SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ विविशेषप्रकरणे तत्पुरुषप्रकरणम् । 1 प्रत्ययस्य " ( अष्टा० सू०१-३-६) इति द्विषकारकनिर्देशात्सकारस्येत्सं• ज्ञा । "सिति च" (अष्टा०सू०१-४-१६) इति पदत्वम् । पित्वादनुदान्तः । राजार्थः । गवार्थः । एवं चार्थे इति पूर्वपदप्रकृतिस्वरो न विधेयः । प्र. त्ययत्वाश्च न तेन विग्रहः । तद्धितत्वादभिधेयलिङ्गता च सिद्धेति । मैवम, " षः प्रत्ययस्य (अष्टा०सू०१-३-६ ) इत्यत्र सकारप्रश्छेषे मा. नाभावात् । वुञ्छणादिसूत्रेण तृणादिभ्यः सप्रत्यये 'तृणसः' इत्यादावतिव्याप्तेश्च । किञ्च सपः प्रत्ययत्वं व्यर्थ स्वर्थमित्यत्रेयङुवङोः प्रसङ्गः । स्यादेतत् । ब्राह्मणोऽर्थः प्रयोजकोऽस्य स ब्राह्मणार्थ इति ब हुव्रीहिरस्तु । यो हि ब्राह्मणार्थ: सूपस्तस्य ब्राह्मणोऽर्थः प्रयोजक इति यावत् । एवञ्च चतुर्थ्यन्तेन विग्रहाभावः । पूर्वपदप्रकृतिस्वरत्वं विशे यलिङ्गता चेति सर्व सिध्यति । नैतत् । 'महदर्थम्' इत्यत्रात्वकपोः प्रसङ्गात् । स्यादेतत् । "चतुर्थीतदर्थ" इति योगो विभज्यते । तदः "अर्थः" इत्यनेनांशेन तदर्थवाचिन उत्तरपदस्यार्थादेशो विधीयते । स च वैकल्पिकः, महाविभाषाधिकारात् । तेन यूपार्थ दारु, यूपदारुइत्यु भयं भवति । न चार्थादेशेनोक्तार्थत्वाद। रुशब्दप्रयोगानुपपत्तिः, अर्थदेशस्य सकलशब्दसाधारणतया विशेषस्फुटीकरणार्थन्तत्सम्भवात् । ततो बलिरक्षितयोरपि विभाषार्थशब्द आदेशो भवति । कुबेरार्थो बलिः कुबेरबलिरित्यादि पूर्वेण सिद्धे शापनायेदं प्रकृतिविकृतिभावा• दन्यत्र नित्योऽर्थादेश इति । तेन 'रन्धनार्था स्थाली' इत्यादि भवति । न तु 'रन्धनस्थाली' इत्यादि । अश्वघासादयस्तु पूर्ववत् । तथाचार्थशब्दस्यादेशत्वात्तेन विग्रहो न भविष्यति । स्थानिलिङ्गं च भविष्यति, स्थान्यर्थाभिधानसमर्थस्यैवादेशत्वात्, स्थानिवद्भावाश्च । अर्थ इति पूर्वपदप्रकृतिस्वरस्तु विधेय एवेति । नैतदपि । 'उदकार्थो वीषध:' इत्यत्र वीवधशब्दस्यार्थादेशे कृते स्थानिवद्भावेन मन्थोदनादि सुत्रेणोदादेशप्रसङ्गात् । इयुवा सपि स्यातां बहुव्रीहौ कवाच्च हि । अर्थादेशे तूदभावो यथान्यासं वरं ततः ॥ १७७ पञ्चमी भयेन (अष्टा०सू०२-१-३७) । पञ्चम्यन्तं भयप्रकृतिकेन सु. बन्तेन सह प्राग्वत् । चौरभयम् । भयभीतभीतिभीभिरिति वाच्यम् । वृक· भीतः । नेह-वृकेभ्यस्त्रासः । पूर्वस्यैव बहुलग्रहणस्यायम्प्रपञ्चः । तेन ग्रामनिर्गतो धर्मजुगुप्सुरित्यादि सिद्धम् । अपेतापोढमुक्त पतितापत्रस्तैरल्पशः (अष्टा०सू०२-१-३८) । एतैः सह अल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । अल्पश इत्यत्र बव्हल्पार्थादि शब्द. द्वितीय. 12.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy