SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । २०३ यद्वा, अस्मिन्पक्षे क(१)च्छब्दः सम्पदादितिवन्तः कार्यपरः । ततश्चतु: र्थी । आत्मन उपरि पातुक इति विग्रहः । तस्यां यन्मध्यं तत्रेत्यर्थे "स. तमी शौण्डैः" (अष्टा०सू०२-१-४) इति सूत्रोक्तरीत्या सप्तमीत. त्पुरुषोऽव्ययीभावो वेति दिक् । तव्य-ब्राह्मणस्य कर्तव्यम् । निरनुबन्धकस्य सूत्रे ग्रहणात्तव्यता स. मासो भवत्येव-स्वकर्तव्यम् । स्वरे भेदः । “गतिकारकोपपदात्" (अ. ष्टा०सू०६-२-१३९) इति कृदुत्तरपदप्रकृतिस्वरः । तत्र तव्यतस्तित्त्वे. नान्तस्वरितता । तव्यस्य त्वाद्युदात्तत्वान्मध्योदा(२)तं पदमिति । समानाधिकरणन-तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहु. लग्रहणान्नेत्युक्तम् । स्यादेतत, इह षष्ठीसमासः प्राप्नोत्येव न । बाह्यसम्बन्ध्यपेक्षा हीयं षष्ठी । तथा च कटोऽपि कर्म, भीष्मादयोऽपीति न्यायेन द्वयोरपि पं. ष्ठयन्तयोर्विषप्रभृतिनाऽन्वये सति पश्चात्प्रातिपदिकार्थमात्रयोः पाणि. कः सम्बन्धो वाच्यः । तथाच तक्षकस्येति सर्पस्यति च परस्परमस. मर्थ कथं समस्यताम् १ अत एव 'नीलोत्पलस्य' 'मेरुमहीभृतः' इत्या. दावपि प्रथमान्तयोर्विशेषणसमासे तत: षष्ठीति न्याय्यं न तु षष्ठयन्त. योर्विशेषणसमासः, उकरीत्याऽसामर्थ्यात् । किञ्च यथा 'चित्रगुः'इत्या. दो सम्बन्धस्याभिहितत्वात्प्रथमा तथेहापि षष्ठयन्तयोः समासे ततः प्रथमैव स्थान तु षष्ठी । उच्यते । कट एव कर्म भीष्मादयस्तु तत्ला. मानाधिकरण्यमात्रात्तद्विभक्तिं लभन्ते इति पक्षे इदं बोध्यम् । समाना. धिकरणेन निषेध एव चैतत्पक्षशापकः । अत एव विशेषणविभक्तिः सा धुत्वार्थत्युद्घोषोऽपि सङ्गच्छते । न चैवमपि समासात्षष्ठी न स्यादि. ति वाच्यम् , पश्च(३)कपक्षे द्वितीयादेरिवोपपत्तेः । सकलविभक्तिः साधारणेन कर्मधारयेणान्यतरस्य स्फुटमनभिधानात् । एषैव च वैय. धिकरण्यस्थले सर्वेषां गतिः। तथाहि, 'राज्ञः कुमार्या राजकुमार्याः' इति षष्ठ्यन्तस्य समासे पूर्वनिपातानियममाशङ्कयोपसर्जनसंज्ञाया अन्वर्थतामाश्रित्य समाहितमाकरे । न च तत्र त्वदुक्तस्यासाम. र्थ्यस्योक्तिसम्भवोऽपि, येन प्रथमान्तमेव समस्येत । तथाच राज्ञः. (१) उपरिनिर्दिष्टप्रयोगत्रये कृते इत्यत्रेति यावत् । (२) तव्यप्रत्ययान्तेन सह समासे तु कृदुत्तरपदप्रकृतिस्वरण मध्योदात्तं 'स्वकर्तव्यं स्यादित्यर्थः । (३) स्वार्थद्रव्यलिङ्गसङ्ख्याकारकाणि पश्च प्रातिपदिकस्यैवार्थों विभक्त्यादि तु तदनुवादमात्रकामिति पक्षे ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy