिष्ठतेर्धातोः का प्रत्ययः स्यात् । समस्थः । विषमस्थः । अत्र 'सुपि' इति योगो विभ
Page #439
--------------------------------------------------------------------------
________________
४३०
शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिके
ज्यते । सुपि आकारान्तेभ्यो धातुभ्यः कप्रत्ययः स्यात् । द्वाभ्यां पिवतीति द्विपः ।
स्थः ॥ सुपि तिष्ठतेः कः स्यात् भावे । आखूनामुत्थानमाखूत्थः । प्रक्रिया कौमुद्यान्तु 'आखूत्थम्' इति नपुंसकं पठ्यते तत्प्रामादिकम्, भाष्यादौ सर्वत्र पुल्लिङ्गस्यैवोदाहृतत्वात्,
ल्युः कर्त्तरीमनिज् भावे को घोः किः प्रादितोऽन्यतः । ( अ०को ०३ - ५ - १५ ) इत्यमरकोशाद्भावे कस्य पुंस्त्वविधानाच्च, भावे "नणकचि योऽन्यः” इति नपुंसकविधाने कस्य पर्युदासाश्च । ननु " स्थः" इति सूत्रेण विधीयमानोऽपि कः कृत्वात्कर्त्तर्येव स्यादिति चेत् ? न, "आतः” (पा०सू०३-२-३) इत्यनेनैव सिद्धेः । तथा च 'स्थः' इत्यारम्भसामर्थ्यान्न कर्त्तरि किन्त्वनिर्द्दिष्टार्थत्वात्स्वार्थे । धातोश्च स्वार्थी भाव एव । नन्वेवं " घञर्थे कविधानम्" (का०वा० ) इत्यनेनैव गतार्थत्वमिति चेत् ? न, वार्त्तिकं दृष्ट्वा सुत्रकृतोऽप्रवृत्तेः । किञ्च नित्यसमासार्थमिदम् । अन्यथा हि " षष्ठी" ( पा०सू०२-२-८ ) इति सूत्रेण पाक्षिकः समासः स्यात् । इष्यते तु नित्यमुपपदसमासः । तथा च आखूनामुत्थानमिति अस्वपदविग्रहः क्रियते । " घञर्थे कविधानं स्थास्नापाव्यधिह नियुध्य. र्थम् इत्यत्र स्थाग्रहणन्तु कर्तृवर्जिते कारके यथा स्यादित्येवमर्थम् ।
इत ऊर्ध्वं कर्मणि सुपीति च द्वयमप्यनुवर्त्तते । तत्र सकर्मकेषु कर्मणीत्युपतिष्ठते "स्पृशोऽनुदके" (पा०सू०३ - २-५८) इति यावत् । अन्यत्र सुपीति "सुप्यजातौ णिनिः” (पा०सु०३-२-७८) इति यावत् । एवञ्च प्रकृतस्य सुब्ग्रहणस्य उपसर्गेतरपरत्वं "सत्सूद्विष" (पा०स्० ३-२-६१) इति सूत्रस्थेन' उपसर्गेऽपि' इत्यनेन ज्ञापितमिति सुपमात्र प रिग्रहार्थे णिनिविधौ पुनः सुप्ग्रहणमिति वक्ष्यामः ।
-
तुन्दशोकयोः परिमृजापनुदोः (पा०सु०३-२-५) ॥ तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदिभ्यां धातुभ्यां कप्रत्ययः स्यात् ।
आलस्यसुखाद्दरणयोरिति वक्तव्यम् (का०वा० ) || आलस्ये सुखोत्पादने च गम्यमाने प्रत्यय इत्यर्थः । तत्र सामर्थ्यादलसे कर्त्तरि सुखस्य चाहर्त्तरि प्रत्यय इति फलितं भवति । तुन्दं परिमाष्टति तुन्दप रिमृजोऽलसः ।
अत्र मृजेरजादाविति वैकल्पिकी वृद्धिर्नेति हरदत्तः । भवतीत्यपरे । एतन्मतद्वयबलाबलं तु "ङ्किति च" ( पा०सु०१-१-५) इति सूत्रे प्रतिपादितम् । अलसादन्यत्र 'तुन्दपरिमार्जः' इत्येव भवति । शोका
·
Page #440
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम्। ४३१ पनुदः सुखस्याहर्ता । यस्तु संसारासारत्वाद्युपदेशेन शोकमेव केवल. मपनुदति न तु सुखमुत्पादयति स शोकापनोदः ।
कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (का०वा०) ॥ तादय एषा चतुर्थी । मूलविभुजादिसिध्यर्थमित्यर्थः । मूलानि विभुजतीति मूलविभुजो रथः । नखान्मुञ्चतीति नखमुचानि धनूंषि । को मोदते कुमुदं सरोरुहम् । इह यद्यपि 'काकगुहास्तिला' इति भाज्यवृत्यादिषु उदाहतं तथापि काकेभ्यो गहितव्या इति कर्मार्थावगतेः "घअर्थे कवि. धानम्" (का०वा०) इत्यत्रेदं द्रष्टव्यमिति हरदत्तः।।
आकृतिगणोऽयम् । तेन महीध्रकुभ्रशिरोध्रशिरोरुहादि सिचम् ।
प्रे दाहः (पासू०३-२-६) ॥ दारूपाजानातेश्च प्रोपवृष्टाकर्मण्यु. पपदे कप्रत्ययः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रक्षः । प्रे इति किम् ? गोसन्दायः । अनुपसर्ग इत्यनुवृत्तेः प्रेत्यस्मादन्यस्मिन्नुपसर्गे सति को न भवति, किनवणेव, गोसम्प्रदायः । इह वृत्तौ ददातेरित्युकं, सनु सर्वेषां दारूपाणामुपलक्षणम् । गामादाग्रहणेवविशेषादिति हरदत्तः।
समि ख्यः (पा०स०३-२-७) ॥ सम्पूर्वाख्या इत्यस्मारकर्मण्युपपदे कप्रत्ययः स्यात् । गाः सञ्चष्टे गोसंख्यः । चक्षिङः ख्यामादेशः । 'ख्या प्रकथने (अ०प०५०) इत्यस्य तु सम्पूर्वस्य प्रयोगो नास्तीति न्यासकारः।
गापोष्टक् (पासू०३-२-८) ॥ आभ्यां टक् स्यादनुपसर्गे कर्मण्युप. पदे । सामगः । सामगी । अत्र वार्तिकम्
सुराशीध्वोः पिबतेरिति (का०वा०) ॥ अत्र पिबतेरिति लुग्विकरणपरिभाषालब्धार्थकथनम् । उपपदपरिगणनन्तु वाचनिकमेव । सुरापः । सुरापी। शीधुपः । शीधुपी । सुराशीध्वोः किम् ? क्षीरपा ब्राह्मणी । पिबतेरिति किम् ? सुगं पाति रक्षतीति सुरापा। अनुपसर्गे किम् ? सामसङ्गायः। गामादाग्रहणेचविशेषेपिगै शब्दे (भ्वा०प०९४२) इत्यस्यैवात्र प्रहणं न तु 'गाङ् गती'(भ्वा० आ०९७)इत्यस्य सानुबन्ध. स्य, नापि 'गा स्तुती, (जु०प०२४) इति जुहोत्यादेः, निरनुबन्धेन अलु. तविकरणेन च पिबतिना साहचर्यात्, अनभिधानाहा।
बहुलं तणि (का०या०) ॥ या ब्राह्मणी सुरापा भवति नैतां देवाः पतिलोकं नयन्ति ।
हरतेरनुधमनेऽन् (पासू०३-२-९) ॥ उत्क्षेपणादन्यस्मिन्नर्थे वर्त मानाखरतर्धातोः कर्मण्युपपदेऽच् स्यात् । अणोऽपवादः । अंशहरः । रिक्थहरः । अनुधमने किम् ? भारहारः ।
अप्रकरणे शकिलागलाक्कुशतोमरयष्टिघटघटीधनुषु प्रारुप.
Page #441
--------------------------------------------------------------------------
________________
४३२
शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे प्रथमान्हिके
संख्यानम् (का०वा० ) ॥ शक्तिग्रहः । लाङ्गलग्रहः, इत्यादि । लिङ्गविशिष्टपरिभाषया घटग्रहणेनैव सिद्धे घटीग्रहणं परिभाषाया अनित्यत्वज्ञापनार्थम् । तेन 'मद्राशी' इत्यत्र टच् न । 'द्विषतीतापः' इत्यत्र "द्विष. त्परयोः”(पा०सु०३-२-३९) इति खच् नेति दिक् ।
सूत्रे च धार्येर्थे (का०वा० ) ॥ ग्रहेरुपसंख्यानमित्येव । सूत्रग्रहः । धार्थ इति किम् ? यः सूत्रं केवलमुपादते न तु धारयति तत्राणेव यथा स्यात्, सूत्रग्राहः ।
वयसि च (पा०सू०३-२-१०) ॥ वयसि गम्यमाने हरतेर्धातोः कर्मयुपपदे अच् स्यात् । अणोऽपवादः । उद्यमनार्थ आरम्भः । कवचहरः क्षत्रियकुमारः । इह कवचोद्यमनं क्रियमाणे सम्भाव्यमानं वा वयो गम यति । तेनासत्यपि कवचग्रहणे 'कवच हरः' इति भवति ।
मङि ताच्छील्ये (पा०स्०३ - २ - ११) ॥ आङ्पूर्वाद्धरतेः कर्मण्युपपदेऽच्प्रत्ययः स्यात्ताच्छील्ये गम्यमाने । पुष्पाण्याहरति तच्छीलः पु· प्पाहरः । फलाहरः । ताच्छील्ये किम ? भारमाहरति भाराहारः ।
अर्हः (पा०सु०३-२-१२) || अर्ह पूजायामित्यस्मात्कर्मण्युपपदेऽच् स्यात् । अणोऽपवादः । स्त्रियां विशेषः, पूजाही ब्राह्मणी ।
स्तम्बकर्णयोरमिजपोः (पा०सु०३-२-१३) ॥ स्तम्बकर्णयोरुपपदयोः यथासंस्थं रमिजपिभ्यामच्प्रत्ययः स्यात् । रमिस्तावदकर्मकः । जपिस्तु शब्दकर्मकः 'मन्त्र जपति' इत्यादिदर्शनात् । उभावपि प्रति स्वस्वकर्णयोः कर्मत्वासम्भवात् सुपीत्येवात्र सम्बध्यते ।
हस्तिसूचकयोरिति वक्तव्यम् (का०वा० ) ॥ स्तम्बे रमते इति स्त म्बेरमो हस्ती । "तत्पुरुषे कृति बहुलम्" (पा०सु०६-३-१४) इत्यलुक्, "हलदन्तात्'' (पा०सु०६- ३ - ९) इति वा । कर्णेजपः सूचकः । हस्ति. सूचकाभ्यामन्यत्र तु स्वम्बेरन्ता । कर्णेजपिता मशकः । उपांशुशब्दायितेत्यर्थः ।
शमि धातोः संज्ञायाम् (पा०स्०३-२-१४) ॥ शमि उपपदे धातुमा. त्रात् संज्ञायां विषये अच् स्यात् । शङ्करः । शम्भवः । शंवदः । धात्वधिकारे पुनर्घातुप्रयणमपवादविषयेऽपि प्रवृत्यर्थम् । तथा च वार्त्तिकम् -
शमिसंज्ञायां धातुग्रहणं कृञो हेत्वादिषु प्रतिषेधार्थमिति (का० वा)। असति धातुग्रहणे शमिसंज्ञायामित्यस्यावकाशः-शम्मधः, शेषदः । "कृओ हेतुताच्छ्रील्य" ( पा०सु०३-२-२० ) इत्यस्यावकाशः - 'श्राद्ध · करः' । 'शङ्करः' इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात् । धातुग्रहणसा• मर्थ्यादजेव भवति । शङ्करा नाम परिव्राजिका तच्छीला । कुणरवाड
Page #442
--------------------------------------------------------------------------
________________
धाविधिकारे कृत्प्रकरणम् ।
४३३
वस्त्वाचार्यों मन्यते । गृणाः शब्दकर्मण एतद्रूपम् । पृषोदरादित्वाद्रका• रस्य ककार इति । तन्मते धातुग्रहणं चिन्त्यप्रयोजनम् ।
अधिकरणे शेतेः (पासू०३-२-१५) ॥ सुपीति सम्बध्यते । अध स्यात् । खशत सशयः।
पाश्र्वादिषूपसङ्ख्यानम् (काभ्वा०) । पाश्र्वाभ्यां शेते पावंशवः । पृष्ठशयः। उदरशयः।
दिग्धसहपूर्वाश (कावा) ॥ विग्धेन सह शेत इति विग्रह दिग्ध सहशयः । अत्र दिग्धसाशब्दो मथरव्यंसकादिः। तस्य शयशन सह उपपदसमासः।
उत्तानादिषु कषु (कावा०) उचाना शेते उत्तामशयः। अवमूर्ष. शयः । अवनतो मूर्धा यस्य अषधः । अधोमुखः शेत इत्यर्थः । गिरी डश्छन्दसि (कावा०)। गिरौ शेते गिरिशः।
तद्धितो वा (कावा०) ॥ गिरिरस्यास्तीति गिरिशः । लोमादित्या. छः । इह यद्यपि कादिताभ्यां गिरिशशब्दोघा भाग्यवार्तिकयोव्यु: स्पादितस्तथापि लोके तद्धितान्त एष, न तु वन्तः, "इश्छन्दसि" (कावा०) इत्युक्तः । एवञ्च "प्रत्याहतास्रो गिरिशप्रभावात" "मारो. पितं यद्विरिशेन पश्चात्" "गिरिशमुपचचार प्रत्यहं सा सुकेशी" इत्यादि प्रयुञानानां कवीनां न.कोऽप्यपरामः । 'गिरी शेते' इतिः व्याचक्षाणानां तु प्रमाद इत्यवधेयम् ।
वरेष्टः (पासू०३-२-१६) । अधिकरण उपपदे घरेष्ठः स्यात् । कु. रुचरः । कुरुचरी।
भिक्षासेनादायेषु च (पासू०३-२-१७) :॥ एषु उपपदेषु चरेष्टः स्यात् । भिक्षां चरतीति मिक्षाचरः । चरतिरत्र चरणपूर्वक अर्जने वर्ग: ते । चरणेन भिक्षामर्जयतीत्यर्थः । सेनां चरति प्रविशतीति सेनाचरः। आदायेति ल्यबन्तं, आवाय चरति गच्छतीत्यावायचरः । भक्षयती. ति वा । कथं
"प्रेक्ष्य शितां सहचरी व्यवधाय देहम" इति ? पचादिषु चरडिति पठ्यते । "सुप्मुपा": (पा०सू०२-१-४) ति समासः। विधानं तु नित्यसमासार्थम् ।
पुरोऽप्रतोऽप्रेषु सते(पा०१०३-२-१८)॥टः स्यात् । पुरः सरतीति पुरासरः । अप्रतासरः । अप्रमप्रेणाप्रे वा सरतीत्यप्रेसरःसुत्रे अग्र. शब्दस्थ पदन्तत्वमपि निपात्यते। कयन्तर्हि___ "यूथं तदप्रसरगर्वितकृष्णसारम्" इति ? वाहुलकादिति हरदत्तः।
शब्द . द्वितीय. 28.
Page #443
--------------------------------------------------------------------------
________________
४३४ शब्दकौस्तुभतृतीयाध्यायद्विसीयपादे प्रथमालिके.. पूर्व कर्तरि (पासु०३-२-१९) कर्तृवाचिनि पूर्वशब्द उपपदे स चेष्टः स्यात । पूर्व सरतीति पूर्वसरः । कर्सरीति किम् ? पूर्व देशं सर. बीति पूर्वसार।
ओ हेतुताच्छील्यानुलोम्येषु (पासू०३-२-२०)॥ हेत्वादिषु घो न्येषु करोतेष्टः रवात् । हेतुरिह लौकिका । यशस्करी विद्या । "अत: कृकमि" (पासू०८-३-४६) इति सः। ताच्छील्ये-भाद्धकरः । आनु. लोम्ये-वचनकरः । एषु किम् । कुम्मकारः । इह प्रसिद्धतरत्वास व्य. नुबन्धकोऽपि करोतिरेव गृह्यतेन तु का हिसायाम् (स्वा०उ०७) इति । हेतुः कारणम् । आनुलोम्यमाराध्यचित्तानुवर्शनम् ।
दिवाविभानिशाप्रभाभास्कारासामन्तादिनान्दीकिंलिपिलिवि. बलिभक्तिकतचित्रक्षेत्रसङ्ख्याजधाबाव्हहर्यसनुररुष्षु (पासु० ३-२-२१)॥ एषु सुबन्तेषु यथायोगं कर्मसु चोपपदेषु करोतेष्टः स्वाद । अहेत्वाधर्य आरम्भः । दिवा दिवसे करोति प्राणिनश्चेष्टायुक्ता. निति दिवाकरः । अत्र दिवाशब्दः मन्हीति सप्तम्यन्तस्यायें वर्चत इति तस्य कर्मत्वानुपपत्तेः सुपीत्यनेन सम्बन्धः । शेषाणां तु कर्मणी. त्येष । यदि तु वृत्तिविषये दोषामन्यमहर्दिवामन्या रात्रिरितिषत् कर्मस्वमभ्युपगम्यते तदा सर्वेषां कर्मणीत्यनेनैव सम्बन्धो बोध्यः । विभा. करः । निशाकरः । प्रमाकरः। भास्करः। सुत्रे भास्कारान्तेति माःश. ब्दस्य प्रत्ययसन्नियोगेन सकारो निपात्यते । तेन 'भास्करः' इत्यत्र वि. सर्जनीयजिव्हामूलीयो न भवतः । यद्वा कस्कादिषु बोध्यः । कार. करः । कर एव कारः । प्रज्ञादित्वात्स्वार्थे अण् । अन्तकरण । अनन्तक
। अन्तकरशब्देन नसमासेऽप्येतदेव रूपम् । स्वरे तु विशेषः । न असमासे हि सतिशिष्टोऽव्ययपूर्वपदप्रकृतिस्वरः । अनन्तशब्दस्योपप. दत्वे तु कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । आदिकरः । बहुकर । बहुशब्दोऽत्र वैपुल्यवचनः । संख्यावचनस्य तु संख्यावचनग्रहणेनैव सिद्धेः । नान्दीकरः । किङ्करः । लिपिलिबिशब्दौ पर्यायौ । लिपिकरः लिबिकरः । बलिकरः । भक्तिकरः । कर्तृकरः। चित्रकरः । क्षेत्रकरः । संख्या-एककरः। द्विकरः । जवाकरः । बाहुकरः । अहस्करः । अहन् , "रोऽसुपि"(पा०सु०८-२-६९) इति रेफः, कस्कादित्वात्सः । यत्करः । तस्करः । धनुष्करः। अरुष्करः । “नित्यं समासेऽनुत्तरपदस्थस्थ" ( पासू०८-३-८५ ) इति षत्वम् ।
किंयत्तद्वहुषु कृञोऽविधानम् (कावा)॥ वात्तिकमेतदिति के. यटहरदत्तौ । इष्टिरिति माधवः । किङ्करा । यत्करा। तत्करा । वार्ति.
Page #444
--------------------------------------------------------------------------
________________
धास्वधिकारे कृत्प्रकरणम् ।
केन सूत्रबाधादृस्याभावात् 'किंकरी' इत्यसाधुरिति कैयटः। हेत्वादा. वपि टं बाधित्वा परत्वादजेवेति तस्याशयः । वृत्तौ तु पक्षान्तरमप्यु: कम्-अथ वा पचाविपाठः करिष्यते इति । इह किमादिग्रहणमपनीय पचादिष्वेव किंयत्तद्वहुषु कृत्रिति पठितव्यमिति तस्यार्थः । वार्तिक. मपीथमेव व्याख्येयमित्याशयः । अस्मिन्पक्षे हेत्वादिविवक्षायां पर. स्वाट्टेन भाव्यम् । तेन किंकरणशीला 'किंकरी' इति भवत्येव ।
पुंयोगविवक्षायां तु निर्विवादो ङीष् । किंयत्तद्वहुवज्वेति प्रक्रिया. यां विकल्पोक्तिस्तु आकरविरुद्धत्वात्कर्मण्यणोऽपि पक्षे प्रसङ्गाचायु. तैव । न चाजभावे सौत्रष्टः, सूत्रे किमादिग्रहणापनयनस्य हरदत्तादि. भिरुक्तत्वात् । अथवा सौत्रस्थापनयनं मास्त्विति प्रौढिवादेन नेया, ताच्छील्यादौ व्याख्यानभेदात् फलितं विकल्पमाश्रित्य विषयविशेषा• भिप्रायेण कथंचिद्वा नेया। ___ कर्मणि भृतौ (पासू०३-२-२२) ॥ कर्मशब्दे कर्मण्युपपदे करोतेष्टः स्याद् भृतो गम्यमानायाम् । भृतिवेतनम् । कर्म निशाक्रियायाः नि. कयाय देयं मकादि द्रव्यमिति यावत् । कर्मकरोभृतकः। कर्मकारोऽन्यः। ___ न शब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदेषु (पा.सु०३-२-२३)। एखूपपदेषु करोतेष्टो न स्यात् । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शन्दका.
। श्लोककार इत्यादि। ___ स्तम्बशकतोरिन् (पा०सू०३-२-२४) ॥ एतयोः कर्मणोरुपपदयो। करोतरिन्प्रत्ययः स्यात् ।
वीहिवत्सयोरिति वक्तव्यम (कावा०) ॥ स्तम्बकरिवीहिः । शुक. स्करिवत्सः । इनो निस्वास्कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदमाधुदासम् । वीहिवत्सयोः किम् ? स्तम्बकारः।शकस्कार।
हरतेतिनाथयोः पशौ (पा०स०३-२-२५) ॥ इतिनाथयोः कर्मणो. रुपपदयोहरतेर्धातोः पशो कर्तरि इन् प्रत्ययः स्यात् । • एति हरतीति इतिहरिः । नाथं नासारज्जु हरतीति नाथहरिः । इह प्रत्ययार्थस्य क. तुः पशुर्विशेषणं न तु तस्य बाधकः, प्रकृतिप्रत्ययार्थयोरन्वयप्रसङ्गात् । प्रकृत्यों हि प्रत्ययार्थ विशिनष्टि । प्रकृतिश्चेह धातुः। तद. र्थश्च किया। सा च साधनेन सम्बन्धाहीं । पशुशब्दस्तु चतुष्पाजातीयं वस्तु स्वरूपेणाचष्टे न शक्तिमद्रण, नतरां शक्तिरूपेण । अतस्तथैव च प्रत्याग्यमानः पशुः प्रत्ययार्थो भवितुं नाईति । अतः कव प्रत्ययार्थः। तद्विशेषणं च पशुः सत्रवाक्यजन्ये बोधे पशुरूपे कर्तरि वाच्ये प्रत्ययो भवतीति हि विषयः ।
Page #445
--------------------------------------------------------------------------
________________
४३६ शब्दकौस्तुभतृतीयाध्यायद्वितीयादे प्रथमालिके
उदाहरणे तु पशुरेव विशेभ्यः । तत्राभेदेन सम्बन्धेन कर्ता विशे. षणम् । तत्र प्रकृत्यर्थः परमविशेष्यः । पशुस्तु समुदायशक्त्या उपति. ष्ठते । एतेन पङ्गजप्रभृतयो व्याख्याताः । पङ्कजनिकर्तृ पदममिति हि तत्रार्थः। एवं विधिवाक्येषु अलससुखाहों/हिवत्सयोरित्यादिषु सर्वत्र प्रत्ययार्थविशेषणत्वम् । उदाहरणेषु च विशेषणत्वमलसादीनां द्रष्टव्यम् । पशौ किम् ? दृतिहारः । नाथहारः।
फलेग्रहिरात्मम्भरिश्च (पा०सू०३-२-२६) ॥ पतौ निपात्येते । फ. लानि गृह्णातीति फलेग्रहिवृक्षः । "स्यादवन्ध्यः फलेग्रहिः" (अ० को०२-४-६) इत्यमरः । मट्टिकाव्ये तु फलग्राहिमात्रे इन् प्रयुज्यते "फ लेग्रहीद्धंसिवनस्पतीनाम्" इति । उपपदस्यैदन्तत्वं इन्प्रत्ययश्च प्रहे. निपात्यते । आत्मानं बिभर्तीत्यात्मम्भरिः । आत्मशब्दस्योपपदस्य मु. मागमः, इन्प्रत्ययश्च भृञो निपात्यते । चकारोऽनुक्कसमुवयार्थ इति वृत्तिः । कुक्षिम्भरिः । छन्दसि फलशब्दस्यादन्तत्वमपि दृश्यते । "यो वनस्पतीनां फलपहिः" इति । इदमपि कुक्षिम्भरिवञ्चकारेण सङ्ग्राहमिति हरदत्तः। चान्द्रास्तु आत्मोदरकुक्षिग्विति पठन्ति । तथा च मुरारि:
ज्योत्स्नाकरम्भमुदरम्भरयश्चकोराः । इति ।
देवापिघातापिप्रभृतयोऽप्यनेन सिद्धाः । भाग्ये तु भृतः कुक्या. .त्मनोर्नुम्चेत्येतावदेव स्थितम् ।
छन्दसि वनसनरक्षिमथाम् (पा००३-२-२७)॥ एभ्यः कर्मण्युपपदे इन्प्रत्ययः स्याच्छन्दसि । 'धन षण सम्भको' (वा०प०४६४, ४६५) गणे सहनिर्दिष्टौ भौवादिको इमावेव गृह्यते न तु 'वनु याचने' (ता०८) 'षणु दाने' (त०उ०२) इति तानादिको, निरनुबन्धकत्वात साहचर्याश्च । ब्रह्मवानं त्वा क्षत्रवनिम् । ब्रह्म वनति क्षत्रं वनतीति विवक्षा. यामिन् प्रत्ययः। तदन्ताद् द्वितीयकवचनम् । उत नो गोषणिन्धि. यम् । सुषामादित्वात् षत्वं, गां सनतीति विग्रहः । यौतेश्चानौ यमरक्षि. तारो चतुरक्षौ पथिरक्षी । ये पथां पथिरक्षयः । पन्थानं रक्षतः रक्ष. न्ति चेति विग्रहः । हविर्मयीनामभ्याविवासताम् । हविर्मयन्तीति हवि. भथयः तेषाम् ।
एजे खश् (पासू०३-२-२८) । एजृ कम्पने (भ्वा०प०२३४) । अ. स्मापयन्तात् कर्मण्युपपदे खश् स्यात् । जनम् एजयतीति जनमेजयः। सत्रे 'एजेः' इति ण्यन्तस्य निर्देशः न तु शुद्धस्येका, खशः शित्कर. णात् । तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति । न च शुद्धस्य
Page #446
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
૪૯
I
शपि सत्यसति वा विशेषोऽस्ति । नचोत्तरार्थ शिन्त्वमिति वाच्यम्, इहार्थत्वे सम्भवति केवलोत्तरार्थत्वस्यायुक्तत्वात् । खशः शित्वं मुम. र्थम् । 'शुनिन्धयः' इत्यादौ ह्रस्वत्वार्थम्-
खश्प्रकरणे वातशुनीतिलश द्वै ध्वजधेतुद जहातिभ्य उपसंख्यानम् (का०वा० ) ॥ वातमजा मृगाः । शुनिन्धयः । " खित्यनव्ययस्य" (पा०सु० ६-३-६६) इति -हस्वः। तिलन्तुदः । शर्द्धअहा माषाः । ओह्राक् त्यागे(जु०प०८ ) । जुहोत्यादित्वाच्छपः छौ द्विर्वचनम् । " श्राभ्यस्तयोः " ( पा०सु०६-४-११२) इत्यालोपः । शर्दोऽपानशब्दः, तञ्जहतीति वि. ग्रहः । माधवस्तु 'शर्द्धअदा माषाः ' : इत्युदाजहार । दुर्गसिंहोऽप्येवम् । तत्र जहातिरन्तर्भावितण्यर्थः साध्वसिच्छिनत्तीतिवत् । माषाणां करणकर्तृत्वमिति वा ।
नासिकास्तनयोर्मांधेटोः (पा०सू०३-२-२९ ) ॥ खशू स्यात् । तत्र यथासंख्यं वारयितुं वार्तिकम् -
स्तने धेटः (का०वा० ) ॥
नासिकायां ध्मश्च धेटश्च (का०वा० ) ॥ स्तनं धयतीति स्तनन्धयः । धेष्टित्वस्य अवयवे अचरितार्थत्वात्स्तनन्धयी । अत्रैव च ङीबिध्यते नाम्यत्रेत्याहुरिति हरदत्तः । अत्रैवेति खश्प्रत्ययान्तोपलक्षणम् । तथा च क्षीरस्वामी 'स्तनन्धयीत्यादौ ङीबर्थः' इति । वर्द्धमानोऽपि शुनिन्धयी | स्तनन्धयी । खश्प्रत्ययान्त एव ङीबिति । तेन “पाघ्राध्माधेट्दृशः शः” (पा०स्०३-१-१३७) इति शप्रत्यये " जातोऽनुपसर्गे" (पा०सू० ३-२-३) इति कप्रत्यये च ढाबेव ।
अत्र च सम्प्रदाय एव शरणम् । नासिकन्धमः । " पात्र ।" (पा०सु० ७-३-७८) इति धमादेशः । नासिकन्धयः ।
नाडीमुष्टयोश्च (पा०सु०३ - २-३० ) ॥ एतयोः कर्मणोरुपपदयोर्मा धेटोः खश् स्यात् । अत्र यथासंख्यं नेष्यत इति भाष्ये वृत्तौ च स्थितम् । “यथासंख्यमनुदेशः " ( पा०सु०१-३-१०) इति सूत्रे तु भाष्ये यथासंख्य. मस्तरियुकम् । तम्मत मेदेन बोध्यम् । नाडिन्धमः, नाडिन्धयः । मुष्टिन्धमः, मुष्टिन्धयः । भाष्ये घटीखारी शब्दावप्युप संख्यातौ । घटी घटः । घटि• न्धमः । घटिन्धयः । खारिन्धमः । खारिन्धयः । खारीशब्दः परिमाणव खनः । 'खरी' इति पाठान्तरम् । खरी गईभी । जातिलक्षणो ङीष् । स्ररिब्धमः । खरिन्धयः । जयादित्यस्तु वातशब्दमप्युदाजहार, वातन्ध मः । वातन्धय इति । तन्तु भाग्यादौ न दृश्यते ।
उदिकूले रुजिवहोः (पा०सू०३-२-३१) ॥ उत्पूर्वाभ्यां रुजिव हिम्यां
Page #447
--------------------------------------------------------------------------
________________
४३८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेकूले कर्मण्युपपदे खश स्यात् । कूलमुद्रुजतीति कूलमुजः । कूल. मुखहः । धातूपसर्गयोः कार्यस्यान्तरङ्गत्वात्पूर्व गतिसमासः पश्चादुप. पदसमासः । ननु "तत्रोपपदं सप्तमीस्थम्" (पा०सू०३-१-९२) इत्यत्र यत्र सति प्रत्ययः स्यात् तत्रैव च सप्तमीनिर्दिष्टमुपपदम् इति व्या. ख्यानाद् उपपदमित्यनेन प्रत्यय आक्षिप्यते । ततश्च प्रत्ययेनैव समा. सः स्यान्न तु तदन्तेन समासः। संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण. स्य दुर्लभत्वादिति चेत् ? न, प्रत्ययमात्रेण सामर्थ्याभावात्संज्ञाविधा. वपि "प्रत्ययग्रहण' (प०भा०२३) परिभाषाऽवृत्तेः। न चैवमपि तदा. दितदन्तनियमादुपसर्गविशिष्टेन समासानुपपत्तिः, छद्रहणे गतिकार. कपूर्वस्यापि ग्रहणात् । न चेदं ग्रहणमिति भ्रमितव्यम् , उपपदगंशा. मात्रस्य मा भूदित्यादौ माङदिष्वपि प्रवृत्तिसम्भवेन कृत्प्रत्ययव्यभिचारित्वेऽप्युपपदसमासस्य कृत्प्रत्ययाव्यभिचारात । यत्कार्य हि कृत्प्र. त्ययं न व्यभिचरति तत्र कृद्रहणपरिभाषा प्रवर्तते । यथा “धातो: स्वरूपग्रहणे" इत्येषा परिभाषा यत्कार्य धातुं न व्यभिचरति तत्र प्रव. तेते । अत एव 'घृतस्पृरभ्याम्' इत्यत्र "अनुदात्तस्य चदुपधस्य" (पा० स०६-१-५९) इत्यमागमो न प्रवर्तते । एतेन गोसन्दायः' इत्यादि व्या. स्यातम् । तत्रापि हि धातुमात्रात्कर्मण्यणि गतिसमासे च सगतिके. नोपपदसमासः।
स्यादेतत् , सप्तमीनिर्दिष्टत्वाविशेषात्कूलस्येवोच्छब्दस्याप्युपपद. स्वं स्यात् । ततश्चोपपदयोः रुजिवहाच यासहचं स्यादिति चेत् ? मैवम् । तत्र हि प्रत्येकमुपपदत्वमिच्छति तत्र समुदायात्सप्तमीमुचार. यति, लाघवाद । “नाडीमुष्टयोः" (पासू०३-२-३०) इति यथा । इह तु विपर्ययः कृतः। तस्मात 'उदि' इति पञ्चम्या: स्थाने सप्तमी। 'कजिवहोः इति पञ्चम्याः स्थाने षष्ठी। तेनोकार्थलामः । एतच्च यथासंस्यसत्रे कैयटे स्पष्टम् ।
बहाने लिहः (पा०सू०३-२-३२) ॥ अहाम्रयोः कर्मणोरुपपदयोर्लि. हेः पश् स्यात् । वहः स्कन्धा, तं लेढीति वहलिहो गौः । लिह आ. स्वादने (ब-उ०६) । अदादित्वाच्छपो लुक् । खशो कियत्वाब गुणः । भनंलिहो वायुः।
परिमाणे पचः (पासू०३-२-३३) ॥ परिमाणं प्रस्थादि, तस्मिन्क. मण्युपपदे पचेः खश् स्यात् । प्रस्थं पचतीति प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः । इह सुत्रे परिमाण इति न स्वरूपग्रहणं, तस्य पचिं प्रति कर्मत्वायोगात् । अतस्तद्विशेषाः प्रस्थादयो गृह्यन्ते । तेऽपि यदि
Page #448
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
४३९
परिमाणनिष्ठा एव स्युस्तहि विक्लेदनवाचिना पचिना सह कमवा. सम्भव एष । अतः परिमिते बीहादो वर्तमाना इह प्रायाः।
मितनखे च (पा०स०३-२-३४) ॥ एतयोः कर्मणोः पचः खर स्यात् । मितंपचा ब्राह्मणी । नखंपचा यवागू पचिरत्र तापवचनः ।
विध्वरूषोस्तुदः (पा०स०३-२-३५) ॥ एतयोः कर्मणोरुपपदयोस्तु देर्धातोः खश् स्यात् । विधुं तुदतीति विधुन्तुदः । अनन्तुदः । “अरुर्विषदजन्तस्य मुम्" (पा०स०६-३-६७) इत्युकारात्परो मुम् । “संयोगा। न्तस्य लोपः" (पासु०८-२-२३) । “लैहिकेयो विधुन्तुद' (अ०को० १-३-२८) । " व्रणोऽस्त्रियामार्ममरुः" (म०को०२-६-५४) "अरुन्तुदंतु मर्मस्पृक्' (अ०को०३-१-८१) इत्यमरः। . ___ असूर्यललाटयोरशितपोः (पासू०३-२-३६) ॥ एतयोः कर्मणोरुपः पदयोर्यथासङ्ख्यं दृशितपिभ्यां खश् स्यात् । 'असूर्यम्' इत्यसमधला मासः, इशिना नः सम्बन्धात् । सूर्य न पश्यन्तीत्यसूर्यपश्या: राज. दाराः । “पाघ्रामा' (पा०सु०७-३-७८) इति पश्यादेशः। गुप्तिपरचे. दं । एवञ्च नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यतीति । तेम सत्यपि सूर्यदर्शने प्रयोगो न विरुध्यते । यदा तु सूर्यदर्शनाभावमा विवक्षितं तदा न भवितव्यमेव प्रत्ययेनानामधानादिति न्यासकारः।
उग्रम्पश्येरंमदपाणिन्धमाश्च (पासू०३-२-३७)॥ एते नित्यन्ते । 'उग्रम्' इति क्रियाविशेषणं, तस्मिन्नुपपदे शेः खम् । उग्रं पश्यती. त्युग्रम्पश्यः । इरा उदकं तेन माधति दीप्यते अबिन्धनत्वादिति दरम्म दो मेघज्योतिः । मदी हर्षे (दि०५०१०२), अस्मादेव निपातनात् "दि. वादिभ्यः श्यन्" (पासू०३-१-६९) भवति । पाणयो ध्मायन्तेऽस्मिा निति पाणिन्धमोऽध्वः । स पुनरस्मिन् गच्छद्भिः सपाचपनोदनाय पा. णयः शब्द्यन्ते ताशः अन्धकाराखावृतो मार्गः।
प्रियवशे वदः खच (पासू०३-२-३८) ॥ 'प्रिय' 'वश' इत्येतयोः कर्मणोरुपपदयोर्वदर्धातोः खच् स्यात् । प्रियंवदः । वशंवदः । खकारो मुमर्थः चकारस्तु "स्वचि -हस्वः" इति विशेषणार्थ इति वृत्तिः । “खे हस्व." इत्युच्यमाने "एजेः खश्” (पा०सु०३-२-२८) जनमेजयः, अ. त्रापि स्यादिति भावः । ननु एकानुबन्धकग्रहणे न व्यनुबन्धकस्येति खशिन भविष्यति । न चैवमपि "कुलाखः" (पासू०४-१-१३९) कु. लीनः, “यस्य" (पासू६-४-१४८) इति लोपाप्रवृत्तये न्हस्वः स्यादिति वाच्यम्, प्रकरणसाहचर्याद्धातुप्रत्ययस्यैव ग्रहणात् । किश्च "दोषोणी" (पासू०६-४-९०) इति सूत्रादत्र णावित्यनुवर्त्य खे परे णौ -हस्वो
Page #449
--------------------------------------------------------------------------
________________
४४० शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेविधीयते । अतः कुलीने न दोषः । जनमजये तु उक्तैध गतिः। सत्यम्, चिन्त्यप्रयोजन एवायं चकारः । प्रत्ययान्तरकरणमुत्तरार्थम् । 'द्विषन्त. प:' इत्यत्र हस्वणिलोपौ यथा स्यातां, श च मा भूदिति । नन्वेषमुः सरत्रैध क्रियतामिति चेत् ? सत्यम्, इह करणमन्यतोऽपि भवतीति ज्ञापनार्थम् । तेनानुपदमेव वक्ष्यमाणं वार्तिकं गतार्थम् ।
बच्प्रकरणे गमः सुपि (का०वा०)॥ असंझार्थमिदं पार्तिकम् । संज्ञायां तु वक्ष्यमाणेन "गमश्च" (पा०स०३-२-४७) इति सूत्रेणेव सि. द्धम् । इदच पार्तिकं सापकसिद्धार्थमित्युक्तम् । मितङ्गमा हस्ती।
विहायसो विह च (का०या०) ॥ वहायसो 'विह' इत्ययमादेशी वक्तव्यः । खच डिद्वा वकव्यः । विहतः । विहङ्गमः।
हेच (कावा) ॥ डे परे विहायसो विहादेशो वक्तव्यः । विहा गः । “अन्यत्रापि दृश्यते" (कावा०) इति इप्रकरणे पक्ष्यमाणेनेह डः ।
द्विषत्परयोस्तापः (पासू०३-२-३९) ॥ एतयोः कर्मणोरुपपदयो. स्तापः खच स्यात् । तप दाह (चु०प०२८६) चुरादिः, तप सन्तापे (भ्वा०५०१०१०) भ्वादिः, द्वयोरपि प्रहणम् । द्विषन्तं तापयतीति द्विषः न्तपः । "अरुर्दिषत्'' (पा०सु०६-३-६७) इति मुमि संयोगान्तलोपः। परन्तपः । 'द्विषत्परयोः' इति द्वितकारको निर्देशः। तत्रैकेन द्विषच्छ. दो विशेष्यते, तकारान्तो यो द्विषच्छन्द इति । सौत्रत्वानिशस्य विशेषणस्य परनिपातः । तेन स्त्रियां न भवति । घटघटीग्रहणेन "लि.
विशिष्ट (१०मा०७३) परिभाषाया अनित्यत्वज्ञापनाद्वा । द्विषन्ती तापयतीति द्विषतीतापः। "कर्मण्यण' (पासू०३-२-१) एव भवति ।
वाचि यमो व्रते (पासू०३-२-४०)॥वाक्शब्दे कर्मवाचिन्युपपदे यमः खच स्यात व्रते गम्यमाने । शास्त्रेण बोधितः सङ्कल्पविशेषो व्रतम् । वाचं यच्छतीति वाचंयमः। "वाचंयमपुरन्दरौ च" (पा०स०६-३-६२) इति पूर्वपदस्यामन्तत्वम् । न चैवं खच्प्रत्ययोऽपि तत्रैव निपात्यतामि. ति वाच्यम्, व्रतादन्यत्रापि प्रसङ्गात् । यदि.तु निपातनबलादेव व्रत. विषयता आश्रीयते तत्रैव वा व्रतग्रहणं क्रियते, वाचंयमो व्रते पुरन्दर. श्चेति, तदेह "वाचियमो व्रते" इति सूत्रं ": सर्वयोः" (पा०म०३२-४१) इत्यत्र 'पुरिदारे इत्यंशश्च शक्यमकर्तुम् । ते किम् ? यो ह्यशक्त्यादिना वाचं यच्छति तत्राणेष यथा स्यात् । वाग्यामः ।।
पृ: सर्वयोरिसहोः (पासू०३-२-४१) ॥ 'पुर''सर्व' इत्येतयाः कर्मजोरुपपदयोर्यथासङ्खथं दारिसहोर्धात्वोः खच् स्यात् । पुरं दार यतीति पुरन्दरः, "वाचंयमपुरन्दरी च" (पा००६-३-६०) इत्यम् । सर्वसह
Page #450
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
४४१
राजा। इह सूत्रे 'दृ विदारो (क्रया०प०२१) इत्यस्य ग्रहणं, न तु 'ह भये' (भ्वा०प०८१०) 'दृक् आदरे' (तु०मा०१३१) इत्येतयोरित्युपदेशः। सहिग्रहणमसंक्षार्थम् । संहायान्तु "भृतजि" (पासू०ए०३-२-४६) इत्यादि वक्ष्यति ।
"मगे च धारेरिति वक्तव्यम्" इति काशिका । भाग्यादावरष्टम. पीदं बाहुलकेन लभ्यते । भगं दारपतीति भगन्दरः। ___ सर्पकूलानकरीषेषु कषः (पासू०३-२-४२) ॥ एषु चतुर्षु कर्मसू. पपदेषुः कषेः खन् स्यात् । सर्वकषः खलः । कूलङ्कमा नदी। अम्रको वायुः । करीषकषा पात्या।
मेघर्तिभयेषु कृषः (पा०सू०३-२-४३) ॥ एषु त्रिषु कर्मसूपपदेषु करोतेः खच् स्यात् । मेघङ्करः । ऋतिङ्करः । भयङ्करा । उपपदविधौ भयादिग्रहणं तदम्तविधि प्रयोजयतीत्युक्तत्वात् अभयङ्करः ।
क्षेमप्रियमद्रेण च (पा०सू०३-२-४४)॥ त्रिग्वेषु कर्मसूपपदेषु करो. तेरण स्याउचात्खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः। प्रियकारः। मद्रङ्करः । मद्रकारः । वेति वक्तव्ये अण्ग्रहणं हेत्वादिषु टप्रतिषेधा. र्थम् । कथम्तर्हि अल्पारम्भाः क्षेमकराइतिकर्मणः शेषत्वविवक्षायां पवाद्यच् भविष्यति ।
छन्दसि 'शिवङ्करः' इत्यपि दृश्यते । तथा चायर्वशाखायां शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्य'इति । कर्तृव्यत्ययात्सिवम् ।
आशिते भुवः करणभावयोः (पा०स०३-२-४५) ॥ अत्र 'सुपि'इत्युः पतिष्ठते न तु 'कर्मणि'इति, भवतेरकर्मकत्वात् । यद्यपि सोपसर्गस्य प्राप्त्यर्थस्य च भवतेः सकर्मकत्वमस्ति तथापि तत्र खचा न भवित. व्यमनभिधानादित्याहुः। ___ आशितशब्दश्च द्विविधोऽत्र गृह्यते । 'अश भोजने (क्या०प०५१) इत्यस्मादापर्वादविवक्षिते कर्मणि कर्तरि क्तप्रत्ययान्त एकः । अशे. य॑न्तात्प्रयोज्यकर्मणि क्तप्रत्यये कृते अपरः । “माशितः कर्ता"(पा० सू०६-१-२०७) इत्याधुवाचषिधिरप्युभयोरविशिष्टः । तत्र द्वितीये प्रयोज्य एव भूतपूर्वगत्या कर्कोच्यते । प्रत्यवसामार्थानामणो कर्तुंर्णी कर्मसंज्ञाविधानात्। "कृषन्नित्फालआशितं कृणोति" इत्यत्रापि अयमेव प्राह्यः। अवप्रहावर्शनात । आधे तु साम्प्रतिकमेव कर्तृत्वम्।यस्तु"ध्रौ. व्यगतिप्रत्यवसानार्थेभ्यः" (पा०स०ए०३-४-७६) इति भाषकर्माधिकर. णेषु का, तदन्तो नात्र गृह्यते, अनभिधानात् । सुत्रार्थस्तु आशित. शब्दे सुबन्त उपपदे भवतेर्धातोः करणे भावे चार्थे स्वच् स्यात् । आ
Page #451
--------------------------------------------------------------------------
________________
૪૧૨
शब्द कौस्तुभतृतीयाध्याय द्वितीयपादे प्रथमान्हिके
शितो भवत्यनेन आशितम्भव ओदनः । यावता ओदनेन अतिथ्यादिभजितो भवति स एवमुच्यते । भावे- आशितस्य भवनमाशितम्भवः । इद्द "वासरूप" (०सू०३ - १ - ९४ ) विधिना ल्यूडपि भवति । 'आशि तभवनम्' इति । घञ् तु बाध्यते एव, सरूपत्वादित्याहुः !
न चात्र "तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्न” ( प०४०७०) इति निषेधः : शङ्कयः, यत्र हि घञादेरपवादत्वेन ल्युट् प्रसक्तः, उत्सर्ग नित्यं बाधते न तु विकल्पेनेति तदर्थः । इह तु ल्युटोऽपवादोऽयं खच् । तत्र वासरूपन्यायो निर्बाध एव । 'आशितभवनम्' इत्युदाहरतो जयादिश्यस्य सम्मतश्चेति दिक् ।
संज्ञायां भृतृवृजिधारिसहितपिदमः (पा०सु०३-२-४६ ) ॥ भृप्रभृ. तिभ्योऽष्टभ्यः यथायोगं कर्मणि सुबन्ते चोपपदे खच् स्यात्संहायाम् । विश्वं बिभर्तीति विश्वम्भरः कैटभजित् । "रसा विश्वम्भरा स्थि: रा'' (अ०को०२-१-२) । रथन्तरं साम । रथेन तरतीति व्युत्पत्तिमात्रम्, स्वरसंस्कारावग्रहादिसिद्ध्यर्थम् । न त्वत्रावयवार्थानुगमोऽस्ति, "रथः स्तरमाजभारा वसिष्ठः" इत्यत्र हि रथमित्यवगृह्णन्ति । अन्तोदात्तं चाश्रीयते । अखण्डत्वे तु अवग्रहो न स्यात् । " नन्विषयस्व" ( फि०सु० २६) इत्याद्युदात्तञ्च स्यात् । पतिवरा कन्या । शत्रुञ्जयो हस्ती । युग. स्वरः पर्वतः । शत्रुंसहः । शत्रुन्तपः । अरिन्दमः । अन्तर्भावितण्यर्थोऽत्र दमिः । संज्ञायां किम् ? कुटुम्बं बिभर्तीति कुटुम्बभारः ।
".
4
गमश्च (पा०सु०३-२-४७) ॥ मस्मात् खच् स्यात्कर्मण्युपपदे संज्ञायाम् । सुतङ्गमः । पूर्वसूत्रे एव गमिनकः । उत्तरसूत्रे गमेरेवानुवृत्तियथा स्यात्, भृत्प्रभृतीनां मा भूदिति ।
अन्तात्यन्ताध्वदुरपार सर्वानन्तेषु डः (पा०सु०३-२-४८) ॥ 'संज्ञायाम्' इति निवृत्तम् । सप्तसु कर्मसूपपदेषु गमेर्डः स्यात् । अन्तं गच्छ तीत्यन्तगः । अत्यन्तगः । अध्वगः । दुरगः । पारगः । सर्वगः । अन: न्तगः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ।
I
सर्वत्रपन्नयोरुपसंख्यानम् (का०वा० ) ॥ सर्वत्रगः । पनं पतितं यथा स्यात्तथा गच्छतीति पन्नगः । 'पन्नम्' इति क्रियाविशेषणं पठ्यते कान्तम् । उरसो लोपश्च (का०वा० ) ॥ उरसा गच्छतीत्युरगः ।
सुदुरोरधिकरणे (का०वा० ) ॥ सुखेन गच्छत्यत्रेति सुगः । दुर्गः । कर्मणि तु खलेव । सुगमः । दुर्गमः ।
निरो देशे (का०वा० ) ॥ निर्गो देशः ।
अन्यत्रापि दृश्यते इति वक्तव्यम् (का०वा० ) । ग्रामगः । गुरुतल्पगः ।
Page #452
--------------------------------------------------------------------------
________________
धात्वधिकारें कृत्प्रकरणम्। आशिषि हनः (पासू०३-२-४९) ॥ कर्मण्युपपदे हन्तेर्डः स्यादाशिषि गम्यमानायाम् । शत्रु वध्यात् शत्रुहः । आशिषि किम् ? शत्रुघातः । अत्र वार्तिकानि
दारावाहनोऽणन्तस्य च टः संज्ञायाम् (का०या०) । 'दारौं' इति शब्दापेक्षया पुल्लिङ्गता । दारुशन्दे उपपदे आयूर्वाद्धन्तेरण, अन्तस्य च टकारादेशो वक्तव्य इत्यर्थः । टविधानार्थमिदम् । अण तु "कर्मण्यण"(पा.सु०३-२-१)इत्येव सिद्धः। अन्तग्रहणं स्पष्टार्थम् "अलो.
त्यस्य"(पा०ल०१-१-५२)इत्येव सिद्धः । अन्यथा हि टः प्रत्ययः सम्भाव्यत । गोधाकालंकादाघाटस्ते वनस्पतीनाम् ।
चारी वा (काल्वा०)॥ चारुशब्दे उपपदे प्रागुक्तं वा वक्तव्यमित्या थः। चार्वाघाटः । चार्वाघातः । - कर्मणि समि च (काभ्वा०) कर्मण्युपपदे सम्पूर्वाद्धन्तरेण, अन्त्यस्य च टो वावक्तव्यः । वर्णान्संहन्तीति वर्णसंघाटः । वर्णसंघातः । पदसं. घातः । पदसंघाटः। ___ अपेक्लेशतमसोः (पासू०३-२-५०) ॥ अपपूर्वाद्धन्ते स्थानक्लेश तमसोः कर्मणोरुपपदयोः । क्लेशापहः पुत्रः । तमोऽपहः सूर्यः । अनाशीरर्थोऽयमारम्भः॥
कुमारशीर्षयोणिनिः(पा०४०३-२-५१) ॥ एतयोः कर्मणोरुपपदयों हन्तेणिनिः स्यात् । कुमारघाती । शीर्षघाती । "सुप्यजाती" (पा०स० ३-२-७८) इत्येवमादिभिः सिखे ताच्छील्यावश्यकाधमादिविरहे। ऽपि यथा स्यादित्येवमथै, शिरसः शीर्षभावार्थ वचनम् । __ लक्षणे जायापत्योष्टक (पासू०३-२-५२)॥ हन्तर्घातोऑयापत्योः कर्मणोरुपपदयोर्लक्षणपति कर्तरि टक्प्रत्यय: स्यात् । जायानो ब्राह्म. णः । पतिघ्नी वृषली । सो लक्षणशब्दोऽर्शमाद्यन्प्रत्ययान्तो न तु केवला, सत्रारम्भसामर्थ्यात् । केवले हि. लक्षणे तिलकरेखाविशेषादौ कर्तृत्वेन विवक्षिते उत्तरसूत्रेणैव सिद्धः प्रत्ययः । तस्माद्यस्य तिल. कादि जायामरणनिमित्तमस्ति स तां हन्तीति गौणो वादः । एवं 'पतित्री' इत्यत्रापि।
अमनुष्यकर्तृके च (पासू०३-२-५३) ॥ मनुष्यभित्रकर्तृकेऽथै वर्ग. मानाबातोः कर्मण्युपपदे टक् स्यात् । जायाघ्नस्तिलकालकः । पति. नी पाणिरेखा । पित्तनं घृतम् । अमनुष्यकर्तृके इति किम् ? आखु. घातः शूद्रः । यद्यपि अमनुष्यशब्दो रक्षापिशाचादिषु कदस्तथापीह लक्ष्यानुरोधिनो व्याख्यानान्मनुष्यादन्यत्सर्वमेवाह । ननु पूर्वस्त्रे लक्ष.
Page #453
--------------------------------------------------------------------------
________________
४४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिकेगग्रहणं यथा प्रत्ययार्थविशेषणम, तहाप्यमनुष्यग्रहणमस्तु, किं कर्तृग्रहणेनेति चेत् ? मैवम्, 'अमनुष्य'इत्युच्यमाने उपपदत्वं विद्या येत, पूर्वसूत्रे तु उपपदान्तरसत्वात्प्रत्ययार्थविशेषणता निश्चीयत इति वैषम्यात् । अथ कथं कृतघ्ने नास्ति निष्कृतिः' 'बलभद्रः प्रलम्बध्नः' 'शत्रुघ्नः' इत्यादि ? मूलविभुजादिषु द्रष्टव्याः। कथन्तर्हि 'चोरघातो नगरघातो हस्ती' इति ? बाहुलकादणिति वृत्तिर्भाग्यञ्च ।
शक्ती हस्तिकपाटयोः (पा०स०३-२-५४)॥ शक्ती गम्यमानायां ह. स्तिकपाटयोः कर्मणोरुपपदयोइन्तेर्धातोष्टक् स्यात । मनुष्यकर्तृकार्थ आरम्भः । हस्तिग्नो मनुष्यः । कपाटनश्चोरः । शताविति किम् : विषेण हस्तिनं हन्तीति हस्तिघातः । यद्यपीह शकिरस्ति अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानम् । तेन स्वबलेनैव हन्तुं या शक्तिः सा गृह्यते । एवं चोदाहरणेऽपि हस्तिनं हन्तुं मा वावधीत् । सामर्थ्यातिशयमात्रातु 'हस्तिनः' इत्याधुच्यते। कं शिरः पाटयति प्रविशते इति कपाटम् । 'कवाटम्' इति पाठे तु अटतेः पचायच् । “कवचोणे" (पा००६-३-१०७) इत्यत्र योगविभागा. कोः कवादेश इति हरदत्तः।
पाणिघताडधौ शिल्पिनि (पा०स०३-३-५५) ॥ एतौ निपात्येते शिल्पिनि कर्तरि वाच्ये । 'पाणि' 'ताड' इत्येतयोरुपपदयोर्हन्तर्घातो. टक्प्रत्ययः तस्मिश्च टिलोपः घत्व निपात्यते । पाणिघः । ताडपः । शिल्पिनीति किम् ? पाणिघातः । ताडघातः।।
राजध उपसङ्ख्यानम् (कावा०)॥राजानं हन्तीति राजघः। माध्यमुभगस्थूलपलितलग्नान्धप्रियेषु व्यर्थे वच्ची कृषः करणे युन (पासू०३-२-५६) ॥ मात्यादिषु व्यर्थेवळ्यन्तेषु सप्तम कर्मः सुपपदेषु करोतेः स्युन स्यात् । करणे ब्वेकल्पिकत्वाद् द्विविधा श्व्यर्था आढ्यादयः, च्यन्ता अळ्यन्ताध । तत्र व्यन्ताः पर्युद. स्यन्ते । अनाव्यमाढ्यं करोत्यनेन आब्यङ्करणम् । समगहरणमि. त्यादि । व्यर्थग्विति किम् ? भाड्यन्तैलेन कुर्वन्ति । अम्बनयन्ती. त्यर्थोऽनेकार्थत्वाखातूनाम् । तेन नात्र प्रागनाढ्यः सम् आय: कि यते इति अभूततद्भावाभावः । अस्तु वा अभूततद्गाव, तथापि प्रकृते. 'रविवक्षायां प्रत्युदाहरणम् । प्रकृतिरेव परिणामिनीखेन यदा विव. स्यते यथा अपटास्तन्तवा पटीमवन्तीति, तदा विप्रत्ययः। तथा च तत्र वार्तिकम्
प्रकृतिविषक्षाग्रहणं च(काभ्वा०)। इति । अवाविति किम ? :
Page #454
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् । व्याकरोत्यनन ।
स्यादतत । "करणाधिकरणयाश्च" (पासू०३-३-१९७) इति ल्युटाऽत्र भवितव्यम् । न च ल्युटः ख्युनश्चेह विशेषोऽस्ति, उभयथाs पि हि 'आयीकरणम्' इत्येव रूपम् । "खित्यनव्ययस्य" अरुर्विषदज म्तस्य मुम्' (पासू०६-३-६६,६७) इति हि इस्वत्वं मुम् चानव्ययस्य विधीयते । घ्यन्तश्चाव्ययम् , "ऊर्यादिच्चिडाचश्च" (पा०सू०१-४६१) इति निपातत्वात् । न च ख्युनि सति "उपपदमति" (पा०सु० २-२-१९) इति नित्यसमालो लभ्यते ल्युटि तु नेति वाच्यम् । ल्युट्य. पि गतिसमासस्य सम्भवात् तस्यापि नित्यसमासत्वाविशेषात् । न च स्त्रीप्रत्यये विशेषः, उभयत्रापि ङीबेव भवति । ल्युटि "टिड्ढाणम्" (पा०४०४-१-१५) इति सूत्रेण, ख्युनि तु तत्रत्येन ख्युन उपसंख्यानेन । न च स्वरे विशेषः, ल्युटि हि लित्स्वरेण कृत्र उदात्तत्वं स्युः न्यपि नित्स्वरण तथैवेति । तस्मात् 'अच्चौ' इति व्यर्थमिति चेत् ? सत्यम, उत्तरार्थ तदुक्कमिति भाष्यकाराः । एवञ्च 'आव्याकरणम्। इत्यादि रूपं ल्युटा भवत्येवेति भाव इति कैयटः । यतु जयादि. त्येनोक्तम्-प्रतिषेधसामर्थ्यात् ख्युन्यसति ल्युडपि न भवति । तेन ल्युटोऽप्ययमर्थतः प्रतिषेध इति । तस्यायमाशयः केवलोत्तरार्थत्वे तत्रैवाच्चाविति ब्रूयात् । इहकरणसामान्तु ल्युडपि न । यथा "इकोऽचि विभक्तो" (पा०९०७-१-७३) इत्यग्रहणस्य उत्तरार्थत्वे सत्यपि इहकरणसामर्थ्यात् “न लुमता" (पासु०१-१-६३) इत्यस्यानि. स्यता बाप्यते इत्यभिप्रायेणाह-रह किश्चित् पो इतीति वक्ष्यते । तथा चोत्सरार्थतापि काममस्तु न तु केवलोत्तरार्थतेति । भाग्यवार्तिकस्व. रसेन तु केवलोतरार्थत्वं लभ्यते । अतस्तद्विरोधात्तिकम्मतमयुक्त. मिति कैयटः।
कसरि भुवः खिष्णुचखुको (पा०स०३-२-५७) ॥ आत्यादिषु ज्य] वन्यन्तेषु सुबन्तेषूपपदेषु भवतेर्धातोः कर्तरि विष्णुच् खुकम् एतौ स्तः । बाढयम्भावष्णुः । आख्यम्भावुकः । सुभगम्भवि. प्णुः । सुभगम्भावुक इत्यादि । कर्तृप्रहणं करणनिवृत्त्यर्थमुत्तरार्थच । खकारो मुमर्थः । अकारो वृद्धयर्थः।
स्थादेतत् । विष्णुच इकारो मास्तु 'वस्नुः' इति 'स्नुस्' इति घोच्यताम् । तत्रायमप्यर्थः, स्वरार्थधकारो न कर्तव्या, प्रत्ययस्वरेणेंवाभिमतासोः । कथन्तर्हि इकारादित्वमिति चेत् ? इडागमेनेति गृहाण । न च "एकाच उपदेशे" (पासू०७-२-१०) इतीणनिषेधा,
Page #455
--------------------------------------------------------------------------
________________
४४६
शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिके
भवतेरुदात्तत्वात् । अत्रोत्तरं वार्तिककार आह
नञस्तु स्वरसिद्यर्थमिकारादित्वामिष्णुचः ॥ इति ।
'नत्रः' इति पञ्चमी । नत्र उत्तरस्य विष्णुजन्तस्य स्वरसिद्ध्यर्थः मित्यर्थः । यद्ययामकारादिर्न क्रियेत ततः सत्यपीटि "कृत्योकेष्णुच्चा. वादयश्च" (पा०सू०६-२-१६०) इति सूत्रे अस्य ग्रहणं न स्यात् । अस्य चकारानुबन्धाभावात् ।
अथोच्यत-अयमपि चित् । 'खस्नुच्' इति । एवमपि लाक्षणिक स्वात्षत्वणत्वयोश्चासिद्धत्वात् ष्णुच्' इति रूपाभावात् ग्रहणं न स्यादेव । तत इकारादित्वं क्रियते। - अत्रेदं वक्तव्यम-सत्यपीकारादित्वे "तदनुबन्धकग्रहणे नातदनुबन्धकस्य" (प०भा०८४) इति परिभाषया अलङ्कादिष्णुच एव प्रहणेन भाव्यं, नास्य ।
अयोध्येत । इकारोचारणसामर्थ्यावस्यापि प्रहणमिति । हन्तवं वष्णुजयमस्तु तत्रेटि कृते चकारानुबन्धसामर्थ्यादस्थापि प्रहणमस्त्विति किमिकारण? तस्माश्चिन्त्यमेतत् । यनु हरदत्तेन षवणत्वयोः सामर्थ्यांदस्यग्रहणं भवतीत्युकम्, तदप्यापाततः स्नुजपेक्षया णुजु. को प्रत्युत प्रक्रियालाघवेन षत्वणत्वयोः करणस्योचिततया सामर्थ्या. योगादिति दिक।
स्पृशोऽनुदके किन् (पासू०३-२-५८) । अनुदके सुबन्ते उपपदे स्पृशः क्विन् स्यात् । यद्यपि स्पृशः सकर्मकत्वात्कर्मण्युपपदे इत्येव प्राप्तस्तथापि पूर्वसूत्रात् कर्तरि' इत्यनुवृत्तः 'सुपि' इत्येवोपपदं निणीं: यते । तथाहि-"कर्तरि कत्' इत्येव कर्तरि क्विनः सिद्धत्वात्कनुवृ. तिः कर्तृप्रचयार्था । कर्मण्युपपदे एकः कर्ता, करणादौ चापर हत्येवं कर्तृप्रचयः । तथा च सुबन्ते उपपदे इति फलितं भवति । धृतं स्पृशः तीति घृतस्पृक् । मन्त्रेण स्पृशतीति मन्त्रेस्पृहति प्राशः।
वस्तुतस्तु पूर्वसूत्रे कर्तृग्रहणं व्यर्थमेव । वद्धि न तत्रैव करणानु. वृत्तिनिरासार्थम्, अस्वरितत्वादेव तत्सिरः। नापीह कर्तृप्रचयार्थम्, 'मन्त्रस्पृक्' इत्यादेः क्विपाऽपि सिद्धः। न च क्विपि. कुत्वं न स्या. दिति वाच्यम् , क्विन्प्रत्ययो यस्मात्तस्यान्यत्रापि कुत्वम् इति वक्ष्य. माणत्वात् । अन्यथा 'असक्' इत्याद्यसिद्धरित्यवधेयम् । __ अनुदके इति किम् ? उदकस्पर्शः । न चेह क्विपा 'उदकस्पृक' इति रूपं दुर्वारमिति वाच्यम् , अनुदके इति पर्युदाससामात्विव. पोध्यप्रवृतेः । कथन्तर्हि 'मन्त्रस्पृक्' इत्यादेः क्विपा सिद्धिरुति.
Page #456
--------------------------------------------------------------------------
________________
घावधिकारे कृत्प्रकरणम्। चेत् ? उदके क्विोऽप्रवृसावपि मन्त्रादावुपपदे प्रवृत्तौ बाधकामा. दिति दिद।
क्विनः ककारो गुणप्रतिषेधार्थः। इकारो "वेरपृक्तस्य' (पासू०६१-६७) इति विशेषणार्यः । नकारस्तु यद्यपि नाथुदात्तार्थः, एकाजभ्यः क्विनो विधानात्तत्र धातुस्वरेणैव सिद्धेः, यस्त्वनेकाच् 'दधृक्' इति, तत्रान्तोदात्तस्य वक्ष्यमाणस्वात् , तथापि “क्विन्प्रत्ययस्य कुः" (पा.सूर ८-२-६२) इति विशेषणार्थः । "क्विःप्रत्ययस्य" इत्युच्यमाने सन्देहः स्यात् । के क्विपो का निर्देश इति। न च क्वेर्निर्देश एकः पकारः, क्विपस्तु द्वाविनि विशेषः । क्वेरपि निर्देशे पकारस्य "अनचि च" (पा०स०८-४:४७) इति द्विवचनोपपत्तेः । न चैवं क्विपि पकारत्रय. मिति वाच्यम्, "झरो झरि" (पा० सु०८-४-६५) इति लोपोपपत्तेः। व्यञ्जनपरस्यैकस्यानेकस्य पोशारणे विशेषानुपलम्माच ।
कत्विग्दघृस्रग्दिगुष्णिगञ्चुयुजिकुञ्चाञ्च (पासू०३-२-५९) । आधाः पञ्च क्विन्नन्ता निपात्यन्ते । ततस्त्रिभ्यः क्विन्विधीयते । तः नापि निपातनैः सह निर्देशात्किञ्चिदलाक्षणिकमस्ति । तद्यथा-अशेः सकर्मकत्वात्कर्मण्येव प्राप्तः सुबन्तमात्रे विधीयते । युजिक्रुविभ्यान्तु कवलाभ्यामेव । युजेविधानसामर्थ्याच्च । न हि सोपपदाधुजेः क्वि. नि क्विपि वा विशेषोऽस्ति, कुत्वस्य "चोः कु' (पा०स०८-२-३०) इत्यनेनैव सिद्धस्वात् । अनुपपदे तु "युजेरसमासे' (पासू०७-१-७१) इति नुमि कृते नकारस्य कुत्वार्थे क्विनो विधानं भवति सार्थकम् । कुशेर्नलोपाभावश्च निपात्यते । ऋतौ यजति ऋत्विक् । इह ऋतुशब्दे. उपपदे यजेक्विन् । भिधृषा प्रागल्भ्ये (स्वा०प०२३), अस्य क्विन् द्विवचनमन्तोदात्तत्वञ्च निपात्यते, दधृक् । मृजेः कर्मणि क्विन्, अमा. गमश्च निपात्यते । सृज्यते इति सक् । दिशेः कर्मणि क्विन् । विश्य. ते इति दिक।
उत्पूर्वास्निहेः क्विन्, उपसर्गान्तलोपः, सस्य षत्वञ्च, उष्णिक् । प्राङ् । प्रत्यङ् । युङ्, युजी। सोपपदात्तु "सत्सुद्विष" (पासु०३-२६१) इति क्विप् । अश्वयुक् । यदि तु निपातनसाहचर्यात्सोपपदादनु. पपदाच्च युजेः क्विन् भवतीत्युच्येत, तदा "सत्सूद्विष" इति सूत्रे युजिग्रहणं शक्यमकर्तुम् । कुश क्रुश कौटिल्याल्पीभावयोः (भ्वा०१० १८५,१८६)। नोपधाविमौ । तथा च निकुचितिरित्यत्र नलोपो दृश्यते । "सत्रिपात" (प०मा०८७) परिभाषायाः फलानि पठन् वार्तिककारो। याह-"उदुपधत्वमकित्त्वस्य निकुचितः" इति । अकारस्तु "स्तोः"
Page #457
--------------------------------------------------------------------------
________________
४४८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिके(पा०सु०८-४-४०) इति चुत्वेन, तस्यासिद्धत्वात् चोः कुः (पा०स०८२-३०) इति कुत्वं न। अकारोपधं पठतां तु'क्रुश्चौ' 'कुञ्चः' इत्यादौ प्राप्त कुत्वं सङि झलीति वचनाद्वार्यते । सङिति प्रत्याहारः सनःसशब्दा. दारभ्य आ महिङो उकारात् ।
पत्र केचित-कुञ्चिरेक एव धातुः। तस्य ककारात्परो रेफोऽपि क्विन्सनियोगेन निपात्यते इत्याहुः । "चोः कुः" (पा०सु०८-२-३०) इति सूत्रे वामनकाशिकायां स्पष्टमेतत् ।।
त्यदादिषु दशोऽनालोचने कम् च (पासू०३-२-६०) ॥ अनालो. चनार्थाद् शेर्धातोस्त्यदादिषु कस्याच्चाक्विन् । तारम्। तारशः । याहा । यारशः। कमो अकारो विशेषणार्थः ठकठकमिति स्व. रार्थश्च । अनालोचने किम् ? तत्पश्यतीति तहर्शः। ताहशादयस्तु कढि. शब्दाः । ते च असताऽप्यवयवार्थेन व्युत्पाद्यन्ते । अत एव प्र. मालोचने इत्युक्तम् । दृश्यर्थाभावेऽप्यवं विधिः। सति तु श्ययें अणेव भवतीति भावः ।
माध्ये तु कर्मकर्तरि व्युत्पत्तिदर्शिता। तमिवेमं पश्यन्ति जना, स हवायं पश्यति ज्ञानविषयो भवतीत्यर्थात् । तथा ग्राहक्षा स्वार्थ तखितप्रत्यया एवेत्यपि पक्षान्तरं स्थितं भाग्ये । तच्च "टिड्ढाणम्" (पासू०४-१-१५) इति सूत्रे व्युत्पादयिष्यामः।
समानाम्ययोश्चेति षकव्यम् (काभ्वा०) सह । सहशः अन्याह। अन्याहशः।
क्सोऽपि वक्तव्यः (काभ्वा०)॥ त्यदादिषु समानान्ययोश्च (कावा०)॥ तारक्षः । सहक्षा। अन्यारक्षः। __सत्सृद्विषद्रुहदुहयुजविदभिदच्छिदाजिनीराजामुपसर्गेऽपि क्विए (पा०स०३-२-६१) ॥ सुपीति वर्तते । कर्मप्रहणं तु "स्पृशोऽनुदके" (पा०१०३-२-५८) इत्यतः प्रभृति नानुवर्तते । तत्र हनुवृत्तेन कर्तृप्र. बयान कर्तृग्रहणेन तभिवृत्तिरित्युक्तम् । कर्तृग्रहणप्रत्याख्याने तु व्याख्यानादेव कर्मग्रहणनिवृत्तिरित्यन्यदेतत् ।
सदादिभ्यो धातुभ्यः सुप्युपसर्गेऽप्यनुपसर्गेऽप्युपपदे क्विए स्यात् । उपसर्गग्रहणं शाफ्नार्थम् । “सुपि स्थः" (पा०स०३-२-४) इत्यतः प्रकृतस्य सुग्रहणस्य उपसर्गेतरपरत्वमिति । युक्तञ्चैवत , विशेषसन्निधौ आम्नातस्य सामान्यशब्दस्य तदतिरिक्तपरत्वौदि. त्यात् । तत्फलन्तु "स्पृशोऽनुदके क्विन्' (पासू०३-२-५८) इत्पत्र
Page #458
--------------------------------------------------------------------------
________________
धास्वधिकार कृत्प्रकरणम् ।
४४९
उपसर्गस्याग्रहणमिति कैयटः ।
यत्तु सामान्यापेक्षं झापकमाश्रित्य "वदः सुपि क्यच' (पा०६० ३-१-१०६) इत्यत्रापि उपसर्गतरपरत्वमुक्तं भाष्यवृत्त्योस्तत्तु मन्द्रप्र. योजनम् । तत्रत्यभाष्ये "गदमदचरयमश्च' (पा०स०३-१-१००) इति सूत्रादनुपसर्गग्रहणमनुवर्तत इति सिद्धान्तितत्वात् ।
वस्तुतस्तु कैयटोकमपि फलं चिन्त्यमेव, स्पृशेरुपसर्गे क्विनमा वेऽपि क्विपो दुीरत्वात् । तत्र च क्विन्क्विपोः स्वरे रूपे का विशेषस्य दुर्लभत्वात् । ___अथ वा सत्यभिधाने यङ्लुगन्ते अनेकाच्कत्वेन स्वरे विशे. षो वर्णनीयः।
वस्तुतस्तु "अनुदके" इति पर्युदासादत्र सत्ववाचकस्यैव ग्रहणेनोपसर्ग प्राप्तिरेष नास्ति । यन्तु 'गापोष्टक" (पासू०३-२-८)इत्यत्र फलमित्याहुः, तन्त्र, तत्रापि “अनुपसर्गे" इत्यनुवृत्तेः । 'कर्मणि' इत्यस्य सम्बन्धेऽपि 'सुपि' इत्यस्यासम्बन्धेन ज्ञापकाप्रवृत्तश्च । तस्मात् "सु. पि स्थः" (पा०स०३-२-४) इत्यत्रैव यथाकश्चित्फलविशेषो वर्णनीय इत्यास्तान्तावत्।
हंसः शुचिषत् । “पूर्वपदात्!' (पा०९०८-४-३) इति षत्वम् । तत्र च 'छन्दसि' इति वर्तते । तेन भाषायां 'शुचिसत्' इत्येव भवति । तथा च माध:-"मनस्सु येन दुसदा न्यधीयते" इति । "आदिते. या दिविषदः" (अ०को०१-१-३) इत्यत्र तु सुषामादिपाठात षत्वमिति माधवः । उपनिषत् । “सदिरप्रतेः" (पासू०८-३-६६) इति षत्वम् । 'स्' इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणम्, न तु सुवतिसूया त्योः । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्ररुक् । प्रध्रुक् । गो. धुक् । प्रधुक् । युजिर योगे (रु०उ०७) युजसमाधौ (दि०आ०७१)द्वयो. रपि प्रहणम । अश्वयुक् । प्रयुक् । विद शाने (म०प०५४) विद विचा रणे (रु०आ०१३) विद सत्तायाम् (दि०आ०६५) त्रयाणामपि ग्रहणम न लाभार्थस्य विदेः, अकारस्य विवक्षितत्वात् । वेदवित् । प्रविन् । काष्ठभित् । प्रभित् । रज्जुच्छित् । प्रच्छित् । शत्रुजित् । सेना. नीः । प्रणीः । “उपसर्गादसमासेऽपि" (पासू०८-४-१४) इति णत्वम् । अग्रणीः । ग्रामणीः । अत्र झापकाण्णत्वम् । “स एषां ग्रामणीः" इति निर्देशो हि पूर्वपदस्थानिमित्तादुत्तरस्य नयतेन. कारस्य असंज्ञायामपि णत्वं ज्ञापयति । नारूपविषयं चेदं ज्ञापकम् । तेन 'प्रामनायः' इति कर्मण्यणि णत्वन्न । ज्ञापकस्य सामान्यापेक्ष.
शब्द. द्वितीय. 29.
Page #459
--------------------------------------------------------------------------
________________
४५० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेस्वादग्रशब्दादपि णत्वम् । नन्वेवं रामादिशब्देभ्योऽपि प्राप्नोतीति चेत् ? इष्टापत्तिरित्येके । अग्रग्रामाभ्यां नयतेरिति वचनाज्ञापनमपि उपपदद्वयमात्रविषयम् । निरूपमात्रविषयता तु वचनस्याप्यवधेयेत्यन्ये ।
स्वराट् । विराट् । सम्राट् । “मो राजि"(पा०सु०८-३-२५) इति मत्वम् । इह युजिग्रहणं शक्यमकर्तुमिति "ऋत्विग्दधृक्" (पा०सू० ३-२-५९) इतिसुत्रे एवावाचाम ।
अत्र जयादित्यः-"अन्येभ्योऽपि दृश्यते" (पा०स०३-२-१७८) इति सामान्येन क्विवक्ष्यते तस्यैवायं प्रपञ्च इति ।
नन्वेतदसङ्गतम् , तस्य ताच्छीलिकत्वादिति चेत ? सत्यम, "क्विए च" (पा०स०३-२-७६) इति सूत्रमिह विषक्षितम् । तत्रापि हि "विजुप छन्दसि"."ातो मनिन्क्वनिव्वनिपश्च" "अन्येभ्योऽपि इयन्ते" (पा०स०३-२-७३,७४,७५) इति सन्निहितं हशिग्रहणमनुवर्त्य बचनविपरिणामेन व्याख्यातुं शक्यत इत्याशयेनोदाहतजयादित्यनन्यप्रवृत्तेः। एतेन "स्थाकच" (पासु०३-२-७७) इति सूत्रे क्विप सि. डोऽन्येभ्योऽपि दृश्यते इति इति भाष्यं तत्रत्यवृत्तिश्चेत्युभयमपि व्याख्यातम।
अत्रेदमवधेयम, सूत्रस्य प्रपश्चार्थत्वे स्थिते सविदेत्यत्र धातुविशे. षषपरिग्रह वृचिकृतोको यत्नो निष्फलः, सुवतिस्यत्योर्विन्दतेच "क्वि पच" (पा०सू०३-२-७६) इति क्विपो दुर्वारत्वात । न चेह धातुविशे. षग्रहणं नियमाथै तेन सुवत्यादिषु "क्विए च" इति सूत्रं न प्रवर्चत इति वाच्यम्, अपचार्थमिदं सुत्रमिति स्वोक्तिविरोधात । किश "लु. ग्विकरणालुग्विकरणयोः"(प०भा०९२) इति परिभाषया सुवतिसूयत्योरव ग्रहणं न्याय्यं, साहचर्यमात्रपुरस्कारे वा उच्चारणार्थाकारवद्भिः पूर्वोत्तरैः साहचर्यमुपेक्ष्य कथं विदेत्यकारविवक्षोका, कथं वा युजेत्यु. भयग्रहणमवोचत्, न हि युजविदयारण्वपि वैषम्यमस्ति, तस्मादिः ह वृत्तिकृतान्तदनुगामिनामन्येषाञ्च धातुविशेषपरिग्रहे अमिनिवेशो निर्मूलो निष्फलश्च ।
ननु प्रपञ्चत्वोक्या सुत्रमर्थात्प्रत्याख्यातम्, तथा च सुग्रहणे उपसर्गनिवृत्तिन झाप्येतेति चेत् ? मा झापि, तत्फलस्य प्रागेव शिथि. लीकृतत्वात् । एव णिनिविधी सुबग्रहणमपि न कर्त्तव्यम् इति मह. देव लाघवमिति दिक् ।
भजो ण्विः (पा०म०३-२-६२) । सुप्युपसर्गे चोपपदे भजेविः स्यात् । अद्धभाक् । प्रभाकू ।
Page #460
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् । छन्दसि सहः (पासू०३-२-६३) ॥ सुप्युपपदे उपसर्गे च सहेर्धातोश्छन्दसि ण्विप्रत्ययः स्यात् । दुश्च्यवनः पृतनाषाळयुध्यः। अभीद. मेकमेकोऽस्मि निःषाट् । कथन्तर्हि "तुरासाहं पुरोधाय" "धरातुरा. साहिमदर्थयाच"इत्यादि, छन्दसीत्युक्तेर्भाषायां विप्रत्ययानुपपत्ते. रिति चेत् ? चिन्त्यमिति हरदत्तः । सहतेरभिभवानिवृत्तप्रेषणात्प्राकृतेऽर्थे णिचि किब्धिचोरन्यतर इति वा समाधेयम्।
वहश्च (पा०स०३-२-६४)।वहतर्धातोः सुप्युपसर्गे चोपपदे छन्दसि विषये ण्विः स्यात । दित्यवाट् च मे दित्यौही च मे । योगविभाग उत्तरार्थः।
कव्यपुरीषपुरीप्येषु ज्युट (पा०स०३-२-६५) ॥ एषूपपदेषु छन्द सि वहेर्युट्प्रत्ययः स्यात् । कव्यवाहनः पितृणाम् । पुरीषवाहनः । पुरीज्यवाहनः।
हव्येऽनन्तःपादम् (पा०सु०३-२-६६) ॥ हव्यशन्दे उपपदे छन्दसि वहेयुट् स्यात् पादान्ते । अग्निश्च हव्यवाहनः । पादमध्ये तु "वहश्च" (पासु०३-२-६४) इति विरेव । हव्यवाळग्निरजरः पिता नः। ___ जनसनखनक्रमगमो विट् (पासू०३-२-६७) ॥ उपसर्गे सुपि चो. पपदे छन्दसि विट् प्रत्ययः स्यात् । “वेरपृक्तस्य"(पास०६-१-६७) इत्यादौ सामान्यग्रहणाविघातार्थष्टकारः,"विड्वनो"(पासू०६-४-४१) इत्यादी विशेषणार्थश्च । जन जनने (जु०प०२३), जनी प्रादुर्भावे (दि०आ०४३) द्वयोरपि प्रहणम् । अब्जाः । गोजाः । षणु दाने (तउ० २), षण सम्भको (3५१०४६५) द्वयोरपि ग्रहणम् । गोषा इन्द्रो नृषा अस्यश्वसा वाजसा उत। इयं शुज्मेभिर्विसखा इवारुजत् । आदधिः काः शवसा पश्च कृष्टीः । अग्निमुषसमश्विनान्दधिक्रान्ताः सुर्यों अप्रे शुकोअग्रेगाः । उदाहरणेषु "विड्वनोरनुनासिक स्यात"(पासू०६-४४१) इत्यात्वम् । 'गोषा' 'नृषा' इत्यत्र "सनोतरनः" (पासु०८-३१०८) इति षत्वम् । अप्रेगा इति सप्तम्या अलुक् ।।
अदोऽनन्ने (पासू०३-२-६८) ॥ 'छन्दसि' इति निवृत्तम् । अन्न. मिने सुप्युपपदे अदेर्षिट् स्यात । आममत्ति आमात् । सस्यात् । अन. ने किम् ? अन्नादः । भाषायां "कर्मण्यण" (पा०सु०३-२-१)। छन्द. सि तु कृद्वयत्ययेन पचाद्यच् इत्युक्तम् । तेन 'अन्नादः इत्यत्र 'अन अदः' इत्यवग्रहः सिध्यति । । क्रव्ये च (पासू०३-३-६९) ॥ कव्योपपदे अदेर्धातोर्विट् प्रत्यया स्यात् । क्रव्यमाति क्रव्यात् । पूर्वेणैव सिद्ध वचनमसरूपबाधनार्थम् ।
Page #461
--------------------------------------------------------------------------
________________
४५२ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमालिकेतेनाण् न भवति । कयन्तर्हि "क्रव्यादो ऽनप आशरः" (अ०को०१-१६२) इत्यमरः? ___ अत्राहु-कृत्तविकृत्तपकमांसशब्दे उपपदे अण् । तस्य च पृषो. दरादित्वात्कव्यभाव इति । अस्यार्थः-कृत्तं छिन्नं तदेव पुनर्विशेषतः कृतं, "पूर्वकाल"(पा०स०२-१-४८) इति समासः, तस्य पकशब्देन पुनः स एव समासः, ततो मांसशब्देन पुनर्विशेषणसमासः, तस्य क्रव्यादेशः । नन्वेवं 'क्रव्यादः' इति रूपस्यावर्जनीयतया किं वासरूपबाधनार्थेनानेन वचनेन । वार्तिकविरोधश्च । यदाइ-अदोऽनन्ने क्रय ग्रहणं वासरूपनिवृत्यर्थमितीति चेत् ? भैवम् , अर्थभेदादुभयसाधुत्वो. पपत्तेः । आममांसभक्षको हि क्रव्यात् । विशिष्टपक्कभक्षस्तु 'क्रव्यादः'इति।
दुहः कब्धश्च (पा०सू०३-२-७०) ॥ दुहेः सुप्युपपदे कप् स्याद्धश्वान्तादेशः। कामदुधा धेनुः ।
मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (पा०स०३-२-७१) ॥ श्वेता. दिपूर्वेभ्यो वहादिभ्यो धातुभ्यो ण्विन्प्रत्ययः स्यान्मन्त्र । धातूपपदस. मुदायाश्चेह निपात्यन्ते अलाक्षणिककार्यार्थ, प्रत्ययस्तु विधीयते । श्वेतशब्दे कर्तृवाचिन्युपपदे वहेर्धातोः कर्मणि कारके ण्विन्प्रत्ययो भव. ति । श्वेता एनं वहन्ति श्वेतवा इन्द्रः, तं श्वेतवाहम् । उक्थे कर्मणि करणे वोपपदे शंसतेः प्रत्ययो नलोपश्च । उक्थानि उकीर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । दाश दाने (भ्वा० उ०९०७) अस्व पुरसपूर्वस्य आदेर्डत्वं कर्मणि च प्रत्ययः । पुरो दा. श्यते पुरोडाशः।
श्वेतवाहादीनां डस् पदस्येति वक्तव्यम् (का०वा०) । यत्र डस. न्तस्य पदत्वं भविष्यति तत्र विनोऽपवादो डम्प्रत्ययो वक्तव्य इत्य. र्थः। ततश्च 'श्वेतवाहो' इत्यादावपदान्तविषय एव सूत्रोक्तो विनुदा. हार्यः । 'श्वेतवाः' इत्यादि तु सौत्रस्य विनोऽपवादेन औपसंख्यानि. केन डस्प्रत्ययेनैव सिध्यतीत्यवधेयम् । . वृत्तौ ण्विनं प्रक्रम्य 'श्वेतवाः' इत्याद्युदाहरणन्तु डमविषये वि. वोऽपि प्राप्तिः स्थितेत्येतावन्मात्राभिप्रायकतया कथञ्चिन्नेयम् । नच इसं विनापि "अवयाः श्वेतवाः"(पासू०८-३-६७) इत्यनेन रुत्वं निः पात्यतामिति वाच्यम्, अविशेषेण निपातने 'श्वेतवाहो' इत्यादावति. प्रसक्तः । पदान्तविषयत्वेऽपि 'श्वेतवोभ्याम्' इत्यादावुत्वं न सिध्येत् । तस्माइस् वाच्य एव । नन्वेवं 'श्वेतवाः' इत्यादिनिपातनं व्यर्थमिति चेत् ? न, तस्य सम्बुद्धयर्थत्वात् । एवश 'उक्थशाः' इत्यपि सम्बुद्धार्थ
Page #462
--------------------------------------------------------------------------
________________
४५३
धात्वधिकारे कृत्प्रकरणम् । निपातनं कर्त्तव्यं यदि मन्त्रे दर्शनमस्ति इति कैयटादयः । एवं स्थिते मन्त्रमात्रविषयाणामेषां शब्दानां प्रक्रियाकौमुद्यां लौकिकेषदाहरण. मनुचितम् । वैदिकप्रक्रियायान्तु युज्यते । डसन्तत्वेन सान्तप्रातिपदि. केम्वेवोदाहर्तुमुचिता अप्यतेऽपदान्तविषये हकारान्तत्वादिकं पुरस्कृत त्य यथायथं तत्तत्प्रघट्टकेषूक्ता इति बोध्यम् । ___ अवे यजः (पा०सू०३-२-७२) ॥ ण्विन् स्यान्मन्त्रे। त्वं यज्ञे वरुणस्यावया आस इति काशिका । इह 'अवयाः' इति प्रतीकमुपादाय पूर्व. सूत्रेऽपि 'श्वेतवाः' इत्याधुद्दिश्य "अवयाः श्वतवाः पुरोडाश्च" (पासू० ८-२-६७) इति निपातनादुत्वमिति हरदत्तः। ___एतच्च सर्व प्रामादिकम् , विनपवादो डस इति भाज्यकैयटादा स्वग्रन्थे च निर्णीतत्वात् । तस्मादृत्युदाहृतं उस एवोदाहरणम् । सूत्रस्य त्वपदान्तविषयं मन्त्रान्तरमन्वेषणीयमिति दिक् ।।
पूर्वसूत्रे एवावयजिन पठितः । उत्तरत्र हि श्वेतवाहादयोऽप्यनुव. तेरन् । यजिश्चावपूर्व एवानुवर्तेत । केवल एव तु सिद्धान्तेऽनुवर्तते ।
विजुपे छन्दसि (पासू०३-२७३) ॥ उपे उपपदे यजेर्विच स्याच्छ. न्दसि । उपयभिसर्व यजन्ति तदुपयजामुपयट्त्वम् । मन्त्र इत्यनुवृ. त्यैव भाषाव्यावृत्तौ सत्यां छन्दोग्रहणं ब्राह्मणसङ्ग्रहार्थम् । उत्तरसूत्रे एव विग्रहणे छन्दोग्रहणे व क्रियमाणे यद्यपि सर्व सिध्यति तथापि नियमार्थमिदम् । उपयजेश्छन्दस्येव न भाषायाम् इति वृत्तिकारः । ननु इशिग्रहणादेव भाषायां न भविष्यतीति चेत् सत्यम्, तस्येवायं प्रपत्र इति हरदत्तः। ___ आतो मनिन्क्वनिध्वनिपश्च (पा०सू०३-२-७४) ॥ सुप्युपसगें चोपपदे माकारान्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयत्रयः प्रत्य. याः स्युः। चकाराद्विच् । सुदामा । अश्व इव तिष्ठतीत्यश्वत्थामा । पृषोदरादित्वात्सकारस्य तकारः। सुधीवा । सुपीषा । "घुमास्थादि" (पा०स०६-४-६६) सूत्रेणेत्वम् । मरिदावा । घृतपावा । विचि तु कीलालपाः।
अन्येभ्योऽपि दृश्यन्ते (पा०स०३-२-७५)॥'छन्दसि इति निवृत्तम् । अपिशब्दः सर्वोपाधिव्यभिचारार्थः। अनाकारान्तेभ्योऽपि धातुभ्यो मनिन् क्वनि बनिए विच् पते प्रत्ययाः स्युरुपपदे सत्यसति च । सुशर्मा । प्रातरित्वा । विजावा । रेडसि पर्ण नवेः।
क्विा च (पासू०३-२-७६)॥ धातोः विप्स्यात्कर्तरि। उखा. नत । पर्णध्वत् । वाहाद् भ्रश्यति वाहम्रद । वृत्तौ तु 'वहानद' इति
Page #463
--------------------------------------------------------------------------
________________
४५४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाह्निकेपाठः । तत्र वहाद् भ्रश्यतीति विग्रहः । “अन्येषामपि दृश्यते" (पा. सू०६-३-१३७) इति दीर्घ इति हरदत्तः ।
स्थः क च (पा०४०३-२-७७) ॥ तिष्ठतेः सुप्युपपदे का स्या. क्विच । सूत्रे 'क' इत्यविभक्तिको निर्देशः। शंस्थः । शंस्थाः । इह "सुपि स्थः" (पासू०३-२-४-) इति कः प्राप्तः । तिष्ठतेरन्तर्भावितण्य. र्थतया 'शम्' इत्यस्य कर्मत्वे तु "आतोऽनुपसर्गे कः" (पा०स०३-२-३ इति कः प्राप्तः "विवच" (पा०सु०३-२-७६) इति क्विबपि । न च विशेषविहितेन कप्रत्ययेन क्विपो बाधः शङ्यः, "वाऽसरूप" (पा०प० ३-१-९४) इत्युक्तेः । तदित्थम्-कक्विपोः पर्याये प्राप्ते तदुभयबाधेन "शमि धातोः संज्ञायाम्" (पा०स०३-२-१४) इति अच् प्राप्तः । स हि धातुग्रहणसामर्थ्यात्कृतो हेत्वादिषु टं यथा बाधते तथा तिष्ठतेः कक्विपावपि बाधेत । अतस्तमप्यचं बाधितुं कक्विपाविह पुनर्विधीयते।
ननु 'शंस्थाः ' इत्यत्र क्विपि लुप्ते प्रत्ययलक्षणेन घुमास्थेतीत्वं स्यादिति चेत् ? न, स्थानिवद्भावस्य "अनल्विधौ" (पासू०ए०१-१५६) इति निषेधात् "प्रत्ययलोपे" (पासू०१-१-६२) इति सूत्रन्तु नियः मार्थमिति सिद्धान्तात् । यत्विह कैरटेनोक्तम् ईत्वमवकारादाविति वचनाद् भाग्यकारवचनप्रामाण्याचा प्रत्ययलक्षणेनेत्वाभाव इति । तद. विध्यर्थ “प्रत्ययलोपे" इति सूत्रमिति पूर्वपक्षमभिप्रेत्य, तत्राप्यवकारादाविति वचनस्वीकारे 'सुधीवा' इति न सिध्यदित्यपरितोषेण द्विती. यपक्षस्वीकार इति बोध्यम् ।
स्यादेतत् “शमि धातोः” (पासु०३-२-१४) इत्यस्यानन्तरमेव "स्थः कच" इति सुन्यताश्चकारेण 'अच् समुचीयताम् । तत्र सवर्णदीघे 'शंस्था' इति भविष्यति । एवञ्चोत्सर्गापवादयोः समानदेशतया सन्दर्भशुद्धिरपि लभ्यते । ईत्वाभावार्थे च न यतनीयमिति ।
मैवम्, 'अशंस्थाः ' इत्यत्र "अच्कावशक्तौ (पा०स०६-२-१५७) इत्युत्तरपदान्तोदात्तत्वापत्तेः । “कद्रहणे गतिकारकपूर्वस्यापि(प०मा० २८) इति 'शंस्थाः' इत्यस्याजन्तत्वात् । क्विवन्तेन नसमासे तु नः पूर्वपदप्रकृतिस्थर एव सिध्यति ।
सुप्यजातौ णिनिस्वाच्छील्ये (पा०सू०३-२-७८) । अजातिवाचिनि सुबन्ते उपपदे ताब्छील्वे धोत्ये धातोः कर्तरि णिनिः स्यात् । उष्णभोजी । शीतभोजी अबाताविति किम् ? ब्राह्मणानामन्त्रयिता । ता. न्छील्यस्य विवक्षितत्वात "न लोक' (पा००२-३-६९) इति षष्ठीप्र. तिषेधः । ताच्छील्ये किम् ? उष्णं भुके कदाचित् ।
Page #464
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम्
४५५
अत्र भाष्यम् - सुपीति वर्त्तमाने पुनः सुग्रहणं किमर्थम्, 'अनुपसर्ग' इत्येवं तदभूत् । इदं तु सुबमात्रे यथा स्यात् । उदासारिण्यः प्रत्यासारिण्य इति ।
अस्यायमाशयः–“सत्सु द्विष" (पा०सु०३-२-६१ ) इति सूत्रे " सुपि स्थः' (पा०सु०३-२-४) इत्यतः 'सुपि' इत्यनुवर्त्तते तच्चोपसर्गेतर परम् "उपसर्गेऽपि" इति पृथगुतेः । तदिद्दानुवर्तमानमर्थाधिकारादुपसर्गेतरप रमेव स्यात् । न चोपसर्गेपीत्यं शोपीहानुवर्त्तयितुं शक्यः, केवलभजूदाधनार्थत्वेन निर्णीते "स्थः क च" (पा०सू०३-२-७७) इति पूर्वसूत्रे "उ पसर्गेपि" इत्यंशस्य फलाभावेन विच्छिन्नत्वादिति । यद्यप्युत्तरार्थतया पूर्वत्राप्यनुवृत्तिरिति वा मण्डूकप्लुतिन्यायेनदेव सम्बन्ध इति वा सुब्ग्रहणस्यैव शब्दाधिकार इति वा "सत्सूद्विष" (पा०सु०३-२-६१ ) इति सुत्रे वर्णितरीत्या तस्यानावश्यकतेति वा सुवचं, तथापि सूत्रकाराशयवर्णनमात्रमेतत् । निष्कर्षे तु मा भूदिह सुब्ग्रहणमनुवृत्यैव निर्वा हात् । सर्वथाऽपि सुमात्रे उपपदे णिनिः नत्वनुपसर्ग एवेति सिद्धामतः । तथा च प्रयुज्यते - " स बभूवोपजीविनाम्" " न्यषेधि शेषोऽप्यनुयायिवर्गः" "अरिष्टशय्यां परितो विसारिणा" "पतत्यधो धाम वि. सारि सर्वतः” “विसारिभिः सौधमिवांशुजालैः” “प्रभाविनं भाविनमम्तमात्मनः" "न वञ्चनीयाः प्रभवोऽनुजीविभिः" इत्यादि । यत्त्विह वृत्तिकृतोकं सुपीति वर्त्तमाने पुनः सुग्रहणमुपसर्गनिवृत्त्यर्थमिति, तन्न, भाष्यविरोधात्, उदाहृतप्रयोगविरोधाश्च । न चैते प्रयोगा आवश्यकादिणिनिना कथं चिन्निर्वाह्या इति वाच्यम्, यथाश्रुते बाधकाभावात् । यद्यपि वृत्तिकृतोक्तम् “उत्प्रतिभ्यामाङि सर्त्तरुपसंख्यानम्” (का०वा० ) इति तदपि न । भाष्ये तादृशवार्त्तिकाभावात् । एतेन "उत्पतिभ्याम्" इति प्रतीकमुपादाय 'सुप्' इत्यस्योपसर्गनिवृत्यर्थत्वादयमारम्भ इति वदन् हरदत्तोऽपि प्रत्युक्तः, भाष्यविरोधात; आष्ट· मिकसकलप्रन्धविरोधाच। तथाहि, "कृत्यचः " (पा०सू०८-४-२९) इति सूत्रे अनमानानीयानीनिनिष्ठादेशाः प्रयोजयन्तीत्येतद्वाक्यान्तर्गनिग्रहणव्याख्यावसरे "सुप्यजाती णिनिः" "आवश्यके च" इति व्याख्यातम् । "सुप्यजातो" इत्यस्योपसर्गे प्रवृस्यभावे असकृतमेव तत्स्यात् । "कृत्यचः' (पा०सू०८-४-२९) इत्यत्रोपसर्गादित्यनुवृत्तेः । यदपि "अनुमादिनष्ठक्" (पा०सु०५-४-१३) इत्यत्रास्मादेव निपातनाणिनिरिति "विसारिणो मत्स्ये" ( पा०सु०५-४-१६) इत्यत्र च पूर्ववणि निरिति तदप्येतेनापास्तम् । यदपि माधवेनोकम् - अस्मादेष षि
Page #465
--------------------------------------------------------------------------
________________
४५६
शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाह्निके
सारिण इति निर्देशादणसन्नियोगेनैव णिनिरित्युक्का निषिद्धश्च पद मञ्जयम्- 'विसारी' इति पृथक् प्रयोगः । पृथकप्रयोगमसहमानेनैव न्यासकारेणापि ग्रहादित्वाणिनिरित्युक्त्वा अत एव निपातनादित्यु कम । निपातनञ्च प्रत्ययसन्नियोगेनैवेति सिद्धान्तितम् । तदपि न, "विसारिणो मत्स्ये" (पा०सु०५-३-१६) इत्यत्र मत्स्य इति किम् ? वि. सारी देवदच इति प्रत्युदाहरता वृत्तिकृता सह विरोधात् । भाग्यवि रोधस्त्वस्त्येव । एतेनोपसर्गनिवृत्यर्थम् इति वृत्तिद्वचनं केवलोपसर्गनिवृत्यर्थम् इति प्रसादकारोक्तिरपि प्रत्युक्ता । यस्तु सप्तपदा•
टीकायां 'व्यापि' इत्याप्रश्लेषात 'उदासारिण्यः'प्रत्यासारिण्यः' इति बरसाधुरित्युक्तम, तदपि उदाहृतप्रसादकारवाक्ये केवलपदस्य अस हायपरतया अनेकोपसर्गे णिनिर्भवत्येवेत्यर्थे गृहीत्वा रभसादेवोक्तमिति सर्वमिदं भाष्य तस्वश्चैरुपेक्ष्यमेवेति दिक् । अत्र वार्त्तिकद्वयं
fveवधौ साधुकारिण्युपसंख्यानम् (का०वा० ) । अताच्छील्या • र्थमिदम् । एतश्च ज्ञापकात्सिद्धम् । यदयम् "आ के : " ( वा०सू०३-२१३४) इति सूत्रे 'तच्छीलतद्धर्म' इत्यभिधाय साधुकारग्रहणं करोति तज् ज्ञापयति साधुकारिणि अताच्छील्येऽपि णिनिर्भवतीति । साधुकारी। साधुदायी ।
ब्रह्मणि वद उपसंख्यानम् (का०वा० ) । ब्रह्मवादिनो वदन्ति । ब्रह्म वेदः । इदमपि वार्त्तिकम् अताच्छील्यार्थम् इति कैयटहरदत्तौ । यन्तु मट्टवार्त्तिके ब्रह्मवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्यास्थानं कृतं, तस्यायमाशयः - " सुप्यजाती " इति सूत्रेण ताच्छील्ये समः नन्तरोक्तवार्त्तिकेन साधुकारिणि च णिनिः । " आवश्यकाधमर्ण्ययोः जिंमिः” (पा०स्०३-३-१७० ) इति आवश्यके णिनिस्तु तद्धमें पर्यव स्यति । न त्विह "आ केः " (पा०सू०३-२-१३४ ) इति सूत्रस्य व्यापा रोऽस्तीति दिक् ।
कर्त्तर्युपमाने (पा०सू०३-२-७९) ॥ कर्तृवाचिन्युपमाने उपपदे घातोर्णिनिः स्यात् । उपपदं कर्त्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रकोशी । ध्वाङ्क्षरावी । अताच्छील्पार्थे जात्यर्थञ्च वचनम् । कर्तरि किम् ? अपूपानिव भक्षयति माषान् । उपमाने किम् ? उष्ट्रः क्रोशतिः ।
व्रते (पा०स्०३-२-८० ) ॥ सुप्युपपदे धातोर्णिनिः स्याद्वते गम्य माने । समुदायोपाधिरयम् । धातूपपदप्रत्यय समुदायाच्चेद् व्रतं गम्यत इत्यर्थः । स्थण्डिलशायी । अश्राद्धभोजी । यद्यपि द्विधा नियमः स
1
Page #466
--------------------------------------------------------------------------
________________
धास्वधिकारे कृत्प्रकरणम् ।
४५७
म्भवति 'स्थण्डिले शेते एव' 'अश्राद्धं भुङ्क्ते एव' इति वा, 'स्थ. ण्डिले एव शेते' 'अश्राद्धमेव भुङ्क्ते' इति च, तथापि आद्ये प्रत्ययो न भवति 'बते' इत्युक्तेः । शास्त्रसिद्धो नियमो हि व्रतं, न च शयित. व्यमेव भोक्तव्यमेवेत्यरूपं शास्त्रमस्ति । अस्ति तु स्थण्डिले एव शयितव्यम् , अश्राद्धमेव भोक्तव्यम् इति । तस्मात्तत्रैव प्रत्ययः । अता. च्छील्यार्थमजात्यर्थ वा आरम्भः।
बहुलमाभीक्षण्ये (पासू०३-२-८१) ॥ सुप्युपपदे धाताबहुलं णि. निः स्यात् पौनःपुन्ये धोत्ये । क्षीरपायिण उशीनराः।
मनः (पा०स०३-२-८२)॥ सुप्युपपदे मन्यतेणिनिः स्यात् । दर्श मीयमानी । बहुलग्रहणादिह देवादिकस्यैव ग्रहणं न तु तानादिकस्य । तेनोसरसूत्र स्खशि श्यनेव भवति । ___ आत्ममाने खश्च (पासू०३-२-८३) ॥ मननं मानः । आत्मशब्दः स्वपरः । कर्मणि षष्ठया समासः । प्रत्ययार्थत्वेन सन्निहितः कर्ता स्वपदार्थः । आत्मकर्मकमनने वर्तमानान्मन्यतेधातोः सुप्युपपदे खग् स्यात् चाणिनिः । यद्यपि वासरूपविधिना सिद्धोऽसौ तथा. प्यविच्छदाय समुशीयने । तेन "करणे यजः" (पासू०३-२-८५) इ. स्यादौ णिनिरेवानुवर्तते न तु खश् । दर्शनीयमान्मानं मन्यते दर्शनी. यम्मन्यः । दर्शनीयमानी । पण्डितम्मन्यः । पण्डितमानी । आत्ममाने इति किम् १ दर्शनीयमानी देवदो यज्ञदत्तस्य । खशः खकारो मुम. था, 'दर्शनीयम्मन्या कुमारी' इत्यादी -हस्वार्थश्च । शकारः साधा. तुकसंक्षार्थः । दिवादित्वात् श्यन् । स्वरस्तु सतिशिष्टोऽपि विकर. स्वर: सार्वधातुकस्वरं न बाघते इति खश एव भवति न तु निः स्वर इति भाष्यकैयटपदमर्यादिषु स्थितम् । ___एवञ्च सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते इति यत्नतस्तत्रतत्र प्राचां प्रन्थेषतम् । तत्र लादेशत्वमविवक्षितमि. त्यवधेयम् । अत एवं दिवादिभ्यश्चानशि श्यनि नित्स्वरेण आधदा. सत्वम् इत्येवंपरः कैयटग्रन्थ आपाततो न तु श्रद्धेय इति प्रपञ्चित. मस्माभिः "स्थानिवत्" (पा०स०१-१-५६) सूत्रे ॥ इति श्रीशनकौस्तुभेतृतीयाध्यायस्य द्वितीये पादे प्रथममाह्निकम् ॥
Page #467
--------------------------------------------------------------------------
________________
४५८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयाह्निके
भूते (पा०सू०३-२-८४) ॥ अधिकारोऽयम । “वर्तमाने लट्" (पा० सू०३-२-१२३) इति यावत् ।
करणे यजः (पा०सू०३-२-८५)॥करणे उपपदे भूतार्थवृत्तयजेणिनिः स्यात्कर्तरि । सोमेनेष्टवान्सोमयाजी ।
स्यादेतत् , 'अग्निष्टोमयाजी' इत्यादौ यागसमानाधिकरणे उपपदे कथं णिनिरिति चेत?
अत्र काशिका-अग्निष्टोमः फलभावनायां करणम् इति ।
अयमाशय:-अस्ति हि सर्वधातूनां धातुत्वेन व्यापारे भावनापर• पर्याये शक्तिः। पचियजित्वादिविशेषरूपेण तु पाकयागादिविशेषेविति. भूवादिसूत्रे एवोक्तम् । तत्र यागस्य समानप्रकृत्युपात्तभाधनां प्रति करणत्वे कटोऽपि कर्मेति न्यायेन ज्योतिष्टोमोऽपि करणमेव । अग्निः ष्टोमादिशब्दास्तु यद्यपि संस्थावचनाः तथापि तद्वति लक्षणया याग. समानाधिकरणा एवेति दिक् ।
इह प्रघट्टके हरदत्तग्रन्थे अग्निष्टोमशब्दः कर्मनामधेयम इति । दीक्षणीयादिरुदवसानीयान्तो ज्योतिष्टोमाख्यो याग एव स्वर्गमाव. नेति । द्विविधो यजमानस्य व्यापार:-सामान्यरूपो विशेषरूपश्च । तत्र सामान्यरूप आभ्यन्तर औदासीन्यप्रच्युतिरूपः कृतिप्रयत्नादिपदाधिलब्धः, बाह्यस्तु-दीक्षणीयाविरुदवसानीयान्तः प्रसिद्ध एवेत्यादि व्यवहृतम् । एतच्च यद्यपि मीमांसाविरुद्धम् , अग्निष्टोमशब्दस्य सं. स्थावाचित्वात् । न च संस्थैवह कर्मशब्दार्थो विवक्षितस्तत्कथमं. ग्निष्टोमस्य यजि प्रति करणत्वं, न हि तदेव तत्र करणं भवति इति तदुत्तरतन्थविरोधात् । दीक्षणीयादेरुदवसानीयाया ज्योतिष्टोमात्र त्वेऽपि ज्योतिष्टोमाख्ययागशरीराप्रवेशात् , दीक्षणीयादीनां बाह्यत्वो. पवर्णनविरोधाच्च । देवताद्देशेन द्रव्यत्यागरूपाणान्तेषामाभ्यन्तर. त्वात् । प्रक्षेपो हि बाह्यः न तु यागोऽपीति स्पष्टमेव । तथापि गौण्या लक्षणया वा कश्चिन्मीमांसासिद्धान्ताविरोधन हरदत्तग्रन्यो व्या. ख्येय इति दिक् ।
कर्मणि हनः (पा०स०३-२-८६) ॥ कर्मण्युपपदे भूतार्थाद्धन्तर्णिनिः स्यात् । इदं कर्म ग्रहणं "सहे च" (पा०४०३-२-७६) इति यावदनु. वर्तते । पितृव्यघाती । मातुलघाती। ___अत्र काशिका-कुत्सितग्रहणं कर्तव्यम् । इह मा भूत , 'चोरं हत. वान्' इति । यद्यपि इंदं भाष्ये नास्ति, तथापि शक्तिस्वाभाव्याल्लभ्यः ते इति भावः।
Page #468
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
४५६
ब्रह्मभ्रूणवृत्रेषु क्विप् (पा०सू०३-२-८७) ॥ ब्रह्मादिषु कर्मसुपपदेषु हन्तेर्भूते विवप् स्यात् । ब्रह्महा । भ्रूणहा। वृत्रहा । “क्विप् च (पा० सू०३-२-७६) इत्यनेन सिद्ध नियमार्थमिदम् । नियमश्चेह चतुर्विधोऽ. पीप्यत इति वृत्तिकारः । तस्यायमाशयः-इह सूत्रे श्रुतत्वात्पूर्व ब्रह्मा. दय उद्देश्याः । ततोऽनन्तर प्रकृतित्वाद्धन्तिः। ततः परिशषाद् भूते इति । किप तु सर्वान्ते निर्देष्टव्यः, विधेयत्वात् । तदेवं वचनव्यक्तिः ब्रह्मादिषूपपदेषु हन्तेर्भूते किबिति । एवं स्थिते यत्रैवकारस्ततोऽन्यत्र नियम इति न्यायेन नियमोऽन्यत्र भवन् अनन्तरे भवति । ततश्च ब्रह्मा. दिवेवेत्यवधारणे हन्तेस्तदनन्तरनिर्दिष्टत्वादुषपदान्तरसम्बन्धनिवृ. तिफलो नियमो भवति । ब्रह्मादिषु हन्तेरेव 'भूने' इति तु अनन्तरत्वा. विशेषेऽपि प्राथम्यादुपपदनियमः । ब्रह्मादिषु हन्तर्भूते एव । 'कि' इति तु आनन्तर्ये क्विधात्वोरविशिष्टऽपि प्राधान्यात्प्रत्ययनियमः । ब्रह्मादिषु हन्ते ते क्विबेवेति वचनव्यको कालनियमः । सोऽयं प्रक. स्युपपदप्रत्ययकालनियमानां विवेकः । अगृह्यमाणविशेषत्वात्तु चतुर्विः धस्यापीह ग्रहणम् । तत्र ब्रह्मादिष्वेव हन्तेरिति प्रकृतिनियमे 'भूते' इत्याश्रयणाकालान्तरे उपपदान्तरेऽपि भवत्येव । पुरुषं हन्ति हनि. प्यति वा पुरुषहा । अरिहयोगविचक्षणः । ब्रह्मादिषु हन्तेरेवे. त्युपपदनियमेऽपि 'भूते' इत्याश्रयणाकालान्तरे धात्वन्तरादपि भव. स्येव । वृत्रं जयति जेष्यति वा वृत्रजित् इति । भृते एव क्विबिति प्र. त्ययनियमोऽपि ब्रह्मादिग्वित्युक्तेः 'पुरुषहा 'अरिहा' इति प्राग्वत् । भूते एव किबेवेति कालनियमेऽपि उपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव । पितृव्यं हतवान् 'पितृव्यघाती' इति । सोपपदश्च प्रत्ययो नियमेन व्यावय॑ते । निष्ठा तु भवत्येव, 'वृत्रं हतवान्' इति । भाष्य. कारस्तु प्रकृतिकालनियमावेव अशिश्रियत् । तस्यायमाशयः-धा. तुकालौ हि नेह सूत्रे श्रुतौ किन्तु प्रकरणलक्षणजघन्यप्रमाणेनोपस्थि. तौ। अतस्तयोरेवोपरोधो न्याय्यः न तूपपदप्रत्यययोः, श्रुत्युपस्थापि. तत्वात् । एवं न्यायोपष्टम्भेन भाग्येण सह विरोधात् वृत्तिमतमुपेक्ष्य मेवेति कैयटे स्थितम् । यरिवह हरदत्तनोक्तं धातूपपदविषयं नियम. द्वयं भाष्ये प्रदर्शितमिति । तत्र 'धातुकालविषयम्' इति वक्तव्ये उप. पदग्रहणं प्रामादिकमित्यवधेयम् ।
बहुलं छन्दसि (पासू०३-२-८८)॥ पूर्वेण नियमादप्राप्तः किए प्रतिप्रसूयते । उपपदान्तरेऽपि हन्तेबहुलं किए स्यात् । यो मातृहा पितृहा । कविन, पितृघातः ।
Page #469
--------------------------------------------------------------------------
________________
४६० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयारिके
सुकर्मपापमन्त्रपुण्येषु कृत्रः (पा०४०३-२-८९) ॥ सुकर्मादिषु च कर्मसुपपदेषु कृत्रः किए स्यात् । त्रिविधोऽत्र नियमः धातुनियम वर्जयित्वेति वृत्तिः । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । कालनियमात् 'कर्म कृतवान् इत्यत्राण न भवति । उपपदनियमात् 'मन्त्रमधीतवान्मन्त्राध्याय' इत्यणेव भवति न किए । प्रत्ययनियमात् मन्त्रं करोति करिष्यति वेति विवक्षायामणेव भवति न किए । धातो. रनियतत्वादन्यस्मिन्नप्युपपदे 'किप च' इति किए भवत्येव । शास्त्रकृत् । भाष्यकृत। __ सोमे सुत्रः (पासू०३-२-९०)॥ सोमे कर्मण्युपपदे सुनोतेः किए स्यात् । सोमसुत् । चतुर्विधोऽत्र नियम इति वृत्तिः।
अग्नौ चेः (पासू०३-२-९१) ॥ अग्नौ कर्मण्युपपदे चिनोतेः किए. स्यात् । अग्निचित । अत्रापि चतुर्विधो नियम इति वृत्तिः ।
कर्मण्यन्याख्यायाम् (पा०सू०३-२-९२)॥ कर्मण्युपपदे चिनोते. तोः कर्मण्येव कारके किए स्यादग्न्याख्यायाम । श्येन इव चीयते श्ये. नचित । अग्निशब्द आहवनीयधारणार्थम् इष्टकानिर्मितस्थलविशेष वेदे बहुशः प्रयुज्यते । य एवं विद्वानग्निं चिनुते । अग्निश्शेष्यमाण इति। स तत्र मुख्यो जघन्यो वास्तु इह त्वसत्यास्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्येत । स मा ग्राहि, स्थलविशेष एव च गृह्यतामिः त्येतदर्थमाख्याग्रहणम् । एवं धातूपपदप्रत्ययसमुदायेन स्थलविशेष गम्यमाने अयं प्रत्यय इति स्थितम् ।
कर्मणानिर्विक्रियः (पा०९०३-२-९३) ॥ कर्मण्युपपदे विपूर्वोत्की. जातेरिनिः स्यात् । अत्र वात्तिकम्
कर्मणि कुत्सितग्रहणम (काल्वा०) इति ॥ एतच पुनः कर्मग्रहः सामर्थ्याल्लभ्यते । यत्कर्म क्रियया सम्बध्यमानं कर्नुः कुत्सामावहति तत्रेत्यर्थः। सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाग सो. मविक्रयी। घृतविक्रयी। तैलविक्रयी। कुत्सितग्रहणानेह-धान्यविक्रायः।
शेः कनिए (पा०९०३-२-६४) ॥ कर्मण्युपपदे भूतार्थाद् दृशेः कनिप्स्यात् । “अन्येभ्योऽपि दृश्यते” (पासू०३-३-१३०) इति सिखें नियमार्थमिदं "क्कनिबेव यथा स्यात तत्सहनिर्दिष्टं मनिनादि सोपपद. चाणादि मा भूत" इति । निष्ठा तु भवत्येव, परलोकं दृष्टवान् इति । एवं स्थिते 'विश्वडश्वनयना वयमेव' इत्यादौ विश्वं पश्यन्तीति वर्तमानवि प्रहेऽपि न क्षतिः, प्रत्ययान्तरनिवृत्त्यर्थ सूत्रम् इति वृत्तिकारादिभिा ख्यातत्वात् । कालान्तरनिवृत्यर्थस्य चामियुक्कैरनुकत्वादिति दिक् ।
Page #470
--------------------------------------------------------------------------
________________
४६१
धात्वंधिकारे करप्रकरणम् । राजनि युधिकृत्रः (पा०स०३-२-२५) ॥ राजशब्द कर्मवाचिन्युप. परे युध्यतेः करोतेश्च क्वनिप्स्यात् । युध्यतेरकर्मकत्वेऽप्यन्तर्भावित. प्यर्थत्वात्सकर्मकत्वम् । राजानं योधितवान् राजयुध्वा । राजकृत्वा ।
सहे च (पासू०३-२-२६) ॥ 'कर्मणि' इति निवृत्तम् , असत्वव. चनत्वेन इहानन्वयात् , उत्तरत्राप्यनुपयोगात् । सहशब्दे उपपदे युधेः कृषध कनिप्स्यात् । सहयुध्वा । सहकृत्वा । "दृशेः क्वनिप्" (पा० सू०३-२-९४) इति वदिदमपि सूत्रद्वयं नियमार्थमिति न्याय्यम् ।
वस्तुतस्तु दृशिग्रहणेन निर्वाहस्यागतिकगतित्वादियन्त्रिसूत्री वि. धात्रीत्यपि सुवचम् । प्राचां ग्रन्थास्त्विह उदासीना पवेति बोध्यम् ।
सप्तम्याञ्जनेर्डः (पासू०३-२-९७)॥ सप्तम्यन्ते उपपदे जनेर्डःप्र. त्ययः स्यात् । सरसिजम् । मन्दुरजः । वाजिशालातु मन्दुरा । "ड्या. पोस्संशाछन्दसोर्वहुलम्" (पासू०६-३-६३) इति इस्वः।
पञ्चम्यामजातौ (पासू०३-२-९८)। जातिशब्दवार्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । बुद्धिजः। संस्कारजः। गुणशब्दोऽयम् । यद्य. पि बुद्धित्वं जातिरिति बहवस्तथापि गुणगतजात्यनभ्युपगममतेने. दम् । मतान्तरे तु “अन्यचपि" (पासू०३-२-१०१) इत्यनेन सिद्धम्। प्रकृतसूत्रोदाहरणन्तु अदृष्टजम् । इन्द्रियजम् । शरीरजम् इत्यादि बोध्यम् ।
उपसर्गे च संज्ञायाम् (पासू०३-२-९९) ॥ जनेर्डः स्यात् । “प्रजा स्यात्सन्तती जने" (अ०को० ३-३-३८) ॥
अनौ कर्मणि (पासू०३-२-१००) ॥ अनुपूजिनेः कर्मण्युपपदे ः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा । इह जनिः सकर्मकः।
अन्येष्वपि दृश्यते (पासू०३-२-१०१) ॥ उपपदान्तरेष्वपि जनेर्ड: स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तरेग्वपि यथादर्शनं भवति । परितः खा. ता परिखा। उखा । कोडादिगणे निपातनादुदोऽन्तलोप इति वर्धमा. नः। यत्स्वन्तात्यन्ताध्वेति प्रकरणे "अन्यत्रापि दृश्यते" इत्युपसहयातं तद् भूतकालं विनाऽपि यथा स्यादित्येवमर्थम् ।
वस्तुतस्तु प्रकृतस्त्रस्थस्यापिग्रहणस्य सर्वोपाधिव्यभिचारार्थ. स्वाहाकिमनेनैव गतार्थम् । विभावितं चेदम् “इको गुणवृद्धी" (पा००१-१-३) इति सूत्रे जने प्रक्रम्य "गमेरप्ययण्डो वक्तव्यः" इति वदता भाज्यकारेण । एवच प्रकृतसूत्रस्थम् “अन्येभ्योऽपि दृश्यते" इति वार्तिकमपि गतार्थम् ।
Page #471
--------------------------------------------------------------------------
________________
४६२ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयाह्निके
निष्ठा (पासू०३-२-१०२) ॥ धातो ते निष्ठा स्यात् । "तयोरेव" (पा०सु०३-४-७०) इति क्तः कर्मणि, क्तवतुस्तु कर्तरि । कृतः कटः । कटं कृतवान् ।
आदिकर्मणि निष्ठा वक्तव्या (कावा०) ॥ कृतः कटः । कर्तमारब्ध इत्यर्थः । न्याय्यं त्वाद्यपवर्गात । उपसङ्ख्यानप्रत्याख्यानमेतत् । आदि. भूतो यः क्रियाक्षणः अपवृक्तः तस्मिन्नेव अवयवे समूहरूपारोपात्सि. द्धः प्रत्यय इति भावः । अत एव लुङादयोऽपि प्रयुज्यन्ते । उक्तश्च
समूहः स तथाभूतः प्रतिभेदं समूहिषु ।
समाप्यते ततो भेदे कालभेदस्य सम्भवः ॥ इति । सुयजोर्ध्वनिप् (पा०स०३-२-१०३)॥सुनोतेर्यजेश्च वनिप् स्यात् । सुत्वा। सुत्वानौ। सुत्वानः । यज्वा। यज्वानौ।यज्वानः। इह तु 'सु गतौ' 'षु प्रसवैश्वर्ययोः' (भ्वा०प०९६६) इत्यनयोरेव निरनुबन्धकयोहणं प्राप्तम् अनभिधानादुभयपदिना साहचर्याद्वा न भवति । कारः सुनोतेर्गुणप्रतिषेधार्थः । पकारः स्वरार्थस्तुगर्थश्च ।
जीर्यतेरतृन् (पा०स०३-२-१०४) ॥ स्पष्टम् । जगन् । जरन्तौ । जर. न्तः । वासरूपेण निष्ठा । "जनिो जीर्णो जरनपि" (अका०२-६-४२) इत्यमरः।
छन्दसि लिट् (पा०९०३-२-१०५) ॥ स्पष्टम् । अहं द्यावापृथिवी आततान । ननु "छन्दसि लुङ्लङ्लिटः" (पासू०३-४-६) इति सि. द्धमिति चेत् ? न, "धातुसम्बन्धे प्रत्ययाः" (पासू०३-४-१) इत्या धिकृत्य तद्विधेः इह त्वविशेषेणेति भेदातालिट इकारटकारावनुबन्धौ।
लिटः कानज्वा (पा०४०३-२-१०६) ॥ "लिख्यभ्यासस्य' (पा०स० ६-१-१७) इत्यादौ विशेषणार्थः टकारष्टेरेत्वार्थोऽपि ।
कसुश्च (पा०स०३-२-१०७) ॥ छन्दसि लिटः कानच्वसू वा स्तः । योगविभाग उत्तरार्थः । योऽग्निचिक्यानः । मन्दानः । सोमम्पपिवान् । अनन्तरस्यैव लिट इमावादेशौ । लिड्ग्रहणन्तु प्रत्ययान्तरत्वशङ्कानि. वृत्यर्थम् । वावचनमुत्तरार्थम् । कानचश्चित्करणं स्वरार्थम् । कसोरु. कार उगित्कार्यार्थः। 'जक्षिवान्' इत्यादौ "उगिदचाम्" (पासू० ७-१-७०) इति नुम् । 'उपेयुषी' इत्यादौ "उगितश्च" (पासू०४-१-६) इति ङीप् । “वसोः सम्प्रसारणम्" (पा०पू०६-४-१३१) इत्यत्र सामा. न्यग्रहणमप्युकारस्य प्रयोजनम् । ___अथकिमर्थ कित्करणम् , 'ईजानः, ससृजानः, तेपानः' इत्यादौ सम्प्र. सारणं गुणनिषेध एत्वाभ्यासलोपश्चासंयोगाल्लिटः कित्त्वादेव सिद्धम् ।
Page #472
--------------------------------------------------------------------------
________________
४६३
धास्वधिकारे कृत्प्रकरणम् अस्तु तर्हि संयोगान्तार्थम् । बन्ध बन्धने (क्रया०प०३६)। वृत्रस्य यद्वधानस्य रोदसी। स्वमर्णवान् बदधानां अरमणाः । अत्र "अनि दिताम्" (पा०स०६-४-२४) इति नलोपः। अभ्यासधकारस्य हलादि. शेषेण निवृत्तिः प्राप्ता छान्दसत्वान्न भवति । "झलाअश् झशि" (पा० सू०४-४-५३) इति जश्त्वं दकारः। एवमले:-आजिवान् । उपधालो. पः। मैवम , छान्दसौ हि कसुकानचौ। लिट् च छन्दसि सार्वधातुक. मपि भवति, "छन्दस्युभयथा" (पा०सू०३-४-१९७) इति वचनात । तत्र "सार्वधातुकमपित्" (पासू०१-२-४) इति स्विम् । न च सं. योगान्तेषु कित्त्वस्वियोर्विशेषोऽस्ति । तस्माद् व्यर्थमनयोः कित्त्व. मिति चेत् ? __ अत्राहुः, "ऋच्छत्यताम्' (पा०सू०७-४-११) इति ऋकारान्तानां प्रतिषविषये गुण आरभ्यते स यथेह भवति परितस्तेर तेरतुस्तेरु. रिति, एवमिहापि स्यात् । यतः सुचा बहिरुतिस्तिराणाः । तथा तिती.
निति । तद्यावृत्तये कित्करणम् । नचैवम् "आरिवान्" "सर्वाभ्रणाम्यारुषी" इत्यत्रापि गुणो न स्यादिति वाच्यम , ऋकारान्तरप्रश्लेषण ऋधातौ पुनर्विधानादिति दिक् । __ यत्तु केचित् कित्करणसामोद्भाषायामपि कसुकानचौ स्त इत्याहुः। तद्भाप्यविरुद्धम् । “भाषायां सद"(पासू०३-२-१०८) इत्यादि. स्त्रविरुद्धञ्चत्युपेक्ष्यम्।
भाषायां सदवसभुवः (पा०स०३-२-१०८) ॥ एभ्यो भूतसामान्ये लिड् वा स्यात्तस्य च नित्यं कसुः स्यात् । पक्षे यथास्वं प्रत्ययाः । से. दिवान् । असदत् । असीदत् । ससाद । उषिवान् । अवात्सीत् । अव. सत् । उवास । शुश्रुवान् । अश्रौषीत् । अशृणोत् शुश्राव । ललिड्. विषयेऽपि भवति, परस्तादनुवृत्तः । ___ उपयिवाननाश्वाननूचानश्च (पासू०३-२-१०९) ॥ उपेत्यविवक्षितम , व्याख्यानात् । “इयिवांसमतिस्त्रिध' इति दर्शनाच्च । इणो नपूर्वादश्नातेरनुपूर्वाद्वचश्च भूतसामान्ये वा लिट् तस्य नित्यं क्वसु. कानचौ । पक्षे तु लङादयः । अगात् । एत् । इयाय । अनाश्वान् , इहेडभावोऽपि निपात्यते। नाशीत् । नानात् । नाश । वचेः कर्तर्येव कानन् न तु भावकर्मणोः, निपातनसामर्थ्यात् । अन्ववोचत् । अन्वः ब्रवीत् । अनूवाच ।
अत्रेदमवधेयम्-."भाषायां सदवस' (पा०म०३-२-१०८) इति सूत्रे एवे ग्राह्यः, 'उपेयिवान्' इति तु न निपात्यम् , द्वित्वात्प्रागेव
Page #473
--------------------------------------------------------------------------
________________
४६४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयाह्रिके
परत्वादिट् । नन्वेवं 'बिभिद्वान्' इत्यादावपीटप्रसङ्गः, तत्र द्वित्वस्य नित्यत्वात् । इणस्तु इडपि नित्यः । द्वयोनित्ययोः परत्वादिट् । मच कृते द्विवेऽनेकान्वादिण न लभ्यत इति वाच्यम् , ईयतुरित्यादाविव सवर्णदीर्घ सत्येकात्वात् । न च "दीर्घ इणः किति" (पा०सु०७४-६९) इति दीर्घसामर्थ्यादेकादेशबाधः । “इणो यण" (पा०४०६४-८१) इति यणि कृते दघिस्य चरितार्थत्वात । न च यणि कृतेऽपि स्थानिवद्भावनैकादेशः स्यादिति वाच्यम् , पूर्वमात्रस्य विधी स्थानिध. द्भावः न तु पूर्वपरविधौ, विधिग्रहणसामादित्युक्तत्वादिति दिक् ॥
लुङ् (पा०स०३-२-११०) ॥ भूताथवृत्तर्धातालुंङ् स्यात् । अभूत् ।
वंसलुंङ् रात्रिशेषे जागरणसन्तताविति वाच्यम् (का०वा०)॥ रात्रेश्चतुर्थे यामे यदा वाक्यं प्रयुई तदा अनद्यतनत्वालङि प्राप्ती तनिवृत्तय लुङ्पसंख्यायते । क भवानुषितः । अमुत्रावात्सम् । जाग. रणसन्तताविति किम् ? यदा सुप्त्वा प्रबुध्य प्रयुते तदा लङ निवृ. त्तिर्मा भृत् । अमुत्रावसमिति ।। ____ अनद्यतने लङ (पा.सू०३-२-१११) ॥ नास्त्यद्यतनो यस्मिन् भृते तद्वत्तातोर्लङ् । अभवत् । बहुव्रीहिव्याख्यानानेह, अद्य . श्वाभुज्महि ॥
परोक्षऽपि लोकविक्षाते सम्भावितप्रयोक्तृकर्तृकदर्शन लङ्घ. क्तव्यः (का०वा०)॥ लिटोऽपवादः । अरुणत्पवनः साकतम् । लोक. विज्ञाते किम् ? चकार कटं देवदत्तः । सम्भावितत्यादि किम् ? कृष्णः कंसं जघान । नादानीन्तनस्य प्रयोक्तुशनं सम्भाव्यते, चिराती. तत्वात् । यस्तु कृष्णावतारसमकालः प्रयोक्ता स लडं प्रयुकवानेव । अहनत कंसमिति ।
अभिज्ञावचने लट् (पा०सू०३-२-११२) ॥ स्मृतिबोधके उपपदे लविषये लट् स्यात् । अभिजानासि स्मरसि बुध्यसे चेतयसे वा प्रयागे वत्स्यामः।
न यदि (पा०सू०३-२-११३)। यच्छब्दयोगे पूर्वेण प्राप्तो निषिध्यते। अभिजानासि यत्काश्यामवसाम ।
विभाषा साकाझे (पा०सू०३-२-११४) ॥ उभयत्र विभाषेयम् । यच्छब्दयोगे पूर्वेण निषेधादप्राप्त अन्यत्र नित्यं प्राप्त । अभिजानासि देवदत्त प्रयागे वत्स्यामः, तत्र माघ स्नास्यामः; अवसाम, अस्नामे. ति वा । एवं यच्छब्दप्रयोगेऽपि बोध्यम् । इह वासस्नानयोः लक्ष्यल. क्षणभावस्य विवक्षितत्वात्साकाङ्कता बोध्या।
Page #474
--------------------------------------------------------------------------
________________
धात्वधिकारे करप्रकरणम्।
४६५ परोक्ष लिट् (पा०सू०३-२-११५) ॥ भूतानद्यतनपरोक्षार्थवृत्त/तोर्लिट् स्यात । बभूव । अथ कथम् “अभून्नृपो विबुधसखः" इति भट्टिः, "अभूदभूमिः प्रतिपक्षजन्मनाम्' (मा०का०१-४२) इति माघ. श्चेति खेत ? शृणु, वस्तुतो लिड्विषयस्यापि भूतत्वसामान्यांशमा. अविवक्षायां लुङ् ।
अत्यन्तापहवे लिड् वक्तव्यः (कावा०) । नाहं कलिङ्गान् जगाम । अपरोक्षार्थमुपसङ्ख्यानम् । कलिलाख्ये कुत्सिते देशविशेष त्वया चिरं स्थितम् इत्याभियोगे कृते नावस्थानमात्रं निषिध्यते किन्तु तत्प्रयोजकं गमनमपीति सोऽयमत्यन्तापह्नवः । ___ हशश्वतोर्लङ् च (पासू०३-२-११६) ॥ लिड्विषये लङ् चा. लिट् । इति हाकरोचकार वा । शश्वदकरोचकार वा।
प्रश्शे चासनकाले (पासू०३.२-११७) ॥ पृच्छयते इति प्रश्नः । क. मणि नङ् । पञ्चवर्षाभ्यन्तरमासनकालः। प्रश्नविषयीभूतासनकाल. भूतानद्यतनपरोक्षार्थाद्धाताल लिटौ स्तः । अगच्छतिक देवदत्तः, जगाम वा।
लट् स्मे (पासू०३-२-१९८) । लिटोऽपवादः । यजति स्म युधि. ष्ठिरः । इयाज किलेत्यर्थः। ___ अपरोक्षे च (पासू०३-२-११९) । स्मे लट् स्यात् । लङोऽपवादः । एवं स्म पिता ब्रवीति ।
ननौ पृष्टप्रतिवचने (पा०१०३-२-१२०) ॥ अमद्यतनपरोक्षे इति निवृत्तम् । भूतसामान्ये लट् स्यात् । अकार्षीः किम्? ननु करोमि भो।
नन्धोर्विभाषा (पा०सू०३-२-१२१) ॥ भूतसामान्य पृष्टप्रतिवचने लट् वा । अकार्षीः किम् : न करोमि, नाकार्षम् । अहं नु करो. म्यकार्ष वा।
पुरि लुङ् चास्मे (पासु०३-२-१२२) ॥ अनद्यतनग्रहणं मण्डूकप्लु. त्याऽनुवर्तते । स्मवर्जिते पुराशब्दे भूतानद्यतने लुङ्लटो वा स्तः । त. योरभावे यथाप्राप्तम् । वसन्तीह पुरा छात्राः। अवात्सुः, अवसन्, ऊ. पुर्वा । अस्मे किम् ? नडेन स्म पुराऽधीयते । नडाख्यं तृणविशेष हस्ते गृहीत्वेत्यर्थः।
वर्तमाने लट् (पा०स०३-२-१२३)वर्तमानार्थधातोर्लट् स्यात् । प. चति । अधिश्रयणादिरधाधयणान्त एकफलावच्छिनो विततरूपी व्यापारकलापा पचेरर्थः । तस्य च वर्तमानत्वमारब्धापरिसमाप्त। तश्च लटो द्योत्यम्।
शब्द. द्वितीय. 30.
Page #475
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे तृतीयान्हिके
स्यादेतत् । 'आत्मा अस्ति' इत्यादौ आरम्भाभावात्कथं लट्, "आ. त्मा वा इदमेक एवाग्र आसीत्" इत्यादौ भूतप्रत्ययाः, आत्मा भाविक. ल्पेऽपि भविष्यतीत्यादिभविष्यत्प्रत्ययाश्च कथमिति चेत् ? एकस्या -अध्यात्मसप्तायास्तत्तत्क्रियोपहिताया औपाधिकं भेदं पुरस्कृत्य सर्व
૩૬૬
-
निर्वाहात् ।
इति श्री शब्द कौस्तुभे तृतीयस्याध्यायस्य द्वितीये पादे द्वितीयमान्दिकम् ।
लटः शतृशानचाघप्रथमासमानाधिकरणे ( वा०सु० ३-२-१२४) ॥ द्वितीयाद्यन्तेन समानाधिकरणे लटि सति तस्य लटः स्थाने शत्रुज्ञानचौ स्तः । पचन्तं पचमानं पश्य । पचता पचमानेन कृतम् । यद्यपि तिङतोपस्थाप्ययोः कर्त्तकर्मणोरप्रथमान्तेन सामानाधिकरण्यं मास्त्येव, तथापि हृदन्तोपस्थाप्ययोः सामानाधिकरण्यदर्शनात्कृत्स्थानितया प्रक्रियावस्थायां कल्प्यमानो लकारः प्रकृत्यर्थं प्रति प्रधानभूते कर्तृकर्मणी अभिदधानः कल्प्यते । लकारवाच्यांशस्य तिङ्कृतोरविशेषेऽपि गुणप्रधानभावे वैलक्षण्यमस्तीति फलितोऽर्थः । अप्रथमेत्यादि किम् ? देवदत्तः पचति । कथन्तर्हि सन् ब्राह्मण इत्यादि ?
$6.
अत्राहुः । .: शत्रुशान चौ" ( पा०सू०३-२-१२४) इति योगो विभ ज्यते ।" नन्वोर्विभाषा" (पा०सु०३-२-१२१) इत्यतो विभाषाऽनुवर्तते । व्यवस्थितविभाषेयम् । तेन यथादर्शनं प्रयोगोऽप्यवतिष्ठते । मप्रथ: मेत्यादि तु योगान्तरं विषयविशेषे शतृशान चोर्नित्यतायाः स्पष्टीकरणाय । एवं “सम्बोधने च " ( पा०सू०३-२-१२५) इन्याद्यपि बोध्यम् । माझ्याक्रोशे इति वक्तव्यम् (का०वा० ) । मा जीवन् । मा पत्रमानः । माङिलुङो ऽपवादोऽत एव लड् ।
सम्बोधने च (पा०सु०३-२-१२५) ॥ हे पचन् । हे पचमान | लक्षणहेत्वोः क्रियायाः (पा०सू०३-२-१२६) || लक्षणं चिन्हम् । हेतुः फलं साघनञ्च । क्रियाया लक्षणे हेतौ च यो धातुस्तस्माल्लुटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । इह शयनं भुजिक्रियायाः परिचायकम् | अर्जयन्वसति । अर्जनं वासस्य फलम् । विद्वान्मुच्यते । ज्ञानं मोक्षसाधनम् । इद्द लक्षणत्वादिकं द्योत्थम । लडर्थस्तु कर्त्रा • दिवेति बोध्यम् । परिचायकशयनाश्रययवन रूपानेकाश्रयनिष्ठ । वर्त मानो मुजिक्रिया । फलीभूतार्जनाश्रयकर्तृको वासः । जनकशानाश्रयतिष्ठो मोक्षच्च वाक्यार्थ इति दिक् ।
1
Page #476
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम्। तौ सत् (पासू०३-२-१२७) ॥ शतृशानचौ सत्संज्ञा स्तः । संज्ञा. प्रदेशाः पूरणगुणत्यादयः । तौग्रहणसामर्थ्यादिह शतृशानचोरानु.
मात्रं गृह्यते । अन्यथा प्रकृतयोर्वत्तमानार्थयोरेव संज्ञा स्यात् । लडादेशयोस्तु न स्यात् । तेन तद्योगे "पूरणगुण" (पासू०२-२-११) इति न प्रवर्तेत । "लटः सद्वा"(पासू०३-३-१४) इति सूत्रं तु सत्स. दृशौ स्त इत्येवंपरं स्यात् । यथा 'अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम् इत्युक्ते सिंहशब्देन तदाकारतामात्र लक्ष्यते मुख्यार्थस्य बाधात्त. थेहापीति दिक् ।
पूयजोः शानन् (पा०सू०३-२-१२८) ॥ पवमानः । यजमानः । नन्वते शाननादयः किन्तुजादिवत्स्वतन्त्रा उत लादेशाः १ नाद्यः, 'सोमं पवमानः' इत्यादौ कृद्योगलक्षणषष्ठयापत्तेः । न हीदानी "न लो. क'(पा०सु०२-३-६९) इति निषेधोऽस्ति, अलादेशत्वात् । न द्वितीयः, भावकर्मणोरपि प्रसङ्गात् 'पचमानः' इत्यत्र ताच्छील्यादौ चानशो लसार्वधातुकस्वरापत्तेश्च । आत्मनेपदसंज्ञाप्रसङ्गेन परस्मैपदिभ्यश्चा. नशोऽनुत्पत्तिप्रसङ्गाञ्चेति चेत् ? __ अत्राहुः, स्वतन्त्रा एवैते । “न लोक'' (पा०६०२-३-६९) इति सूत्रे तृन्निति प्रत्याहारः शतृतृशब्देन तृनो नकारेणेत्युक्तम्, अतो न षष्ठीति ।
ताच्छील्यवयोवचनशक्तिषु चाना (पासू०३-२-१२९) ॥ ता. च्छील्यादिषु द्योत्येषु कर्तरि चानश स्यात् । मण्डयमानः । शिखण्डं वहमानः । शत्रु निम्नानः।
इधार्योः शत्रकृच्छ्रिणि (पासू०३-२-१३०) ॥ इधारिभ्यां शत. प्रत्ययः स्यादनायासेन क्रियां निवर्तयति कर्तरि । अधीयम्पारायः णम् । धारयन्नुपनिषदम । अकृच्छ्रिणीति किम् ? कृच्छ्रेणाधीते धा. रयति वा।
द्विषोऽमित्रे (पा०स०३-२-१३१) ॥ शत्रौ कर्तरि विषेः शतृप्रत्ययः स्यात् । द्विषन् शत्रुः । अमित्रे किम् ? द्वेष्टि पति भार्या ।
सुओ यासंयोगे (पा सु०३-२-१३२) ॥ सुनोतेः शता स्याद्यक्षा. धिकारिणि कर्तरि । ता अश्वदा अश्ववत्सोमसुत्वा । सर्वे सुन्धः न्तः सत्रे यजमाना इत्थमुच्यन्ते । संयोगे किम् ? अयजमानेषु क. विक्षु मा भूत् ।
अहः प्रशंसायाम् (पा०पू०३-२-१३३) ॥ पूजामहन् । प्रशंसाया किम् ? अहविषधं चोरः।
आकेस्तच्छीलनधर्मतत्साधुकारिषु (पा०प०३-२-१३४) । "भ्रा
Page #477
--------------------------------------------------------------------------
________________
૬૮
शब्दकौस्तुभतृतीयाध्याय द्वितीयपादे तृतीयान्हिके
जभास" (पा०सू०३-२-१७७) इति वक्ष्यमाणं विवमभिव्याप्य तच्छी. लादिग्वित्यधिक्रियते । प्रत्ययार्थस्य कर्तुर्विशेषणञ्चेदम् । शीलादीनां त्रयाणां विशेषणं समर्पयितुं निर्दिष्टैस्तच्छन्दैः प्रकृतिभूतधात्वर्था निर्दिश्यन्ते ।
तृन् (पा०सू०३-२-१३५) ॥ धातोस्तृन्स्यात्तच्छीलादिषु कर्तृषु । याता सुतमिन्द्रो अस्तु सोमम् | योद्धारः क्षत्रियाः । कर्ता कटम् ।
तृम्विधौ ऋत्विक्षु चानुपसर्गस्येति वक्तव्यम् (का०वा० ) । अता. च्छील्याद्यर्थ आरम्भः । होता । पोता। अनुपसर्गस्येति किम्? उद्गाता । प्रतिहर्ता । अत्र "तृन्तृचौ शासिक्षदादिभ्यः संज्ञायां चानिटौ” ( उ०सु० २५९) इत्युणादिसुत्रेण तृजेब अबति । तत्र तृन्तृचौ शसीति पाठान्तरम् । स्वरे विशेषः । तृनि हि सति "तादौ च निति कृत्यतौ " ( पा० सू०६-२-५०) इति गतेः प्रकृतिस्वरः स्यात् । तृचि तु कृत्स्वरो भव. ति । "तृन्तृचौ” (उ०सु०२५९) इत्युणादिसूत्रस्यैव विषयव्यवस्थार्थ. मिदम् । अनुपसर्गेभ्यस्तृन् सोपसर्गेभ्यस्तु तृजिति ।
1
नयतेः षुक् (का०वा० ) । अयं गुणे कृते बोध्यः । नेष्टा नेषतिः । प्रकृत्यन्तरमिति वा ।
त्विषेर्देवतायामकारश्चोपधाया अनित्वञ्च (का०वा० ) । त्वष्टा । अत्रानिट्त्वमित्युक्तं वक्ष्यमाणसर्वोपसंख्यानशेषो बोध्यः । त्विषेः स्वत पवानित्वात् । तेन 'पोता 'क्षता' इति सिद्धम् । "क्षदेश्व युक्ते" (का० वा० ) । धातुष्व पठितोऽपि क्षदिरत एव वाक्यात्स्वीकार्यः । आत्मने पदी चायम् " उक्षाणं वावेद्दतं वाक्षदन्तः” (पे० ब्रा०१-३) इति बहूवृचब्राह्मणप्रयोगात् " शतं मेषान्वृक्ये चक्षदानम्” इति मन्त्राच्च । क्षता स्यात्सारथौ द्वाःस्थे क्षत्रियायाञ्च शुद्रजे ।
(अ०को०३-३-६६) इत्यमरः ।
अलंकृन्निराकृञ्प्रजनोत्पचोत्प तोम्मद रुच्य पत्रपवृतुवृधुसहचर - ष्णुच् (पा०स्०३-२-१३६) । अलङ्करिष्णुः निराकरिष्णुः इत्यादि । इद्द पचत्यादयस्त्रय उत्पूर्वा उपाचाः । तत्र "उदः पचपतमदः" इत्येव वक्तव्ये प्रत्येकमुत्पूर्वपाठ उपसर्गान्तरनिवृत्त्यर्थः । तेन 'समुत्पतिष्णुः इत्यादि न भवतीत्याहुः ।
पचेरनन्तरं पतिस्तान्तः पठ्यते । उत्पतिष्णु सहिष्णू च चेरतुः खरदूषणौ ॥
इति भट्टिः । " पलानामुत्पतिष्णवः” इति रघुकाव्यम् । केचित्तु तत्स्थाने दान्तं पठित्वा 'पद गतौ' (दि०आ०६३) अस्मात्प्रत्ययमाहुः ।
Page #478
--------------------------------------------------------------------------
________________
धात्वधिकारे करप्रकरणम् । णेश्छन्दसि (पासू०३-२-१३७) ॥ इण्णुच् स्यात् । वीरुधः पार रयिष्णवः । "मयामन्ता' (२००६-४-५५) इत्यायः ॥
भुवश्व (पासू०३-२-१३०)॥ छन्दसीत्येव । भविष्णुः । योगवि. भाग उत्तरार्थः । कयन्तर्हि "जगत्प्रभोरप्रभविष्णु वैष्णवम्" (मा०का १-५४) इति माघा, "विष्णवे प्रभविष्णवे" (वि०स०१) इत्यादि च । निरङ्कशाः कषय इति हरदत्तः ।
चकारोऽनुक्तसमुधयार्थः । तेन 'भ्राजिष्णुः' इति काशिका। एवञ्च 'क्षयिष्णुः' इत्यपि केषाश्चित्प्रयोगः सङ्गच्छते । किन्तु चकारस्यानुक्त. समुच्चयार्थत्वं भाग्ये गोकमतो बहवो न पुरस्कुर्वन्ति।
ग्लाजिस्थस्नुः (पासु०३-२-१३९) ॥ चाभुवोऽपि । गिद. यम् । कत्वन्तु साहितिकचत्वेन बोध्यम् । यदत्र वक्तव्यं त "विङति च" (पा०९०१-१-५) इति सूत्रेऽवोचाम । ग्लास्नुः । जिष्णुः । स्था. स्नुः। भूष्णुः। वंशेश्छमस्युपसख्यानम् (का०वा०) ॥ दक्षणः पशवः । असिगृषिविक्षिपेः क्नुः (पा०स०३-२-१४०) ।। त्रस्नुः । गृध्नुः ।
शमिस्थाम्यो धिनुण (पासू०३-२-१४१) ॥ धकार उत्तरत्र कु. स्वार्यः । उकार "उगितश्च" (पासू०६-३-४५) इति हस्वविकल्पार्थः । शमिनितरा । शमिनीतरा । शमिनितमा । शमिनीतमा । न चैवं 'श. मिनौ' 'शमिनः' इत्यत्र "उगिदचाम्" (पा०स०७-२-७०) इति नुम्प्र. सङ्गः, नुविधौ झल्ग्रहणस्यापकर्षात् । इह च झलन्तस्वाभावादिति भाध्ये स्थितम् । वृत्तिकारस्तु-उकार उच्चारणार्थों नानुबन्ध इत्याह । शमिनितरादौ घरूपेति नित्यमेव इस्वत्वमिष्यते इति तस्याशयो न्या. सहतोक्तः । तदेतत्सर्व भाष्याविरोधादप्रमाणमिति प्रामाणिकाः ।
शमी। तमी । दमी । श्रमी । भ्रमी । क्षमी। क्लमी । इह सप्तसु "नोदाचोपदेशस्य" (पासू०७-३-३४) इति वृद्धिनिषेधः । प्रमादी । कथन्तर्हि उन्मादीति, अलङ्कादिना उत्पूर्वाद्विशेषविहितस्येष्णुच एवोचितत्वादिति चेत् ? वासरूपन्यायेन घिनुणपि भविष्यति । ननु "ताच्छीलिकेषु वासरूपन्यायो नास्ति" इति झापयिष्यत इति चेत? न, तस्यानित्यताया अपि नापयिष्यमाणस्वेन सर्वसौष्ठवाद।। ____सम्पृचानुरुधाचामाङयसपरिससंसृजपरिदेविसंज्वरपरिक्षिपपः रिरटपरिवदपरिदहपरिमुहदुषाद्वषद्रुहदुहयुजाक्रीडविविचत्यजरजम. जातिचरापचरामुपाभ्याहनश्व पा०सू०३-२-१४२) ॥ सम्पर्की । अनु.
Page #479
--------------------------------------------------------------------------
________________
४७० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे तृतीयान्हिकेरोधी । आयामी । आयासी । परिसारी । संसर्गी। परिदेवी । सवारी। परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही। दोही । योगी। आक्रोडी । विवेकी । त्यागी। रागी। भागी। अतिचारी । अपचारी। आमाषी । अभ्याघाती । येऽत्र सम्पूर्वास्तेषां द्वन्द्वं कृत्वा"सम एभ्यः" इति वक्तव्यम् । एवमाइपूर्वाणां परिपूर्वाणा. श्व । एवञ्च सिद्धे प्रत्येकपाठ उपसर्गान्तरविशिष्ट मा भूदित्येवमर्थः ।
वो कपलसकत्थरम्भः (पा०स०३-२-१४३) ॥ 'कष हिसायां' (भ्वा०प०६८६) । विकाषी । विलासी। विकत्थी । विनम्भी॥ __ अपेच लषः (पा०स०३-२-१४४) ॥ चाद्वौ । अपलाषी । विलाषी ॥
प्रे लपघुमथवदवसः (पा००३-२-१४५) । प्रलापी । प्रसारी। प्रद्रावी । प्रमाथी । प्रवादी । वस निवासे (भ्वा०प०१०३०) ! प्रवासी । आच्छादनार्थस्तु न गृह्यते, लुग्विकरणत्वात् ।
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपीरवादिव्याभाषासूयो वुञ् (पा०स०३-२-१४६) ॥ अत्र नश्यतेय॑न्तस्य भाविना णिलोपेन निर्देशः । अकारस्तूच्चारणार्थः । कोचिन्तु विनाशी'इति ण्यन्तमेव पठ. न्ति । असुयतिः कण्वादियगन्तः। समाहारद्वन्द्वः । व्यत्ययेन पुंस्त्वम। पञ्चम्यर्थे च प्रथमा । "निन्दकः' इत्यादि । __स्यादेतत् । असूयतिभिन्नानामिह ग्रहणं व्यर्थम् , ण्वुलैव रूपसि. द्धः। असुयतेस्तु ण्वुलि प्रत्ययात्पूर्वमुदात्तं वुजि तु"नित्यादिः" (पा० सू०६-१-१९७) इति स्वरे विशेषः । इतरेषां त्वेकाचत्वान्न स्वरे भेदः । न च तृना ण्वुलो बाधः, वासरूपन्यायस्य जागरूकत्वादिति चेत् ? सत्यम्, "ताच्छीलिकेषु वासरूपन्यायेन एबुल्तृजादयो न भवन्ति" इति ज्ञापनार्थमेतत् ।
देविक्रुशाश्वोपसर्गे (पासू०३-२-१४७) ॥ मादेवकः । परिको. शकः । उपसर्ग किम् ? देवयिता । कोष्टा । दीव्यतेहेतुमाण्णजन्तस्य 'दिवुकजने' (चु आ०१७३) इत्यस्य चुरादिण्यन्तस्य च ग्रहणमित्याहुः॥
चलनशब्दार्थादकर्मकााच (पा०सू०३-२-१४८) ॥ चलनः । चो. पनः । शब्द शब्दने (चु०प०१८२) चुरादिः । शब्दनः । रवणः कर्मकात्किम् ? पठिता विद्याम् । ____ अनुदान्तश्च हलादेः (पा०सू०३-२-१४९) ॥ अकर्मकाद्युजित्यनु. वर्तते । वर्तनः । अनुदात्तेतः किम् ? भावता । हलादेः किम ? एधि. ता। आदिग्रहणं किम् ? हलन्तादित्यर्थो मा भूत । तथाहि सति 'एधिता'इत्यादावतिप्रसङ्गः 'जुगुप्सनः"मीमांसनः' इत्यत्राव्याप्तिश्च स्यात्।
Page #480
--------------------------------------------------------------------------
________________
धावधिकारे कृत्प्रकरणम् ।
४७१
गुपादिग्वनुबन्धः समुदायस्य विशेषक इत्युक्त्वादस्तीहानुदास्वम् । न चार्द्धधातुके विवक्षितेऽतोलोपे सति हलन्तत्वमस्त्येव । ततश्च व्या. वालाभात् तदन्तविधिबाधे हलादेरित्येवार्थोऽस्त्विति चेत् ? मैवम, आर्धधातुके परे लोपाभ्युपगमात् ।।
अत्र चेदमेवादिग्रहणं ज्ञापकम् । अत एव परनिमित्तत्वादल्लापस्व स्थानिवत्त्वे 'घटयति' इत्यादौ न वृद्धिः। "न पदान्त' (पा०सू०१-१५८) सूत्रे वरेग्रहणमपीह लिङ्गमित्युक्तम् । यत्तु "अचो यत" (पा००. ३-१-९७) इति सूत्रे दित्स्यं धित्स्यमित्यादावजन्तभूतपूर्वादपि प्रत्या थार्थमन्ग्रहणमित्युक्तं, तत् "आर्धधातुके" (पासू०२-४-३५) इत्यस्य विषयसप्तमीत्वमभ्युपेत्य । - घस्तुतस्तु तत्राग्रहणं व्यर्थमेवेति दिक् । अकर्मकारिकम् ! व. सिता धनम्।
जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः (पा०स०३-२-१५०)। 'जु' इति सौत्रो धातुः। अवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । गर्द्धनः । ज्वलनः । शोचनः । लषणः । पतनः । पदनः । ननु पदिग्रहणं ध्यर्थम् , पूर्वसूत्रेण युचःसिद्धत्वादिति चेत् ? सकर्मकामिति वृत्तिकारः। भाग्ये स्वनभिधानादेव सकर्मकान भविष्यतत्यिभिप्रेत्य पदिग्रहणं हा. पनार्थमित्युक्तम् । तथाहि, “लषपत" (पासु०३-२-१५४ ) इति सूत्रेण पदेरुक विशेषविहितः युचं बाधेत । वासरूपन्यायेन युजपीति चेत? "ताच्छोलिकेषु परस्परं वासरूपविधिर्नास्ति'इति झापनार्थमिदमिति। तेनालङ्कआदिभ्यस्तृन्न । प्रायिकश्चेदमिति"सूदनीप"(पासू०३-२-१५३) इत्यत्र वक्ष्यते ।
क्रुधमण्डार्थेभ्यश्च (पासू०३-२-१५१) ॥ क्रोधनः । रोषणः । मण्डनः । भूषणः।
न यः (पासू०३-२-१५२) ॥ यकारान्ताद्धातोर्युच् न । क्नुपिता । क्ष्मायिता।
सूददीपदीक्षश्च (पा०सू०३-२-१५३) ॥ युच् न । सदिता । दीपि. ता। दीक्षता । ननु दीपिग्रहणं व्यर्थम् । “नमिकाम्प (पा००३-२१६७) इति रेणैव युचो वाधात् । “ताच्छीलकंषु घासरूपविधिर्नास्ति" इति पदिग्रहणेन ज्ञापितत्वादिति चेत् ? सत्यम् , तस्यानित्यत्वमनेन शाप्यते । तेन-कम्रा । कमना । इह युजरयोरव समावेशो ज्ञाप्यते इति भाष्यस्वरसः । यदाह-भवति युचा रेण समावेश इति । वृत्तिकारस्तु उपलक्षणमिदं मन्यते । तेन “वो कपलस" (पा०३-२-१४३) इति पि.
Page #481
--------------------------------------------------------------------------
________________
૩૭૨
शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे तृतीयान्हिले
नुणो विषयेऽपि अनुदान्तलक्षणो युच् भवति । 'विकल्प' इति यथा । लषपतपदस्थ।भूवृषहनकमगमशृभ्य उकञ् (पा०सु०३-२- १५४) ॥ अभिलाषुकः । पातुकः । पादुकः । स्थायुकः" इत्यादि ।
जल्पभिक्षकुट्टलुण्यवृङः षाकन् (पा०सू०३-२- १५५) ॥ जल्पाकः । जरुपाकी । भिक्षाकः । भिक्षाकी इत्यादि ।
प्रजोरिनि: (पा०सु०३ - २ - १५६ ) ॥ प्रजवी |
जिरक्षिविश्राण्यमान्य थाभ्यम परिभूप्रसुभ्यश्च (पा०स्०३-२- १५७) n जयी | दरी । क्षयी | वियी । अत्ययी । वमी । व्यथ भयसञ्चलनयोः (स्वा०आ०७६५) नत्रपूर्वः । सूत्रे निपातनादेव नत्रो धातुमा समा सः, ततो नलोपः, ततः प्रत्ययः । अव्यथी । परिभवी । प्रसवी । इह झिये (स्वा०प०२३६) क्षि निवासगत्योः, षू प्रेरणे (तु०प०१२७, १२८ ) एतं गृह्यन्ते, निरनुबन्धकत्वात् । क्षि हिंसायाम् ( स्वा०प०३१) षूङ् प्राणिगर्भविमोचने (अ०आ०२१) पूङ् प्राणिप्रसवे (दि०आ०२६) पते न गृह्यन्ते, सानुबन्धकत्वात् । प्रजोरप्यत्रैव ग्रहणं कृत्वा सूत्रभेद - श्धकारश्च सुत्यजः ।
स्पृहि गृहिपतिदयिनिद्वातन्द्राश्रद्धाभ्य बलुच् ( पा०सु०३-२१५८ ) ॥ स्पृह ईप्सायाम् (चु०प०३३९) गृह ग्रहणे ( खु०या०३१७) पत गतौ (चु०प०३२९) एते चुरादावदन्ताः । "अयामन्ता” (पा०सु० ६-१-५५ ) इत्ययादेशः । स्पृहयालुः । गृहयालुः । पतयालुः । निद्रालुः । तत्पूर्वको द्वा । मत्र समालस्तदो नान्तत्वञ्च निपात्यते । तन्द्रादुः। श्रद्धालुः।
•
शीडो वाच्यः (का०वा० ) । शयालुः । कथं 'कृपालुः' 'स्पर्धालुः' इति ? कृपां स्पर्धा च लातीति विग्रहे मृगय्वादित्वात्कुः ।
दाधेट्सिशदसदो रुः (पा०सु०३-२- १५६ ) | दारुः । ' घारुः | सेरुः । शत्रुः । सद्गुः ।
सृघस्यदः कमरच् (पा०सू०३ - २ - १६०) || घसिः प्रकृत्यन्तरम् । सृमरः । घस्मरः । अग्नरः ।
भजभासमिदो घुरच् ( पा०सू०३ - २ - १६१) ॥ भङ्गुरम् | भासु· रम् । मेदुरम् ।
विदिभिदिच्छिदेः कुरच् (पा०सु०३-२- १६२ ) ॥ वेत्तेरेव ग्रहणं, व्याख्यानात् । विदुरः । भिदुरः । छिदुरः ।
भजे भिंदिच्छिदिभ्याञ्च कर्मकर्त्तरि प्रत्ययौ ।
इति वृत्तिकाराः । न त्वेतद्भाष्ये दृष्टम् । तथा च माघः - शुद्धे कर्त
Page #482
--------------------------------------------------------------------------
________________
प्रात्यधिकारे कृत्प्रकरणम्।
४७३ रिप्रायुक_प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमगनाः(६-८)इति ।
कथन्तर्हि "समुग्धकान्तास्तनसङ्गभङ्गुरैः” (१-४७) इति माघ इति वेत ? न हि क्यं कर्मकर्तरि नेति ब्रूमः, तस्यापि कर्तृतया तत्र प्रत्ययः स्थाप्रत्यूहत्वात् । किन्तु शुद्धेऽपि कर्तरि यथासम्भवं भवत्येवेति । __ स्यादेतत् । प्रकृतस्यैव घुरचो ङित्वमतिीदश्यतां विदिभिदिछि. देङिदिति, किं प्रत्ययान्तरेणेति चेत् ?
अत्र के चिदाहुः, आतिदेशिकं ङित्वमनित्यमिति झापनायेदम् । तेन 'धवित्र' सिद्धम् । धू विधूनने (तु०प०११८) कुटादिः । इत्रस्य हिषाभाषाद् गुण इति । अन्ये तु 'धुवित्रम्' इत्येवेच्छन्ति ।
इनशजिसतिभ्यः क्वरए (पा०सू०३-२-१६३)॥ इत्वरः । नश्वरः । जित्वरः । सत्वरः । "टिड्ढा'(पा०४०४-१-१५) इति छीप् । इत्वरी।
गत्वरश्च (पासू०३-२-१६४) ॥ गमेरनुनासिकलोपोऽपिनिपात्यते ।
जागुरूकः (पासु०३-२-१६५) ॥ जागुरिति पञ्चम्यन्तम् । 'जा. गरूकः इत्येव तु न निपातितम् उत्तरसुत्रे 'ऊक' इत्यस्यानुवृत्तये ।
यजजपवणं यः (पा०स०३-२-१६६) ॥ दंशे विना नलोपेन निर्देशो लाघवार्थः । यायजूकः । जनपकः । दन्दशूकः।।
नमिकम्पिरम्यजसकहिंसदापोर(पा०स०३-२-१६७) ॥ नमः। कम्मः । स्मेरः । जसु मोक्षणे (दि०प०१०५) नअपूर्वः क्रियासातत्ये धर्तते । ततो निपातनात्समासे कृते सः । अजस्रम् । 'कथमजना अग्नयः' इति, अजनधारणावजनाः।
सनाशंसभिक्ष उः (पा०स०३-२-१६८)॥ सन् प्रत्ययो.गृह्यते न तु 'षणु दाने (१००२) 'षण सम्भकौ' (भ्वा०स० ४६५) इति धातू, गर्गादिषु जिगीषुशब्दस्य पाठात । 'आङ: शंसु इच्छायाम्' (भ्वा० मा०६३०). इत्ययं गृह्यते न तु 'शंसु स्तुतौ' (भ्वा०प०७२९) इति, माका.सह निर्देशात् । चिकीर्षुः । आशंसुः । भिक्षुः।
विन्दुरिच्छुः (पा०स०३-२-१६९) ॥ विद माने (अ०प०५४) इष पच्छायाम् (तु०प०७१) । आभ्यामुप्रत्ययः विदेर्नुम् इषेश्छत्वश्च नि. पात्यते । बिन्दुशब्दस्तु पवर्गीयादिः। विदि अवयवे (भ्वा०प०६४) अस्मान्मृगय्वादित्वात्कुप्रत्ययो बोध्यः ।
क्याच्छन्दसि (पा०सू०३-२-१७०) ॥ उः स्यात् । अदेवयुं विदः थे देवयुभिः । 'कित: क्यः' इति व्याख्यानात्कण्ड्वादियगन्तादपि भव. ति । यमस्य योनी शकुनं भुरण्युम् । तुरण्यवोऽङ्गिरसो नक्षन्त ।
Page #483
--------------------------------------------------------------------------
________________
४७४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे तृतीयान्हिकेसपर्यम सपर्यवः । अथ कथं
सन्तः प्रणयिवाक्यानि गृहन्ति धनस्यवः । इति भट्टपादाः ? मृगय्वादिषु द्रष्टव्य इति हरदत्तः ।
आगमहनजनः किकिनौ लिट् च (पा०स०३-२-१७१) ॥ आका• रान्तेभ्य वर्णान्तेभ्यः गमादिभ्यश्च किकिनौ स्तश्छन्दसि, तो च लिड्वत् । आदिति नायं तकारः । कस्तहिं ! दकारः, "ऋदोरप्" (पा०सू०३-३-५७) इतिवत् । तेन तादपि परस्तपर इत्येवन । पपि। सोमम् । ददिर्गाः । बम्रिर्वज्रम् । ततुरिः । जगुरिः । जग्मियुवा नृष. दनम् । जतिवृत्रममित्रियम् । जक्षिः । स्वरूपाबाधेनातिदेशप्रवृत्तेस्तिबादयो न । यद्यपि "असंयोगाल्लिट्" (पासू०१-२-५) इति किन्त्वं लभ्यत एव तथापि "च्छत्यताम्" (पा०सु०७-४-११) इति प्रति. प्रसूतमपि गुणं निषेधुं किकिनोः कित्करणम् । तेन त, गृ, एतयो: गुणाभावादित्वे प्राप्ते "बहुलं छन्दसि' (पा०सु०७-१-१०३) इत्युत्वे 'ततुरिः' इत्यादि सिद्धम् । . छन्दसि सर्वेभ्यः किकिनी वाच्यौ (काभ्वा०) ॥ सेदिः । नेमिः रित्यादि।
भाषायां धानकमुजनिनमिभ्यो बाच्यौ (काभ्वा०) ॥ दधिः । चक्रिः । सखिः । जक्षिः । नेमिः । इह काशिकायां धातुवृत्तौ च गमि. रपि पठ्यते । जग्मिः ।
सासहिवावहिचाचलिपापतीनाम् (काभ्वा०) ॥ इति वार्तिकम् । सहिपहिचलिपतिभ्यो यन्तेभ्यः किकिनौ निपात्यते । "नीग्वञ्चु' (पासु०७-४-८४) इत्यादिना पतरभ्यासस्य नीर प्राप्तस्तदभावश्च । अत्र 'भाषायाम्' इत्यपेक्षते इति हरदत्तन्यासकारादयः । ननु वार्ति। कद्वयेऽपि 'भाषायाम्' इति निष्फलम् । “अहिर्महीसासहिरस्तिको. ऽन्यः' इति श्रीहर्षादिप्रयोगाणां निर्वाहः फलमिति चेत् ?न, 'छन्दसि' इत्यस्याननुवृत्तिमात्रेण तभिर्वाहात । प्रत्युत 'भाषायाम्' इत्यनुवृत्ती घेदे एषां किकिनी नेति लभ्येत । तचायुक्तम् "अषील्हमुग्रं पृतनासु सासहिम" "ध्रुवस्तिष्ठा विचाचलिः" इत्यादिप्रयोगविरोधादिति चेत्? सत्यम्, 'छन्दसि' इत्यत्यहासम्बन्धस्फोरणमात्र फलम् ।
स्वपितृपोर्नजिङ् (पा०स०३-२-१७२) ॥ स्वपक् । तृष्णक् । 'धृषे. श्व' इति काशिका | घृष्णकः।
गृवन्द्योरारुः (पा.सु०३-२-१७३) ॥ शराः । वन्दारुः । मियः क्रुक्लुकनी (पासू०३-२-१७४) ॥ भीरुः । भीलुकः ।
Page #484
--------------------------------------------------------------------------
________________
धात्वधिकारे कृत्प्रकरणम् ।
क्रुकन्नपि वक्तव्यः (कावा०) ॥ भीरुकः।
स्थेशभासपिसकसो वरच (पासू०३-२-१७५ ) ॥ स्थावरः। ईश्वरः । भास्वरः। पेस्वरः । कस्वरः।
थश्च यङः (पासु०३-२-१७६) यातर्यङन्ताद्वरच । यायावरः ।
भ्राजभासधुर्विद्युतोर्जिजुग्रावस्तुवः किए (पा०स०३-२-१७७) ॥ "व्रश्च"(पासू०८-२-३६) इति षत्वम् । विभ्राट् , विभ्राजौ । भाः, भासौ । "राल्लोपः, (पा०सू०६-४-२१) इति वलोपः । धूः, धुरौ । विद्युत् । ऊ । पूः, पुरौ । दृशिग्रहणाजवतेर्दीर्घः। जूः, जुवौ, जुवः । ग्रावस्तुत्।
अन्येभ्योऽपि दृश्यते (पासू०३-२-१७८) | दृशिग्रहणं विध्यन्त. रोपसङ्ग्रहार्थम् । तश्च वार्तिककारः स्फुटीचकार । आह हि
वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घश्व (काभ्वा०)॥ धुतिगमिजुहोतीनां द्वे च (का०वा०)॥ दृणातेईस्वश्च (का०वा०) ॥ ध्यायतेः सम्प्रसारणच (कावा०)। इति । वक्तीति वाक् । शब्दप्राट् । आयतस्तूः । कटप्रूः । जूः । श्रीः । पचिप्रच्छयोः सम्प्रसारणन्तु न, दीर्घवचनसामर्थ्यात् । अपर आह 'हशिग्रहणादेव वचिप्रच्छयोः सम्प्रसारणन' इति । "धुतिगमि' इति वात्तिके चकारेण दीर्घः समुखीयते, स च जुहोतेरेव, दीर्घश्रुत्युपस्थि. तेनाचा तदन्तविधिविज्ञापनात् । दिद्युत् । “धुतिस्वाप्योः"(पासू० ७-४-६०) इत्यभ्यासस्य सम्प्रसारणम् । जगत् । जुहूः । नन्विहाभ्याससंझव दुर्लभा, प्रत्यासत्या पाष्ठद्वित्वे एव तत्प्रवृत्तेः । अत एवाष्टमिके सा न, इति चेत् ? सत्यम्, इशिग्रहणादेवाभ्याससंक्षेति हरदत्तः।
वस्तुतस्तु "लिटि धातोः" (पा०पू०६-१-८) इत्यतो 'धानो'. त्यनुवृन्त्या 'धातोः' इति द्वित्वेऽभ्याससंशा । एवञ्च न कोऽपि दोष इत्यवधेयम् ।
दत् । रणातीयते । ध्यायतीति धीः । इह जुदधीरित्यनयो। करणस्य कर्तृत्वविवक्षायां प्रत्यय इति हरदत्तः।।
भुवः संज्ञान्तरयोः (पा०पू०३-२-१७९) ॥ भवतेः क्विप्स्यात्संशा. यामन्तरे च गम्यमाने । मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे बस्तिष्ठति विश्वासार्थ संप्रतिभूः । यस्तु प्रामयोरन्तरे तिष्ठति तत्र न, शिग्रहणस्यानुवृत्ते।
विप्रसंभ्यो वसंज्ञायाम् (पा०प०३-२-१८०) ॥ एभ्यो भुवो दुः स्यात् न तु संक्षायाम् । विभुः सर्वगतः । प्रभुः स्वामी । सम्भुर्जनिता ।
Page #485
--------------------------------------------------------------------------
________________
शब्दकौस्तुभतृतीयाध्याय द्वितीयपादे तृतीयान्हिके
४७६
असंज्ञायां किम् ? विभूर्नाम कश्चित् ।
मितवादिभ्य उपसंख्यानम् (का०वा० ) | मितं द्रवतीति मितदुः । शम्भुः । अन्तभावितण्यर्थोऽत्र भवतिः, सुखं भावयतीत्यर्थात् ॥
धः कर्मणि ष्ट्रन् ( पा०सु०३-२-१८१) ॥ धयतेर्दधातेश्च कर्मणि कारके ष्ट्न् स्यात् । धीयते पीयते धात्री स्तनदायिनी । धीयते धा येते भैषज्यार्थमिति धात्री आमलकी ।
-
दाम्नीशसयुयुजस्तुतुदसिसिचमिह पत्तदशनदः करणे (पा०स्०३-२-१८२) ॥ एभ्यः करणे ट्रन्स्यात् । दात्यनेन दात्रम् । नेत्रम् | श स्त्रम् । योत्रम् | योक्त्रम् | स्तोत्रम् | तोत्रम् | सेत्रम् | सेक्रम् | मेदम् । पत्रम् | अजादित्वादंष्ट्रा । नद्धी । दंशर्नलोपेन निर्देशो शापकः "क्वचि दङ्कित्यपि नलोपः" इति । तेन ब्युटि दशनाः । "अनिदिताम्” (पा०सु० ६-४-२४) इति सूत्रस्थभाग्य स्वरसस्तु शबन्तोऽयनिर्देशः ।
हलसूकरयोः पुवः (पा०सु०३-२ - १८३ ) ॥ पुत्रोः करणे ष्ट्रन् स्याद्धलसूकरयोरवयवश्चेत्सः । पोत्रम् | हलस्य सुकरस्य च मुखम् ।
अर्तिलूधूसूखनसहचर इत्रः (प1०सू०३-२-१-४) ॥ करणे इत्येव | अरित्रं मूलम् । लवित्रम् | धुवित्रम् । सवित्रम् । खनित्रम् | सहित्रम् । चरित्रम् |
पुवः संज्ञायाम् (पा०सु०३-२-१८५) ॥ पूङ्पूञ्भ्यां करणे इत्रः स्यात् । दर्भपवित्रम् । येनाज्यमुत्पूयते तत्पवित्रम् | जपादिष्वनामिका. ङ्गुलिवेष्टनश्च ।
कर्तरि चर्षिदेवतयोः (पा०सू०३-२-१८६ ) ॥ कर्तरि करणे च पुत्र इत्रः स्यात् । यथासङ्ग्यसम्बन्धात् ऋषी करणे देवतायां कर्त्तरि इति काशिका | "कर्तरि कृत्" ( पा०स्०३-४-६७) प्रतिसूत्रस्थ माध्यकैपट योस्तु यथासंख्यं नेति गम्यते ।
ऋषिर्मन्त्रः, 'तदुक्तमृषिणा' इति दर्शनात् । पूयतेऽनेनेति पवित्रस्पा धमान्यादि । देवतायान्तु - अग्निः पवित्रं स मा पुनातु ।
प्रीतः कः (पा०सू०३-२-१८७) ॥ श्रीतो धातोर्वर्तमाने कः स्या• त् । अनेन विशेषविधानात् प्रीतः कस्य भूतविषयता बाध्यते । एवमु· तरसूत्रे बोध्यम् । त्रिधृषा-घृष्टः ।
मतिबु पूजार्थेभ्यश्च ( पा०स्०३-२-१८८ ) ॥ मतिरिच्छा न तु बुद्धिः, तस्याः पृथगुपात्तत्वात् । राशां मत इष्टः, बुद्धो विदितः पूजितोऽर्चित इत्यादि । कथन्तर्हि "जनैरविदितविभवो भवानीपतिः" इति भारविः, "तेन” इत्यधिकारे "उपज्ञाते" (पा०सू०४-३ - ११५) इति सूत्रि
•
Page #486
--------------------------------------------------------------------------
________________
धात्वधिकारे करप्रकरणम् ।
४७७ तत्वामानार्थेभ्यो भूतेऽपि क्तः । “पूजितो यः सुरासुरैः" इत्यादि तु चिन्त्यामेति हरदत्तः । सामान्यापेक्षं ज्ञापकमित्यनुन्यासादयः। चका. रोऽनुक्तसमुच्चयार्थः । तथा च भाष्यम्
शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि। रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ॥ हृष्टतुष्टौ तथाकान्तस्तथोभौ संयतोद्यतौ ।
कष्टम्भविष्यतीत्याहुरमृताः पूर्ववत्स्मृताः ॥ इति । रुष रोष (चु०१०१३७) "रुष्यमत्वर" (पा०सू०७-२-२८) इती. विकल्पः । कष्टशब्दो भविष्यत्काले । अमृतास्तु पूर्ववत् । वर्तमान इत्यर्थः । न म्रियन्ते अमृताः।
इति श्रीशब्दकौस्तुभे तृतीयाध्यायस्य द्वितीये पादे . तृतीयमान्हिकं, समाप्तश्च द्वितीयपादः ।।
Page #487
--------------------------------------------------------------------------
Page #488
--------------------------------------------------------------------------
________________
स्फोटचन्द्रिका श्रीमन्मौन्युपाह्वश्रीकृष्णभदृविरचिता
काशीस्थराजकीयसंस्कृतप्रधानपाठशालाध्यापक नेने-इत्युपनामक गोपालशामिणा संस्कता।
THE SPHOTA CHANDRĪKĀ
by
Pandit S'ri Krisna Bhatta Mauni.
Read
Edited by Pandit Gopal S'astri Nene, Professor, Governmənt Sanskrit College, Benares.
Page #489
--------------------------------------------------------------------------
Page #490
--------------------------------------------------------------------------
________________
* श्रीः *
स्फोटचन्द्रिका विषयसूची ।
१ मङ्गलाचरणम् २ स्फोटशब्दार्थः
३ स्फोटशब्दस्य योगरूढत्वम् १४ स्फोटभेदा महौ
५ वाक्यस्फोटातिरिक्तानां सर्वेषां ६ वर्णस्फोटनिरूपणम्
७ तत्रादेशानामेव वाचकत्वम्
८ वर्णस्फोटस्यैव तार्किकाणां पदस्फोटत्वम्
तदुपाथश्वम्
९. शतस्य पदत्वनिरसनम्
१० तत्र पदचातुर्विध्यम्
११ पाचकपदे शक्तस्य यौगिकत्वासम्भवः १२ यौगिकलक्षणम्
१३ गोपदे रूढत्वाभावः
१४ रूढपदलक्षणम्
१५ योगरूढपदलक्षणम्
१६ यौगिकरूढनिरसनम्
१७ तार्किकोकरूढिलक्षणोदाहरणनिरसनम्
१८ द्विरेफपदस्य लाक्षणिकत्वनिरासः
१९ प्रत्येकं वर्णानां स्फोटत्वम्
२० स्फोटशब्दस्य भूषणोक यौगिकत्वनिरसनम् २१ तार्किकमते ईश्वरेच्छाशक्तिः
२२ नव्यतार्किकाणां मीमांसकानां च मते पदार्थावरं शक्तिः
२३ साधुशब्दवद साधुशब्देष्वपिशक्तिः
२४. असानुषु सा नास्तीति तार्किकमतनिरासः
२५ तत्र असाधुभ्यः साधुशब्दस्मरणाद्बोधनिरासः २६ एवं शक्तिभ्रमाद्बोधनिरासः
२७ शक्तिमत्व रूपता किं को कसा घुत्वळ क्षणनिरसनम्
२८ साघुवासाधुत्व लक्षणनिरूपणम्
२९ ईश्वरानं शक्तिरिति वर्धमानमतम्
पृ०
१
99
19
19
د.
109
" २१
"
99
99
"
"
99
09
99
19
19
91
"1
99
49.
19
""
33
99
19
95
mocGSA
19
४
13 १४
२४
११
१३
१५
१९
२५
२९
91
११
19
१२
१४
२५
२९
Page #491
--------------------------------------------------------------------------
________________
विषयसूची।
३० बोधजनकत्वं शकिरिति शाब्दिकमतम् ३१ अनादिसम्बन्ध शक्तिीरति अन्यन्मतम् ३२ वन्ह्यादिवच्छब्दशक्तेरपि अज्ञातायाः सत्या उपयोगः ३३ नानार्थेऽपि एकैव शक्तिः ३४ लक्षणोच्छेदस्यष्टत्वम् ३५ शाब्दिकमतेऽपिचन्ह्यादावतिरिक्तशक्तिः ३६ तार्किकमते विशिष्टस्य कारणतया वन्ह्यादी शक्त्यभावः .., ३७ समवायस्थाने तादात्म्यसम्बन्धः ३८ गुणविशिष्टघटाशुत्पत्तिर्विशिष्टस्यैव च कारणत्वम् ३९ तार्किकाणामधजरती ४० कर्णविवरवर्तिनभोनिष्ठशक्तःशक्तिविशिष्ट
नभसो वा श्रोत्रत्वम् ४१ श्रोत्रेन्द्रियस्य गुणमात्रसाक्षात्कारजनकत्वम ४२ रसनघ्राणेन्द्रिययोर्द्रव्यविशिष्टगुणग्राहकत्वम् ४३ त्वक्चक्षुषोद्रव्यविशिष्टगुणस्य
तद्विशिष्टद्रव्यस्य वा ग्राहकत्वम् ४४ असाध्वन्तर्गतप्रतिवर्ण स्फोटत्वम् ४५ साध्वनुकरणानां स्फोटत्वम्
" ४६ असाध्वनुकरणानां विवक्षाभेदेन स्फोटस्वास्फोटत्वे , ४७ पदस्फोटनिरूपणम् ४८ पदस्फोटस्य वर्णस्फोटापेक्षयाऽन्तरङ्गत्वम् ४९ वर्णस्फोटस्य पदस्फोटापेक्षया बहिरङ्गत्वम् ५० पदस्फोटभेदी ५१ सखण्डपदस्फोटस्तार्किकमते वाक्यस्फोटः ५२ अखण्डपदस्फोटः ५३ स्फोटस्य वाचकत्वेऽनुश्चरितस्याप्रत्यायकत्वपरभाष्य
विरोधपरिहारः ५४ तार्किकवेदान्तिमतनिराकरणम् ५५ रूढयौगिकयोस्तार्किकसिद्धयोरेवाखुण्डसखण्डस्फोटत्वं
शाब्दिकानामित्यविरोधः ५६ चित्ररूपनिरासः ५७ निर्षिकल्पज्ञाननिरास:
१२ २१
Page #492
--------------------------------------------------------------------------
________________
विषयसूची ।
५८ अतिरिक्तकालपदार्थनिरासः ५२ पीलुपाकवादनिरासः ६० वाक्ये फोर्टनिरूपणम् ६१ अखण्डवाकंगस्फोटः ६२सखण्डवाक्यस्फोटः ६३ वाक्यलक्षणं शाब्दिकमते ६४ तार्किक्रमते वाक्यलक्षणम् ६५ प्रत्यक्षानुमानयोरेकवाक्यत्वं तन्मते ६६ तार्किक वाक्यलक्षणे दोषकथनम् ६७ प्रत्यक्षानुमानयोरेकवाक्यत्वनिरासः
६८ प्रसङ्गतः प्रकरणलक्षणम् ६९ वाक्यस्फोटभेदाः
७० प्रथमान्तमुख्य विशेष्यकबोधे दूषणानि ७१ तार्किकोक्तस्य वाक्यार्थकर्मत्वस्य निरासः
७२ नीलो घटो भवतीत्यत्र व्युत्पत्तिवादोक्तबोधखण्डनम् ७३ तत्त्वमस्यादिवाक्येषु जहदजहल्लक्षणा: ७४ नामार्थयोरभेद इति व्युत्पत्तेर्लाघवमूलकत्वं न तु नियमत्वम
७५ जहदजहल्लक्षणास्थले लाक्षणिकवाक्यस्फोटः ७६ लाक्षणिकत्राक्यस्फोटनिरासः
७७ प्रकृतिगत संख्यानुरोधश्च्विविषये एव ७८ वाक्यस्वरूपभेदाः
8
पृ०
ܪ
99
""
59
79
99
59
99
99
१०
29
११
"1
3D
१२
19
99
39
१२
19
७९ काव्यात्मक वाक्यलक्षणम्
८० रसगङ्गाधरोक्तकाव्य लक्षणदूषणम्
८१ तात्पर्यविषयाबाध एव योग्यता, तस्या एव बांधे कारणत्वं, तदभावनिश्चयस्य च प्रतिबन्धकत्वम
१४
,,
99
८२ यद्वा शाब्दबोधे ऽयोग्यतानिश्चयस्य न प्रतिबन्धकत्वम्,, ८३ लक्षणास्थले पूर्व भ्रमात्मको बोध इति तार्किकोक्कनिरासः ११ ८४ अखण्डवाक्यस्फोटस्यैकवर्णात्मकत्वम् ८५ कामादीनामघमत्वनिरासः
99
१६
प०
२०
१०
१२
१४
१७
२१
२३
३२
१६
७
३२
१०
२३
२५
९.
१५
१६
२५
२३
३
१०
१
Page #493
--------------------------------------------------------------------------
Page #494
--------------------------------------------------------------------------
________________
श्रीकृष्णभट्टमौनिरचिता स्फोटचन्द्रिका।
ranceपिवोः पादयुगं नत्वा जानकीरघुनाथयोः ।
मौनिश्रीकृष्णभट्टेन तन्यते स्फोटचन्द्रिका ॥ १ ॥ शाब्दिकानां वाच्यलस्यव्यङ्गयार्थप्रतिपादकानां वाचकलाक्षणिक: व्यजकानां शब्दानां तनिष्ठजातेर्वा स्फोट इति व्यवहारः । स्फुटति अर्थो यस्मादिति व्युत्पत्या पङ्कजादिपदवयोगरूढः स्फोटशब्दः । केव: लयोगस्वीकारे वाच्यलक्ष्यव्यङ्ग्यानां चेष्टायाश्च व्यङ्ग्यार्थप्रतिपादकत्वेन तत्रातिव्याप्तेः । न च वाचकादिपर्यायः स्फोटशब्दोऽप्रसिद्धः, ___अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः ।
इति हरिवंशे इष्टत्वात् । तथा च वर्णपदवाक्याखण्डपदारखण्डवा. क्येति पञ्च व्यक्तिस्फोटाः । शक्यतावच्छेदिकाया जातेर्वाच्यत्ववक्ष शकतावच्छेदिकाया जातेर्वाचकत्वमिति मते वर्णपदवाक्यभेदेन त्रि. विधो जातिस्फोटः। एवं चाष्टौ स्फोटाः। यथाऽऽनन्दवल्ल्यां शुद्ध ब्रह्मज्ञानार्थमन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेति पञ्चसु को. शेषु अपारमार्थिकब्रह्मत्वप्रतिपादनमुपायः, यथा वाऽरुन्धतीज्ञान स्थलनक्षत्रे अपारमार्थिकारुन्धतीत्वबोधनम् , तथा पारमार्थिकाख. ण्डवाक्यबोधार्थमेते वर्णपदवाक्याखण्डपदस्फोटा उपायाः । तदुक्तम्
उपायाः शिक्षमाणानां बालानामुपलालनाः। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति । सुप्तिङन्तं पदमिति, एकतिङन्तार्थमुख्यविशेष्यकं वाक्यमिति पदवाक्यलक्षणानाकान्तवर्णसमूहस्य वर्णस्य वा प्रकृतिप्रत्ययरूपस्य व्याकरणेन गृहीतशक्तिकस्य पच् तिष् इत्यादिकस्य वाचकत्वे वर्णः स्फोटः । ते च प्रयोगसमवायिनो विसर्गतिबायो न तु तत्स्थानित्वेन कल्पिता सकारलकारादयः, तेषामनियतत्वात् । ' तथाहि, विसर्गेण रोः स्मरणं, तेन सोः । एवं णला तिपः स्मरणं, तेन लकारस्य, एवञ्च गौरवं स्पष्टमेव । किश्च स्थान्यादेशज्ञानशुन्य. स्यावैयाकरणस्यादेशमात्रादबाधापत्तेश्च । एवञ्च स्थान्येव वाचको लाघवात् , न त्वादेशो गौरवादिति तार्किकोक्तमपास्तम , विपरतिगौः
Page #495
--------------------------------------------------------------------------
________________
स्फोटचन्द्रिकाया
रखापत्तेः । अयं तार्किकाणां पदस्फोटत्वेनाभिमतः, शक्तं पदमिति तैः स्वीकृतत्वात् ।
तर मानाभावात् फलाभावात्स्वग्रन्थविरोधाचायुक्तमिति शाब्दि. काः। तथा हि, शतं पदं चतुर्दा-रुढं यौगिकं योगरूढं यौगिकरूढं चेति । गौर, पाचकः, पङ्कजम् , अश्वकर्णः, इति क्रमेणोदाहरणानि । तत्र 'पाचकः' इति यौगिकोदाहरणे यच्छतं पदं पच् अक इति, न तद्यौ. गिकं, समुदायस्तु यद्यपि यौगिकस्तथापि न शक्तः । एवञ्च शक्तं पदं यौगिकमित्यविचारिताभिधानम् । विशिष्ट शक्त्यभावे सति व्याकरणबोधितार्थप्रकृतिप्रत्यय समुदायरूपसुबन्ततिअन्तपदत्वं यौगिकपदत्वम् । सत्यम्तं योगरूढातिव्याप्तिवारणाय, तत्र विशिष्ट शक्तिमहात् । एवं गौरिति रूढयुदाहरणमप्यसङ्गतम्, व्याकरणकल्पितप्रकृतिप्रत्ययार्थः प्रत्ययाभावे सति समुदायसुबन्तस्यार्थबोधकत्वे रुढपंदत्वं यथा मणि. नूपुरादीति रूढिलक्षणानाक्रान्तत्वात् । शास्त्रकल्पितावयवार्थानुस. धानपूर्वकसमुदायशक्त्याऽर्थबोधकपदत्वं योगरूढत्वम् । यथा पङ्कजादीति । तदाक्रान्तत्वाद्योगरूढत्वं युक्तम् । यौगिकरूढ इति तार्किको. को भेदोऽपि न युक्तः, सकृदुचरितः सकृदर्थ प्रत्याययतीति न्याया• न्मण्डपपदं गृह विशेष रुढं भिन्नं, मण्डपानकर्तरि भित्रमिति अतिरि. कभेदस्वीकारे मानाभावात् ।
एवं रूढिलक्षणायाः 'कर्मणि कुशलः' इत्युदाहरणमप्ययुक्तम्, उक्त. रीत्या कुशले रुढत्वस्य कुशादानकर्तरि यौगिकत्वस्य सम्भवात । विरेफपदं भ्रमरे रूढमेव, कोशे भ्रमरपर्याये उपादानात् । नहि कोशे लाक्षणिकोपादानं पर्यायेम्वस्ति । एवञ्च स्ववाच्यपदवाच्यत्वसम्बन्धेन द्विरेफपदस्य भ्रमरे लक्षणेति तार्किकोकमपास्तम्, अक्रूरेऽपि उकस. म्बन्धसत्त्वेन तत्रातिव्याप्तेश्च । ___ यद्वा, एकाक्षरकोशावधृतशक्तिकानां सर्वेषां वर्णानामेव स्फोट. त्वम् , "अर्थवन्तो वर्णाः" इत्यनेन भाये तथा प्रतिपादनात् । न चैवं धनं, वनमित्यादी प्रातिपदिकसंधापत्तिः, समुदायशः स्वाश्रयश. कतावच्छेदकानुपूर्वीभङ्गजनकार्थकार्य प्रति प्रतिबन्धकत्वात(१)।
यत्त भूषणे स्फुटति अर्थो यस्मादिति स्फोटः वाचक इति याच. दिति केवलयौगिकः स्फोटशब्द उक्त । नत्र सम्यक् , साधुशब्दाना.
(१) अवयवनिष्ठशक्निनिरूपकाविषयकशान्दबोधं प्रति समुदायनिष्ठशकिनिरूपकार्थविषयक. तात्पर्यज्ञानस्य प्रतिबन्धकत्वादित्यर्थः ।
Page #496
--------------------------------------------------------------------------
________________
वर्णस्फोटनिरूपणम् ।
मिवासाधुशब्दानामपि शक्तिसत्त्वेन वाचकत्वाविशेषात्स्फोटत्वापत्तेः । न चेष्टापत्तिः । शाब्दिकैस्तथाऽनङ्गीकारात्, लाक्षणिकव्यञ्जकयोरसं. ग्रहापत्तेः। न च 'शब्दोऽत्र व्यञ्जकस्त्रिधा' इति 'मत्र' प्रहणात्काव्य एव व्यञ्जको न व्याकरणे इति भ्रमितव्यम्, पदेन स्फोटोऽस्खण्डो व्यज्यत इति वदद्भिस्तत्स्वीकृतत्वात् ।
ननु तार्किकमते ईश्वरेच्छा शक्तिः । मीमांसकमते अतिरिक्ता पदा. र्थान्तरं, नवीनतार्किकैरीश्वरेच्छाशानं वा कृतिति विनिगमनाविर. हान्मीमांसकमतमेवाङ्गीकृतम् । उभयथाऽपि साधुग्नेव सा, नासाधुषु । अन्यथा शक्तिमत्त्वं ..साधुत्वम् इति साधुत्वलक्षणाक्रान्तत्वेनासाधूनामषि साधुत्वापत्तेः, शक्तिप्राहकव्याकरणकोशादेरभावाच इति चेत् ? न, तत्र शक्त्यभावेन तेभ्यो बोधानापत्तेः । ___ न च शक्तिभ्रमात्साधुशब्दस्मरणाद्वा बोध इति तार्किकोक्तं युः कम् , साधुशब्दस्मरणं विनापि व्युत्पन्नानामपि बोधस्थानुभवसिद्ध. त्वात् गौरवाच्च । भ्रमाद्वोध इत्यपि न, रजतभ्रमाद् गृहीतायाः शुक्ते रजतव्यवहारानाधायकत्ववच्छक्तिभ्रमाजातबोधस्यापि व्यवहाराना. धायकत्वापत्तेः । सन्मात्रविषयिण्या ईश्वरेच्छायास्तत्र अभावस्य वक्तु. मशक्यत्वात् ।
किश्च शक्तिभ्रमः कस्य, सर्वव्यवहारकर्तरीश्वरस्योतान्यस्य ? नाद्यः, ईश्वरस्य भ्रमित्वानुपपत्तेः । नान्त्यः, सर्गादौ प्रयोज्यप्रयोजक स्वरूपसाध्वसाधुशब्दव्यवहारकीश्वरादन्यस्याभावात् । यथा पुण्यपापोभयजनिकाऽर्थसृष्टिरीश्वरकत्र्तृका तथैव साध्वसाधूभयविधशब्द. सृष्टिरपीश्वरकर्त्तकैष । तथा च भ्रम इति अयुकमेव । न च तटस्थ बालस्यानुमितिभ्रमः, साधुशब्देविवासाधुशब्देष्वपि शक्त्यनुमापक. सामग्रीसस्वेन बाधकाभावेन च भ्रमत्वायोगात् ।
मन्वसाधुष्वपि शक्तिस्वीकारे शक्तिमत्त्वं साधुत्वमिति तार्किकल. क्षणाकान्तत्वात्साधुत्वापत्तिः । तथा च "न म्लोच्छितवै नापभाषितवै" इति निषेधानवकाशः-इति चेत् ? न, लाक्षणिकानामसाधुतापत्तेः । म च वृत्तिमत्वं तत् , शक्तिलक्षणान्यतरत्वनिवेशे गौरवात् ।
तस्मात्पुण्यजनकतावच्छेदकजातिविशेषः साधुत्वं, प्रत्यवायजन. कतावच्छेदकधासाधुत्वम् । यद्वा, व्याकरणबोध्यत्वं साधुत्वं, तद्भिः नत्वमसाधुत्वम् । तथा चैकः शब्दः सम्यग् ज्ञातः सप्रयक्तः स्वर्ग लोके कामधग भवतीति । व्याकरणेनार्थविशेषे प्रकृतिप्रत्ययेन व्युत्पा.
Page #497
--------------------------------------------------------------------------
________________
स्फोटचन्द्रिकायां
दित इति शातः। तादृशार्थविशेष प्रयुक्तः । तेन गोणीशब्दस्य गोण्या. मेव साधुत्वं न गवि ।
विनिगमनाविरह इत्यपि न युक्तम् । अन्यतरपक्षपातिनी युक्तिर्हि विनिगमना । सा च ज्ञानस्य पूर्वाभिव्यक्तिरूपा प्रकृतेऽस्ति । अत एवे. श्वरज्ञानं शक्तिरित वद्धमानोपाध्यायाः ।
शाब्दिकास्तु बोधजनकत्वं शक्तिः ! तच्चानादिबोधजनकतावच्छे. दकधर्मवत्वम् । तदुक्तं हरिणा
इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा ।
अनादिरथैः सम्बन्धः शब्दानां योग्यता तथा ॥ इति । तज्जनकतावच्छेदकधर्मवत्वरूपा योग्यता । न चागृहीतशक्तिकस्य शाब्दबोधानुदयाच्छ।ब्दबोध शक्तिग्रहस्य हेतुत्वाद् बोधोत्तरं शक्तिग्रहः शक्तिमहोत्तरं बोध इति अन्योऽन्याश्रयः, व्याकरणकोशादिना शक्तिप्रहात । अन्यथेश्वरेच्छा शक्तिरिति पक्षेऽपि शक्तिमहोत्तरं बोधः बोधो. त्तरं शक्तिग्रह इति अन्योऽन्याश्रयस्य तुल्यत्वात् ।
यद्वा, शब्दार्थयोरनादिसम्बन्धः शक्तिः मम तु प्रतिभाति । शक्तिः सामर्थ्य, यथा दीपादौ तेजलि ग्राह्यत्वग्राहकत्वसामर्थ्य, वन्ह्यादौ दा. हकत्वसामर्थ्यम्, इन्द्रियादी विषयप्रकाशनं, तत्स्वरूपसदेवोपयुज्यते न तु ज्ञातम् । एवं शब्देऽपि ग्राह्यत्वग्राहकत्वसामर्थ्य स्वरूपसदेवोप. युक्तं न तु क्षातम । न चागृहीतशक्तिकस्यापि बोधापत्तिः, सन्निकर्षा. दिवत बोधाभावप्रयोजकीभूताभावप्रतियोगितात्पर्यग्रहाभावात । न च नानार्थेष्वेव तात्पर्यग्रहस्य कारणवमिति चेत् ? सत्यम्, शान्दि. कमते सर्वेषां नानार्थत्वात् । अत एव "वृद्धिरादैच" (पासु०१-१-१) इति सत्रे भाष्ये "अनेकशकेः शब्दस्य"इत्युक्तम् । अनेकेष्वनेका वा शक्तिरस्यति विग्रहः । अवच्छेदकभेदे शक्तिभेद इति तार्किकादिसिद्धा. न्तः । लाघवाच्छक्तिरेकैवेति शाब्दिकराद्धान्तः।
न चान्यायश्चानेकार्यत्वमिति वाच्यम, भवन्मतेऽपि तुल्यत्वात् । Taraान पर भेदः-शन्मते वृत्तिभेदेन, मन्मते तु एकया वृत्त्या । न च लक्षणोच्छेदापत्तिः, इष्टत्वात् । यथा भवद्भिः सर्वानुभवसिद्धाऽपि व्यः अना लाघवान्न स्वीक्रियते । तत्र च व्यञ्जनोच्छे दापत्तेरदूषकत्ववन्म. न्मतेऽपि लाघवाच्छक्त्यैव निर्वाहे लक्षणोच्छेदापत्तेरदूषकत्वात् ।
वस्तुत एकवृत्त्यैव निर्वाहे अनेकवृत्तिकल्पनमन्याय्यमित्येव तदर्थः, अर्थपदस्य वृत्तिपरत्वात् । अन्यायश्चत्यस्य लाघवमूलत्वात् ।
न चानन्यलभ्यः शब्दार्थ इति वाच्यम, तस्य लक्षणया लभ्ये श.
Page #498
--------------------------------------------------------------------------
________________
वर्णस्फोटनिरूपणम् ।
क्तिकल्पनमन्याय्यमिति नार्थः, किन्तु संसर्गमर्यादया सिद्धे शक्तिकहपनमयुक्तमिति तदर्थात् ।
|
एवञ्च शाब्दिकानां शब्दवद्वन्हौ अतिरिक्तशक्तिस्वीकारः । तार्कि काणां तु शब्दे शक्तिस्वीकारः वन्दौ तु नेत्यर्द्धजरतीय स्वीकारोऽनुचितः । न चोत्तेजकाभावविशिष्टमण्यभावेनोपपत्तौ तत्स्वीकारो व्यर्थ इति वाच्यम्, गुरुभूतविशिष्टस्य कारणतावच्छेदकत्वस्वीकारापेक्षया लघुभूतस्त्रीकृतातिरिक्तशक्तिसम्बन्धस्यैवोचितत्वात् । किञ्च शाब्दि कमते भेदसहिष्णुरभेदस्तादात्म्यम् । गुणत्वद्रव्यत्वादिना भेदेऽपि गुणं विना द्रव्यानुपलम्भाद् द्रव्यं विना गुणानुपलम्भाच्च तयोस्तादाक्यम् । एवञ्च समवायो यत्र तत्र तादात्म्यमिति व्यवहारः । तथा च तैः गुणं प्रति घटस्य पूर्ववर्त्तित्वासम्भवेन कारणत्वाभावादन्यथानुपपत्त्या विशिष्टस्यैव कारणतावच्छेदकत्वमङ्गीकृत्य गुणविशिष्टघटं प्रति गुणविशिष्टकपालस्य कारणत्वमिति स्वीकृतम् |
· तार्किकैस्तु विशिष्टस्य कारणतावच्छेदकत्वाद्विशिष्टस्य कारणत्वासम्भवान्निर्गुणघटोत्पत्तिः स्वीकृता, तत्र च गुणाश्रयत्वरूपद्रव्यत्वलक्षणानाक्रान्तत्वाद् गुणसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमिति निष्कर्षः कृतः ।
सोऽयुक्त इति मम भाति । तथाहि, प्रतिबन्धकोत्तेजकाभ्यां वन्हौ ज्ञाताऽपि शक्तिरुत्तेजकाभावविशिष्टमण्यभावस्य कारणत्वं स्वीकृत्यातिरिक्ता शक्तिः खण्डिता, शब्दे च सा स्वीकृता । एवं विशिष्टस्य तत्र अवच्छेदकत्वं स्वीकृत्येद्द नेत्युक्का खपुष्पवन्निर्गुणघटोत्पत्तिः स्वीकृ ता । सर्वेषामनुभवाना रूढत्वादेतत्सर्वमयोग्यांमति दिक् ।
शाब्दिकैस्तु शब्दबद्वन्दौ कर्णविवरवर्त्तिनभसि चातिरिक्ता शक्तिः स्वीकृता । सैव श्रोत्रं, शक्तिविशिष्टं नमो वा । एवञ्च दूरस्थभेरीशब्दस्य स्वस्थानस्थितस्यैव श्रोत्रस्य दीपवत् प्रकाशन सामर्थ्यम् । एवञ्च वीचीतरङ्गन्यायेन भेरीशब्दस्य श्रवणदेश गमनमिति न मनोरमम्, साक्षात् भेरीशब्दं शृणोमीत्यनुभवापलापापत्तेः अनेकशब्दकल्पने गौर वाश्च । न च श्रोत्रमेव तत्र गच्छतीति युक्तम्, आकाशस्य गमनासम्भवात् कर्णविवरे आकाशाभावप्रसङ्गाच्च । श्रोत्रोन्द्रयं गुणमात्र साक्षात्का रजनकम् ।
केचित्तु श्रोत्रेन्द्रियवद्रसनेन्द्रियघ्राणेन्द्रिययोरपि गुणमात्र साक्षा त्कारजनकत्वमिति वदन्ति ।
तदयुक्तमित्यपरे । तथाहि शब्दस्याकाशगुणत्वात्समवायेन सा
Page #499
--------------------------------------------------------------------------
________________
स्फोटचन्द्रिकायां
क्षात्सम्बन्धसत्वेन केवलप्रत्यक्षसम्भवेऽपि रखगन्धयोस्तु संयुकस. मवायः सन्निकर्षः। स च द्रव्यसम्बन्धे घटते इति परम्परासम्बन्धः । तत्र द्रव्य साक्षात्कारसन्निकर्षसत्त्वेन द्रव्यं विना कंवलगुणस्यासत्त्वेन च केवलगुणलाक्षात्कारासम्भवः । तस्माद् द्रव्यविशिष्टगुणसाक्षात्का. रजनकत्वं तयोः , न तु गुणविशिष्टद्रव्यसाक्षात्कारजनकत्वम् ; अनु. मवन तथैव शक्युन्नयनात् । चक्षुरिन्द्रयत्वागन्द्रिययोस्तु गुणविशि. टद्रव्यं द्रव्यविशिष्टी वा गुण इत्युभयविधसाक्षात्कारजनकत्वम् । विस्त. रस्तु मत्कृतशब्दार्थतामृते द्रष्टव्यो गौरवभयान्नेह तन्यते इति दिक् ।
प्रकृतमनुसरामः ! असाधुशब्दस्य वाचकत्वेऽपि व्याकरणप्रतिपा. द्यत्वासोटत्वाभावः । तदन्तर्गतवर्णानां तु एकाक्षरकोशावधृत. शक्तिकान्तिरप्रकाशकत्वे पदस्फोट इति पदस्फोटे विवेचयिष्यते। अनुकरणशब्दानां तु अनुकार्यानुकरणयामेंदविवक्षयाऽनुकार्यरूपार्थप्र. तिपादकत्वात् स्फोटत्वम्। ननु साध्वनुकरणस्य साधुत्वेन स्फोटत्वेऽप्य. साध्वनुकरणस्यासाधुन्वात्कथं स्फोटव्यवहार इति चेत् ? न, असाध्व. नुकरणस्यापि साधुत्वस्वीकारात् । दैत्यैहे ऽरय इति प्रयोकव्ये हेऽलय इति प्रयुक्तं, तदनुकरणं हेलयो हेलय इति कुर्वन्तो न पराबभूवुरिति, न वाक्यऽपि तस्यासाधुत्वम, तथा यद्वानः तद्वानः भवतु इत्यर्थे यर्वा. णस्तर्वाणः भवतु इति प्रयुक्त, तदनुकरणं कुर्वन्तो यर्वाणस्तर्वाणो नाम ऋषयो बभूवुरिति, न वाक्येऽपि तस्यासाधुत्वं कस्यापि सम्म. तम् । तस्मादसाधोग्नुकरणस्य साधुत्वं सर्वसम्मतम् । तत्र यदा त. योरभेदविवक्षा तदाऽर्थप्रकाशकत्वाभावान स्फोटत्वम् । शुद्धब्रह्महानाय सर्वबहिर्भूतानमयकोशवदखण्डवाक्यबोधनाय वर्णस्फोट इति विक् ।
इति वर्णस्फोटः ॥
अथ पदस्फोटो वर्णस्फोटापेक्षया अन्नमयकोशापेक्षयाऽन्तरङ्गप्राणमा यकोशवदन्तरङ्गो निरूप्यते । अन्तरङ्गत्वं तु साक्षाद्वाक्यघटकत्वेन । व. र्णस्य बहिरङ्गत्वं पदनिष्पत्तिद्वारा तद्घटकत्वम् । पदस्फोटो द्विधा-स. खण्डोऽखण्डश्च । व्यवहारादिना पदे एव शकिग्रहाद । तत्र योऽस्माकं सखण्डपदस्फोटः 'पचति' 'रामः' . इत्यादिसुबन्ततिअन्तरूपः, शकं पदमिति मते स एव वाक्यस्फोटस्तार्किकाणाम् ॥ .
अथाखण्डपदस्फोटो निरूप्यते । स च सर्वैः पदस्थितवणैय॑ज्यते । स चार्थप्रत्यायक इति शान्दिकसिद्धान्तः। न चे प्रतीतस्य प्रत्यायक.
Page #500
--------------------------------------------------------------------------
________________
पदस्फोटनिरूपणम् ।
स्वनास्ति, अन्यथा शब्दं वेत्तीत्यत्रार्थ वेत्तीति प्रत्ययापत्तेरिति अणु. दिसूत्रस्थभाज्यविरोधः। तस्य समान्यतः प्रतीतस्य प्रत्यायकत्वं ना.. स्तीति नार्थः, किन्तु शब्दसंशया प्रतीतस्य शब्दस्येति, प्रकरणानुरो. धेन तस्य सङ्कोचात । एवञ्च रहसि पुस्तकमीक्षमाणस्यार्थप्रत्ययाना. पत्तिमाशय तत्रापि सूक्ष्मोचारणमस्त्येवेति नव्योक्तमपास्तम्, अनु. भवविरोधाश्च । ___ यत्त्वत्र तार्किकवेदान्तिनः-यावद्वर्णव्यङ्गयो वा यत्किञ्चिद्वर्णव्यङ्ग्यो घा चरमवर्णव्यङ्ग्यो पा सः ? न तावदाधः, आशुविनाशिनां मलनास. म्भवात् । न द्वितीयः, पशब्देनैव व्यञ्जिते स्फोटे टवर्णवैयर्थ्यम् । न तृतीयः, पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहितचरमवणेनैवार्थप्रतीतिसिखौ किं स्फोटेनेति ।
तन, वर्णानामाशुविनाशित्वे मानाभावात् । न चोत्पन्नो गकारः, नष्टो गकार इति प्रतीतिमानम् । "तस्माश्चाकाशः सम्भूतः" इतिवदा. विर्भावतिरोमावेनाप्युपपत्तेः अनन्त प्रागभावध्वंसकल्पने गौरवाच्च । अनित्यत्वेऽपि वर्णानुभवजन्यसंस्कारजन्यस्मृतौ मेलनसम्भवात् ।
द्वितीयेऽपि न द्वितीयादिवर्णवैयर्थ्यम् , पशब्दोच्चारणे किं पस्फोट उत पटस्फोट उत पटः स्फोट इति सन्देहनिवर्तकत्वेन सार्थक्यात् ।
तृतीये यथा पटपदशक्यः विजातीयतन्तुसंयोगविशिष्टचरमसंयो. स्यैव पटकार्यकारित्वेऽपि अतिरिक्तोऽवयवी स्वीक्रियते, तथा मयाऽपि स्वीक्रियते । न च तथाऽनुभवादतिरिक्तः पटः, स्फोटेऽपि तुल्यत्वात् गौरवाच्च ।
स्फोटे तु लाघवं कथमिति चेत् ? शृणु, ध्वनिभिरेव स्फोटो व्यज्यते । एवानन्तवर्णतत्प्रागभावध्वंसकल्पना, नदी दीन सरो रस जरा राज इत्यादौ भिन्नार्थप्रतीत्यर्थमानुपाः पूर्ववर्णानुभवजन्यसं. स्कारसहितचरमवर्णस्य कारणता च न वाच्येत्यतिलाघवम् । त्वया तु तद्वाच्यमिति गौरवम् । एतावत्प्रघट्टकेन वर्णातिरिक्तः वर्णव्यङ्ग्यः
चैतन्ये सर्वभूतानां शब्दब्रह्मेति मे मतिः । इति शब्दब्रह्मरूपोऽतिरिकः स्फोटस्तार्किकादिक्षणाभासनिरस. नपूर्वको व्याख्यातः।
प्रकारान्तरेणाप्युच्यते । अखण्डपदस्फोटो नातिरिक्तः । यत्र तार्किकादिभिर्योगिकं योगरूढं च पदमित्युच्यते 'पाचकः' 'पङ्कजम्' इत्यादि, तदेवास्माभिः सखण्डपदस्फोटत्वेन व्यवहियते, खण्डशक्त्यनुसन्धान पूर्वककोशादिना समुदायशकिग्रहात् । यस्य तु व्याकरणशानशून्यस्य
Page #501
--------------------------------------------------------------------------
________________
स्फोटचन्द्रिकायां
केवलव्यवहारेण समुदायशक्तिग्रहस्तस्य स एवाखण्डपदस्फोटः । यतु रूढं पदं मणिनूपुरादि वः नः इत्यादि, तत्सर्वेषामपि अखण्डपद स्फोटत्वेनाभिमतम्, तत्र सर्वेषामपि अवयवार्थज्ञानाभावविशिष्टव्यव. हारेण समुदाये शक्तिग्रहात् । एवज्ञ रूढयौगिकपदयोः सखण्डाख ण्डस्फोटयोश्च पर्यायत्व नाममात्रे विवाद इति दिक् । एवञ्च तार्किकादीनां दूषणाभासा गर्भस्रावेणैव पराहता इति दिक् ।।
नहि तार्किकादितर्का एव सत्ती इति नियमः, तत्रापि बहुशो. उनुभवाविषयासतर्कदर्शनात् । तथा हि विशिष्टस्य कार्यत्वकारणत्वे नैव सिद्धौ निर्गुणघटोत्पत्तिरयुक्तति पूर्वमुक्तम् । तथा रूपस्य व्याप्य वृत्तित्वनियमाद् घटस्य प्रत्यक्षान्यथानुपपत्या स्वीक्रियमाणातिरिकं चित्रं रूपमिति कल्पनाऽव्ययुक्तैव, तादृशनियमे प्रमाणाभावात् । अस्तु वा नियमः, तथापि (१)तत्तद्रूपावच्छिन्नतत्तदवयवसत्रिकर्षसहितच रमरूपावच्छिन्नचरमावयवसनिकर्षेणैव घटसाक्षात्कारसिद्धौ अतिरिः कचित्ररूपस्वीकार गौरवात् । एवं विशिष्टबुद्धौ विशेषणशानस्य कार• णत्वात्तस्य चायं घट इत्यादावसम्भवात् घटघटत्वयोः सम्बन्धानवगा. हिनिर्विकल्पकज्ञानकल्पनाऽप्ययोग्यत्वादयुक्तैव । नित्यसम्बन्धातिरिक्त संयोगसम्बन्धादावेव तत्कल्पना 'दण्डी पुरुषः' इत्यादौ, न तु 'अयं घट:'इत्यादौ,तत्र विशिष्टज्ञानस्यैव जायमानत्वात् । एवञ्च निर्विकल्पक क्षानं न स्वीकार्यमिति महल्लाघवम् ।
एवमखण्डखण्डभेदेन कालद्वैविध्यकल्पनमध्ययुक्तमेव, अखण्डस्य व्यवहारानाधायकत्वात्। न च
जन्यानां जनकः कालो जगतामाश्रयो मतः । इति जगदाधारत्वेन जनकत्वेन च तत्स्वीकारः, ईश्वरस्यैव तत्प्र. सिद्धत्वात् । न च पदार्थखण्डने 'दिक्कालौ नेश्वरादतिरिच्यते' इत्या. दिनाऽस्माभिस्त दुक्कमिति वाच्यम्, तत्र दिक्कालयोरेवे विशिष्येश्व. रामेद उकः। स च "सर्व खल्विदं ब्रह्म' इति श्रुतिविरुद्धः। तथा "यतो वा इमानि भूतानि जायन्ते' "तस्मिन्सर्व प्रतिष्ठितम्" इत्यादि. श्रुतिभिर्जगत्कर्तृत्वं जगदाधारकत्वं चेश्वरस्यैव, न तु कालस्य । तेन "जन्यानां जनकः कालः" इत्यस्य पृथिव्यादिसप्तपदार्थानामपीश्वराभेदेन विशिष्योभयोरेव तदभेदप्रतिपादनस्य चायुक्तत्वात् ।
एवं खण्डकालोऽप्ययुक्तः। सूर्यगतिविशेषरूपोपाधिभेदेन हि खण्ड
(१) तत्तव्यावच्छिन्न' मुद्रिते ।
Page #502
--------------------------------------------------------------------------
________________
वाक्यस्फोटनिरूपणम् ।
कालः । एवञ्च सूर्यगतिविशेषस्यैवास्तु खण्डकालत्वं किं तदतिरेकेण तथा च खण्डकालस्य क्रियात्वम्।
एवं पीलुपाकवादिभिः परमाणी पाकं स्वीकृत्य श्यामघटनाशः रक्तघटोत्पत्तिः स्वीकृता, तत्र चक्रदण्डादिनिमित्तकारणाभावात्कथ. मुत्पत्तिः। निमित्तकारणं विनापि तत्स्वीकारे दण्डचक्रादीनां निमिः सकारणतैवोच्छिघेत । एवंविधाऽनेकानुभवानारूढगुरुभूततर्काश्रयणं लाघवमूलातिरिक्ताखण्डस्फोटखण्डनं दूषणाभासैरनुचितमिति दिक् ।
वाक्यार्थज्ञानं प्रति पदार्थज्ञानस्य कारणत्वात्पदस्फोटं निरूप्य वा. क्यस्फोटो निरूप्यते । स चाखण्डसखण्डभेदेन द्विधा । तत्राखण्डः पदातिरिकोऽखण्डपदव्यङ्ग्यो लाघवात्स्वीक्रियते । तच्चाखण्डपद. स्फोटे निरूपितम् । अत्यश्वाकाङ्कायोग्यतासत्तीनां कारणतान वाच्येति ,महल्लाघवम् । सखण्डस्तु प्रसिद्ध एव । यद्वा, 'हरेऽव' इत्यादौ एकादेशे कृते पविभागो दुर्वारस्तत्राखण्डवाक्यस्फोटोऽन्यत्र सखण्ड इति विवेकः । एवञ्च दूषणानां गर्भस्राव एव । तत्र वाक्यं नामकतिङन्तार्थ. मुख्यविशण्यकम् । यथा 'पचति भवति' इति । तत्रापि पचतीत्यस्य विशेष्य वेऽपि मुख्यविशेष्यत्वामावान्नाव्याप्तिः ।
तार्किकास्तु पूर्वापरप्रन्यैकवाक्यताप्रतिपत्तये "अर्थै कत्वादेकं वा. क्यं साकावं चेद्विभागे स्यात्' (जैसू०२-१-४६) इति मीमांसासूत्र. मुपन्यस्य 'विशेष्यभूतभावनैकत्वात्' इति "अर्थैकत्वात्" इत्यस्य तेषा. मथै त्यक्त्वा तात्पर्यविषयैक्यम्' इति स्वयं तदर्थ व्याख्याय, प्रत्यक्षा. नुमानयोरेकवाक्यत्वमुक्तम् । स्वातन्त्र्ये यंत्संङ्गतिमत्तदेकं वाक्य. मिति वक्तव्यं, न तु यत्किचिदर्थकल्पनमुचितं दोषदुष्टश्च । तथाहि, पठनतात्पर्य यथैव देवदत्तः पठति तव पुत्रस्तथैव पठतीत्यत्राप्येकवा. क्यत्वापत्तिः । न चेष्टापत्तिः, समानवाक्यत्वात्तेआदेशापत्तेः । तथा "स्योनन्ते सदनं करोमि, घृतस्य धारया सुषेवं कल्पयामि' इति सद. नप्रतिपादको मन्त्रः प्रत्यक्षग्रन्थवत् । तस्मिन्सीदामृते प्रतितिष्ठ व्रीही. णां मेध सुमनस्यमान इति सादनप्रतिपादको मन्त्रः अनुमानवत् । प्रमाणनिरूपणवद्यागाङ्गनिरुपणं तात्पर्यविषयः । एवमनुमानस्य प्रत्य. सापेक्षत्वेऽपि प्रत्यक्षस्य तदनपेक्षत्ववत् सादनप्रतिपादकमन्त्रस्य सद नप्रतिपादकापेक्षत्वेऽपि सदनप्रतिपादकस्य न तदपक्षत्वम् । एवञ्चानयोरप्येकवाक्यत्वापत्तिः । न चेष्टापत्तिः, अर्थक्यादित्यस्य भवदुक्तप्र. त्युदाहरणविरोधात्। किश्चयं पदैकवाक्यता उत वाक्यैकवाक्यता उत प्रन्यैकवाक्यता ? नाघः क्रियाकारकाणामेव तत्सम्भवात् । तयोरेव
Page #503
--------------------------------------------------------------------------
________________
स्फोटचन्द्रिकायां
परस्परमाकाङ्क्षासम्भवात् । उभयाकाङ्क्षायामेव तत्सम्भषेनान्यतरा कालायां तदसम्भवाच्च । न द्वितीयः, इतरनिरपेक्षतया सिद्धे. नैकवाक्येन सापेक्षतरवाक्यस्यान्वयो हि सा । प्रकृते च वाक्यसंदर्भ. रूपग्रन्थयोरेव सा, न तु वाक्ययोः। अनुमानस्थितवाक्यानां परामर्श जन्यं ज्ञानमनुमितिः' इत्यादिवाक्यानां प्रत्यक्षवाक्याकालामावाद् आ. सत्यभावाच्च । किञ्च वाक्यैकवाक्यता हि प्रकरणम् , अन्यतराका. का प्रकरणमिति तल्लक्षणात् । तस्याप्येकवाक्यत्वस्वीकारे वाक्यात्प्र. करणस्य दुर्बलत्वप्रतिपादकश्रुतिलिङ्गवाक्यप्रकरणत्यादिबलाबलाधि. करणविरोधः । न तृतीयः । प्रत्यक्षानुमानयोराकाला आर्थी, न तु शा. ब्दी। तस्मादत्र सूत्रलिखनं यत्किचिदर्थकल्पनमनुचितम, शिरोमणि. प्रन्थस्तु यद्यत्सङ्गतिमत्तदेकं वाक्यमित्यनेनैव सिद्धत्वादिति दिक्।
प्रकृतमनुसरामः । व्यवहारेण वाक्ये शक्तिग्रहाद्वाक्यस्यैव पाच.. कत्वाद्वाक्यस्फोटः । न च पूर्व गृहीताऽपि वाक्ये शक्तिरावापोद्वापा. भ्यां त्यक्त्वा पदे गृह्यते इति वाच्यम् ,एवं सति पदार्थज्ञामम्प्रति वा. क्यार्थज्ञानस्य हेतुतापत्तौ वाक्यार्थज्ञानम्प्रति पदार्थज्ञानस्य हेतुस्व. मिति सर्वसिद्धान्तमलापत्तेः । वाक्यस्फोटो विधा सखण्डो खण्डः श्व । अखण्डो विधा वर्णातिरिक्तोऽनतिरिक्तश्च । यदा वर्णा न स्वी. क्रियन्त गौरवात् , लाघवात् ध्वनिभिरेवाखण्डो वाक्यस्फोटो व्यज्यते इति मतं, तदाऽतिरिक्तः । अस्मिन्पक्षे वर्णाभावेन यावद्वर्णव्यङ्ग्य इत्यादिदूषणाभासा गर्भस्रावेणैव पराहताः। यदा तु ध्वनिभिर्वर्णा व्यज्यन्ते इति मतं तदा घटमानयेति सखण्डवाक्यस्फोटः, क्रियाकारका योविभागस्य कर्तुं शक्यत्वात्। हरेऽव विष्णोऽवेत्यादौ एकादेशे कृते प्रातिपदिकाख्यातयोविभागाशक्यतयाऽनतिरिक्तवाक्यस्फोटः । कि. याकारकज्ञानशुन्यस्यावैयाकरणस्य घटमानयेत्ययमपि अनतिरिकास्त्र. ण्डवाक्यस्फोट एव ।
पदे न वर्णा विद्यन्ते वर्णेववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविधेको न कश्चन ॥ इत्ययमखण्डातिरिक्तवाक्यस्फोटप्रकाशः । यथा वणे अवयवा न सन्ति तथेत्यर्थः । 'पश्य मृगो धावति' 'पचति भवति' इत्यादावपि अ. खण्डसखण्डातिरिकानतिरिक्तत्वं पूर्ववदेव बोद्धव्यम् । मृगकर्तृक वर्तमानधावनक्रियायाः दृशिक्रियायां कर्मतासम्बन्धेनान्वयः । देवद. त्तकर्तृकपचिक्रियाया वर्चमानभवनक्रियायामन्वयः । तदुक्तम्
सुबन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम् ।
Page #504
--------------------------------------------------------------------------
________________
वाक्यस्फोटनिरूपणम् ।
तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ॥ इति । यत्तु धावनानुकूलकृतिमान् मृग इति प्रथमान्त विशेष्यकशाब्दबोध इतिपक्षे मृगस्य रशिधात्वर्थनिरूपितकर्मत्वात् द्वितीयापत्तिः, तमित्यध्याहारे च वाक्यभेदापत्तिरित्याशय
११
पश्य लक्ष्मण ! पम्पायां बकः परमधार्मिकः ।
इत्यादाविव वाक्यार्थस्य कर्मत्वान्न वाक्यभेद इति कैश्चित्समाहितम् । तन्मुधैव, अन्तरङ्गधावनक्रियानिरूपितमृगस्य कर्तृत्वात्तस्य चा. ख्यातेनोक्तत्वात्प्रथमोत्पतौ बहिर्भूतदशिधात्वर्थनिरूपित कर्मत्वे ऽपि अ न्तरङ्गत्वाज्जातसंस्कारबाधे मानाभावेनैव 'शक्यञ्च श्वमांसादिभिः क्षुपहन्तुम्' इतिवदुपपत्तेः । एवञ्चात्र प्रथमान्तविशेष्यक पक्षेऽपि शाब्दिकदूष णाभावेऽपि एक देवदत्तकर्तृकपचिक्रियाकर्तृकं भवनमित्यर्थे पचतिभवतीत्येकवाक्यतानापत्तेः (१) ननु पाकानुकूलकृतिमान्देवदत्तो भवतीत्यर्थे निष्पन्ने" सविशेषणे विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे" इति न्यायेन क्रियाया एव कर्तृत्वं भविष्यति । एकवाक्यतायां फलाभावाच्च । न च “समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः " इति निघातः फलम् । "तिङतिङः " ( पा०सू०८-१-२८) इति अति ङ्ग्रहणेन तदभावात् । सत्यम् | त्वत्सम्बन्धिनी देवदत्तकर्तृका पचिक्रिया भवतीत्यर्थे 'देवदत्तः पचति ते भवति' इति प्रयोगे समानवा - क्यत्वाभावेनादेशानापतेः । अनेक देवदत्तकर्तृकैका पचिक्रियेत्यर्थे 'देवदत्ताः पचन्ति भवति' इति प्रयोगोऽपि न स्यात्, अनेक कर्तृत्वेन भवतीत्यत्र बहुवचनापत्तेः, 'पश्य मृगो धावति' इत्यत्र निघातरूपप्रयोजनसत्त्वाच्च ।
·
किञ्चात्र वाक्यार्थस्य कर्मत्वमिति तार्किको कं न युक्तिमत् । तथाहि, वाक्यार्थोऽतिरिक्तोऽनतिरिको वा ? नाद्यः, तस्य वृत्यनुपस्थापितत्वेन हाशक्रियायां कर्मतयाऽन्वयानुपपत्तेः; वृत्युपस्थापितस्यैव शा दबोधविषयत्वानियमात् । अन्यथा घटपदात्समवायेनोपस्थिताकाशस्यापि शाब्दबोधविषयत्वापत्तेः । न द्वितीयः । विभक्त्यर्थमद्वारीकृत्य नामार्थस्य धात्वर्थेन समम्भेदसम्बन्धेनान्वयो व्युत्पन्नः । अन्यथा 'ओ' दनः पचति' इत्यापतेः । न च तत्र वाक्यार्थस्य कर्मत्वं न नामार्थस्येति वाच्यम्; 'रमणीय ओदनः पचति' इत्यस्यानापत्तेः । "पश्य लक्ष्मण पम्पायाम्" इत्यादौ तमिति पदाध्याहारेण वाक्यभेद एव । एवञ्च वा क्यार्थस्य कर्मत्वामे (२) त्यविचारिताभिधानम् । एवं 'नीलो घटो भव
(१) 'नच' मुद्रिते । (२) 'मित्यपिचारिता' मुद्रिते ।
Page #505
--------------------------------------------------------------------------
________________
१२
स्फोटचन्द्रिकायां
ति' इति वाक्ये नीलकर्तृकभवनाश्रयो घट इति व्युत्पत्तिवादोक्तमपि न युक्तिमत्, नामार्थस्येत्याविव्युत्पत्तिबाधे मानाभावात नीलो घटो भव नाश्रय इति बोधसम्भवाश्च । सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे इति विशेषणे नीले एव भवनस्या.. न्वयो भविष्यतीति दिक् ।
एवं "तत्वमसि" "सोऽयं देवदत्तः" इत्यादौ सखण्डाखण्डत्वं (१)र्ववदेव बोध्यम् । "तत्त्वमसि' इत्यत्र तरपदवाच्य सर्वशत्वादिविशिष्टचैतन्यस्य त्वंपदवाच्येनान्तःकरणविशिष्टचैतन्येनैक्यासम्भवादैक्यसि यर्थे स्वरूपे जहदजहल्लक्षणेति साम्प्रदायिकाः ।
नन्वनयोरैक्ये किं मानम् ? न च नामार्थेति व्युत्पत्तिः । तस्याः किं नामार्थयोरेवाभेदान्वय उत नामार्थयोरभेद एवेति ? नाद्यः 'स्तोकं पचति 'वैश्वदेवी आमिक्षा' इत्यादौ व्यभिचारात् । नान्त्यः, घटपटै । इत्यादौ व्यभिचारात् । तस्मात्सम्भवति सामानाधिकरण्ये वैयधिकर ण्यमन्याय्यमिति लाघवमूलको हि सः ।
सत्यम् । “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इति भेदनिन्दा पूर्व कामेदप्रतिपादकश्रुतिर्मानम् । न च तत्रापि यः नाना इव पश्यति स मृत्योर्मृत्युमाप्नोति, यस्तु वस्तुतः नानात्वं पश्यति स नेतीतीवशब्दात्प्रतीयमानार्थेन भेदस्यैव प्रतीतिः, किञ्च राजपुरुष इत्यत्रेव तस्य त्वमिति षष्ठीसमासेनापि भेदस्यैव प्रतीतिः - इति वाच्यम्, न्दोग्येऽपि "सदेव सौम्येदमग्र आसीत्" इत्यारस्य "तत्सत्यं स आत्मा तस्वमसि श्वेतकेतो" इत्युपसंहारेणोपक्रमोपसंहारयोरेकरूपेण वेदतात्पर्यनिर्णायकेनैक्यस्य निर्णीतत्वात् "ब्रह्मतम्परादाद्योन्यत्रात्मनो ब्रह्म वेद" इति श्रुत्याऽपि ऐक्यावधारणात् । अस्मिन्पक्षे लाक्षणिकवाक्यस्फोटः ।
वस्तुतस्तु अयं वाचकवाक्यस्फोट एव । तथाहि, विशिष्टशक्त्यु. पस्थापितयोस्तस्त्वंपदार्थयोरभेदान्वयानुपपन्तावपि विशेष्ययोः श. क्त्युपस्थापितयोरभेदान्वये बाधकाभावः । यथा 'घटोऽनित्यः' इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहा नित्यस्वान्वयः । यद्वा, विशेष्ये एव शक्तिः, विशेषणं तूपलक्षणम् । अस्मिपक्षे न कोऽपि दोषः । यद्वा, यथा नानार्थग्पले संयोगादिनाऽभिषानियमनं तथाऽभेदान्वयानुरोधाद्विशेष्ये एवाभिधानियमनम् । अस्तु
छा
( १ ) लाघवाद् ध्वनिभिरेव स्फोटो व्यज्यते, वर्णाश्च न स्वीक्रियन्ते गौरनात्तदा खण्डो वर्णस्वीकारपक्षे च सखण्ड इति यावत् ।
Page #506
--------------------------------------------------------------------------
________________
वाक्यस्फोटनिरूपणम् ।
वा लक्षणा, सा च जहल्लक्षणा । तया च विशेषणांशत्यागमात्रं न तु विशेष्येऽपि तस्या उपयोगः, शक्त्यैव तदुपस्थितिसम्भवात् । एवं 'सोऽयं देवदत्तः' इत्यत्रापि । तथा च जहदजहल्लक्षणोदाहरणमसङ्गतमिति दिक् !
एवम् 'एको वृक्षः पञ्च नौका भवन्ति' इति वाक्ये सखण्डाखण्डत्वे पूर्ववदेव बोध्ये | अत्र तार्किकाः
गृह्णाति वाचकः सङ्खयां प्रकृतेर्विकृतेर्नहि ।
इति वचनात्प्रकृत्यर्थवृक्षगतमेकवचनमेव भूधातूत्तरं भवतीत्याहुः । तदयुक्तम्, गृह्णातीत्यस्य व्यन्तविषयत्वात् । यथा 'संघीभवन्ति ब्राह्मणाः' 'त्वद्भवाम्यई' 'मद्भवसि त्वम्' इत्यादौ वचनपुरुषयोः प्रकृ तिगतयोरेव दर्शनात् । ननु सङ्कोचे किं मानम् ? ' सुवर्णपिण्डः खदिराङ्गारसदृशे कुण्डले भवतः" इति भाष्यप्रयोग एव । उद्देश्यविधेयभावस्थले तु उद्देश्यगता सङ्ख्याऽऽख्यातप्रत्यये "शास्त्राणि चेत्प्रमाणं - स्युः" इत्यादिषु ।
पुनरपि वाक्यं द्विधा - काव्यात्मकमकाव्यात्मकं च । द्वितीयं तूक्तम् । आद्यन्तु " तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः कापि" इत्यनेन लक्षितम् । अत्र यावद्देोषाभावो वक्तुमशक्यः, असम्भवात् । यत्कि दोषाभावे अदोष्पदवैयर्थ्यम् । तस्मान्नञोऽल्प (१) त्वमर्थः 'अनुदरा कन्या' इतिवत् । अल्पत्वं च स्फुटप्रतीयमानदोषराहित्यम् ।
इदं काव्यलक्षणं रसगङ्गाधरे दूषितम्, शब्दार्थयोर्व्यासज्यवृत्तिकाव्यवे 'काव्यं श्रुतमर्थो न ज्ञातः' इति व्यवहारासम्भवात् । तदसमञ्जसम्, एकदेशे दग्धेऽपि 'पटो दग्धः' इतिवदेकदेशेऽपि प्रयोगसम्भवात् "समुदायवृत्ताः शब्दाः क्वचिदेकदेशेऽपि वर्तन्ते " इति भाष्यात् ।
a
तल्लक्षणमेव तु न समञ्जसम् । तथाहि, रमणीयार्थप्रतिपादकशव्दः काव्यम् । रमणीयत्वं च लोकोत्तराल्हादजनक ज्ञानविषयत्वमिति तल्लक्षणम् । इदञ्च 'तत्त्वमसि' इत्यादावतिव्याप्तम् । न चाल्हादे वैजात्यम् । किन्ततः ? लोकोत्तराल्हादजनकज्ञानविषयत्वस्योभयत्र तुल्य. त्वात् ब्रह्मानन्दत्वेन सर्वैर्वर्णितत्वाच्च । किञ्च रमणीयपदस्य रमणीयार्थप्रतिपादकत्वमस्ति न वा ? नाद्यः, रमणीयशब्दस्यापि रमणीया. प्रतिपादकशब्दत्वेन काव्यत्वापत्तेः । इदं च भाष्ये " अपशब्दार्थकः शब्दो ऽशब्द इति चेन्न, अपशब्दस्यापि अपशब्दत्वापत्तेः" इत्यनेन ( १ ) तः सादृश्यमभावश्च तदन्यत्वं तदल्पता । अमाशस्त्यं विशेष नजः षद् कोर्तिताः ॥ इत्युक्तेः
Page #507
--------------------------------------------------------------------------
________________
१४
स्फोटचन्द्रिकायां
ध्वनितम् । नान्त्यः, रमणीयार्थप्रतिपादकत्वाभावे लक्षणत्वानुपपतेः । तस्मात्प्रकाशोक्तमेव लक्षणं सम्यक् ।
एवं 'वन्हिना सिञ्चति' इति वाक्यस्फोट एव । नतु वाक्यार्थयोधेsयोग्यतानिश्चयस्य प्रतिबन्धकत्वं योग्यताज्ञानस्य कारणत्वं तार्किकादिसिद्धान्तसिद्धं, प्रकृते च वन्हिः सेककरणं नेति विषयवाधरूप15योग्यतानिश्चयरूपबाधक सत्त्वाद्विषयाबाधरूप योग्यताञ्चाना सत्वात्कथमेतस्य वाक्यस्फोटत्वमिति चेत् ? सत्यम्, वात्पर्यविषयाबाधो हि योग्यता । तदभावोऽयोग्यता । प्रकृते चात्युष्णलेन सिजतीति तात्पर्यविषयः । यथा
अस्य क्षोणिपतेः परार्द्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरर्वेक्षमाणबधिरप्रक्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरात् मूकानां प्रकरेण वर्मरमणी दुग्धोदधे रोधासे ॥ गगनं गगनाकारं सागराः सागरोपमाः ।
रामरावणयेोर्युद्धं रामरावणयोरिव ॥ कैलासस्य प्रथमशिखरे वेणुसंमूर्च्छनाभिः श्रुत्वा कीर्ति विबुधरमणीगीयमानां यदीयाम् । नस्तापाङ्गासरसबिसिनीकाण्ड सञ्जातशङ्का
दिमातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥ पश्य नीलोत्पलद्वन्द्वात्रिः सरन्ति शिताः शराः । इत्याद्यालङ्कारिकवाक्येषु 'गङ्गायां घोषः' इत्यादी 'तत्त्वमसि' इत्या' दौ च तात्पर्यविषयाबाधो योग्यत्वमिति सर्वसिद्धान्तः, तथाऽत्रापि । यद्वा, शाब्दबोधे ऽयोग्यतानिश्चयस्य न प्रतिबन्धकत्वं तत्सत्त्वेऽपि 'त्वं बृहस्पतिः' इति स्तावकवाक्यात्सन्तोषोपलब्धेः 'नाहं रण्डापुत्रः' इति बाधनिश्वये सत्यपि त्वं रण्डापुत्रः' इति वाक्यात् क्रोधोपलब्धेश्व; शाब्दबोधाभावे एतदनुपपत्तेः । किञ्च पश्य नीलोत्पलद्वन्द्वात्' इत्या दिसाध्यवसानादिलक्षणास्थले शरा नीलोत्पलद्वन्द्वोपादानका नेत्ययोग्यतानिश्वये सति तद्वाक्यश्रवणानन्तरं वाक्यीयबोधोत्तरमयो. ग्यतानिश्चयः पूर्वे वा ? नाद्यः, बाधनिश्वये सति बोधाभाषात् । नान्त्यः, बोधाभावेऽन्वयानुपपत्तेरभावात् । न हि स्वरूपसती अन्वयानुपपत्तिलक्षणा बीजम्, किन्तु ज्ञाता । न च पूर्वमयोग्यतानिश्चय सत्वेन तज्ज्ञानमप्यस्त्येवेति वाच्यम, वाक्यार्थबोधजन्यान्वयानुपपत्तिज्ञानस्व पूर्वमभावात् । गङ्गा घोषाधिकरणं नेति लाकिकज्ञानसत्वे 'गङ्गा
·
Page #508
--------------------------------------------------------------------------
________________
पाक्यस्फोटनिरूपणम् ।
पां घोषः' इति वाक्यानाधिकरणको घोष इति बोधोतरमन्वयानुप. पतिहि अनुभवलिया। न च तस्याः पूर्व शानं सम्भवति । न च भ्रमात्मको पोष इति तार्किकोक्तं युक्तिमत् , अयोग्यतानिश्चयस्य प्रतिबन्धकत्वं योग्यताक्षानस्य कारणत्वं प्रकल्पनीयम , भ्रमात्मको पोषध कल्पनीय इति महौरवम् । म्फोटवादिनां त्रितयमपि न क. व्यमिति लाघवम् ; वाक्यार्थबोधजन्यप्रवृत्तावेव तत्स्वीकारात् । किशना परमेश्वरः' इति बाधनिश्चये सति 'तत्त्वमसि' इति वाक्या. दोधाभाषे भ्रमात्मकबोधे वा न प्रमात्मकं शान सम्भवति, भ्रमात्मक बोधस्य प्रमात्मकबोधजननायोग्यत्वात् । एवं 'दशमस्त्वमसि' इत्यत्रापि ।
ननु अनेकवर्णातिरिक्तोऽनेकध्वनिव्यङ्योऽस्खण्डवाक्यस्फोटः कः पदार्थ इति चेत् ? शृणु । यथा तार्किकैः पूर्वोक्तमद्रीत्या गत्यन्तरस. म्भवेऽपि चित्ररूपमतिरिक्तं स्वीक्रियते, यथा शाब्दिकैः रेफद्धयाज्मा. गविशिष्ट एको वर्णः "ऋति ऋवा लति लवा" इत्यत्र वार्चिके स्वी. क्रियते, यथा वा "सिद्धमेतत् सस्थानत्वादैचोश्चोत्तरभ्यस्त्वात" इति. पालिकेऽनेकाचामेकवर्णात्मकत्वमुक्तं तथा मयापि अनेकध्वनिव्यङ्ग्यावा. क्यात्मक एको वर्ण इति स्वीक्रियते । स च शब्दब्रह्मरूपः । तत्र मतत्रयम्
शब्दब्रह्मेति शब्दार्थः शब्दमित्यपरे जगुः ।
चैतन्येसर्वभूतानां शब्दब्रह्मेति मे मतिः ॥ इति । शब्दब्रह्मेतिनिर्वचनेनापि तस्य वर्णवं सिद्धम् । अनुमानादपि । तथाहि, अखण्डवाक्यस्फोटः एकवर्णरूपः, श्रावणत्वात् ध्वनिव्यथा स्वाद्वा, यवं तवं, यथा पृथिव्यादि । अन्वयदृष्टान्तस्तु मतान्तरसि.
वर्णादि । ___ वस्तुतस्तु अन्धयव्यतिरेक्यनुमानं व्यर्थम् , उपनीतभानेनैव गतायत्वात् । तथाहि, यथा चन्दनखण्डस्य लौकिकप्रत्यक्षं सौरभ्यस्यालीकिकं, तथा धूमस्य लौकिकं वन्हेरलौकिकमिति । अस्मिन्पक्षे उपनीत. भानमिति विवेकः । यद्वा लाघवाहोषाभावाद् ध्वनिव्यङ्गयस्यान्यस्याभा. वाश्च वर्णत्वस्वीकारः। न च ध्वनिव्यङ्ग्यस्य गुणीभूतव्यङ्ग्यप्रभेदे का. काक्षिप्तस्यापि अन्यस्य सम्भव इति वाच्यम् , तस्य ध्वनिविकारका कुव्यत्यत्वेऽपि ध्वनिव्यङ्ग्यत्वाभावात् ।
किञ्च "कामः सङ्कल्पो विचिकित्साश्रद्धाऽश्रद्धा भीः ह्रीः इत्येत. सर्व मन एवं" इति श्रुत्या कामादीनां मनोधर्मत्वे प्रतिपादितेपि ता.
Page #509
--------------------------------------------------------------------------
________________
स्फोटचन्द्रिकायां
र्किकैरात्मधर्मत्वमुक्तम् । तश्च सर्वैरप्यङ्गीकृतम् । तन्तु भ्रमात्मकम् । तद्वीजं तु यथा जपाकुसुमसन्निधाने स्फटिको लोहित इति ज्ञानम् । प्रकृते तु मनः सान्निध्यम् आत्मधर्मे बीजं श्रुतिबाधश्च | स्फोटे तु न तथा । तस्मादेकवर्णात्मकोऽखण्डवाक्यस्फोटो वाचक इति सिद्धम् ॥
१६
इति श्रीमन्मौनिकुलतिलकाय मान गोवर्द्धन भट्टात्मज जानकीजानिरघुनाथ भट्टात्मजश्रीकृष्णकृत स्फोटचन्द्रिका सम्पूर्णा ।
Page #510
--------------------------------------------------------------------------
_