________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३३३
शिष्टं तु व्यर्थमेव । वृत्तिकारस्तु वार्तिकस्यार्थमन्यथा मन्यते । तद्यथान किलानेनादिग्रहणं प्रत्याख्यायते, किन्तु यानि पठितानि नीलादीनि पट् तेषामेव इतोऽपकृष्य भृशादिषु निवेश उच्यते । अपठितानां तु कश्षेव । तानि चाकृतिगणत्वाल्लभ्यन्ते । आकृतिगणत्वे ज्ञापकं तु "नः क्वे" (पा०सु१-४-१५) इति सामान्यग्रहणार्थः क्यषः ककारः तदवि. वातार्थः षकारश्च न हि पठ्यमानेषु लोहितादिषु नान्तः कश्चिद स्ति । तानि चाकृतिगणसिद्धानि गणवृत्तिकारः सञ्जग्राह ।
लोहितश्यामदुःखानि हर्षगर्व सुखानि च । मूर्छानिद्राकृपाधूमाः करुणानित्यचर्मणीति ||
निद्राकरुणादयो वृत्तिविषये तद्वति वर्तन्ते । निद्रायति निद्रायते इत्यादि । तदेतत्सर्वे भाग्यविरुद्धत्वादुपेक्ष्यम् । किञ्च 'लोहितडाज्भ्यः' इति वदतो वार्तिककारस्यापि आदिशब्द प्रत्याख्यानमभिप्रेतमिति स्पष्टं लभ्यते । अन्यथा हि 'लोहितात्' इत्येव ब्रूयात् । अत एव "विद्वस्य. मान इत्यत्र लोहितादिडाज्भ्यः क्यष्" इति कल्पतरुग्रन्थो वृत्तिकारत्या सम्भवन्नपि माध्यविरुद्धत्वात्प्रौढिवाद मात्र मिति क्यविधाववो
चाम ।
स्यादेतत्, "क्वष्च" इति सुत्रमस्तु, चात्कयङ् । तत्र क्यष्पक्षे परस्मैपदम् क्यपक्षे त्वान्मनेपदमिति "वा क्वषः” ( पा०सु०१-३-९०) इति सूत्रं मास्त्विति चेत् ? मैवम्, "प्रातिपदिकग्रहणे लिङ्गविशिष्ट स्यापि ग्रहणम्" (प०भा०७३) इति लोहिनीशब्दात् क्यषि 'लोहिनीयति' 'लोद्दिनीयते' इति रूपद्वयमिध्यते । क्यङि तु "क्यमानिनोश्च" (पा०सू०६-३-३६) इति पुंवद्भावे सति 'लोहितायते' इति स्यादि. ति फले भेदात् ।
कष्टाय क्रमणे (पा०सु०३-१-१४) ॥ कष्टं कृच्छ्रम् | "कृच्छ्रगहनयोः कषः” (पा०सू०७-२-२२) इति कृच्छ्रे इडभावः । तेन च तत्करणं पापं कर्म लक्ष्यते । क्रमणमुत्साहः, "वृष्टिसगंतायनेषु" ( पा०सु०१-३-३८) इति सूत्रे हि 'सर्ग उत्साह' इत्युक्तम् । तदयमर्थः- चतुर्थ्यन्तात्कष्ट शब्दा दुत्साहेऽर्थे क्वङ् स्यात् । कष्टाय क्रमते कठायते । पापं कर्म कर्तु मुत्सहत इत्यर्थः ।
सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति बक्तव्यम् (का० वा० ) ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापपर्यायाः । ते भ्यो द्वितीयान्तेभ्यः चिकीर्षायां कयत् । पापं चिकीर्षतस्थिस्वपदेन विग्रहः । सत्रायते । कक्षायते । कष्टायते -कृच्छ्रायते । गहनायते ।