________________
विधिशेषप्रकरणे
१८३
तत्पुरुषप्रकरणम् ।
तदेतत्सकलमभिसन्धायोक्कं वार्तिककृता -- समाहारसमूहयोरविशेषात्समाहारग्रहणानर्थक्यं तद्धितार्थेन कृतत्वादिति । समाहारसमूहयोरिति शब्दपरो निर्देशः । अतो नैकशेषः । अविशेषादिति । अर्थाविशेषादित्यर्थः ।
अत्र भाष्यकाराः । एवं सति 'पञ्चकुमारी' 'दशकुमारी' इत्यत्र "लु. क्तद्धितलुकि " (अष्टा०सू०१-२-४९) इति स्त्रीप्रत्ययस्य लुक् स्यात् । तस्मात्तद्वितनिवृत्त्यर्थं समाहारग्रहणम् । पृथक्समाहारग्रहणाद्धि समासस्यैव समाहारो वाच्यो न तु तद्धितस्येति व्याख्यानात्तद्धितो नोत्प द्यते इति सिद्धमिष्टम् । अत एव च ज्ञापकात्तद्धितार्थे विषये इति व्याख्यातं न तु वाच्येइति । अत एव 'पाञ्चनापितिः' इत्यादौ तद्धित उत्प द्यते । समासेनैव तदर्थस्योक्तौ तु तद्धितो नोत्पद्येत । अत एव द्विगोलुग्वचनमपि सङ्गच्छते इति दिक् ।
I
ननु पञ्च गावोऽस्य सन्ति पञ्चगुः पुरुष इत्यत्र मत्वर्थस्य तद्धितार्थत्वादयं समासः प्राप्नोति न तु बहुव्रीहिः, अशेषत्वात् । तस्य तु चित्रग्वादिरवकाशः, यत्र दिक्संख्ये न स्तः । सति चास्मिन्समासे' मतुपः श्रवणं स्यात् । न च द्विगोरिति लुक्, अप्राग्दीव्यतीयत्वात् ।
अत्रोच्यते । परत्वाद्बहुव्रीहिः । त्रिकतः शेषस्य भाष्यसम्मतत्वात । वार्तिककृता तु वचनमेवारब्धम् - मत्वर्थे प्रतिषेधः ।
संख्यापूर्वी द्विगु: (अष्टा०सू०२-१-५२) । " तद्धितार्थ" (अष्टा०सु० २-१-५१) इत्यत्रोक्तः संख्यापूर्वः समासो द्विगुसंज्ञः स्यात् । पञ्चकपालः । "संस्कृतम्भक्षाः" (अष्टा०सु०४-२ - १६) इत्यनेनोत्पन्नस्याणो “द्वि. गोर्लुगनपत्ये " (अष्टा०सु०४ - १-८८) इति लुक् । पञ्चनावप्रियः । "नावो द्विगोः” (अष्टा०स् ५ - ४ - ९९ ) इति समासान्तष्टच् । पञ्चमूली । "द्विगो: " (अष्टा०सु०४-१-२१) इति ङीप् । अनन्तरस्येति न्यायात्पूर्वसूत्रविषय एवेयं संज्ञा । एतदर्थमेव तत्र योगविभागः । अन्यथा “दिक्संख्ये संज्ञा तद्धितार्थोत्तरपदसमाहारेषु" इत्येव ब्रूयात् । तेन 'सप्तर्षयः' इत्यत्र "इग न्तकाल" (अष्टा०सू०६ - २ - २९) इति पूर्वपदप्रकृतिस्वरो न भवति । समासान्तोदात्त एव हि पठ्यते - "सप्तऋषयस्तपस्तेपे निषेदुः" इति यथा । कथन्तर्हि 'एकापूपी' इतिः ? अत्राहुः । नायं "पूर्वकालेक" (अष्टा० सु०२-१-४९) इति समासः किन्तु पूर्वसूत्रेण समाहारे । तथाहि एकमध्यपूपं कश्चित्कृपणो दददनेकं मन्यते । तथा दाने श्रद्धातिशयादपूपमहत्त्वाद्वाऽनेकस्मिन्निव यः संभ्रमस्तमेकस्मिन्नपि करोति । अनेन प्रतिग्रहीता कृपणो व्याख्यातः । तत्रारोपितबहुत्वाश्रयः समाहारः । तत्र