________________
विधिशेषप्रकरणे विभत्यर्थप्रकरणम् ।
२३५
त्वयोर्मात्रादिविषयत्वेऽपि क्रियाया अभावेनाधिकरणत्वाभावाद्वचनम् । 'साधुनिपुणाभ्याम्" ( पा०स्०२-३-४३) इत्येव सिद्धे अनचार्थमंत्र साधुग्रहणम् । तेन तत्वकथनेऽपि भवति । सूत्रे अर्वाग्रहणन्तु निपुणार्थम् । साधुग्रहणन्तु तत्र वार्त्तिकं दृष्ट्रा सूत्रस्याप्रवृत्तेरिति ध्येयम् । अर्हाणां कर्तृत्वे अनणामकर्तृत्वे तद्वैपरीत्ये च (का०वा० ) । सस्सु तरत्सु असन्त आसते इत्यादि । यद्यपीदं "यस्य च भावेन" (पा०सू०२-३-३७) इत्येव सिद्धम् । तथापि लक्ष्यलक्षणभावाविवक्षायामपि यथा स्यादिति वचनमित्याहुः । निमित्तात्कर्मयोगे (का०वा० ) । निमित्तमिह फलम् । तद्वाचिनः सप्तमी स्यात् । यदि तस्य कर्मणा सह योगो योगविशेषः संयोगसमवायात्मकः ।
चर्मणि द्वीपिनं हम्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्निपुष्कलको हतः ॥
चर्मफलकं द्वीपिकर्मकं हननमित्यर्थः । अत्र हेतुतृतीया प्राप्ता । तत्र हि फलमपि हेतुशब्देन गृह्यते । " अध्ययनेन वसति" इत्यादिसिद्धये इति “प्रत्ययः” (पा०सु०३-१-१) इति सूत्रे कैटे स्थितम् । अत्र द्वी· पिचर्मणोः समवायः सम्बन्धः । चमरशब्दाज्जातिलक्षणो ङीष् । पुष्कलकः शङ्कुः | ससीम्नि सीमज्ञानार्थ हतो निहतः निखात इत्यर्थः । निहन्यमानेन शङ्कुना सह सीम्नः संयोगः सम्बन्ध इति हरदत्तादयः । दुर्गवाक्यप्रबोधे तु कुलचन्द्रस्त्वाह-सीमा अण्डकोशः । पुष्कलको गन्धमृगः । उक्तं च मेदिनीकोशे
सीमा घाटस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम् । इति । अथ पुष्कलको गन्धमृगे क्षपणकीलयोः । इति च । कर्मयोगे किम् ? वेतनेन धान्यं लुनाति ।
यस्य च भावेन भावलक्षणम् (पा०सु०२-३-३७) । यस्य क्रिय या क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । निर्ज्ञातकाला किया। अनिशतिकालायाः क्रियायाः कालपरिच्छेदकत्वात् लक्षणमित्युच्यते । मोषु दुह्यमानासु गतः । एवं देशपरिच्छेदिकाऽपि सति गुणे द्रव्य. त्वमस्ति ।
षष्ठीचानादरे (पा०सु०२ - ३ - ३८ ) । अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । इह सुत्रे अनादरं इति पूर्वेण सत्सप्तमी । अनादरे सति यो भाव लक्षयतीति । तथाच तदाधिक्यं फलितम् । safa seat वा प्राबाजीत । रुदन्तं पुत्रादिकमनादृत्य सम्यस्तवा• नित्यर्थः ।