________________
९८ शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे प्रथमान्हिके
1
कृतसूत्रस्य विषयः । तदुक्तम् - " पर नित्यान्तरङ्गापवादानामुत्तरोत्तरस्य बलवत्त्वम्” [प०भा०३८ ] इति । जातिपक्षे विध्यर्थं सूत्रम् । वृक्षेषु, वृक्षा भ्याम् इत्यत्र हि लब्धावकाश यांरेत्वदीर्घत्वशास्त्रयोर्वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे सति गमकाभावादप्रतिपत्तिरेव स्यात् । तदुकम् - " अप्रतिप-' त्तिर्वोभयोस्तुल्यबलत्वात्" इति I तत्रास्माद्वचनात्परस्मिन्कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति । यथा 'भिन्ध कि' इत्यत्र परत्वाद्धिभावे कृतेऽप्यकच् । तदुक्तं - "पुनः प्रसङ्गविज्ञानात्सिद्धम् (प०भा०३९) इति । व्यक्तिपक्षे तु तद्व्यक्तिविषयकयोर्लक्षणयोरन्यत्र चरितार्थत्वासम्भवात्तव्यत्तव्यानीयरामिव पर्याये प्राप्ते नियमार्थमिदं सूत्रम् - विप्रतिषेधे परमेव न तु पूर्वमिति । एतल्लक्षणारम्भाच्च तत्र पूर्वस्यानारम्भोऽनुमीयते । तथाच जुहुतात्त्वमित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेन घित्वं न भवति । तदुक्तं - " सकृद्रतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव" (१० भा०४०) इति । जातिव्यक्तिपक्षयोश्च लक्ष्यानुरोधाड्यवस्थेत्युक्तं पस्पशायाम् । नित्यादिषु तु नास्य प्रवृत्तिरित्युक्तम् | तेन रधेर्णिचि "अत उपधायाः " (अष्टा०सु०७-२-११६) इति वृद्धि परा. मध्यनित्यां बाधित्वा "रधिजभोः" (अष्टा०सू०७-१-६१ ) इति नुमेव । न च सोऽपि शब्दान्तरप्राप्त्याऽनित्य पवेति वाच्यम्, कृताकृतप्रसङ्गत्वमात्रेणापि कचिन्नित्यताभ्युपगमात् । तेन 'रन्धयति' इति सिद्धम् | तथा 'अदुद्रुवत्' इत्यादावन्तरङ्ग उवङ् परमपि लघूपधगुणं बाधते । तथा 'शुनः' इत्यत्रान्तरङ्गत्वात् “सम्प्रसारणाच्च” (अष्टा०सू०६-१-१०८) इति पूर्वत्वम् । अल्लोपे तु सति तस्य स्थानिवत्त्वाद्यण् स्यात् । 'बहुश्वा नगरी' इत्यत्र "अन उपधालोपिनः' (अष्टा०सु०४-१-२८) इति ङीप् स्यात् । सिद्धान्ते गौरादिलक्षणो ङीष् तु न, उपसर्जनत्वात् । यत्त्वि हत्यभाष्यं 'बहुशुनी' इति, तत्सिद्धान्तेन स्थितम्, अल्लोपाभ्युपगमपक्षे प्रवृत्तत्वात् । एतच्चे हैव कैयटे आभात्सुत्रीय भाष्य कैयटयोश्च स्पष्टं न्यायसिद्धञ्च । यन्तु “बहु श्वेत्येव भवितव्यम्" इति डान्सूत्रे भाग्यम्, तदिह साधकतया न ग्राह्यम् । डाप्पक्षमेवोप्रक्रम्य 'बहुशका' इति रूपं तिरस्कर्तुं तस्य प्रवृत्तत्वात् । 'वृक्ष इह' इत्यादौ त्वन्तरङ्गेण गुणेन दीर्घो बाध्यते । न चासौ अपवादः कथं बाध्यतामिति वाच्यम्, समानाश्रये तस्य चरितार्थत्वात् । तथा च वार्त्तिकम् - "इङिशीनामाद्गुणः सवर्णदीर्घत्वात्" (का०वा० ) इति । इह शीनामिति नदीत्वान्नु, विभक्तिप रतया नित्यस्त्रीत्वात् । अत एव "औङः श्याम्" (का०वा० ) इति प्रयोगः । उदाहरणन्तु 'अयजे इन्द्र, वृक्षे इन्द्रं, सर्वे इह' इति बोध्यम् । इहान्तरङ्ग