________________
शब्द कौस्तुभ प्रथमाध्यायचतुर्थपादे तृतीयान्हिके
भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता । तस्माद्गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ विकल्पेनैव सर्वत्र संज्ञे स्वातामुभे यदि । आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ इति ॥ अस्यार्थः-कर्म स्वाख्ययैव क्रियेप्सितत्वप्रयुक्त कर्मसंज्ञयैवोपचर्यते, व्यवहियते । न तु सम्प्रदानसंज्ञया गत्यर्थकर्मणि तु भेदाभेदौ द्वावपि विवक्ष्येते इति रूपद्वयसिद्धिः । व्यभिचारोऽतिप्रसङ्गस्तु न दृश्यते । विवक्षाया व्यवस्थितत्वादेव । एतदेव द्रढयति विकल्पेनेति । समं तु. ल्यफलकम् । तस्मात्सूत्रं प्रत्याचक्षाणस्य भगवतो विवक्षानियमोऽभि मतः । गत्यर्थेषु विवक्षाद्वयम् । 'पत्ये शेते' इत्यादौ तु भेदविवक्षैव । 'ओदनं पचति' इत्यादावभेदविवक्षैव । चेष्टायामनध्वनीत्येतत्प्रत्युदाहरणयोरपि अभेदविवक्षैत्र । 'मनसा हरिं व्रजति' अध्वानं गच्छति' इति त्रिधा चेदम् | यदाह
१२२
अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम् ॥ इति ।
अनिराकर्तृ यथा-सूर्यायार्ध्यं ददाति । नात्र सूर्यः प्रार्थयते, न वानुमन्यते, न च निराकरोति । प्रेरकं यथा - विप्राय गां ददाति । अनुमन्तृ यथा - उपाध्यायाय गां ददाति । ननु दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थी सिद्धैव तत्किं सम्प्रदानसंज्ञया ? मैवम्, दानक्रियार्थे हि सम्प्रदानं न तु दानक्रिया तदर्था, कारकाणां क्रियार्थत्वात् । सम्प्रदानार्थ तु दीयमानं कर्मेति वाक्यार्थभूतापादनक्रियाया अतादर्थ्यांसादर्थचतुर्थ्या अप्राप्तौ संज्ञारम्भादिति हेलाराजः । तदेतत्सूचितम् – श्यागाङ्गं कर्मणेप्सितमिति । कर्मसम्प्रदानयोः करणकर्मत्वे वाच्ये । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । एतच्च वचनं उक्तोदाहरणमात्र. विषयम् । अत एव सुळ्यत्ययेन सिद्धत्वात्प्रत्याख्यायते । लोके तु यजेः पूजार्थत्वात्पशोः करणत्वं सिद्धम् ।
सम्प्रदानं स्यात् ।
रुच्यर्थानां प्रीयमाणः (अष्टा०सू०१-४-३३) । देवदत्ताय रोचने स्वदत्ते मोदकः । अत्राह हरिःदेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् । रुच्यर्थादिषु शास्त्रेण सम्प्रदानाख्यमुच्यते ॥ अस्यार्थः-अन्यसमवेतोऽभिलाषो रुच्यर्थः । रोचते । अभिलाषविषयो भवतीत्यवगमात् । विषयीभवन्तं मोदकं देवदत्तः प्रयुङ्क्ते । लौव्यात्तदानुगुण्यमाचरनीति देवदत्तस्य हेतुसंज्ञायां प्राप्तायां सम्प्रदान