SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ - १७६ शब्द कौस्तुभद्वितीयध्याय प्रथमपादे द्वितीयान्हिके- इत्यादौ सम्बन्धसामान्ये षष्ठी । कर्मत्वरूपविशेषे तु द्वितीया यथा का 'प्रदीयतान्दाशरथाय मैथिली' इत्यत्र सम्बन्धिसामान्येऽण । अपत्यपतद्विशेषे तु इमेव । यथा वा "अभून्नृपों विबुधसखः" इत्यादौ भूतसामान्यविवक्षायां' लुङ् 1 अनद्यतनत्वविवक्षायां तु लडेवेति । अत एवं "आतोऽनुपसर्गे कः " (अष्टा०सू०३-२-३ ) इति सूत्रे जीवद्वंश्यत्वरूपविशेषाविवक्षायां "प्रोवाच भगवान्कात्यः" इति प्रयुक्तं भाष्ये । अत एत "कृतलब्ध क्रीतकुशलाः " (अष्टा०सू०४-३-३८) इत्यत्र जातलब्धाभ्यां कृतक्रीतयोर्न गतार्थता प्रकारभेदादिति चतुर्थे वृत्ति कारः । त्वयापि तत्र तथैवोपपादयिष्यते । तत्र भव इत्येव सिद्धे "प्रायभवः” (अष्टा०सू०४-३ - ३९ ) "सोऽस्य निवासः " (अष्टा०सु०४-३१९) इति सूत्रयोरप्येषैव गतिः । तथाच प्रयोजने स्पष्टे कथञ्चिन्त्यतां ब्रूषे । ननु 'अश्वघासः' इत्यादावपि प्रकरणाद्विशेषाध्यवसायो भवत्ये. वेति चेत् ? सत्यम्, न तु तत्र विशेषप्रकारको बोधः, लुप्तं स्मृतं बोधकमिति मते स्मृतषष्ठ्या सम्बन्धत्वप्रकारक बोधस्यैव जननात् । यः शिष्यते स लुप्यमानार्थाभिधायीति सिद्धान्तरीत्यापि चतुर्थीलोपाभावेन. विशेषप्रकारक बोधे असामर्थ्यात् । अतएवार्थप्रकरणाद्यभिक्षस्यापि दाशरथशब्दान्नापत्यश्वप्रकारिका धीः किन्तु सम्बन्धित्वप्रकारिकैवेत्या दिशाब्दन्यायविदां स्पष्टम् । अत एवाहु:- "मेद्यभेदकसम्बन्धोपाधिभेदनियन्त्रितम् । साधुत्वम्” इति । तस्मादश्वाश्वशब्दयोरिव स्वविषया दन्यत्रासाधुता कचित्साधुतया न विरुध्यते इत्यवधेयम् । एवं स्थिते बलिरक्षितादिग्रहणं ज्ञापकमित्यादि प्रागुक्तमेव सम्यक् । यत्तु तादर्थ्यस्य समासान्नियमेन प्रतीत्यर्थे बलि सुखग्रहणमित्युक्तम् । तदपि न, तत्रा? पि पाक्षिकषष्ठीसमासस्य दुर्वारतया नियतप्रतीततादर्थ्येन चतुर्थीविभक्तिराक्षिप्यते “तस्मै हितम्" (अष्टा०सू०२-१-५) इत्यतो वाऽनुवृत्य सिद्धेः, पूर्वपक्षावसरे त्वयैव तथोक्तत्वाच्चेति दिक् । अर्थेन नित्यसमासो विशेष्यलिङ्गता चैति वक्तव्यम् । द्विजायायं द्विजार्थः ः सूपः । द्विजार्था यवागूः । द्विजार्थ पयः । तत्र नित्यत्वं न्याय सि. द्धम् । चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्रहो न भविष्यति परवलिङ्गतां बाधितुं विशेष्यलिङ्गतामात्रं वाच्यम् । स्यादेतत् । "तदर्थं विकृतेः प्रकृतौ” (अष्टा०सु०५ - १ - १२) इत्यत्र तदर्थ समर्थमिति सूत्रं क्रियताम् । तादर्थ्येन चतुर्थीविभक्तिराक्षिप्यते । "तस्मै हितम्” (अष्टा०सू०२-१-५) इत्यतो वानुवर्तते । चतुर्थीसमर्थातदर्थेऽभिधेये सर्वप् स्यात् । "आदिर्जिडुडवः" (अष्टा०सू०१-३-५ ) "षः
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy