SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ शब्द कौस्तुभसूतीयाध्यायप्रथमपादे द्वितीयाहि के नलोपायोगात् । कथमन्यथा इहैव शमा संह पररूप स्यादिति यत्किञ्चिदेतत् । इह द्वितीयवार्तिके वाग्रहणं नानुवर्त्यम् प्रातिपदिकविषयकेणानेन क्विपा: सुवन्वविषयस्य क्यों भिन्नविषयत्वादेव बाधस्याप्रसङ्गाद्वचनद्वयप्रामाण्याद्विकल्पोपपत्तेश्च । पूर्ववार्तिकेऽपि एत. सिद्ध किवबनुवादेनानुबन्धासङ्गमात्रे तात्पर्यस्य भाष्ये स्थितत्वेन प्रा तिपदिकविषयता वाशब्दवैयर्थ्यं चेति तत्वम् । तस्य सुबन्तविषयत्वे हि अन्तर्वर्त्तिविभक्त्या पदत्वात् गल्भतेः संयोगान्तलोपो दुर्वारः । अथ क्विबन्तेषु रूपाणि लेशत उदाह्रियन्ते । अइवाचरति अति, अतः, अन्ति । णलि "अचोऽणिति" (पा०सु०७-२-११५) इति वृद्धौ "भात औ णलः” (पा०सू०७-१-३४), औ । तथाच कशब्दस्य चकाविति हरदचः । माधवस्तु "ण्यल्लोपौ " इति वचनाण्णलि वृद्धिम्बाधित्वा अतोलो. पात् 'चक' इत्युदाजहार । तन्मतेऽपि मशब्दस्य औ, अतुः, उः । सर्वत्रात्र द्विर्वचने अतोलोपादन्तरङ्गत्वादतोगुणे पररूपत्वे तस्याङ्गग्रहणेन प्राप्तादतालेापात्परत्वादभ्यासग्रहणेन प्रहणाद् "अत आदेः” (पा०सू०७-४-७०) इति दीर्घः । “आतो लोप इटि च" (पा०सु०६-४-६४ ) इत्यालोपः कि. ति, णलस्तु औ वृद्धिः । स्थादेतत्, इह प्रत्ययान्तत्वादामा भाष्यम् । न च "कास्यनेक। ज्ग्रहणम्” इति वार्तिकेन प्रत्ययग्रहणस्थानेऽनेकाज्ग्रहणस्य कृतत्वात्प्रत्ययान्तेभ्योऽप्येकास्य आस्नेति वाच्यम्, चुलुस्पादीनामप्रत्ययान्तानां संग्रहार्थमनेकाग्रहणमधिकं कर्तव्यमित्येतावन्मात्रपरतयाऽपि वार्तिकस्य कृतार्थत्वे सौत्रस्य प्रत्ययग्रहणस्यापनयने कारणाभावात् । अत एव वार्तिककृता चुलुम्पाद्यर्थमित्युक्तं न स्वेकाज्नवृत्यर्थमिति । अत एव 'अवगल्भाञ्चके" इत्यादि भाग्याद्यु दाहृतं सङ्गच्छते । न हि तत्रानेकाच्वमस्ति, आत्मनेपदार्थमनुबन्धासङ्गस्य निर्विवादत्वात् । अत एव स्वामास स्वाञ्चकारेति प्रक्रियाकारोदाहृतं निर्बाधमिति चेत् ?मैवम्, हरदत्तादिग्रन्थेषु कशब्दाद् अशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम् स्यात्, चुलुम्पादिभ्यश्च न स्यात्, अतोऽव्याप्यतिव्याप्तिपरिहाराय प्रत्ययग्रहण. मपनीय तत्स्थाने अनेकाज्ग्रहणं कर्त्तव्यमित्यर्थकतया वार्तिकस्य व्या ख्यातत्वात् माघवादिभिरपि तदनुसारेणैव रूपाणामुदाहृतत्वाच्च । युक्तं चैतत्, कास्यनेकाग्रहणमिति वार्तिकाक्षरस्वरसात् । अन्यथा हि अनेकाच उपसंख्यानमित्येव ब्रूयात्, न तु प्रत्यय शब्दावरुद्धकास्युत्तरभागमनेकाचं निवेशयेत्, आगन्तूनामन्ते निवेशस्य न्याय्यत्वा| चुलुम्पाद्यर्थमिति वार्तिकशेषस्वरसो ममाप्यनुकूलोऽस्तीति चेत् ? ३२४
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy