________________
५२
शब्द कौस्तुभप्रथमाध्यायतृतीयपादे प्रथमान्हिके
णे यजः " ( अष्टा०सू०३ - २-८५) इति णिनिरस्मत्पक्षे सङ्गच्छते । धातुत्वेन धातूपात्त भावनां प्रति यजित्वेन तदुपात्तस्यांशान्तरस्य करणत्वा त् । पच्यादयो हि धातुत्वेन भावनामाहुः । विक्लित्याद्यंशान्तरे तु पाचत्वादिना प्रातिस्विकरूपणाहुः । तच्चांशान्तरभावतां प्रति प्रायेण भाव्यतया सम्बध्यते । 'ज्योतिष्टोमयाजी' इत्यादी तु करणतया 'ज्योति' प्रेमाख्येन यांगन स्वर्गे भावितवान् ” इत्यर्थप्रतीतः । स्पष्टं चेदं णिनिविधौ हरदत्तग्रन्थे । एतेन " ह्यर्थः पचिः" इति भाष्यं व्याख्यातम् । भट्टिश्चाह
विभज्यसेनां परमार्थेकर्मा सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्” इति । ननु क्रियाया धात्वर्थत्वे 'पचति' इत्यादी एककर्तृका वर्तमाना पचि. क्रियेति क्रियाविशेष्यको बोधो न स्यात् । प्रत्ययार्थ प्रति प्रकृत्यर्थस्य विशेषणताया औपगवादौ क्लुप्तत्वादिति चेन्न, " प्रत्ययार्थः प्रधानम्” इति शुत्सर्गः स चेद्द त्यज्यते । "क्रियाप्रधानमाख्यातम्” इति स्मरणात् । "पाचिका" इत्यादी स्त्रीत्वस्य विशेषणत्वाभ्युपगमाच्च । प्रत्युत तवैव 'पचति' इत्यादावनुपपत्तिः । पचन्तं तं पश्य' इत्यादौ शतृशानचोः कर्तृप्राधान्यस्य सर्वसम्मततया तिङ्क्ष्वपि तथात्वापत्तेः शत्रादीनां तिङाश्च लादेशत्वस्याविशिष्टत्वात्, आदेशानाञ्च स्थानिस्मारकत्वे स्थाम्यर्थाभिधायित्वे वार्यैक्यधोव्यात् । अत एव हि युष्मदि समानाधिकरणे मध्यमः अस्मयुत्तमः, इत्यादिपुरुषव्यवस्था सङ्गच्छते । अभिहिते कर्तरि प्रथमा, इत्यादि च । न च 'समानाधिकरणे' इत्यनेन स्वाभिधेय संख्यान्वयित्वम् अभिहितशब्देन चाभिहितसङ्ख्याकत्वं त्रिवक्षितमिति वाच्यम् । सुत्राननुगुणत्वात् । कृत्तद्धितसमासैः संख्याया अनभिधानात्तदभिहितेऽपि तृतीयाप्रसङ्गाच्च । न च कृत्यनभिधानमेच कर्तुरनभिधानमिति वाच्यम् । भावार्थलकारेऽपि कर्त्तरि प्रथमापत्तेरिति दिक् । स्थादेतत्-- अस्तिभवतिविद्यतिषु क्रियावाचित्वमव्यासम् । न हि तत्रोत्पादः प्रतीयते एवन्तिष्ठतावपि तथा जायत उत्पद्यते इत्यत्राप्यव्याप्तिः उत्पत्तिर्हि आद्यक्षणसम्बन्धः । तदनुकूलव्यापारश्वोस्पादना । तदनुभवश्चास्त्यादिभ्यो नास्त्येवः । अत एव 'किं करोति' इति प्रश्ने 'पचति' इत्यादिवत् 'अस्ति' इति न प्रतिब्रुवते इति चेत्, उच्यते, 'अस्ति' इत्यादेः स्वरूपधारणं 'करोति' इत्यर्थः । धारणञ्चो. त्तरफालसम्बन्धः । तथा सत्यपि करोत्यर्थे धात्त्वर्थान्तर्गतेन धारणेनैव भाग्याकाङ्क्षायाः पूरणात् 'जीवति' 'नृत्यति' आदिवदकर्मकता क्रिया हि