SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४३० शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिके ज्यते । सुपि आकारान्तेभ्यो धातुभ्यः कप्रत्ययः स्यात् । द्वाभ्यां पिवतीति द्विपः । स्थः ॥ सुपि तिष्ठतेः कः स्यात् भावे । आखूनामुत्थानमाखूत्थः । प्रक्रिया कौमुद्यान्तु 'आखूत्थम्' इति नपुंसकं पठ्यते तत्प्रामादिकम्, भाष्यादौ सर्वत्र पुल्लिङ्गस्यैवोदाहृतत्वात्, ल्युः कर्त्तरीमनिज् भावे को घोः किः प्रादितोऽन्यतः । ( अ०को ०३ - ५ - १५ ) इत्यमरकोशाद्भावे कस्य पुंस्त्वविधानाच्च, भावे "नणकचि योऽन्यः” इति नपुंसकविधाने कस्य पर्युदासाश्च । ननु " स्थः" इति सूत्रेण विधीयमानोऽपि कः कृत्वात्कर्त्तर्येव स्यादिति चेत् ? न, "आतः” (पा०सू०३-२-३) इत्यनेनैव सिद्धेः । तथा च 'स्थः' इत्यारम्भसामर्थ्यान्न कर्त्तरि किन्त्वनिर्द्दिष्टार्थत्वात्स्वार्थे । धातोश्च स्वार्थी भाव एव । नन्वेवं " घञर्थे कविधानम्" (का०वा० ) इत्यनेनैव गतार्थत्वमिति चेत् ? न, वार्त्तिकं दृष्ट्वा सुत्रकृतोऽप्रवृत्तेः । किञ्च नित्यसमासार्थमिदम् । अन्यथा हि " षष्ठी" ( पा०सू०२-२-८ ) इति सूत्रेण पाक्षिकः समासः स्यात् । इष्यते तु नित्यमुपपदसमासः । तथा च आखूनामुत्थानमिति अस्वपदविग्रहः क्रियते । " घञर्थे कविधानं स्थास्नापाव्यधिह नियुध्य. र्थम् इत्यत्र स्थाग्रहणन्तु कर्तृवर्जिते कारके यथा स्यादित्येवमर्थम् । इत ऊर्ध्वं कर्मणि सुपीति च द्वयमप्यनुवर्त्तते । तत्र सकर्मकेषु कर्मणीत्युपतिष्ठते "स्पृशोऽनुदके" (पा०सू०३ - २-५८) इति यावत् । अन्यत्र सुपीति "सुप्यजातौ णिनिः” (पा०सु०३-२-७८) इति यावत् । एवञ्च प्रकृतस्य सुब्ग्रहणस्य उपसर्गेतरपरत्वं "सत्सूद्विष" (पा०स्० ३-२-६१) इति सूत्रस्थेन' उपसर्गेऽपि' इत्यनेन ज्ञापितमिति सुपमात्र प रिग्रहार्थे णिनिविधौ पुनः सुप्ग्रहणमिति वक्ष्यामः । - तुन्दशोकयोः परिमृजापनुदोः (पा०सु०३-२-५) ॥ तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदिभ्यां धातुभ्यां कप्रत्ययः स्यात् । आलस्यसुखाद्दरणयोरिति वक्तव्यम् (का०वा० ) || आलस्ये सुखोत्पादने च गम्यमाने प्रत्यय इत्यर्थः । तत्र सामर्थ्यादलसे कर्त्तरि सुखस्य चाहर्त्तरि प्रत्यय इति फलितं भवति । तुन्दं परिमाष्टति तुन्दप रिमृजोऽलसः । अत्र मृजेरजादाविति वैकल्पिकी वृद्धिर्नेति हरदत्तः । भवतीत्यपरे । एतन्मतद्वयबलाबलं तु "ङ्किति च" ( पा०सु०१-१-५) इति सूत्रे प्रतिपादितम् । अलसादन्यत्र 'तुन्दपरिमार्जः' इत्येव भवति । शोका ·
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy