SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २३६ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे द्वितीयान्हिके___स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च (पासू०२-३-३९)। पतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकस. तम्यर्थ वचनम् । गवां गोषु वा स्वामी, ईश्वरो वेत्यादि । दायमादत्ते इति दायादः, सोपसर्गादप्यत एव निपातनात्कः । गवामित्येतनु यद्यपि समुदायस्य विशेषणम्, तथापि दीयते इति दाय इति व्युत्प. त्या अषयवार्थभूतमंशं स्पृशत्येव । तेन गेवात्मकस्यांशस्यादातेति फलितोऽर्थः । गवां प्रसूतः, गा एवानुभवितुं जात इत्यर्थः । आयुक्तकुशलाभ्यां चासेवायाम् (पासू२-३-४०) । आभ्यां योग षष्ठीसप्तम्यौ स्त आसेवायां गम्यमानायाम् । आसेवा तात्पर्यम् । आयुको व्यापारितः । कुशलो निपुणः । आयुक्तः कुशलो वा हरिभ. जनस्य हरिभजने वा । आसेवायां किम् ? आयुको गौः शकटे, ईष. धुक्त इत्यर्थः। यतश्च निर्धारणम् (पा०सू०२-३-४१) । जातिगुणक्रियासम्बाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं, यतो निर्धारणं ततः 'षष्ठीसप्तम्यो स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । अमीषां छात्राणां देव. दत्तः पटुः । पञ्चमी विभक्के (पासू०२-३-४२)। विभागो विभकम् । निद्धार्यमा णस्य यत्र भेद एव न तु शब्दोपात्तसामान्यरूपाकान्तता, तत्र निर्दा रणाश्रयात्पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। न ह्यत्र गवां कृष्णा इत्यादिष्विव सामान्यविशेषभावः, किन्तु शब्दोपात्तध. र्मयोर्विरोध एव । इदश्च सूत्रं बुद्धिकल्पितमपायमाश्रित्यापादानप्रक. रणे प्रत्याख्यातम् । आह च बुद्धया समीहितैकत्वात् पञ्चालान् कुरुभिर्यदा। पुनर्विभजते धक्का तदापायः प्रतीयते ॥ इति । साधुनिपुणाभ्याम यां सप्तम्यप्रतेः (पा०९०२-१-४३) । आभ्यां योग सप्तमी स्यादर्चायां गम्यमानायां, न तु प्रतेः प्रयोगे । मातरि सा. धुनिपुणो वा । "पुण कर्मणि शुभे"(तु०५०१३३३) अस्मान्निपूर्वादिगुपध. लक्षणः कः। अर्च पूजायाम्"(भ्वा०प०२०४) अस्माद्भौवादिका“गुरोश्च हल" (पा०स०३-३-१०३) इत्यप्रत्ययः । चौरादिकातु "ण्यासश्रन्य" (पा०सू०३-३-१०७) इति युच् स्यात् । अर्चायां किम् ? निपुणो राहो भृत्यः । इह तस्वकथने तात्पर्यम् । साधुशब्दप्रयोगे स्वन यामपि सप्तमी भवत्येव । साध्वसाधुप्रयोगे च (कावा०) इति वार्तिकादिति
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy