________________
१८ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिके६-४-१७४) आदिसूत्रे भाष्यम्-"एकश्रुतिहि स्वरसर्वनामेत्यादि । अत पवाभियुकानां च विरुद्धस्वरकतत्पुरुषबहुव्रीह्याद्याश्रयणेन श्लिष्टकाव्या. दिनिर्माणं सङ्गडछते । “अलं बुसानां यात" इति "श्वेतो धावति" इति च अर्थवाक्यम् इति पस्पशान्ते भाष्यमपि । काव्यप्रकाशेऽपि वेद इव लोके स्वरो न विशेषाध्यवसायहेतुरिति । किमर्थं तर्हि "झल्युपोत्तमम्" (अष्टा० सू०६-१-१८०)"विभाषा भाषायाम्" (अष्टा०सू०६-१-२८१) इति सूत्रमिति बेत्, स्वर्येण प्रक्रमे पाक्षिकानुदात्तलाभायेति गृहाण । वेति प्रकृते विभाषाग्रहणं कुर्वन् सूत्रकारोऽपि तन्त्रादिकमभिप्रेति । यत्तु वृत्तिकन्मतं विभाषाग्रहणं "यज्ञकर्मणि' (अष्टा सू०१-२-३४) इत्यस्य निवृत्त्य. मिति, तश्चिन्त्यम् । "छन्दसि" इत्युक्तेऽपि तन्निवृत्तिसिद्धः। अन्यथा पूर्वसूत्रस्य निविषयत्वापत्तेः । न च जपादिषु सावकाशस्य परस्य पूर्वोऽपवाद इति वाच्यम् । एवं हि सति परत्रैव जपादिग्रहणं कुर्यात् किं नमा किश्च छन्दोग्रहणेन । एतेन ऊहितानामच्छन्दस्त्वात्तत्र सावकाशस्य मन्त्रेषु परेण बाधः स्यादिति हरदत्तोकं प्रत्युक्तम् । सिद्धान्तेऽपि अनू. हितेषु परत्वादस्य प्राप्तिमाशङ्कय यज्ञकर्मणीति कर्मग्रहणसामर्थ्यात्पूर्व स्यैव प्रवृत्तिरिति स्वोक्तिविरोधात् । यदपि हरदत्तेनोक्तम्, जपादिप. र्युदासेन मन्त्राणामेव ग्रहणमिति पक्षे विभाषाग्रहणं व्यर्थ स्यादिति । तदपि इन्द्रशत्रुप्रस्तावे दूषितमस्माभिः । यदपीह वृत्तिकृता 'अग्निमीळे' इत्याद्यप्येकश्रुतावुदाहृतं तत्सकलाध्यापकसम्प्रदायविरुद्धम् । छन्दोग्रहणवैयापादकश्च छन्दसि व्यवस्थितोऽन्यत्रैच्छिक इति विकल्पयो. वैषम्य सूचयितुं हि तत् । न च लोके विकल्पस्य वृत्तिकृतानुक्तत्वादसाम्प्रदायिकत्वं वाच्यम् । भाष्यादिसम्मतेरुकत्वात् "श्वेतः" इत्यादे. वृत्तिकृतापि तत्र तत्रोदाहृतत्वाश्च। इत इत्यस्य हि "उडिदम्" (अष्टा०सू० ६-१-१७१) इत्यन्तोदात्तता 'श्वेतः' इति तु एकोदात्तमिति कथं स्वरा नुसरणे तन्त्रं स्यादिति दिक् । ___ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः (अष्टा०स०१-२-३७)। सुब्रह्म ण्याख्ये निगदे "यज्ञकर्मणि" (अष्टा०स०१-२-३४) इति "विभाषा छन्दसि" (अष्टा०स०१-२-३६) इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्यो. दात्तश्च स्यात् । नितराद्यत इति निगदः । परप्रत्यायनार्थमुच्चेः पठ्य मानः पादबन्धरहितो यजुर्मन्नविशेषः । अपादबन्धे हि गदिर्वर्त्तते यथा गद्यमिति "नौगदनद' (अष्टा०स०३-३-६४) इति कर्मण्यप् । सुब्रह्मण्याशब्दो परित्यक्तस्वलिङ्ग एव तद्वति निगदे निरूढः । "सुब्रह्मण्योम् ३ इन्द्रागच्छ हरिव आगच्छ मेधातिथेमेष वृषणश्वम्य मेने गौरावरक.