SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके एतच्च भाष्यकारेण ज्ञापकत्वस्य समर्थनादवसीयते । न चैवमपि स्रग्विणमाख्यद् असस्रजत् इत्यत्र विन्मतोर्लुकि उपधाया वृद्धौ इस्व निवृत्त्यर्थे अग्लोपग्रहणं स्यात्, अस्ति ह्यत्राभिधानम् "टेः" इत्यत्र भाष्ये 'नजयति' इत्युदाहरणादिति वाच्यम्, एवमपि स्रजयतीत्यत्र वृद्ध्यभावस्य सिद्धान्तसम्मतत्वेनं टेरित्यत्र भाष्यकारेण स्रजयतीति निर्देशात् "अङ्गवृत्ते" (प०मा०९४) इति परिभाषया वा वृद्धेरप्रसङ्गेन ह्रस्वभा विन्या उपधाया एव अभावात् । अतः प्रत्याहारग्रहणं ज्ञापकं वृद्धेः पूर्व टिलोप इति । तत्कथमिहोच्यते वृद्धौ सत्यां टिलोप इतीति चेत् ? अत्र माधवः परत्वाद् वृद्धिरिति मुख्यः पक्षः, वृद्धेर्लोपो बलीयानिति तु प्रौढिवादमात्रमित्येकं मतम् । तद्विपरीतं मतान्तरम् । भास्यद्वयप्रामाण्याद् वृद्धेः पूर्वं पश्चाद्वा कामचारेण टिलोप इति अपपटल अपीपटदिति रूपद्वयमपि साध्विति चापरं मतमिति मतत्रयमपि सुब्धातुवृत्तावुपनिबद्धवान् । तत्राद्यं मतं हरदत्तस्य, द्वितीयं कैयटस्य, तृतीयं त्वन्येषामिति विवेकः । एतद्बलाबलचिन्ता तु करिष्यते । अयं च भेदो णिभिन्नविषयः, णेर्णिचि तु ण्यल्लोपाविति विप्रतिषेधात् निष्कत्यापवादत्वाद्वा प्रागेव णिलोपः । उपधाह्रस्वत्वे सन्वद्भावदी. योश्च णि चीत्युपसंख्यानाण्ण्याकृतिनिर्देशाद्वा अधीषदादित्येव रूपमिति सप्तमे वक्ष्यामः । I प्रकृतमनुसरामः । मुण्डादिसूत्रे केषांचिग्रहणं प्रपञ्चार्थम् । मुण्डादयः सर्वेऽपि "सत्यापपाश" ( पा०सु०३-१-२५) इत्यत्रैव पठितुं युक्ताः । एवं हि एकवाक्यता लभ्यते । द्विर्णिज्ग्रहणं च न कर्तव्यमिति लाघवम् । तथा तु न कृतमित्येव । धातोरेकाचा हलादेः क्रियासमभिहारे यङ् (पा०सू०३-१-२२) ॥ एकाच् हलादिः समभिहियमाणक्रियावृत्तियों धातुः तस्मात्स्वार्थे यङ् स्यात् । समभिहारोऽत्र पौनःपुन्यं भृशार्थो वा । यद्यपि विप्रकीर्णानामेकत्र राशीकरणं समभिहारशब्दस्य मुख्योऽर्थः तथाप्यसौ धान्यादीना. मेव सम्भवति, न तु धातुवाच्यावाः क्रियायाः, अमृतत्वात् । अतो गौणोऽर्थो गृह्यते । स च न प्रत्ययस्य वाच्यः, प्रकृत्यर्थे प्रति विशेष्यतापतेः, किन्तु द्योत्योऽर्थः । अत एव टाबादयस्तरबादयश्च स्वार्थिका एवेति निरूढः पन्थाः । यदा तु प्रकृत्यर्थप्राधान्यमात्सर्गिकम् आख्यात वटावादिष्वपि त्यज्यते तदा टाबादयो वाचका इत्यपि पक्षः सम्भ वत्येव । स्वीकृतश्चायं लिङ्गादिविधौ भाष्येऽपीति तत्रतत्र स्फुटम । पुनः पुनरतिशयेन वा पचति पापच्यते । “दीर्घोऽकितः' (पा०सु०७-४-८३)
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy