SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५४ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिकेत्परत्वेन निघातश्च स्यादिति वाच्यम् , सम्बोधनम्य प्रातिपदिकार्थ एवान्तर्भावात् । “सम्बोधने च" (अष्टा सु०२-३-४७) इति सूत्रं हि सम्बोधनाधिक्यार्थमिति वक्ष्यते । यत्तु केचिदिष्टापत्तिं कुर्वाणाः पठन्ति सम्बोधनार्थः सर्वत्र मध्यमे कैश्चिदिप्यते । तथा सम्बोधने सर्व प्रथमां युष्मदो विदुः॥ युष्मदर्थस्य सिद्धत्वानियता चायुदात्तता। युग्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ इति ॥ तन्न, उक्तन्यायविरोधात् लक्ष्यविरोधाच्च । दृश्यते हि पादादाव. प्यन्तोदात्तत्वं पदात्परत्वेऽप्यनिघातश्च । तद्यथा-युवं ह गर्भञ्जगती. षु धत्थः । यूयं यातस्वस्तिभिः । ह ये देवा यूयमिदापयः स्थ इति । प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच (अष्टा०सू०१-४-१०६)। मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात् परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् । द्वयोर्बहुषु च मन्तृषु एकवचनमेव स्यादिति फलिनोऽर्थः । एकवचे. त्यन्वाचये चकारः। तेनैकवद्भावाभावेऽपि प्रधानशिष्टौ मध्यमोत्तमो स्त एव । सत्यप्योदने परिहासशीला शालकादिः प्रतारयन्प्रयुड़ेएहि मन्ये ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिः । एतम एत वा मन्ये ओदनं भोक्ष्येथे भोयध्वे । ओदनं भोक्ष्ये भोक्ष्यावह इत्यादि, मन्यसे मन्येथे इत्यादिरर्थः । युष्मद्युपपदे इत्याद्यनुवर्तते । तेनेह न-एतु भवा. न्मन्यते ओदन भोक्ष्ये इति । श्यना निर्देशान्नेह-एहि मनुषे रथेन या. स्यामिति । प्रहासे किम् ? यधार्थकथने मा भूत-एहि मन्यसे ओदनं मोक्ष्य इति भुक्तः सोतिथिभिः । ___ अस्मद्युत्तमः (अष्टा०सू०१-४-१०७) । लकारसमानाधिकरणेऽस्म. दि स्थिते स्थानिन्यप्युत्तमः स्यात् । अहं पश्यामि दृश्ये वा । युष्मद. स्मद्भ्यां सामानाधिकरण्ये तु परत्वादुत्तम एव । अहं च त्वं च वृत्रह. स्वयुज्यावसनिभ्या। शेष प्रथमः (अष्टान्सू०१-४-१०८)। मध्यमोत्तमविषयादन्यत्र प्रथ. मपुरुषः स्यात् । पचति, पचतः, पचन्ति। परः सन्त्रिकर्षः संहिता (अष्टा०सू०१-४-१०९)। अतिशयितः स. निधिर्वर्णानां यः स संहितासंशः स्यात् । संशाप्रदेशाः “संहितायाम्। (अष्टा सू०६-१-७२) इत्यादयः । विरामोऽवसानम् (अष्टा सू०१-४-११०)। वर्णानामभावोऽवसा. नसंज्ञः स्यात् । संज्ञाप्रदेशा "वावसाने" (अष्टा सु०८-४-५६) इत्याद.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy