________________
विधिशेषप्रकरणे धातुसंज्ञासूत्रम् ।
व्यापारख्यधिकरणैतोत्पत्तिरुच्यते । अत एव तत्र घटादीनां कर्मता । परसमवेतव्यापारफलीभूतोत्पत्तिशालित्वात् । जनिप्रभृतिभिस्तु व्या. पारसमानाधिकरणवोच्यते । अत एवाकर्मकता तेषाम । सोत्पत्त्यनुकू. लव्यापारभाजामपि सुक्ष्मरूपापन्नघटादीनां परसमवेतत्त्वघटितकर्मता. विरहात् । उक्तजन हरिणा
"आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते।" इति । अन्येप्याहुः"अस्त्यांदावपि धयंशे भाव्येऽस्त्येव हि भावना ।
अन्यत्राशेषभावात्तु सा तथा न प्रकाशते" इति ॥ तथा पचौ विक्लिदौ च विक्लित्तिर्यद्यपि साधारणी तथाऽपि पचौ व्यापारव्यधिकरणा विलिदौ तु तत्समानाधिकरणा सेति सकर्मकाक. मकविभागः । न हि धात्वर्थभूतफलशालिस्वमात्रं कर्मत्वं किन्तु व्यापारवैयधिकरण्यमपि फलेऽपेक्ष्यते । यत्तूतं 'किं करोति' इति प्रश्ने इत्या. दि । तदसिद्धम । आसन्नविनाशं कश्चिदुहिश्य 'किं करोति' इति प्रश्ने 'अस्ति' इत्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते 'किं करोति' इति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणात् 'अस्ति' इति नोत्तरम् । एतेन
"यावत्सिद्धमसिद्ध वा साध्यत्वेनाभिधीयते ।
आश्रितकमरूपत्वात्सा कियेत्यभिधीयते" ॥ इत्यपि व्याख्यातम् । पूर्वापरीभावापनानेकक्षणविशिष्टस्योत्पत्तिः "आत्मास्ति" इत्यादावपि सुलभैवेति भावः। पचत्यावावपि हि अधिश्रय. णादिरधाश्रयणान्तो व्यापारकलापः क्रिया । अत एष तस्य युगपदसत्रिकर्षान्न प्रत्यक्षता। किन्तु एकैकस्याधिश्रयणादिव्यापारस्य क्रमेणानुभवे सति मनसा सङ्कलना क्रियते । तदुक्तं भाग्य-"क्रिया नामेयम. त्यन्तापरिदृष्टा अशक्या पिण्डीभूता निदर्शयितुम्" इति । ऐक्यमपि पारिभाषिकम् । एकफलावच्छिन्नत्वात् । उकं च--
"गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यते " इति ॥ तदेवं भवत्यादौ क्रियावाचकत्वं सुवचम् । अत एव 'अभूत' 'म. स्ति' 'भविष्यति' इति कालयोगः । न हि क्रियात्वं विनाऽसौ सम्भव. ति। तदुकम
"क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिका"। इति । "कालानुपाति यदूपन्तदस्तीति प्रतीयते ।" इति च ।