________________
१५२
शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिके
द्विष्णुम् । अन्ववसर्गः कामचारानुशा । अपिसिञ्च । अपिस्तुहि । गयाम्- धिग्देवदत्तमपिस्तुयादृषलम् । समुश्च ये अपिसिश्च । अपिस्तु हि । सिश्च च स्तुहि चेत्यर्थः । यथायथम " उपसर्गप्रादुर्भ्याम्" (अष्टा० सु०८-३-८७) इति "उपसर्गात्सुनोति" (अष्टा०सू०८-३-६५) इति च प्राप्तं षत्वं कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधितत्वान्न भवति ।
अधिरीश्वरे (अष्टा०सु०१-४-९७ ) | स्वस्वामिभावे द्योत्येऽधिः कर्मप्रवचनीयः स्यात् । इह स्वात्स्वामिनो वा पर्यायेण कर्मप्रवचनीय विभक्तिर्न तु "हीने" (अष्टा०सु०१-४-८६) "उपोऽधिके च" (अष्टा०सू० १-४-८७) इत्यत्रेवान्यतरस्मादेव । अधिभुवि रामः । अधिरामे भूः । एतश्च संज्ञासूत्रं नारम्भणीयम् । उत्तरार्थत्वे तु योगो न विभजनीय इति “यस्मादधिकम्” (अष्टा०सू०२-३-९) इत्यत्र वक्ष्यामः ।
विभाषा कृषि (अष्टा०सू०१-४-९८) । अधिः करोतो प्राक्संज्ञो वा स्यात् । ईश्वर इत्यनुवर्तते । प्राप्तविभाषेयम् । यदत्र मामधिकरिष्यति । विनियोश्यते इत्यर्थः । इद्द विनियोक्तुरीश्वरत्वं गम्यते । कर्मत्वाद् द्वितीया । इह "तिङि चोदात्तवति' (अष्टा०सू०८-१-७१ ) इति निघातो न, गतिसंज्ञाया बाधितत्वात् । किञ्च 'मामधिकृत्वा' इत्यत्र प्रादिसमासो न, कर्मप्रवचनीयानां प्रतिषेध इत्युक्तेः । पक्षे 'अधिकृत्य' इति बोध्यम् ।
लः परस्मैपदम् (अष्टा०सू०१ - ४ - ९९ ) । लकारस्यादेशाः परस्मैपद संज्ञाः स्युः । पचन्तं पश्य ।
तङानावात्मनेपदम् (अष्टा०सू०१-४-१००) । तङ्प्रत्याहारो लादे शावानौ च तत्संज्ञाः स्युः । पूर्वसंज्ञापवादः । आस्ते । आसीनः । चक्रा· णः । शानच्कानचोरेवेह ग्रहणं लादेशत्वात्ः, न तु शानन्चानशोः । तेन पूयजो: शानन् यजेरकर्तृगेपि फले भवति 'रसमानसारसेन' इत्यादौ परस्मैपदिभ्योऽपि चानश् भवति |
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (अष्टा०सू०१-४-१०१) । कृतद्वद्वानामेकशेषात् प्रथमेत्यादयः षट् संज्ञाः तिङः षट् त्रिकाः क्रमात्प्रथ. मादिसंज्ञः स्युः । शतृक्कस्वोः सावकाशाऽपि परस्मैपदसंज्ञा प्रथमादि • संज्ञाभिर्न बाध्यते "सिचिवृद्धिः परस्मैपदेषु” (अष्टा०सु०७-२-१) इति लिङ्गात् । तथा परस्मैपदे लब्धावकाशाऽपि प्रथमादिसंज्ञा तवात्मनेपदसंज्ञया न बाध्यते कृतद्वन्द्वानामेकशेषेण तङ्क्षु प्रतिपदविधेरुक्तत्वात् । न चैवमपि परस्मैपदात्मनेपदसंज्ञाभ्यां पुरुषसंज्ञायाः पर्यायः स्यादिति वाच्यम्, "णलुत्तमोवा' (अष्टा०सू०७ - १ - २१) इत्यस्य सा मान्यापेक्षज्ञापकत्वात् । इह सूत्रत्रयेऽपि महासंज्ञाकरणं पूर्वाचार्यानु