SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४२३ धास्वधिकारे कृत्प्रकरणम्। णायादेशाः। अनुपसर्गादिति किम् ? प्रलिपः। नौ लिम्पेरिति वक्तव्यम् (का०वा०) ॥ निलिम्पा नाम देवाः । गवादिषु विन्देः संज्ञायामिति वक्तव्यम् (काभ्वा०) ॥ गोविन्दः । अरविन्दः । चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अरः, त. दाकाराणि दलानि सादृश्यात्तच्छब्दभाजि लभत.इत्यर्थ कर्मण्यणो बाधनायेदम् । ददातिदधात्योर्विभाषा (पा०स०३-१-१३९) ॥ शः स्यात् । पक्ष "श्याघधा" (पा०सू०३-१-१४१) इति णः । ददः । दधः । दायः । धा. यः । अनुपसर्गादित्येव । प्रदः। प्रधः । दद दाने (भ्वा०मा१७) दध धा. रणे (भ्वा०आ०८) आभ्यामचि 'ददः' 'दधः' इति सिद्धम् । दाधाभ्यां णे 'दाय:' 'धायः' इति । सत्यम् , स्वरार्थमिदं सूत्रम् । अददः । अधः। अत्र नअस्वरेण आधुदात्तत्वं यथा स्यात् । अजन्तत्वे तु"अकावशको" (पासू०६-२-१५७) इति अन्तोदात्तत्वमिति महान् भेदः। ज्वलितिकसन्तेभ्यो णः (पा०सु०३-१-१४०)॥ इतिशब्द आधर्थः। 'ज्वल दीप्तौ (भ्वा०प०८५६) इत्येवमादिभ्यो धातुभ्यः 'कस गतौ' (भ्वा० पं०८८५)इत्यन्तेभ्योणो वा स्यात्।ज्वलः, ज्वालः।चला, चालः। अनुपस. र्गादित्येव, प्रज्वलः। कसिमधीत्य वृत्' इति ये पठन्ति तेषां मते कसन्तप्रहणं चिन्त्यप्रयोजनम् । ज्वलधातुश्च यद्यपि घटादिषु परस्ताच्चेति वि पठ्यते तथापि द्वितीय एवेह गृह्यते, घटादिपाठस्य मित्संक्षायां चरितार्थत्वात् । इतरस्य चानन्यार्थत्वात् ज्वलादिषु 'भ्रमु चलने' (भ्वा०प०८७५) इति पठ्यते । तस्माण्णे 'भ्रमः' इति रूपं, नोदातोपदेश. स्य" (पा०स०७-३-३४) इति वृद्धिनिषेधात् । ज्वलादिपाठस्तु स्वरा. र्थः 'अभ्रमः' इत्यत्र "अच्कावशको'' (पासु०६-२-१५७) इति स्वरो मा भूदिति । नोर्ण उपसंख्यानम् (का०वा.)। अवतनोतीत्यवतानः। विभा. त्यनुपसर्गादिति च नात्र वार्तिके सम्बध्यते । श्याधधात्रुसंवतीणवसावहलिहश्लिषश्वसश्च (पासू०३-११४१) ॥ अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रे पुनरनुपसर्गग्रहणात ! एवश्व तत्सम्बद्धं विभाषाग्रहणमपि निवर्तते । श्यैप्रभृतिभ्यो णः स्यात् । श्यैङ् गतो (भ्वा०प्रा०९८८) अस्य मादन्तत्वादेव सिद्ध उपस. गें कं बाधितुं ग्रहणम् । अवश्यायः, प्रतिश्यायः । "आतो युक्"(पा०स० ७-३-३३) इति युक् । एतेनावस्यतर्ग्रहणं व्याख्यातम् । मात्-दायः, धायः । इह सूत्रे 'श्या आत्' इति प्रश्लेषो न तु शीङो यणावेशेन, नापि
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy