SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रत्ययाधिकारे आमुविधिप्रकरणम् । प्रत्ययान्तेभ्यश्च आम् स्याल्लिटि न तु मन्त्रे । कास्ट शब्दकुत्सायाम् ( भ्वा०आ०६२४ ) | कासाञ्चके । लोलूपाञ्चक्रे । अमन्त्रे किम् ? कृष्णो नोनाव | अच्छन्दसीति तु नोक्तम्, ब्राह्मणे इष्टत्वात् । " पुत्रमा मन्त्रयामास" । "अथ ह शुनः शेप ईक्षाञ्चके" (ऐ०ब्रा७ - ३) इत्यादि । कास्यनेकाच इति वक्तव्यं चुलुम्पाद्यर्थम् (का० वा० ) । चुलु उपाचार | चुलुम्पतिर्यात्तिककारवचनबलात्साधुः । इहाव्याप्यः तिव्याप्तिपरिहाराय प्रत्ययग्रहणमपनीय तत्स्थाने अनेकाग्रहणं कर्त: व्यमिति प्रागेव व्याख्यातम् । चकासाञ्चकार । दरिद्राञ्चकार । "आत औ पलः " ( पा० सू० ७ - १ - ३४ ) इत्यत्र ओकारे विधातव्ये औकार विधानं "दरिद्रातेरार्धधातुके लोपः" (का०वा० ) इत्याकारस्य लोपेऽपि भकारस्य श्रवणार्थम् । तेन 'ददरिद्रो' इत्यपि भवतीत्याहुः । ऊर्णीतेस्तु न भवति, नुवद्भावातिदेशात् । न चैवमपि "इजादेः ? ( पा० सू० ३-१-३६ ) इत्युत्तरसूत्रेणाने काचत्वनिरपेक्ष आम स्यादेः वेति वाच्यम्, “आमश्च प्रतिषेधार्थम्" इति नुवद्भावफलेषु पाठसामर्थ्या. तस्या अध्यप्रवृत्तेः भाष्यकारेण संहितया सूत्रपाठ माश्रित्य 'अनृच्छो: दयायासः' इत्यत्र अनृच्छ उ इत्युकारप्रश्लेषण उकारान्तस्यामुनिषेधाः था । नन्वेवमुशब्दादाचारविवपि " इजादेः " इत्याम पूर्वोदाहृतो माधवाः दिसम्मतश्चानेन भाष्येण विरुध्येतेति चेत् ? न, प्रथमपक्षेण तत्सम्भ वात् । द्वितीयपक्षे तु मा भूदाम्, यथालक्षणमप्रयुक्त इत्यभ्युपगमात् । यद्वा-उश्चासौ उश्वेति प्रश्लिष्टनिर्देशेन उदन्तस्यैव गुरुमतः पर्युदासः । स च “इजादेः "ति सुत्रस्यैव शेषः । तेन वल्गु फल्गुप्रभृतिभ्यः विबन्तेभ्योऽनेकाच्त्वप्रयुक्त आम् भवत्येवेति सर्व सुस्थम् । अत्र काशिका - ३६९ आमोऽमित्वमदन्तत्वादगुणत्वं विदेस्तथा । आस्कासोरामूविधानाश्च पररूपं कतन्तवत् ॥ अस्यार्थः- मित्त्वाभावोऽमित्वम् । आमो मकारस्य " हलन्त्यम्" (प्र०सु०१-३-३) इतीत्संज्ञा न भवति कुतः ? अत् अन्ते समीपे यस्य तथात्वात् । सूत्रे विधानवेलायां समीपे अकारवत्त्वादिति यावत् । प्रसङ्गादाह - विदेशमि गुणाभावोऽपि तथा । मदन्तत्वादेवेत्यर्थः । "उषविदजागृभ्यः " ( पा०सू०३-१-३८) इति सूत्रे हि आम्प्रत्ययसनि योगेन विदेदन्तत्वं निपात्यते । तत्रालोपस्य स्थानिवत्त्वात् गुणो न भवति । यदि तु 'विद ज्ञाने' इति धातुपाठ एव अकारो विवक्ष्यते तक्ष 'वेत्ति' इत्यादि न सिध्येत, अकारश्रवणप्रसङ्गात् । इदानीमाम्प्रत्ययस्व शब्द द्वितीय 24.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy