SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४२२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठान्हिके धया। यद्यपि धेटष्टित्वात् स्तनन्धयीत्यत्रेव इहापि डीप प्राप्नोति । तथापि "खशन्ते एव डीप न तु शप्रत्ययान्ते" इति "नासिकास्तन. यो' (पा०१०३-२-२९) इति सूत्रे हरदत्तः। इह सूत्रे 'उपसर्गे' इति केचिदनुवर्तयन्ति, तत्तु बहूनामसम्मतम् । तथा च प्रायुङ्ग श्रीहर्ष:फलानि धूमस्य धयानधोमुखानिति । श्रूयते च-यदा पक्ष्यः पश्यते रुक्मवर्णमिति । अत्र पिबतेरेव ग्रहणं न तु 'पा रक्षणे' (अ०प०४६) इत्यस्य, लुग्विकरणत्वात् । घ्रः सजायां प्रतिषेधः (कावा०)। अत्र च "व्याघ्रादिमिः'' (पासू०ए०२-१-५६) इति सौत्रनिर्देशो लिङ्गम् । व्याघ्रः। “मातश्चो. पसर्गे" (पासू०३-१-१२६) इति कः । अनुपसर्गाल्लिम्पविन्दधारिपारिवेादेजिचेतिसातिसाहिभ्यश्च (पा० ९०३-१-१३८) । अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययः स्यात् । लिम्प. तीति लिम्पः । विन्दतीति विन्दः। सूत्रे लिम्पविन्दति भाविना नुमा सनुम्कौ निर्दिष्टौ। तेन विकरणेतराणामग्रहणम् । लाभार्थस्यैव तु प्रहणम् । धृञ् धारणे (भ्वा०उ०९२५), धृङ् अवस्थाने (तु आ०१३२), ण्यन्तयोईयोरपि ग्रहणम् । धारयः। अथ कथं "न महामत्रोत्तरधारयस्य ते" इति श्रीहर्षः परत्वाद्धि सुत्रधारादिग्विव कर्मण्यणा भाव्यम् । तथा च वार्तिकम्-अकारादनुपपदाकर्मोपपदो विप्रतिषेधेन (का० वा०) इति । सत्यम् , कर्मणः शेषत्वविवक्षायामणोऽप्राप्त्या शे कुते शेषषष्ठ्यन्तेन समासो भविष्यति । एतेन गङ्गाधरभूधरजलधरादयो व्याख्याताः । पार कर्मसमाप्तौ (चु०प०३७९) पारयतीति पारयः। विद चेतनाख्यानादिषु (चु आ०१७५) चुरादिः । शानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्तः। वेदयतीति वेदयः । एज़ कम्पने (भ्वा०मा०१७३) प्यन्तः । उदेजयतीत्युदेजयः । चिति संज्ञाने (चु०प०२) चुरादिः। चेत. यतीति चेतयः । सत सुख्खे चुरादिण्यन्त इति बोपदेवः । सातिः सौत्रो हेतुमण्ण्यन्त इति हरदत्तः । सातयः । वासरूपन्यायेन विपि सात् । सम्पदादित्वाद्भावे किन्वा । एवञ्च एष एवानन्दयतीति श्रुतिबलाहा. नन्दपितृविज्ञानमानन्दमित्यादि श्रुतिबलादानन्दरूपं ब्रह्म साच्छ. ब्दार्थः। तदस्त्येषामिति सात्वन्तो भकाः । एतेन "सात्वतां पतये नमः" इत्यादि व्याख्यातम् । सदेव सात् इत्युक्त्वा आर्षत्वच वदन्तः प्रत्या. ख्याताः । 'पह मर्षणे' (भ्वा०आ०८७७) चुरादिहेतुमणान्तो वा, साह. यः । उदाहरणेषु लिम्पिविन्दिभ्यां "तुदादिभ्यः शः" (पा०१०३-१-७७) "शे मुचादर्दानाम्" (पा०सू०७ १-६९) इति नुम ! धारयादिषु शबगु.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy