________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
हल: किम् ? चेषीष्ट, अचेट | झल् किम् ? वर्त्तिषीष्ट, अवर्त्तिष्ट ।
I
उश्च (अष्टा०सू०१-२-१२) । ऋवर्णात्परौ झलादी लिङसिचौ कितौ स्तस्तङि । ऋषोष्ट, अकृत । झलादौ किम् ? वरिषीष्ट अवरिष्ट । "लिसित्रोः” (अष्टा०सू०७-२-४२ ) इतीट् । तङि किम् ? अकार्षीत् । ऋ इति वर्णग्रहणं व्याप्तिन्यायात् ।
वा गमः (अष्टा०सू०१-२-१३) | गमः परौ झलादी लिसिचौ वा कितौ स्तः । सङ्गसीष्ट, सङ्ग सीष्ट । समगत, समगंस्त कित्त्वपक्षे "अनुदात्तोपदेशवनति" (अष्टा०स०६-४-३७) इत्यादिनाऽनुनासिकलोपः ।
हनः सिच् (अप्रा०सू० १ - २ - १४) । हन्तेः परः सिच् कित्स्यात् । अहित, आहसाताम्, आहसत । सिचः कित्त्वादनुनासिकलोपः । वद्यपिसिजन्तस्याङ्गस्यात्मनेपदं डिलरमस्तीति “अनिदिताम" (अष्टा०सू० ६-४-२४) इत्येव सिद्धं तथाऽपि सिजन्तस्योपधालोपो नेति ज्ञापनार्थमिदम् । तेन 'अमंस्त' इत्यादि सिद्धम् । न च " अनिदिताम् ” (अप्रा०सू०६-४-२४) इति पर्युदासः शङ्क्यः, सिच इकारस्योच्चार णार्थत्वात् । अन्यथा नुमापत्तेः । न च धातुग्रहणेन तद्व्युदासः । "धातुग्रहणमुपदेशे नुम्प्रवृत्यर्थम्” इति कुण्डा, हुण्डा इत्यादिसिद्धये भाष्य एव वक्ष्यमाणत्वात् । न च तासेर्व्यावृत्तये तत्, तत्रापीकारस्योच्चारणार्थत्वात् । न चैवं 'मन्ता' 'हन्ता' इत्यादावात्मनेपदे उपधालोपापत्तिः । आभीयस्य तासेटिलोपस्यासिडत्वात् । "आभात्" (अष्टा० सू०६.४ २२ । सनप्रत्याख्यानपक्षे तु विकरणप्रयुक्तमुपधात्वमाश्रित्य लोपा नेति सामान्यापेक्षं ज्ञापकमस्तु | अङ्गवृत्त परिभाषया वा 'मन्ता' 'हन्त।' इति साध्यताम् । ननु 'आहत' इत्यत्रातो लो (१) पं व्यावर्तयितुं समानाश्रयत्वप्रयुक्ताऽसिद्धताऽपश्यते सा व सिनः कित्त्वं विना न निर्वहतीति कथं ज्ञापकतेति चेत् ? न, आर्धधातुकापदेशे यदकारान्तमिति व्याख्यानादेव लोपाप्रवृत्तेः । जयादित्यस्तु सिच्नास्योरिदित्करणमनुनासिकलोपप्रतिषेधार्थमित्याह । तन्मते धातुग्रहणस्य कृतार्थत्वात् ' नुम्विधावुपदेशिवद्वचनं प्रत्ययसिद्ध्यर्थम्" इति वचनमेव शरणीकरणीयमिति दिक् । यद्यपीह "लिसिचौ” (अष्टा०सु०१-२-११) इत्यनुवृत्त्या सिद्धं तथाप्युत्तरार्थमवश्यं कर्तव्यं सिज्ग्रहणं स्पष्टत्वार्थमिहैव कृतम् | अन्यथा हि लिङि वधादेशो नित्यः, 'घानिषीष्ट' इति चिणवदिटि " स्थानिवत्" (अष्टा०सू०१-१-५६) सूत्रोक्तरीत्या वधादेशाभावेsपि अझलादित्वान्न कित्त्वमित्यादि व्युत्पादनीयं स्यात् ।
तयावृत्त्या
(१) "अतो लोपः” ( अष्टा०सू०६-४-४८ ) इत्येतमित्यर्थः ।