________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२१
मिति । तेनेह न-रजकस्य वस्त्रं ददाति । इनतः पृष्ठं ददाति । इह हि ददातिौणः न तु वास्तवं दानमस्तीत्याहुः । __भाष्ये तु नैतत्स्वीकृतं 'खण्डिकोपाध्यायस्तस्मै चपेटां ददाति' 'न शुद्राय मतिं दद्यात्' इत्यादिप्रयोगात् । 'रजकस्य ददाति' इति तु शेषत्वविवक्षायां बोध्यम् । नन्वेवम् 'अजान्नयति ग्रामम्' इति नयतिक्रियाकर्मभिरजैः सम्बध्यमानस्य ग्रामस्य सम्प्रदानत्वं स्यादिति चेत् ? न, यमभिप्रेतीत्युक्त्या हि यमिति निर्दिष्टस्य गवादेः शेषत्वं च प्रतीयते । यथा कभिप्राये क्रियाफले इति कर्तुः शषित्वं क्रियाफलस्य शेषत्वं च। न चेह ग्रामं प्रत्यजा शेषभूता । तथा च प्रयोजकलक्षणे प्रासनवन्मैत्रावरुणाय दण्डप्रदानमित्याधिकरणे "कीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति" इति दण्डदानं न प्रतिपत्तिः, किन्तु द्वितीयापेक्षया बलीय. स्या चतुर्थीश्रुत्याऽर्थकर्मत्युक्तम् । अत्र वार्तिकं-क्रियाग्रहणं कर्तव्यम् । पत्ये शेते । भाष्यकारास्तु सन्दर्शनप्रार्थनाध्यवसायैराप्यमानत्वारिका यापि कृत्रिमं कर्म । तथा च सूत्रेणैव सिद्धम् । प्रतीयमानक्रियापेक्षोपि हि कारकभावो भवत्येव । प्रविशपिण्डीमिति वत् । सूत्रकारश्चाह "क्रि. यार्थोपपदस्य च कर्मणि स्थानिनः" (अष्टा०सू०२-३-१४) इति । न चैवमप्यददातिकर्मत्वात क्रियाग्रहणं कर्त्तव्यमेवेति वाच्यम्, भाज्ये अन्वर्थसंज्ञात्वास्वीकारात्। नन्वेवं 'कटङ्करोति' इत्यादावपि सम्प्रदानत्वं स्यात् । वचनबलाच्च कर्मसम्प्रदानत्वयोः पर्यायप्रसङ्गः । अत्राहु:-नेदं वार्तिकं सार्वत्रिकम, किन्तु प्रयोगानुसारानियतविषयं, धातूपात्तफ. लानाधार एव प्रवृत्तेः। भाग्यमते तु यत्र सम्प्रदानत्वमिष्टं तत्र सन्दर्श. नादीनां क्रियायाश्च भेदो विवक्ष्यते । ततश्च तैराप्यमाना क्रियापि कृत्रिम कर्मेति सिद्धं तयाऽभिप्रेयमाणस्य सम्प्रदानत्वम् । यत्र तन्नेष्टं तत्र भेदो न विवक्ष्यते । ततश्चोत्पत्तिविक्लित्यायेकफलावच्छेदेनैकीकृतया क्रियया व्याप्यमानस्य कर्मत्वमेव भविष्यति । 'कटङ्करोति' 'ओदनं पचति' इति । गत्यर्थेषु तु भेदोऽभेदश्चेत्युभयं विवक्ष्यते । तत्र भेदविवक्षायां 'प्रामाय गच्छति' इति प्रयोगः । अभेदविवक्षायान्तु 'ग्रामं गच्छति' इति । तथाच “गत्यर्थकर्मणि" (अष्टासु०२-३-१२) इति सूत्रे प्रत्या. ख्यास्यते। उक्तंच हरिणा
भेदस्य च विवक्षायां पूर्वी पूर्वी क्रियां प्रति । परस्याङ्गस्य कर्मत्वात्तक्रियाग्रहणं कृतम् ॥ क्रियाणां समुदाये तु पदैकत्वं विवक्षितम् । तदा कर्मक्रियायोगात्स्वाख्ययैवोपचर्यते ॥