SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ धात्वधिकारे कृत्प्रकरणम् । ४०५ द्यादयस्त्रयो यथासंख्यं गर्ह्यादिष्वर्थेषु निपात्यन्ते । तत्र वदेर्नीि उपपदे "वदः सुपि कयपू च" (पा०सु०३-१-१०६) इति यत्कयपोः प्राप्तयोर्यदेव यथा स्यात, सोऽपि गर्दायामेव यथा स्यादित्युभयार्थ निपात नम् । अवद्यं पापम् । अवचनार्हत्वात् । गर्ने किम् ? अनुद्यं गुरुनाम | तद्धि न गर्ह्य वचनाई तु न भवति, आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयात् ज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । अत्र "वदः सुपि" (पा०सु०३-१-१०६) इति क्यबेव भवति । यजादित्वात् सम्प्रसारणम् । “नलोपो नञ." " " तस्मान्नुडचि" ( पा०सु०६-३-७३,७४) । पर्व्यवहारार्थात् ण्यति प्राप्ते यत् विधीयते । पण्यः कम्बलः । पण्या गौः । पाण्यम् अन्यत् । स्तुत्यर्हम् इत्यर्थः । 'पणितव्य' शब्दस्य साधारणत्वेऽपि निपातनस्य रूढ्यर्थत्वात् पण्यशब्दस्य व्यवहर्तव्ये एव रूढत्वादर्थनियमो लभ्यते । उक्तञ्च - धातुसाधनकालानां प्राप्यर्थे नियमस्य च । अनुबन्धविकाराणां रूढ्यर्थं च निपातनम् ॥ इति । वृङ् सम्भक्तौ (कन्या०आ०३७) अस्माद्यत् अप्रतिबन्धे । शतेन सहस्रेण वर्या कन्या । शतसहस्रशब्दावनियतवचनौ, कन्याया वरणे वरयितॄणां नि- यमो नास्तीत्यर्थः । 'वृङ' एवेदं निपातनम, तत्रैव अनिरोधसम्भवात् । तेन 'वृञ् वरणे' (स्वा० उ०८) इत्यस्मात् "पतिस्तुशास्" (पा०सु०३१-१०९) इत्यादिना क्यबेव, वृत्या । इह सुत्रे अवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जलन्तस्य निर्देश: । तेन 'वर्या' इति स्त्रियामेव निपात्यते । अस्त्रियान्तु "ऋहलोः " ( पा०सु०३-३१२४) इति ण्यदेव - वार्या ऋत्विजः, इति वृत्तिकारमतम् । न चात्र "एतिस्तु" (पा०सू०३-१-१०९) इति क्यप् शङ्खयः, तत्र 'वृञ' एव ग्रहणं न तु 'वृङ' इति वक्ष्यमाणत्वात् । भट्टिस्तु द्वन्द्व जसा निर्देशं मन्वानः पुल्लिङ्गेऽपि यतं प्रायुङ्कसुग्रीवो मम वर्योऽसौ भवता चारुविक्रमः । इति ।' पुरुषोत्तमादयोऽप्येवम् । वह्यं करणम् (पा०सू०३-१-१०२ ) ॥ वह्यं निपात्यते करणं चेद्भ• वति । वहस्यनेनेति वहां शकटम् । करणे किम् ? वाह्यम् अभ्यत्, वहन कर्मेत्यर्थः । अर्यः स्वामिवैश्ययोः (पा०सू०३-१-१०३) ॥ ऋ गतौ (स्वा०प०९६१) अस्मात् ण्यति प्राप्ते यत् निपात्यते । अयः स्वामी वैश्यो वा । स्वाति
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy