________________
२०२
शब्दकौस्तुभद्वितीयाध्यायद्वित्तीयपादे प्रथमान्हिके
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचने ॥ इत्यादिप्रयोगाणां पाक्षिक्यापि शे(१)पत्वविवक्षया सिद्धत्वात् । अत एव करणत्वविवक्षया तृतीयां भट्टिः प्रायुत
फलैर्नानाविधैश्चित्रैः स्वादुशीतैश्च वारिभिः ।
तृप्तास्तां भ्राजथुमती प्रपच्छुः कस्य परियम् ॥ इति । नन्वेवं षष्ठीसमासे निषिद्धेऽपि तृतीयातत्पुरुषेण 'फलतृप्तः' इति स्यादेवेति चेत् ? इष्टापत्तेः । न चैवं निषेधवैयर्थ्यम् , स्वरे विशेषात् । तथाहि, षष्ठीसमासेऽन्तोदात्तत्वं स्यात् , तृतीयासमासे तु थाथादि. स्वरापवादः "तृतीया कर्मणि" (अष्टा०स०६-२-४८) इति पूर्वपदप्रकृ. तिस्वरः । तृपिश्च सकर्मकोऽप्यस्ति, "पितृनतासत्सममस्त बन्धून्" इति भट्टिप्रयोगात् । तेनास्मात्कर्मणि को नास्तीति न शङ्कनीयम् । 'फलतर्पणम्' इत्यादौ तु स्पष्ट एव स्वरे भेदः, कारकात्परत्वेन कृदुत्तरपदप्रकृतिस्वरात् ।
सत्--द्विजस्य कुर्वन् कुर्वाणो वा। किंकर इत्यर्थः । शेषे षष्ठी। चोरस्य द्विषन् । इह "द्विषः शतुर्वा वचनम्" इति पाक्षिकी कर्मणिषष्ठी।
अव्यय-ब्राह्मणस्य कृत्वा । तादर्थ्यरूपसम्बन्धस्य सामान्यरूपेण विवक्षायां षष्ठी । ब्राह्मणसम्बन्धिनी क्रियेत्यर्थः । 'पुरा सूर्यस्योदेतोः' इत्यप्यव्ययोदाहरणम् । इह कर्त्तरि षष्ठी "(२)अव्ययप्रतिषेधे तोसुन्क. सुनोरप्रतिषेधः" ( का० वा० ) इति वचनात् । अत्र सत्तव्याभ्यां साह. चर्यात्कृदव्ययेनैव समासो निषिध्यते । तेन तदुपरि' इत्यादि सिद्धमिति रक्षितः । तथा च भट्टिप्रभृतयः प्रयुञ्जते-यत्कृतेऽरीनिगृहीमः,
आदेयाः किंकृते भोगाः कुम्भकर्ण त्वया विना । भवत्कृते खञ्जनमञ्जुलाक्षीति, तत्पाणिमात्मोपरि पातुकन्तु, किमु तदन्तरुभौ भिषजौ दिवः, इत्यादि च । तथा "अनेकमन्यपदार्थ" (अ. टा०सू०२-२-२४) इति सूत्रे 'सर्वपश्चात्' इति भाष्यप्रयोगोऽपीहानुकू. लः । कैयटहरदत्तौ तु अव्ययप्रतिषेधे वृक्षस्योपरीत्युदाहरन्तौ (३)प्रकृ. दव्ययेनापि निषेधं मन्यते । तत्तु भट्टिश्रीहर्षादिप्रयोगाणां प्रतिकूलम् ।
(१) विशेष' आदशैं। (२) "न लोकाव्यय" (अष्टा०४०२-३-६९) इति सूत्रेणेत्यादिः । (३ 'कृदव्ययेनापि' आदर्श ।