________________
विधिशेषप्रकरणे पुरुषनियमप्रकरणम् ।
१५३
लेधात् । इह त्रीणित्रीणीत्येकं पदम् । द्वे वेति हरदत्तः । तत्र सत्यामप्यवान्तरपदसंज्ञायां महापदसंज्ञामाश्रित्य "संहितैकपदे नि त्या" इत्यस्य प्रवृत्तेः । अन्यथा समासादावपि पृथक् छेदापत्तेः द्विरुकमध्ये पदान्तरप्रयोगापत्तेश्च । अत एव 'ताता पिण्डानाम्' इत्यादौ वेदेवग्रहः क्रियते । यथा च द्विरुक्ते महापदसंज्ञाऽवान्तरसंज्ञा च तथा "नित्यवीप्सयोः " (अष्टा०सू०८-१-४) इत्यत्र वक्ष्यामः ।
तान्येकवचन द्विवचन बहुवचनान्येकशः (अष्टा०सू०१-४-१०२ ) । तानि लब्धपुरुषसंज्ञानि त्रीणि त्रीणि एकशः क्रमेण एकवचनादिसंज्ञानि स्युः । तानीत्युक्तिः समावेशार्था । अन्यथा पुरुषवचनसंज्ञयोः पर्यायः स्यात् । ततश्च “आडुत्तमस्य" (अष्टा०सू० ३-४-९२ ) इत्यादिकार्ये पक्षे न प्रवर्तेत । एकश इति प्रथमान्ताद्वीप्सायां शस् ।
सुपः (अष्टा०सू०१-४- १०३) । सुपस्त्रीणि त्रीणि क्रमादेकश उक्त संज्ञानि स्युः । इहान्वर्थतामाश्रित्य "ह्येकयोर्द्विवचनैकवचने" (अष्टा० सू०१-४-२२) “बहुषु बहुवचनम्" (अष्टा०सू०१-४-२३) इति शक्यं त्यक्तुम, एकवचनस्यात्सर्गिकत्वेऽपि उपसर्जन कर्मप्रवचनीयादिसंज्ञावद्यथासम्भवमन्वर्थतायाः सुवचत्वात् ।
विभक्तिश्च (अष्टा०सू०१-४-१०४) । सुप्तिङौ विभक्तिसंज्ञौ स्तः । चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः । तिङां विभक्तिसंज्ञायाः प्रयो जनं "न विभक्तौ तुस्माः" (अष्टा०सू०१-३-४) इति, सुपां तु त्यदाद्य त्वादिकमपि ।
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (अष्टा०सू०१४-१०५) । लकारेण समानाधिकरणे युष्मदि प्रयुक्तेऽप्रयुक्तेऽपि मध्यमः स्यात् । त्वं पचसि दृश्यसे च । समानाधिकरणे किम् ? त्वां पश्यति । त्वया दृश्यते । इह युष्मदि मध्यमोऽस्मद्युतम इत्येवास्तु युष्मद्यम्मदि च यो लकार इत्यर्थे सर्वसामञ्जम्यात् । यथा तु न कृतमित्येव । अत्वं त्वं भवति त्वद्भवतीत्यत्र तु न, मध्यमधिकृनेरकर्तृत्वात । प्रकृतिरेव हि विकाररूपापन्तौ कर्त्री । तथा च मन्त्रः "यदग्भेस्यामहं त्वं त्वंबाधःस्या अहम्" इति । अहं त्वं स्याम्, त्वं वा अहं स्या इति प्रकृत्याश्रय एवेह पुरुषः ।
स्यादेतत् । 'भवान् करोति' इत्यत्रापि स्थानिन्यपीति मध्यमः स्यात् । अत्राहुः । अलिङ्गः सम्बोधनैकविषयश्च युष्मदर्थः । सलिङ्गः सम्बोध्यासम्बोध्यसाधारणश्च भवदर्थ इति । न च युष्मदः सम्बोधनैकविषयत्वे ततः सम्बोधन एव प्रथमा स्यात् । ततश्च आमन्त्रिताद्युदासत्वं पदा