________________
विधिशेषप्रकरणे परिभाषाप्रकरणम्। १५५ यः । अभावस्यापि बुद्धिकृतं पौर्वापर्यमस्त्येव । यथोच्चरितप्रध्वंसिनां निस्यविभूनां वा वर्णानाम् । यद्वा, विरम्यतेऽनेनेति करणे घञ्, चरमव. र्णश्च संशी । अस्मिन्पक्षे "खरवसानयोः" इत्यकापि सप्तमी विषयभेदा. द्भिद्यते । खरि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति । अत्र वार्तिकम्-संहितावसानयोर्लोकविदितत्वात्सिद्धमिति । तथा च सूत्रद्वयं माऽस्वित्यर्थः। ॥ इति श्रीपदवाक्यप्रमाणपारावारपारीणस्य लक्ष्मीधरसूरेः सूनुना भट्टोजीभट्टेन कृते शब्दकौस्तुभे प्रथमस्या. ध्यायस्य चतुर्थे पादे चतुर्थमान्हिकम् ।।
॥ पादश्चाध्यायश्च समाप्तः ॥
॥ अथ द्वितीयाध्याय आरभ्यते । समर्थः पदविधिः (अष्टा०९०२-१-१) । पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः । परिभाषेयम् । समर्थशब्दस्य तदाश्रिते लक्ष णा । सामर्थ्य चैहैकार्थीभावः । प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृ. हीतस्य विशिष्टकार्थत्वमिति यावत । राजपुरुषः । पुत्रीयति । कुम्भकारः । औपगवः । इह "गुणः कृतात्मसंस्कार" इति न्यायन महाविभाषायाः सामर्थ्यविशेषणता । विकल्पनैकार्थीभूतं षष्ठयन्तं समस्यते इत्याद्यर्थात् । विशेषणबलादेव च व्यपेक्षापक्षोऽपि सम्मतः । वृत्ति. स्तु समासादिनियता । अत एव 'ऋद्धस्य' इति विशेषणं तत्र नान्वेति, शक्यैकदेशत्वात् । न हि श्वशुरशब्दजन्यप्रतीतो पितृविशेषणत्वेनोप. स्थितायां भार्यायां सुशीलाया इत्यादिविशेषणमन्वेति । न चैवं 'देव. दत्तस्य गुरुकुलम्' इत्यादावनन्वयापत्तिः, तत्रापि कुलेनैव देवदत्त. शब्दोत्तरषष्ठ्यर्थस्यान्वयात् । सम्बन्धस्तु उपस्थितगुरुद्वारक एव षष्ठ्यों न तु तदितरः । उक्तञ्च
समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वतासह ॥ इति । यद्वा, ससम्बन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः 'चैत्रस्य नप्ता' इत्यादौ तथा दर्शनात्, श्वशुरशब्दोपस्थितायां भार्यायां तत्पतेर्विशेषणत्वाच्च । तदंशे उत्थिताकासत्वात । उक्तञ्च
सम्बन्धिशब्द: सापेक्षो नित्यं सर्वः समस्यते । स्वार्थवत्सा व्यपक्षाऽस्य वृत्तावपि न हीयते ॥ इति । तस्मात्समाससुब्धानुकृत्तद्धितविशेषणे । न विशेषणसम्बन्धः सापेक्षे तु भवेदयम् ॥