SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रत्ययाधिकारे नामधातुप्रकरणम्। ३३७ णयति व्यञ्जनमिति सापेक्षेभ्योऽपि णिजर्थमिदम् । हलिकल्योस्त्वत्व निपातार्थम् । तथा च वार्तिकम-- __ हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति । तथाहि, 'हलिइ' 'कलिह' इति स्थिते"अचो णिति (पासू०७-२-११५)इति वृद्धिः प्राप्नोति, णाविष्ठवदिति टिलोपश्च । तत्र लोपः शब्दान्तरप्राप्त्या अ. नित्यः, वृद्धिस्तु टिलोपे सत्यप्राप्तः । उभयोरनित्ययोः परत्वाद् वृद्धौ कृतायां ऐकारस्य आयादेशात्पूर्वमेव परत्वात् वार्णादाङ्गस्य बलीय. स्त्वाच्च लोपेऽनग्लोप्ययम्भवतीति "सन्वल्लघुनि" (पा.सु०७-४-९३) इति सम्वद्भावः स्याद् "दी?" (पासु०७-४-९४) इति दीर्घश्व । न च टिलोपस्य "अचः परस्मिन्" (पासू०७-१-५७) इतिस्थानिषद्भावात्तेन व्यवधानान्न दोष इति वाच्यम्, चपरे णौ यदनं तस्य योऽभ्यासो लघुपरः तस्य सन्वत् लघोर्दीघश्चति हरदमादिभिः पुरस्कृते कैय. टेनकायमततयोपन्यस्ते व्याख्याने स्थानिवद्भावस्याकिश्चित्कर. त्वात् । चपरे णो यल्लघु तत्र परतो योऽभ्यासः तस्येति भाज्यकै. यटमतेऽपि अभ्यासस्य टिलोपाद्यनन्तरं जातत्वेन (१)आदिष्टादचः पूर्वत्वेन स्थानिवत्याप्रसङ्गात । अत्वनिपातने तु यद्यपि परत्वाद् वृद्धिस्त. थापि अगेष लुप्यत इति सम्वद्भावदी! न भवतः। एवं च बलिपटुः प्रभृतिभ्यो णिचि अबीबलत अपीपटत् इति भवति न तु अबबलत् अपपटत् इति। स्यादेतत, "णौ चङि' (पा०स०७-४-१) इत्यत्रत्यभाष्येण स. हैतद्विरुध्यते । तत्र हि वृद्धोपो बलीयानिति स्थितम् । युक्तं चैतत, शब्दान्तरप्राप्ती सत्यामपि कृताकृतप्रसङ्गित्वमात्रेण कचिनित्यत्वाम्युः पगमात् । यदाह-भुवोवुकोनित्यत्वादित्यादीति. सापकं चात्र "नाग्लोपिशास्" (पासू०७-४-२) इति सूत्रे अगिति प्रत्याहारग्रहणम् । त. थाहि, अवर्णान्तेष्ववर्णोपधेषु वर्णान्तेषु च वृद्धावण्यवर्ण एव लुप्यते । तत्र अलोपिनां नेत्येव वाच्यम् । स्वर्णोंवर्णान्तयोस्तु वृद्धौ कृतायामौ. कारो लुप्यते न त्वक् । न च स्वामिनमाख्यत् असस्वामत्, गोमिनमा. ख्यत् अजुगोमत,प्रादुराख्यत् अपप्रादत्, यादृशमाख्यत् अययावत्, ता. दृशमाख्यत् अततादत् इत्यादौ यत्र वृद्धरप्रसङ्गादिको लोपस्तत्र हस्वनि. वृत्तये अग्ग्रहणमिति वाच्यम , अनभिधानात्तत्र णिच एवानुत्पत्तेः। (१) आदिष्टादचः पूर्वत्वेन दृष्स्य विधौ कर्तव्ये विहितस्य स्था. निवत्वस्याप्रसङ्गादित्यर्थः । शब्द. द्वितीय. 22.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy