________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१९१
पकादयस्तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । कुमारी श्रमणा कुमारभ्रमणा । श्रमणा । प्रव्रजिता । कुलटा । गर्भिणी । तापसी | दासी । बन्धकी । अध्यापक । अभिरूपक । पण्डित । पटु । मृदु | कुशल | चपल । निपुण ।
1
चतुष्पादो गर्भिण्या (अष्टा०सू०२-१-७१) । जातिरिति मण्डूकप्लु. त्यानुवर्तते चतुष्पाजातिवाचिनः सुबन्ता गर्भिणीशब्देन सह प्राग्वत् । गोगर्भिणी | अजगर्भिणी । जातिः किम् ? कालाक्षी गर्भिणी । चतुष्पाकिम् ? ब्राह्मणी गर्भिणी । गर्भिणीशब्दस्य परनिपातार्थे वचनम् । प्रत्युदाहरणे तु "विशेषणम्" (अष्टा०सु०२-१-५७) इति समासे पूर्वनिपातो बोध्यः ।
मयूरव्यंसकादयश्च (अष्टा०सु०२-१-७२) । एते समुदाया निपात्यन्ते 1 चकारोऽवधारणार्थः समासान्तरं व्यावर्तयति । व्यंसको धूर्तः । मयूर श्वासौ व्यंसकश्चेति विग्रहः । व्यंसकशब्दस्य गुणवचनत्वात्पूर्वनिपाते प्राप्ते वचनम् । एवं छात्रव्यंसकादीनां यवनमुण्डपर्यन्तानाम् ।
अन्ये त्वाहुः - मयूर इव व्यंसकः । छात्र इव व्यंसकः । कम्बोज इव मुण्डः । यवन इव मुण्डः । उपमानसमासोऽयम् । तत्र --" उपमानानि सामान्यवचनैः” ( अष्टा०सू०२-१-५५ ) इत्येव सिद्धे पुनर्विधानं " स्पुरुषे तुल्यार्थतृतीया" (अष्टा०सु०६-२-२ ) इति पूर्वपदप्रकृतिस्वरो मा भूदिति । स ह्युपमानसंशब्दनेन विहिते समासे विधीयते । मयूर - व्यंसकः । छात्रव्यंसकः । कम्बोजमुण्डः । यवनमुण्डः । पादगृह्य, हस्तगृह्य, लाङ्गूलगृह्य, पुनर्दाय, एते चत्वारश्च छन्दसि । यत्प्राक्षिणाः पितरं पादगृह्य | अग्निर्होता हस्तगृह्या निनाय । पुनर्दाय ब्रह्मजायाम् । पुनश्च नसौ छन्दसोति गतिसंज्ञा तु वार्तिककारोक्ता न तु मुत्रारूढेति गणकारेणेदं पठितम् ।
पीडादयोऽन्यपदार्थे (ग०सु० ) । एहीडेति यस्मिन्कर्मणि तदेहीडम् । एवम् एहियवम् । एहि वाणिजेति यस्यां क्रियायां सा एहिवा. णिजा । एवम् अपेहिवाणिजा । प्रेहिवाणिजा । एहि स्वागतमिति यस्यां क्रियायां सा एहिस्वागता । "ऊह वितर्के (स्वा०आ०६४१) लोण्मध्य मैक वचनम् । प्रोहकरटमिति यस्यां सा प्रोहकरटा । निपातनात्परस्मैपदम् । प्रोहकटा | प्रोहकर्दमा । उद्धरचूडा । आहरवसना । आहरवनिता । कृन्तविचक्षणा । "कृती छेदने" (तु०प०१४३५) लोट् । सेर्हिः । मुचादित्वान्नुम् | कृन्त विचक्षण इति यस्यां क्रियायां सेत्यर्थः । गणरत्ने तु कृन्धि विचक्षणेति पाठः । तत्र "कृती वेष्टने ” (रु०प०१४४७ ) इति