________________
१५:०
शब्द कौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिके
त्येति किम् ? भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणमित्यपि न भ. वति । 'तुल्यमहान्' इत्यादौ तु परत्वादनेन " सन्महत्" (अष्टा०सू०२१-६१ ) इति बाध्यते । तस्य तु अकृत्यतुल्याख्या अवकाशः । कथं तर्हि "तस्य सत्कृत्यशालिनः" इति भट्टिः ? " सन्महत्" (अष्टा०सु०२-१६१) इत्यस्मात्परत्वादनेन समासे 'कृत्य सत्' इति स्यात् । सत्यम्, सतां कृत्यमिति षष्ठीसमासो बोध्यः । एवं 'परमपूज्यः' इत्यत्र ।
वर्णो वर्णेन (अष्टा०सू०२ - १-६९ ) । समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः । सारङ्गश्चित्रः । स चाकृष्णोऽपि सम्भवति । अतः कृष्णो विशेषणम् । न चासम्भवः, नानारूपसमाहारश्चित्रामित्यभ्युपगमात् । चित्रत्वं रूपत्वव्याप्यं नीलत्वादिविरुद्धं जात्यन्तरमेवेति पक्षे तु कृष्णावयवके कृष्णशब्दस्य लक्षणा बोध्या ।
स्यादेतत् । " तृतीया तत्कृता" (अष्टा०सू०२-१-३०) इतीह सिद्धम्, सारङ्गत्वस्य कृष्णादिकृतत्वात् । एवञ्च "वर्णो वर्णेषु " . ( अष्टा०सु०६२ - ३ ) इति पूर्वपदप्रकृतिस्वरोऽपि न विधेयः "तत्पुरुषे तुल्यार्थतृती या" (अष्टा०सु०६-२-२) इत्येव गतार्थत्वात् । मैवम, 'कृष्णशुक्लः' 'हरितशुक्ल' इत्याद्यर्थे समासस्यावश्यविधेयत्वात् । न हीह तत्कृतत्वमस्ति । तथा स्वरसूत्रमप्युभाभ्यां वक्तव्यम् । इह मा भूत् कृष्णैतः, लोहितैतः, इति । तथा चानेत इति निषेधार्थे विध्यर्थे वेति परं संशयः । तत्र कृष्णशुक्लादौ विध्यर्थमेवेति स्थितम् । प्रतिपदोकस्य समासस्य ग्रहणसम्भवात्स्वरसूत्रे " वर्णोनेत" इत्येवास्तु वर्णेष्विति न कर्तव्यमि ति तु तत्त्वम् । वस्तुतस्तु "वर्णो वर्णेषु" (अष्टा०सु०६ - २ - २) इति यथान्यासमस्तु । प्रकृतसूत्रमेव तु न कर्तव्यं “विशेषणं विशेष्येण' (अष्टा० सू०२-१-५७) इत्येव समासस्य सिद्धत्वादिति ध्येयम् ।
मत्वर्थीयचिकीर्षायां न कर्मधारय इति वक्तव्यम् || वीरपुरुषवान् ग्राम इति मा भूत् । तथाच प्रथमत एव मत्वर्थाविवक्षया बहुव्रीहिरेव भवति । न्यायसिद्धं चेदमिति भाष्यम् । बहुवीहिमात्रेण लभ्येऽर्थे मतु· बादेगौरवपराहतत्वात् । कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् ग्रामः इत्यादि तु भवत्येव कर्मधारयं विना जातिविशेषस्याप्रतीतेः । सर्वशब्दस्य त्वकारान्तैः कर्मधारय इष्यते । तस्माच्च ठनं बाधित्वेनिरेवेति वक्तव्यम् । सर्वधनी । सर्वबीजी । सर्वकेशी ।
1
9
कुमारः श्रमणादिभिः (अष्टा०सु०२-१-७० ) । पूर्वनिपातनियमार्थे सूत्रम् । येऽत्र स्त्रीलिङ्गाः पठ्यन्ते - श्रमण, प्रव्रजिता, कुलटा इत्येवमा दयस्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते । ये तु पुंल्लिङ्गा अध्या
I